सामग्री पर जाएँ

रामायणम्/सुन्दरकाण्डम्/सर्गः ६

विकिस्रोतः तः
← सर्गः ५ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ७ →
षष्ठः सर्गः श्रूयताम्


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षष्ठः सर्गः ॥५-६॥


स निकामं विमानेषु विचरन् कामरूपधृक्।
विचचार कपिर्लङ्कां लाघवेन समन्वितः॥ १॥

आससाद च लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्॥ २॥

रक्षितं राक्षसैर्भीमैः सिंहैरिव महद् वनम्।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥ ३॥

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः।
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्॥ ४॥

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः॥ ५॥

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतीः।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः॥ ६॥

बहुरत्नसमाकीर्णं परार्घ्यासनभूषितम्।
महारथसमावापं महारथमहासनम्॥ ७॥

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः।
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः॥ ८॥

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः॥ ९॥

मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्।
वराभरणसंह्रादैः समुद्रस्वननिःस्वनम्॥ १०॥

तद् राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः।
महाजनसमाकीर्णं सिंहैरिव महद् वनम्॥ ११॥

भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्।
नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा॥ १२॥

समुद्रमिव गम्भीरं समुद्रसमनिःस्वनम्।
महात्मनो महद् वेश्म महारत्नपरिच्छदम्॥ १३॥

महारत्नसमाकीर्णं ददर्श स महाकपिः।
विराजमानं वपुषा गजाश्वरथसंकुलम्॥ १४॥

लंकाभरणमित्येव सोऽमन्यत महाकपिः।
चचार हनुमांस्तत्र रावणस्य समीपतः॥ १५॥

गृहाद् गृहं राक्षसानामुद्यानानि च सर्वशः।
वीक्षमाणोऽप्यसंत्रस्तः प्रासादांश्च चचार सः॥ १६॥

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्॥ १७॥

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्।
विभीषणस्य च तथा पुप्लुवे स महाकपिः॥ १८॥

महोदरस्य च तथा विरूपाक्षस्य चैव हि।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च॥ १९॥

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः।
शुकस्य च महावेगः सारणस्य च धीमतः॥ २०॥

तथा चेन्द्रजितो वेश्म जगाम हरियूथपः।
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः॥ २१॥

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः॥ २२॥

धूम्राक्षस्याथ सम्पातेर्भवनं मारुतात्मजः।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च॥ २३॥

शुकनाभस्य चक्रस्य शठस्य कपटस्य च।
ह्रस्वकर्णस्य दंष्ट्रस्य लोमशस्य च रक्षसः॥ २४॥

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य सादिनः।
विद्युज्जिह्वद्विजिह्वानां तथा हस्तिमुखस्य च॥ २५॥

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।
प्लवमानः क्रमेणैव हनुमान् मारुतात्मजः॥ २६॥

तेषु तेषु महार्हेषु भवनेषु महायशाः।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः॥ २७॥

सर्वेषां समतिक्रम्य भवनानि समन्ततः।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥ २८॥

रावणस्योपशायिन्यो ददर्श हरिसत्तमः।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः॥ २९॥

शूलमुद‍्गरहस्तांश्च शक्तितोमरधारिणः।
ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे॥ ३०॥

राक्षसांश्च महाकायान् नानाप्रहरणोद्यतान्।
रक्तान् श्वेतान् सितांश्चापि हरींश्चापि महाजवान्॥ ३१॥

कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान्।
शिक्षितान् गजशिक्षायामैरावतसमान् युधि॥ ३२॥

निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्॥ ३३॥

मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः।
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः॥ ३४॥

हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने॥ ३५॥

शिबिका विविधाकाराः स कपिर्मारुतात्मजः।
लतागृहाणि चित्राणि चित्रशालागृहाणि च॥ ३६॥

क्रीडागृहाणि चान्यानि दारुपर्वतकानि च।
कामस्य गृहकं रम्यं दिवागृहकमेव च॥ ३७॥

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।
स मन्दरसमप्रख्यं मयूरस्थानसंकुलम्॥ ३८॥

ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्।
अनन्तरत्ननिचयं निधिजालं समन्ततः।
धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव॥ ३९॥

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च।
विरराज च तद् वेश्म रश्मिवानिव रश्मिभिः॥ ४०॥

जाम्बूनदमयान्येव शयनान्यासनानि च।
भाजनानि च शुभ्राणि ददर्श हरियूथपः॥ ४१॥

मध्वासवकृतक्लेदं मणिभाजनसंकुलम्।
मनोरममसम्बाधं कुबेरभवनं यथा॥ ४२॥

नूपुराणां च घोषेण काञ्चीनां निःस्वनेन च।
मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम्॥ ४३॥

प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्।
सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्॥ ४४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठः सर्गः ॥५-६॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।