"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]] |
|||
| author = वामदेवो गौतमः |
|||
| translator = |
|||
| section = सूक्तं ४.५१ |
|||
| previous = [[ऋग्वेद: सूक्तं ४.५०|सूक्तं ४.५०]] |
|||
| next = [[ऋग्वेद: सूक्तं ४.५२|सूक्तं ४.५२]] |
|||
| notes = दे. उषाः। त्रिष्टुप् |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
२३:४४, २१ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ४.५० | ऋग्वेदः - मण्डल ४ सूक्तं ४.५१ वामदेवो गौतमः |
सूक्तं ४.५२ → |
दे. उषाः। त्रिष्टुप् |
इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् । नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥१॥ अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु । व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥२॥ उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः । अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥३॥ कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य । येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥४॥ यूयं हि देवीरृतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः । प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥५॥ क्व स्विदासां कतमा पुराणी यया विधाना विदधुरृभूणाम् । शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥६॥ ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः । यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप ॥७॥ ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः । ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥८॥ ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति । गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥९॥ रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥१०॥ तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः । वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥११॥ *[[ऋग्वेद:]]
मण्डल ४ | |
---|---|
|