रामायणम्/सुन्दरकाण्डम्/सर्गः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १३ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः १५ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-१४॥

स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् ।
अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः ॥५-१४-१॥

स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः ।
पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् ॥५-१४-२॥

सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् ।
उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि ॥५-१४-३॥

अथ आम्र वण सम्चन्नाम् लता शत समावृताम् ।
ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् ॥५-१४-४॥

स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् ।
राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् ॥५-१४-५॥

विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।
उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः ॥५-१४-६॥

वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः ।
कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् ॥५-१४-७॥

प्रहृष्ट मनुजे कले मृग पक्षि समाकुले ।
मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् ॥५-१४-८॥

मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् ।
सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः ॥५-१४-९॥

उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः ।
अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः ॥५-१४-१०॥

पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः ।
अशोक वनिका मध्ये यथा पुष्पमयो गिरिः ॥५-१४-११॥

दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् ।
द्Rष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥५-१४-१२॥

वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः ।
रराज वसुधा तत्र प्रमदा इव विभूषिता ॥५-१४-१३॥

तरस्विना ते तरवः तरसा अभिप्रकम्पिताः ।
कुसुमानि विचित्राणि सस्Rजुः कपिना तदा ॥५-१४-१४॥

निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः ।
निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः ॥५-१४-१५॥

हनूमता वेगवता कम्पिताः ते नग उत्तमाः ।
पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः ॥५-१४-१६॥

विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः ।
बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः ॥५-१४-१७॥

विधूत केशी युवतिर् यथा मृदित वर्णिका ।
निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता ॥५-१४-१८॥

तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता ।
बभूव अशोक वनिका प्रभग्न वर पादपा ॥५-१४-१९॥

महा लतानाम् दामानि व्यधमत् तरसा कपिः ।
यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः ॥५-१४-२०॥

स तत्र मणि भूमीः च राजतीः च मनो रमाः ।
तथा कान्चन भूमीः च विचरन् ददृशे कपिः ॥५-१४-२१॥

वापीः च विविध आकाराः पूर्णाः परम वारिणा ।
महा अर्हैर् मणि सोपानैर् उपपन्नाः ततः ततः ॥५-१४-२२॥

मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः ।
कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः ॥५-१४-२३॥

फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः ।
नत्यूह रुत सम्घुष्टा हम्स सारस नादिताः ॥५-१४-२४॥

दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः ।
अम्Rत उपम तोयाभिः शिवाभिर् उपसम्स्कृताः ॥५-१४-२५॥

लता शतैर् अवतताः सन्तानक समावृताः ।
नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः ॥५-१४-२६॥

ततो अम्बु धर सम्काशम् प्रव्Rद्ध शिखरम् गिरिम् ।
विचित्र कूटम् कूटैः च सर्वतः परिवारितम् ॥५-१४-२७॥

शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् ।
ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् ॥५-१४-२८॥

ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः ।
अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥५-१४-२९॥

जले निपतित अग्रैः च पादपैर् उपशोभिताम् ।
वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः ॥५-१४-३०॥

पुनर् आव्Rत्त तोयाम् च ददर्श स महा कपिः ।
प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥५-१४-३१॥

तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः ।
ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः ॥५-१४-३२॥

कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा ।
मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् ॥५-१४-३३॥

विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।
प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा ॥५-१४-३४॥

काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् ।
ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः ॥५-१४-३५॥

सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः ।
लता प्रतानैः बहुभिः पर्णैः च बहुभिर् व्Rताम् ॥५-१४-३६॥

काञ्चनीम् शिम्शुपाम् एकाम् ददर्श स महा कपिः ।
वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः ॥५-१४-३७॥

सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च ।
सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् ॥५-१४-३८॥

तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः ।
अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः ॥५-१४-३९॥

ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् ।
किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥५-१४-४०॥

स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् ।
ताम् आरुह्य महा वेगः शिम्शपाम् पर्ण सम्व्Rताम् ॥५-१४-४१॥

इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् ।
इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यद्Rच्चया ॥५-१४-४२॥

अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः ।
चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥५-१४-४३॥

इयम् च नलिनी रम्या द्विज सम्घ निषेविता ।
इमाम् सा राम महिषी नूनम् एष्यति जानकी ॥५-१४-४४॥

सा राम राम महिषी राघवस्य प्रिया सदा ।
वन सम्चार कुशला नूनम् एष्यति जानकी ॥५-१४-४५॥

अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा ।
वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता ॥५-१४-४६॥

राम शोक अभिसम्तप्ता सा देवी वाम लोचना ।
वन वास रता नित्यम् एष्यते वन चारिणी ॥५-१४-४७॥

वने चराणाम् सततम् नूनम् स्पृहयते पुरा ।
रामस्य दयिता भार्या जनकस्य सुता सती॥५-१४-४८॥

सम्ध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी ।
नदीम् च इमाम् शिव जलाम् सम्ध्या अर्थे वर वर्णिनी ॥५-१४-४९॥

तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा ।
शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता ॥५-१४-५०॥

यदि जिवति सा देवी तारा अधिप निभ आनना ।
आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् ॥५-१४-५१॥

एवम् तु मत्वा हनुमान् महात्मा ।
प्रतीक्षमाणो मनुज इन्द्र पत्नीम् ॥
अवेक्षमाणः च ददर्श सर्वम् ।
सुपुष्पिते पर्ण घने निलीनः ॥५-१४-५२॥

इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-१४॥