रामायणम्/सुन्दरकाण्डम्/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १० रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः १२ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥

अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा ।
जगाम च अपराम् चिन्ताम् सीताम् प्रति महा कपिः ॥५-११-१॥

न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी ।
न भोक्तुम् न अपि अलम्कर्तुम् न पानम् उपसेवितुम् ॥५-११-२॥

न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् ।
न हि राम समः कश्चिद् विद्यते त्रिदशेष्व् अपि ॥५-११-३॥

अन्या इयम् इति निश्चित्य पान भूमौ चचार सः ।
क्रीडितेन अपराः क्लान्ता गीतेन च तथा पराः ॥५-११-४॥

नृत्तेन च अपराः क्लान्ताः पान विप्रहताः तथा ।
मुरजेषु म्Rदन्गेषु पीठिकासु च सम्स्थिताः ॥५-११-५॥

तथा आस्तरण मुख्य्येषु सम्विष्टाः च अपराः स्त्रियः ।
अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः ॥५-११-६॥

रूप सम्ल्लाप शीलेन युक्त गीत अर्थ भाषिणा ।
देश काल अभियुक्तेन युक्त वाक्य अभिधायिना ॥५-११-७॥

रत अभिरत सम्सुप्तम् ददर्श हरि यूथपः ।
तासाम् मध्ये महा बाहुः शुशुभे राक्षस ईश्वरः ॥५-११-८॥

गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः ।
स राक्षस इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥५-११-९॥

करेणुभिर् यथा अरण्यम् परिकीर्णो महा द्विपः ।
सर्व कामैर् उपेताम् च पान भूमिम् महात्मनः ॥५-११-१०॥

ददर्श कपि शार्दूलः तस्य रक्षः पतेर् गृहे ।
मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः ॥५-११-११॥

तत्र न्यस्तानि माम्सानि पान भूमौ ददर्श सः ।
रौक्मेषु च विशलेषु भाजनेष्व् अर्ध भक्षितान् ॥५-११-१२॥

ददर्श कपि शार्दूल मयूरान् कुक्कुटामः तथा ।
वराह वार्ध्राणसकान् दधि सौवर्चल आयुतान् ॥५-११-१३॥

शल्यान् म्Rग मयूरामः च हनूमान् अन्ववैक्षत ।
कृकरान् विविधान् सिद्धामः चकोरान् अर्ध भक्षितान् ॥५-११-१४॥

महिषान् एक शल्यामः च चागामः च कृत निष्ठितान् ।
लेख्यम् उच्च अवचम् पेयम् भोज्यानि विविधानि च ॥५-११-१५॥

तथा अम्ल लवण उत्तम्सैर् विविधै राग षाडवैः ।
हार नूपुर केयूरैर् अपविद्धैर् महा धनैः ॥५-११-१६॥

पान भाजन विक्षिप्तैः फलैः च विविधैर् अपि ।
कृत पुष्प उपहारा भूर् अधिकम् पुष्यति श्रियम् ॥५-११-१७॥

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयन आसनैः ।
पान भूमिर् विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ॥५-११-१८॥

बहु प्रकारैर् विविधैर् वर सम्स्कार सम्स्कृतैः ।
माम्सैः कुशल सम्युक्तैः पान भूमि गतैः पृथक् ॥५-११-१९॥

दिव्याः प्रसन्ना विविधाः सुराः कृत सुरा अपि ।
शर्कर आसव माध्वीकाः पुष्प आसव फल आसवाः ॥५-११-२०॥

वास चूर्णैः च विविधैर् मृष्टाः तैः तैः पृथक् पृथक् ।
सम्तता शुशुभे भूमिर् माल्यैः च बहु सम्स्थितैः ॥५-११-२१॥

हिरण्मयैः च करकैर् भाजनैः स्फाटिकैर् अपि ।
जाम्बूनदमयैश्चान्याः करकैरभिवम्वृता ॥५-११-२२॥

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।
पान श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ॥५-११-२३॥

सो अपश्यत् शात कुम्भानि शीधोर् मणिमयानि च ।
राजतानि च पूर्णानि भाजनानि महा कपिः ॥५-११-२४॥

क्वचिद् अर्ध अवशेषाणि क्वचित् पीतानि सर्वशः ।
क्वचिन् न एव प्रपीतानि पानानि स ददर्श ह ॥५-११-२५॥

क्वचिद् भक्ष्यामः च विविधान् क्वचित् पानानि भागशः ।
क्वचिद् अन्न अवशेषाणि पश्यन् वै विचचार ह ॥५-११-२६॥

क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैर् घटैः ।
क्वचित् सम्पृक्त माल्यानि जलानि च फलानि च ॥५-११-२७॥

शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः ।
परस्परम् समाश्लिष्य काश्चित् सुप्ता वर अन्गनाः ॥५-११-२८॥

काचिच् च वस्त्रम् अन्यस्या अपह्Rत्य उपगुह्य च ।
उपगम्य अबला सुप्ता निद्रा बल पराजिता ॥५-११-२९॥

तासाम् उच्च्वास वातेन वस्त्रम् माल्यम् च गात्रजम् ।
न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥५-११-३०॥

चन्दनस्य च शीतस्य शीधोर् मधु रसस्य च ।
विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥५-११-३१॥

बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् ।
स्नानानाम् चन्दनानाम् च धूपानाम् चैव मूर्चितः ।
प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा ॥५-११-३२॥

श्याम अवदाताः तत्र अन्याः काश्चित् कृष्णा वर अन्गनाः ॥५-११-३३॥

काश्चित् कान्चन वर्ण अन्ग्यः प्रमदा राक्षस आलये ।
तासाम् निद्रा वशत्वाच् च मदनेन विमूर्चितम् ॥५-११-३४॥

पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीद् यथैव हि ।
एवम् सर्वम् अशेषेण रावण अन्तः पुरम् कपिः ॥५-११-३५॥

ददर्श सुमहा तेजा न ददर्श च जानकीम् ।
निरीक्षमाणः च ततः ताः स्त्रियः स महा कपिः ॥५-११-३६॥

जगाम महतीम् चिन्ताम् धर्म साध्वस शन्कितः ।
पर दार अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥५-११-३७॥

इदम् खलु मम अत्यर्थम् धर्म लोपम् करिष्यति ।
न हि मे पर दाराणाम् दृष्टिर् विषय वर्तिनी ॥५-११-३८॥

अयम् च अत्र मया दृष्टः पर दार परिग्रहः ।
तस्य प्रादुर् अभूच् चिन्ता पुनर् अन्या मनस्विनः ॥५-११-३९॥

निश्चित एक अन्त चित्तस्य कार्य निश्चय दर्शिनी ।
कामम् दृष्ट्वा मया सर्वा विश्वस्ता रावण स्त्रियः ॥५-११-४०॥

न तु मे मनसः किम्चिद् वैकृत्यम् उपपद्यते ।
मनो हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते ॥५-११-४१॥

शुभ अशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् ।
न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥५-११-४२॥

स्त्रियो हि स्त्रीषु द्Rश्यन्ते सदा सम्परिमार्गणे ।
यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते ॥५-११-४३॥

न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् ।
तद् इदम् मार्गितम् तावत् शुद्धेन मनसा मया ॥५-११-४४॥

रावण अन्तः पुरम् सरम् दृश्यते न च जानकी ।
देव गन्धर्व कन्याः च नाग कन्याः च वीर्यवान् ॥५-११-४५॥

अवेक्षमाणो हनुमान् न एव अपश्यत जानकीम् ।
ताम् अपश्यन् कपिः तत्र पश्यमः च अन्या वर स्त्रियः ॥५-११-४६॥

अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे ।
स भूयस्तु परम् श्रीमान् मारुतिर्यत्नमास्थितः ॥५-११-४७॥

अपानभूमिमुत्सृज्य तद्विचेतुम् प्रचक्रमे ।

इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥