रामायणम्/सुन्दरकाण्डम्/सर्गः ४९
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ४८ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ५० → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥५-२॥
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। ५.४९.१।। भ्राजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। ५.४९.२।। वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। ५.४९.३।। महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।। ५.४९.४।। विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः । दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। ५.४९.५।। शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् । नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। ५.४९.६।। नीलाञ्जनचयप्रख्यं हारेणोरसि राजता । पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ।। ५.४९.७।। बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः । भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ।। ५.४९.८।। महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।। ५.४९.९।। अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः । वालव्यजनहस्ताभिरारात् समुपसेवितम् ।। ५.४९.१०।। दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा । मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। ५.४९.११।। सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः । कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ।। ५.४९.१२।। सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः । अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ।। ५.४९.१३।। अपश्यद्राक्षसपतिं हनुमानतितेजसम् । विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। ५.४९.१४।। स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः । विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। ५.४९.१५।। भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ।। ५.४९.१६।। अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः । अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। ५.४९.१७।। यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः । स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ।। ५.४९.१८।। अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः । तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।। ५.४९.१९।। अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् । इति चिन्तां बहुविधामकरोन्मतिमान् हरिः । दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ।। ५.४९.२०।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ।। ५.४९।। </poem>स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।