लिङ्गपुराणम् - पूर्वभागः/अध्यायः ४३
नंदीकेश्वर उवाच।
मया सह पिता हृष्टः प्रणम्य च महेश्वरम्।
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः॥ ४३.१ ॥
यदागतोहमुटजं शिलादस्य महामुने।
तदा वै दैविकं रूपं त्यक्त्वा मानुष्य मास्थितः॥ ४३.२ ॥
नष्टा चैव स्मृतिर्दिव्या येन केनापि कारणात्।
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः॥ ४३.३ ॥
विललापाति दुःखार्तः स्वजनैश्च समावृतः।
जातकर्मादिकाश्चैव चकार मम सर्ववित्॥ ४३.४ ॥
शालंकायनपुत्रो वै शिलादः पुत्रवत्सलः।
उपदिष्टा हि तेनैव ऋक्शाखा यजुषस्तथा॥ ४३.५ ॥
समाशाखासहस्रं च साङ्गोपाङ्गं महामुने।
आयुर्वेदं धनुर्वेदं गांधर्वं चाश्वलक्षणम्॥ ४३.६ ॥
हरितनां चरितं चैव नराणां चैव लक्षणम्।
संपूर्णे सप्तमे वर्षे ततोथ मुनिसत्तमौ॥ ४३.७ ॥
मित्रावरुणनामानौ तपोयोगबलान्वितौ।
तस्याश्रमं गतौ दिव्यौ द्रष्टु मां चाज्ञया विभोः॥ ४३.८ ॥
ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः।
तात नंद्ययमल्पायुः सर्वशास्त्रार्थपारगः॥ ४३.९ ॥
न दृष्टमेवमाश्चर्यमायुर्वर्षादतः परम्।
इत्युक्तवति विप्रेन्द्रः शिलादः पुत्रवत्सलः॥ ४३.१೦ ॥
समालिंग्य च दुःखार्तो रुरोदातीव विस्वरम्।
हा पुत्र पुत्र पुत्रेति पपात च समंततः॥ ४३.११ ॥
अहो बलं दैवविधोर्विधातुश्चोति दुःखितः।
तस्य चार्तस्वरं श्रुत्वा तदाश्रमनिवासिनः॥ ४३.१२ ॥
निपेतुर्विह्वलात्यर्थं रक्षाश्चक्रुश्च मंगलम्।
तुष्टुवुश्च महादेव त्रियंबकमुमापतिम्॥ ४३.१३ ॥
हुत्वा त्रियंबकेनैव मधुनैव च संप्लुताम्।
दूर्वामयुतसंख्यातां सर्व द्रव्यसमन्विताम्॥ ४३.१४ ॥
पिता विगतसंज्ञश्च तथा चैव पितामहः।
विचेष्टश्च ललापासौ मृतवन्निपपात च॥ ४३.१५ ॥
मृत्योर्भीतोहमचिराच्छिरसा चाभिवंद्य तम्।
मृतवत्पतितं साक्षात्पितरं च पितामहम्॥ ४३.१६ ॥
प्रदक्षिणीकृत्य च तं रुद्रजाप्यरतोऽभवम्।
हृत्पुंडरीके सुषिरे ध्यात्वा देवं त्रियंबकम्॥ ४३.१७ ॥
त्र्यक्षं दशभुजं शान्तं पंचवक्त्रं सदाशिवम्।
सरितश्चांतरे पुण्ये स्थितं मां परमेश्वरः॥ ४३.१८ ॥
तुष्टोब्रवीन्महादेवः सोमः सोमार्धभूषणः।
वत्स नंदीन्महाबाहो मृत्योर्भीतिः कुतस्तव॥ ४३.१९ ॥
मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः।
वत्सैनत्तव देहं च लौकिकं परमार्थतः॥ ४३.२೦ ॥
नास्त्येव दैविकं दृष्टं शिलादेन पुरा तव।
देवैश्च मुनिभिः सिद्धैर्गंधर्वैर्दानवोत्तमैः॥ ४३.२१ ॥
पूजितं यत्पुरा वत्स दैविकं नंदिकेश्वर॥
संसारस्य श्वभावोयं सुखं दुःखं पुनः पुनः॥ ४३.२२ ॥
नृणां योनिपरित्यागः सर्वथैव विवेकिनः।
एवमुक्त्वा तु मां साक्षात्सर्वदेवमहेश्वरः॥ ४३.२३ ॥
कराभ्यां सुशुभाभ्यां च उभाभ्यां परमेश्वरः।
पस्पर्श भगवान् रुद्रः परमार्तिहरो हरः॥ ४३.२४ ॥
उवाच च महादेवस्तुष्टात्मा वृषभध्वजः।
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम्॥ ४३.२५ ॥
समालोक्य च तुष्टात्मा महादेवः सुरेश्वरः।
अजरो जरया त्यक्तो नित्यं दुःखविवर्जितः॥ ४३.२६ ॥
अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः।
ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः॥ ४३.२७ ॥
इष्टो मम सदा चैव मम पार्श्वगतः सदा।
मद्ब्रलश्चैव भविता महायोगबलान्वितः ४३.२८ ॥
एवमुक्त्वा च मां देवो भगवान् सगणस्तदा।
कुशेशयमयीं मालां समुन्मुच्यात्मनस्तदा॥ ४३.२९ ॥
आबबंध महातेजा मम देवो वृषध्वजः।
तयाहं मालया जातः शुभया कण्ठसक्तया॥ ४३.३೦ ॥
त्र्यक्षो दशभुजश्चैव द्वितीयं इव शंकरः।
तत एव समादाय हस्तेन परमेश्वरः॥ ४३.३१ ॥
उवाच ब्रूहि किं तेद्य ददामि वरमुत्तमम्।
ततो जटाश्रितं वारि गृहीत्वा चातिनिर्मलम्॥ ४३.३२ ॥
उक्ता नदी भवस्वेति उत्ससर्ज वृषध्वजः।
ततः सा दिव्यतोया च पूर्णासितजला शुभा॥ ४३.३३ ॥
पद्मोत्पलवनोपेता प्रावर्तत महानदी।
तामाह च महादेवो नदीं परम शोभनाम्॥ ४३.३४ ॥
यस्माज्जटोदकादेव प्रवृत्ता त्वं महानदी।
तस्माज्जटोदका पुण्या भविष्यसि सरिद्वरा॥ ४३.३५ ॥
त्वयि स्नात्वा नरः कश्चित्सर्वपापैः प्रमुच्यते।
ततो देव्या महादेवः शिलादतनयं प्रभुः॥ ४३.३६ ॥
पुत्रस्तेऽयमिति प्रोच्य पादयोः संन्यपातयत्।
सा मामाघ्राय शिरसिपाणिभ्यां परिमार्जती॥ ४३.३७ ॥
पुत्रप्रेम्णाभ्यषिञ्चच्च स्रोतोभिस्तनयैस्त्रिभिः।
पयसा शंखगौरेण देवदेवं निरीक्ष्य सा॥ ४३.३८ ॥
तानि स्रोतांसि त्रीण्यस्याः स्रोतस्विन्योभवंस्तदा।
नदीं त्रिस्रोतसं देवो भगवानवदद्भवः॥ ४३.३९ ॥
त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः।
ननाद नादात्तस्माच्च सरिदन्या ततोऽभवत्॥ ४३.४೦ ॥
वृषध्वनिरिति ख्याता देवदेवेन सा नदी।
जांबूनदमयं चित्रं सर्वरत्नमयं शुभम्॥ ४३.४१ ॥
स्वं देवश्चाद्भुतं दिव्यं निर्मितं विश्वकर्मणा।
मुकुटं चाबबंधेशो मम मूर्ध्नि वृषध्वजः॥ ४३.४२ ॥
कुंडले च शुभे दिव्ये वज्रवैडूर्यभूषिते।
आबबंध महादेवः स्वयमेव महेश्वरः॥ ४३.४३ ॥
मां तथाभ्यर्चितं व्योम्नो दृष्ट्वा मेघैः प्रभाकरः।
मेघांभसा चाभ्यषिंचच्छिलादनमयो मुने॥ ४३.४४ ॥
तस्याभिषिक्तस्य तदा प्रवृत्त स्रोतसा भृशम्।
यस्मात्सुवर्णान्निःसृत्य नद्येषा संप्रवर्तते॥ ४३.४५ ॥
स्वर्णोदकेति तामाह देवदेवस्त्रियंबकः।
जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभा॥ ४३.४६ ॥
प्रावर्तत नदी पुण्या ऊवुर्जंबूनदीति ताम्।
एतत्पंचनदं नाम जप्येश्वरसमीपगम्॥ ४३.४७ ॥
यः पंचनदमासाद्य स्नात्वा जप्येश्वरेश्वरम्।
पूजयेच्छिवसायुज्यं नयात्येव न संशयः॥ ४३.४८ ॥
अथ देवो महादेवः सर्वभूतपतिर्भवः।
देवीमुवाच शर्वाणीमुमां गिरिसुतामजाम्॥ ४३.४९ ॥
देवी नंदीश्वरं देवमभिषिंचामि भूतपम्।
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये॥ ४३.५೦ ॥
तस्य तद्वचनं श्रुत्वा भवानी हर्षितानना।
स्मयंती वरदं प्राह भवं भूतपतिं पतिम्॥ ४३.५१ ॥
सर्वलोकाधिपत्यं च गणेशत्वं तथैव च।
दातुमर्हसि देवेश शैलादिस्तनयो मम॥ ४३.५२ ॥
ततः स भगवाञ्शर्वः सर्वलोकेश्वरेश्वरः।
सस्मार गणपान् दिव्यान्देवदेवो वृषध्वजः॥ ४३.५३ ॥
इति श्रीलिंगमहापुराणे पूर्वभागे नंदिकेश्वरप्रादुर्भावनंदिकेश्वराभिषेकमंत्रो नाम त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥