रामायणम्/सुन्दरकाण्डम्/सर्गः १
दिखावट
(सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥ इत्यस्मात् पुनर्निर्दिष्टम्)
रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः २ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥
ततो रावणनीतायाः सीतायाः शत्रुकर्षणः। इयेष पदमन्वेष्टुं चारणाचरिते पथि॥ १॥ दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ॥ २॥ अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्॥ ३॥ द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्। मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी॥ ४॥ नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः। स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम्॥ ५॥ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः॥ ६॥ स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ॥ ७॥ स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्॥ ८॥ अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्॥ ९॥ प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु॥ १०॥ निष्प्रमाणशरीरः सँल्लिलङ्घयिषुरर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्॥ ११॥ स चचालाचलश्चाशु मुहूर्तं कपिपीडितः। तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्॥ १२॥ तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा॥ १३॥ तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदमत्त इव द्विपः॥ १४॥ पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः। रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः॥ १५॥ मुमोच च शिलाः शैलो विशालाः समनःशिलाः। मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः॥ १६॥ हरिणा पीड्यमानेन पीड्यमानानि सर्वतः। गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः॥ १७॥ स महान् सत्त्वसन्नादः शैलपीडानिमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च॥ १८॥ शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः। वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः॥ १९॥ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा॥ २०॥ यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते। विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥ २१॥ भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः। त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥ २२॥ पानभूमिगतं हित्वा हैममासवभाजनम्। पात्राणि च महार्हाणि करकांश्च हिरण्मयान्॥ २३॥ लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च। आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्॥ २४॥ कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे॥ २५॥ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मिताः सस्मितास्तस्थुराकाशे रमणौः सह॥ २६॥ दर्शयन्तो महाविद्यां विद्याधरमहर्षयः। सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम्॥ २७॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्। चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे॥ २८॥ एष पर्वतसंकाशो हनुमान् मारुतात्मजः। तितीर्षति महावेगः समुद्रं वरुणालयम्॥ २९॥ रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्। समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥ ३०॥ इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम्। तमप्रमेयं ददृशुः पर्वते वानरर्षभम्॥ ३१॥ दुधुवे च स रोमाणि चकम्पे चानलोपमः। ननाद च महानादं सुमहानिव तोयदः॥ ३२॥ आनुपूर्व्या च वृत्तं तल्लाङ्गूलं रोमभिश्चितम्। उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्॥ ३३॥ तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः। ददृशे गरुडेनेव ह्रियमाणो महोरगः॥ ३४॥ बाहू संस्तम्भयामास महापरिघसंनिभौ। आससाद कपिः कट्यां चरणौ संचुकोच च॥ ३५॥ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्। तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान्॥ ३६॥ मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः। रुरोध हृदये प्राणानाकाशमवलोकयन्॥ ३७॥ पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः। निकुच्य कर्णौ हनुमानुत्पतिष्यन् महाबलः॥ ३८॥ वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्। यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः॥ ३९॥ गच्छेत् तद्वद् गमिष्यामि लंकां रावणपालिताम्। नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम्॥ ४०॥ अनेनैव हि वेगेन गमिष्यामि सुरालयम्। यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः॥ ४१॥ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्। सर्वथा कृतकार्योऽहमेष्यामि सह सीतया॥ ४२॥ आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम्। एवमुक्त्वा तु हनुमान् वानरो वानरोत्तमः॥ ४३॥ उत्पपाताथ वेगेन वेगवानविचारयन्। सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः॥ ४४॥ समुत्पतति वेगात् तु वेगात् ते नगरोहिणः। संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः॥ ४५॥ स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः। उद्वहन्नुरुवेगेन जगाम विमलेऽम्बरे॥ ४६॥ ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः॥ ४७॥ तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः। अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्॥ ४८॥ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः। हनूमान् पर्वताकारो बभूवाद्भुतदर्शनः॥ ४९॥ सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि। भयादिव महेन्द्रस्य पर्वता वरुणालये॥ ५०॥ स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः। शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः॥ ५१॥ विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः। व्यवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा॥ ५२॥ लघुत्वेनोपपन्नं तद् विचित्रं सागरेऽपतत्। द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्। ताराचितमिवाकाशं प्रबभौ स महार्णवः॥ ५३॥ पुष्पौघेण सुगन्धेन नानावर्णेन वानरः। बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः॥ ५४॥ तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत। ताराभिरिव रामाभिरुदिताभिरिवाम्बरम्॥ ५५॥ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ॥ ५६॥ पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्। पिपासुरिव चाकाशं ददृशे स महाकपिः॥ ५७॥ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः। नयने विप्रकाशेते पर्वतस्थाविवानलौ॥ ५८॥ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले। चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविव स्थितौ॥ ५९॥ मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ। संध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम्॥ ६०॥ लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्॥ ६१॥ लाङ्गूलचक्रो हनुमान् शुक्लदंष्ट्रोऽनिलात्मजः। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः॥ ६२॥ स्फिग्देशेनातिताम्रेण रराज स महाकपिः। महता दारितेनेव गिरिर्गैरिकधातुना॥ ६३॥ तस्य वानरसिंहस्य प्लवमानस्य सागरम्। कक्षान्तरगतो वायुर्जीमूत इव गर्जति॥ ६४॥ खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता। दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः॥ ६५॥ पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः। प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया॥ ६६॥ उपरिष्टाच्छरीरेण च्छायया चावगाढया। सागरे मारुताविष्टा नौरिवासीत् तदा कपिः॥ ६७॥ यं यं देशं समुद्रस्य जगाम स महाकपिः। स तु तस्याङ्गवेगेन सोन्माद इव लक्ष्यते॥ ६८॥ सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्। अभिध्नंस्तु महावेगः पुप्लुवे स महाकपिः॥ ६९॥ कपिवातश्च बलवान् मेघवातश्च निर्गतः। सागरं भीमनिर्ह्रादं कम्पयामासतुर्भृशम्॥ ७०॥ विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि। पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी॥ ७१॥ मेरुमन्दरसंकाशानुद्गतान् सुमहार्णवे। अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव॥ ७२॥ तस्य वेगसमुद्घुष्टं जलं सजलदं तदा। अम्बरस्थं विबभ्राजे शरदभ्रमिवाततम्॥ ७३॥ तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा। वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्॥ ७४॥ क्रममाणं समीक्ष्याथ भुजगाः सागरंगमाः। व्योम्नि तं कपिशार्दूलं सुपर्णमिव मेनिरे॥ ७५॥ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता। छाया वानरसिंहस्य जवे चारुतराभवत्॥ ७६॥ श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया पतिता लवणाम्भसि॥ ७७॥ शुशुभे स महातेजा महाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः॥ ७८॥ येनासौ याति बलवान् वेगेन कपिकुञ्जरः। तेन मार्गेण सहसा द्रोणीकृत इवार्णवः॥ ७९॥ आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्। हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा॥ ८०॥ पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च। कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे॥ ८१॥ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते॥ ८२॥ प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा। ववृषुस्तत्र पुष्पाणि देवगन्धर्वचारणाः॥ ८३॥ तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम्। सिषेवे च तदा वायू रामकार्यार्थसिद्धये॥ ८४॥ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा। जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम्॥ ८५॥ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विविधानि च। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्॥ ८६॥ तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः॥ ८७॥ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः। करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्॥ ८८॥ अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः। इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम्॥ ८९॥ तथा मया विधातव्यं विश्रमेत यथा कपिः। शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति॥ ९०॥ इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि। हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्॥ ९१॥ त्वमिहासुरसङ्घानां देवराज्ञा महात्मना। पातालनिलयानां हि परिघः संनिवेशितः॥ ९२॥ त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्। पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि॥ ९३॥ तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्। तस्मात् संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम॥ ९४॥ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्। हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः॥ ९५॥ अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः। मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव॥ ९६॥ कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्। कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्॥ ९७॥ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि। अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः॥ ९८॥ चामीकरमहानाभ देवगन्धर्वसेवित। हनूमाँस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति॥ ९९॥ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्। श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि॥ १००॥ हिरण्यगर्भो मैनाको निशम्य लवणाम्भसः। उत्पपात जलात् तूर्णं महाद्रुमलतावृतः॥ १०१॥ स सागरजलं भित्त्वा बभूवात्युच्छ्रितस्तदा। यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः॥ १०२॥ स महात्मा मुहूर्तेन पर्वतः सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः॥ १०३॥ शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः। आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम्॥ १०४॥ तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः। आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम्॥ १०५॥ जातरूपमयैः शृङ्गैर्भ्राजमानैर्महाप्रभैः। आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः॥ १०६॥ समुत्थितमसङ्गेन हनूमानग्रतः स्थितम्। मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः॥ १०७॥ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः। उरसा पातयामास जीमूतमिव मारुतः॥ १०८॥ स तदासादितस्तेन कपिना पर्वतोत्तमः। बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च॥ १०९॥ तमाकाशगतं वीरमाकाशे समुपस्थितः। प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम्॥ ११०॥ मानुषं धारयन् रूपमात्मनः शिखरे स्थितः। दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम॥ १११॥ निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम्। राघवस्य कुले जातैरुदधिः परिवर्धितः॥ ११२॥ स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः। कृते च प्रतिकर्तव्यमेष धर्मः सनातनः॥ ११३॥ सोऽयं तत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति। त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः॥ ११४॥ योजनानां शतं चापि कपिरेष खमाप्लुतः। तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति॥ ११५॥ तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्। तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु॥ ११६॥ तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽथ गमिष्यसि। अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै। प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः॥ ११७॥ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज। तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर॥ ११८॥ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता। धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान्॥ ११९॥ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः। पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर॥ १२०॥ पूजिते त्वयि धर्मज्ञे पूजां प्राप्नोति मारुतः। तस्मात् त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्॥ १२१॥ पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्। तेऽपि जग्मुर्दिशः सर्वा गरुडा इव वेगिनः॥ १२२॥ ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥ १२३॥ ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः। पक्षांश्चिच्छेद वज्रेण ततः शतसहस्रशः॥ १२४॥ स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्। ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना॥ १२५॥ अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम। गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः॥ १२६॥ ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते। त्वया ममैष सम्बन्धः कपिमुख्य महागुणः॥ १२७॥ अस्मिन् नेवंगते कार्ये सागरस्य ममैव च। प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महामते॥ १२८॥ श्रमं मोक्षय पूजां च गृहाण हरिसत्तम। प्रीतिं च मम मान्यस्य प्रीतोऽस्मि तव दर्शनात्॥ १२९॥ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्। प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्॥ १३०॥ त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते। प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा॥ १३१॥ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः। जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव॥ १३२॥ स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः। पूजितश्चोपपन्नाभिराशीर्भिरभिनन्दितः॥ १३३॥ अथोर्ध्वं दूरमागत्य हित्वा शैलमहार्णवौ। पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे॥ १३४॥ भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन्। वायुसूनुर्निरालम्बो जगाम कपिकुञ्जरः॥ १३५॥ तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः॥ १३६॥ देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा। काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः॥ १३७॥ उवाच वचनं धीमान् परितोषात् सगद्गदम्। सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः॥ १३८॥ हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्। अभयं ते प्रयच्छामि गच्छ सौम्य यथासुखम्॥ १३९॥ साह्यं कृतं ते सुमहद् विश्रान्तस्य हनूमतः। क्रमतो योजनशतं निर्भयस्य भये सति॥ १४०॥ रामस्यैष हितायैव याति दाशरथेः कपिः। सत्क्रियां कुर्वता शक्त्या तोषितोऽस्मि दृढं त्वया॥ १४१॥ स तत् प्रहर्षमलभद् विपुलं पर्वतोत्तमः। देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्॥ १४२॥ स वै दत्तवरः शैलो बभूवावस्थितस्तदा। हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्॥ १४३॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्॥ १४४॥ अयं वातात्मजः श्रीमान् प्लवते सागरोपरि। हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥ १४५॥ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्। दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्॥ १४६॥ बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्। त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति॥ १४७॥ एवमुक्ता तु सा देवी दैवतैरभिसत्कृता। समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः॥ १४८॥ विकृतं च विरूपं च सर्वस्य च भयावहम्। प्लवमानं हनूमन्तमावृत्येदमुवाच ह॥ १४९॥ मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥ १५०॥ वर एष पुरा दत्तो मम धात्रेति सत्वरा। व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः॥ १५१॥ एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्। रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥ १५२॥ अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी॥ १५३॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥ १५४॥ अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते॥ १५५॥ एवमुक्ता हनुमता सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम॥ १५६॥ तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्। बलं जिज्ञासमाना सा नागमाता हनूमतः॥ १५७॥ निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा॥ १५८॥ व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेःपुरः। एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥ १५९॥ अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि। इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम्॥ १६०॥ दशयोजनविस्तारो हनूमानभवत् तदा। तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्। चकार सुरसाप्यास्यं विंशद् योजनमायतम्॥ १६१॥ हनूमांस्तु ततः क्रुद्धस्त्रिंशद् योजनमायतः। चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम्॥ १६२॥ बभूव हनुमान् वीरः पञ्चाशद् योजनोच्छ्रितः। चकार सुरसा वक्त्रं षष्टिं योजनमुच्छ्रितम्॥ १६३॥ तदैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः। चकार सुरसा वक्त्रमशीतिं योजनोच्छ्रितम्॥ १६४॥ हनूमाननलप्रख्यो नवतिं योजनोच्छ्रितः। चकार सुरसा वक्त्रं शतयोजनमायतम्॥ १६५॥ तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्। दीर्घजिह्वं सुरसया सुभीमं नरकोपमम्॥ १६६॥ स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः। तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः॥ १६७॥ सोऽभिपद्याथ तद्वक्त्रं निष्पत्य च महाबलः। अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्॥ १६८॥ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तुते। गमिष्ये यत्र वैदेही सत्यश्चासीद् वरस्तव॥ १६९॥ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव। अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम्॥ १७०॥ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना॥ १७१॥ तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम्॥ १७२॥ स सागरमनाधृष्यमभ्येत्य वरुणालयम्। जगामाकाशमाविश्य वेगेन गरुडोपमः॥ १७३॥ सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचार्यैरैरावतनिषेविते॥ १७४॥ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलंकृते॥ १७५॥ वज्राशनिसमस्पर्शैः पावकैरिव शोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते॥ १७६॥ वहता हव्यमत्यन्तं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते॥ १७७॥ महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते॥ १७८॥ देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥ १७९॥ बहुशः सेविते वीरैर्विद्याधरगणैर्वृते। जगाम वायुमार्गे च गरुत्मानिव मारुतिः॥ १८०॥ हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा। कालागुरुसवर्णानि रक्तपीतसितानि च॥ १८१॥ कपिना कृष्यमाणानि महाभ्राणि चकाशिरे। प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः॥ १८२॥ प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा। प्रदृश्यमानः सर्वत्र हनूमान् मारुतात्मजः॥ १८३॥ भेजेऽम्बरं निरालम्बं पक्षयुक्त इवाद्रिराट्। प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी॥ १८४॥ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी। अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता॥ १८५॥ इदं मम महासत्त्वं चिरस्य वशमागतम्। इति संचिन्त्य मनसा च्छायामस्य समाक्षिपत्॥ १८६॥ छायायां गृह्यमाणायां चिन्तयामास वानरः। समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः॥ १८७॥ प्रतिलोमेन वातेन महानौरिव सागरे। तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः॥ १८८॥ ददर्श स महासत्त्वमुत्थितं लवणाम्भसि। तद् दृष्ट्वा चिन्तयामास मारुतिर्विकृताननाम्॥ १८९॥ कपिराज्ञा यथाख्यातं सत्त्वमद्भुतदर्शनम्। छायाग्राहि महावीर्यं तदिदं नात्र संशयः॥ १९०॥ स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः। व्यवर्धत महाकायः प्रावृषीव बलाहकः॥ १९१॥ तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः। वक्त्रं प्रसारयामास पातालाम्बरसंनिभम्॥ १९२॥ घनराजीव गर्जन्ती वानरं समभिद्रवत्। स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्॥ १९३॥ कायमात्रं च मेधावी मर्माणि च महाकपिः। स तस्या विकृते वक्त्रे वज्रसंहननः कपिः॥ १९४॥ संक्षिप्य मुहुरात्मानं निपपात महाकपिः। आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः॥ १९५॥ ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा। ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः॥ १९६॥ उत्पपाताथ वेगेन मनःसम्पातविक्रमः। तां तु दिष्ट्या च धृत्या च दाक्षिण्येन निपात्य सः॥ १९७॥ कपिप्रवीरो वेगेन ववृधे पुनरात्मवान्। हृतहृत्सा हनुमता पपात विधुराम्भसि। स्वयंभुवैव हनुमान् सृष्टस्तस्या निपातने॥ १९८॥ तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्। भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्॥ १९९॥ भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्। साधयार्थमभिप्रेतमरिष्टं प्लवतां वर॥ २००॥ यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव। धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति॥ २०१॥ स तैः सम्पूजितः पूज्यः प्रतिपन्नप्रयोजनैः। जगामाकाशमाविश्य पन्नगाशनवत् कपिः॥ २०२॥ प्राप्तभूयिष्ठपारस्तु सर्वतः परिलोकयन्। योजनानां शतस्यान्ते वनराजीं ददर्श सः॥ २०३॥ ददर्श च पतन्नेव विविधद्रुमभूषितम्। द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च॥ २०४॥ सागरं सागरानूपान् सागरानूपजान् द्रुमान्। सागरस्य च पत्नीनां मुखान्यपि विलोकयत्॥ २०५॥ स महामेघसंकाशं समीक्ष्यात्मानमात्मवान्। निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम्॥ २०६॥ कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः। मयि कौतूहलं कुर्युरिति मेने महामतिः॥ २०७॥ ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्। पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥ २०८॥ तद्रूपमतिसंक्षिप्य हनूमान् प्रकृतौ स्थितः। त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥ २०९॥ स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्। परैरशक्यं प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः॥ २१०॥ ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोद्दालकनारिकेले महाभ्रकूटप्रतिमो महात्मा॥ २११॥ ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लंकां गिरिवर्यमूर्ध्नि। कपिस्तु तस्मिन् निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान्॥ २१२॥ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्। निपत्य तीरे च महोदधेस्तदा ददर्श लंकाममरावतीमिव॥ २१३॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥५-१॥
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।