रामायणम्/सुन्दरकाण्डम्/सर्गः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः १३ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वादशः सर्गः ॥५-१२॥

स तस्य मध्ये भवनस्य वानरो ।
लता ग्Rहामः चित्र गृहान् निशा गृहान् ।
जगाम सीताम् प्रति दर्शन उत्सुको ।
न च एव ताम् पश्यति चारु दर्शनाम् ॥५-१२-१॥

स चिन्तयाम् आस ततो महा कपिः ।
प्रियाम् अपश्यन् रघु नन्दनस्य ताम् ।
ध्रुवम् नु सीता म्रियते यथा न मे ।
विचिन्वतो दर्शनम् एति मैथिली ॥५-१२-२॥

सा राक्षसानाम् प्रवरेण बाला ।
स्व शील सम्रक्षण तत् परा सती ।
अनेन नूनम् प्रतिदुष्ट कर्मणा ।
हता भवेद् आर्य पथे परे स्थिता ॥५-१२-३॥

विरूप रूपा विकृता विवर्चसो ।
महा आनना दीर्घ विरूप दर्शनाः ।
समीक्ष्य सा राक्षस राज योषितो ।
भयाद् विनष्टा जनक ईश्वर आत्मजा॥५-१२-४॥

सीताम् अद्Rष्ट्वा हि अनवाप्य पौरुषम् ।
विह्Rत्य कालम् सह वानरैः चिरम् ।
न मे अस्ति सुग्रीव समीपगा गतिः ।
सुतीक्ष्ण दण्डो बलवामः च वानरः ॥५-१२-५॥

दृष्टम् अन्तः पुरम् सर्वम् दृष्ट्वा रावण योषितः ।
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥

किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सम्गताः ।
गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः ॥५-१२-७॥

अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनक आत्मजाम् ।
ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥५-१२-८॥

किम् वा वक्ष्यति व्Rद्धः च जाम्बवान् अन्गदः च सः ।
गतम् पारम् समुद्रस्य वानराः च समागताः ॥५-१२-९॥

अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् ।
अनिर्वेदो हि सततम् सर्व अर्थेषु प्रवर्तकः ॥५-१२-१०॥

करोति सफलम् जन्तोः कर्म यच् च करोति सः ।
तस्माद् अनिर्वेद क्Rतम् यत्नम् चेष्टे अहम् उत्तमम् ॥५-१२-११॥

अदृष्टामः च विचेष्यामि देशान् रावण पालितान् ।
आपान शाला विचिताः तथा पुष्प गृहाणि च ॥५-१२-१२॥

चित्र शालाः च विचिता भूयः क्रीडा गृहाणि च ।
निष्कुट अन्तर रथ्याः च विमानानि च सर्वशः ॥५-१२-१३॥

इति सम्चिन्त्य भूयो अपि विचेतुम् उपचक्रमे ।
भूमी गृहामः चैत्य गृहान् गृह अतिगृहकान् अपि ॥५-१२-१४॥

उत्पतन् निपतमः च अपि तिष्ठन् गच्चन् पुनः क्वचित् ।
अपावृण्वमः च द्वाराणि कपाटानि अवघट्टयन् ॥५-१२-१५॥

प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि ।
सर्वम् अपि अवकाशम् स विचचार महा कपिः ॥५-१२-१६॥

चतुर् अन्गुल मात्रो अपि न अवकाशः स विद्यते ।
रावण अन्तः पुरे तस्मिन् यम् कपिर् न जगाम सः ॥५-१२-१७॥

प्राकर अन्तर रथ्याः च वेदिकः चैत्य सम्श्रयाः ।
श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम् ॥५-१२-१८॥

राक्षस्यो विविध आकारा विरूपा विकृताः तथा ।
दृष्टा हनूमता तत्र न तु सा जनक आत्मजा ॥५-१२-१९॥

रूपेण अप्रतिमा लोके वरा विद्या धर स्त्रियः ।
दृटा हनूमता तत्र न तु राघव नन्दिनी ॥५-१२-२०॥

नाग कन्या वर आरोहाः पूर्ण चन्द्र निभ आननाः ।
दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥५-१२-२१॥

प्रमथ्य राक्षस इन्द्रेण नाग कन्या बलाद्द् हृताः ।
दृष्टा हनूमता तत्र न सा जनक नन्दिनी ॥५-१२-२२॥

सो अपश्यमः ताम् महा बाहुः पश्यमः च अन्या वर स्त्रियः ।
विषसाद महा बाहुर् हनूमान् मारुत आत्मजः ॥५-१२-२३॥

उद्योगम् वानर इन्द्राणम् प्लवनम् सागरस्य च ।
व्यर्थम् वीक्ष्य अनिल सुतः चिन्ताम् पुनर् उपागमत् ॥५-१२-२४॥

अवतीर्य विमानाच् च हनूमान् मारुत आत्मजः ।
चिन्ताम् उपजगाम अथ शोक उपहत चेतनः ॥५-१२-२५॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥५-१२॥