रामायणम्/सुन्दरकाण्डम्/सर्गः १२
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ११ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १३ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वादशः सर्गः ॥५-१२॥
स तस्य मध्ये भवनस्य वानरो । लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीताम् प्रति दर्शन उत्सुको । न च एव ताम् पश्यति चारु दर्शनाम् ॥५-१२-१॥ स चिन्तयाम् आस ततो महा कपिः । प्रियाम् अपश्यन् रघु नन्दनस्य ताम् । ध्रुवम् नु सीता म्रियते यथा न मे । विचिन्वतो दर्शनम् एति मैथिली ॥५-१२-२॥ सा राक्षसानाम् प्रवरेण बाला । स्व शील सम्रक्षण तत् परा सती । अनेन नूनम् प्रतिदुष्ट कर्मणा । हता भवेद् आर्य पथे परे स्थिता ॥५-१२-३॥ विरूप रूपा विकृता विवर्चसो । महा आनना दीर्घ विरूप दर्शनाः । समीक्ष्य सा राक्षस राज योषितो । भयाद् विनष्टा जनक ईश्वर आत्मजा॥५-१२-४॥ सीताम् अद्ष्ट्वा हि अनवाप्य पौरुषम् । विह्Rत्य कालम् सह वानरैः चिरम् । न मे अस्ति सुग्रीव समीपगा गतिः । सुतीक्ष्ण दण्डो बलवामः च वानरः ॥५-१२-५॥ दृष्टम् अन्तः पुरम् सर्वम् दृष्ट्वा रावण योषितः । न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥ किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सम्गताः । गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः ॥५-१२-७॥ अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनक आत्मजाम् । ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥५-१२-८॥ किम् वा वक्ष्यति वृद्धः च जाम्बवान् अन्गदः च सः । गतम् पारम् समुद्रस्य वानराः च समागताः ॥५-१२-९॥ अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् । अनिर्वेदो हि सततम् सर्व अर्थेषु प्रवर्तकः ॥५-१२-१०॥ करोति सफलम् जन्तोः कर्म यच् च करोति सः । तस्माद् अनिर्वेद क्Rतम् यत्नम् चेष्टे अहम् उत्तमम् ॥५-१२-११॥ अदृष्टामः च विचेष्यामि देशान् रावण पालितान् । आपान शाला विचिताः तथा पुष्प गृहाणि च ॥५-१२-१२॥ चित्र शालाः च विचिता भूयः क्रीडा गृहाणि च । निष्कुट अन्तर रथ्याः च विमानानि च सर्वशः ॥५-१२-१३॥ इति सम्चिन्त्य भूयो अपि विचेतुम् उपचक्रमे । भूमी गृहामः चैत्य गृहान् गृह अतिगृहकान् अपि ॥५-१२-१४॥ उत्पतन् निपतमः च अपि तिष्ठन् गच्चन् पुनः क्वचित् । अपावृण्वमः च द्वाराणि कपाटानि अवघट्टयन् ॥५-१२-१५॥ प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि । सर्वम् अपि अवकाशम् स विचचार महा कपिः ॥५-१२-१६॥ चतुर् अन्गुल मात्रो अपि न अवकाशः स विद्यते । रावण अन्तः पुरे तस्मिन् यम् कपिर् न जगाम सः ॥५-१२-१७॥ प्राकर अन्तर रथ्याः च वेदिकः चैत्य सम्श्रयाः । श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम् ॥५-१२-१८॥ राक्षस्यो विविध आकारा विरूपा विकृताः तथा । दृष्टा हनूमता तत्र न तु सा जनक आत्मजा ॥५-१२-१९॥ रूपेण अप्रतिमा लोके वरा विद्या धर स्त्रियः । दृटा हनूमता तत्र न तु राघव नन्दिनी ॥५-१२-२०॥ नाग कन्या वर आरोहाः पूर्ण चन्द्र निभ आननाः । दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥५-१२-२१॥ प्रमथ्य राक्षस इन्द्रेण नाग कन्या बलाद्द् हृताः । दृष्टा हनूमता तत्र न सा जनक नन्दिनी ॥५-१२-२२॥ सो अपश्यमः ताम् महा बाहुः पश्यमः च अन्या वर स्त्रियः । विषसाद महा बाहुर् हनूमान् मारुत आत्मजः ॥५-१२-२३॥ उद्योगम् वानर इन्द्राणम् प्लवनम् सागरस्य च । व्यर्थम् वीक्ष्य अनिल सुतः चिन्ताम् पुनर् उपागमत् ॥५-१२-२४॥ अवतीर्य विमानाच् च हनूमान् मारुत आत्मजः । चिन्ताम् उपजगाम अथ शोक उपहत चेतनः ॥५-१२-२५॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥५-१२॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।