रामायणम्/सुन्दरकाण्डम्/सर्गः ४४
दिखावट
← सर्गः ४३ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ४५ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥५-४४॥
संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः । महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥ धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥ तस्य विस्फारघोषेण धनुषो महता दिशः । प्रदिशश्च नभश्चॆव सहसा समपूर्यत ॥ ४ ॥ रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसंपन्नो जहर्ष च ननाद च ॥ ५ ॥ तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजम्फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥ चुकोप बाणाभिहतो राक्षसस्य महाकपिः । ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम् ॥ १० ॥ तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥ विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ १३ ॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥ स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥ अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमालेर्महोरसि ॥ १६ ॥ तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्नरथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७ ॥ स हतस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूवौ चूर्णिताङ्गविभूषणः ॥ १८ ॥ जम्बुमालिं च निहतं किङ्करांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्त लोचनः ॥ १९ ॥ स रोषसंवर्तितताम्रलोचनः प्रहस्त पुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ५.४४ ॥
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।