ऋग्वेदः सूक्तं ४.२१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२० ऋग्वेदः - मण्डल ४
सूक्तं ४.२१
वामदेवो गौतमः
सूक्तं ४.२२ →
दे. इन्द्रः। त्रिष्टुप्


आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः ।
वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥१॥
तस्येदिह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् ।
यस्य क्रतुर्विदथ्यो न सम्राट् साह्वान्तरुत्रो अभ्यस्ति कृष्टीः ॥२॥
आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात् ।
स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य ॥३॥
स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम् ।
यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥४॥
उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै ।
ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता ॥५॥
धिषा यदि धिषण्यन्तः सरण्यान्सदन्तो अद्रिमौशिजस्य गोहे ।
आ दुरोषाः पास्त्यस्य होता यो नो महान्संवरणेषु वह्निः ॥६॥
सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय ।
गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय ॥७॥
वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि ।
विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥८॥
भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।
का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥९॥
एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः ।
पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥


सायणभाष्यम्

‘ आ यात्विन्द्रः' इत्येकादशर्चमेकादशं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ यातु ' इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहन्येतन्निविद्धानीयम् । सूत्रितं च- आ यात्विन्द्रोऽवस इति मरुत्वतीयम्' ( आश्व. श्रौ. ७. ५) इति ।।


आ या॒त्विंद्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ ।

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥१

आ । या॒तु॒ । इन्द्रः॑ । अव॑से । उप॑ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒ऽमात् । अ॒स्तु॒ । शूरः॑ ।

व॒वृ॒धा॒नः । तवि॑षीः । यस्य॑ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भिऽभू॑ति । पुष्या॑त् ॥१

आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सधऽमात् । अस्तु । शूरः ।

ववृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभिऽभूति । पुष्यात् ॥१

सः “इन्द्रः “नः अस्माकम् “अवसे रक्षणाय "उप “आ “यातु उपागच्छतु । य इन्द्रः “इह अस्मिन् यज्ञे “स्तुतः । “शूरः विक्रान्तः “ववृधानः प्रवृद्धोऽयमिन्द्रः “सधमादस्तु अस्माभिः सह माद्यन् भवतु । “यस्य इन्द्रस्य “तविषीः तविष्यो बलानि “पूर्वीः पूर्व्यो बहूनि । सन्तीति शेषः । यश्चेन्द्रः “द्यौर्न द्योतमानः सूर्य इव “अभिभूति परकीयं बलमभिभावुकं “क्षत्रं स्वकीयं बलं तेजो वा “पुष्यात् पुष्यतु । स इन्द्र उपायात्विति पूर्वेण संबन्धः ॥


तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।

यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वाँ तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥२

तस्य॑ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या॑नि । तु॒वि॒ऽद्यु॒म्नस्य॑ । तु॒वि॒ऽराध॑सः । नॄन् ।

यस्य॑ । क्रतुः॑ । वि॒द॒थ्यः॑ । न । स॒म्ऽराट् । स॒ह्वान् । तरु॑त्रः । अ॒भि । अस्ति॑ । कृ॒ष्टीः ॥२

तस्य । इत् । इह । स्तवथ । वृष्ण्यानि । तुविऽद्युम्नस्य । तुविऽराधसः । नॄन् ।

यस्य । क्रतुः । विदथ्यः । न । सम्ऽराट् । सह्वान् । तरुत्रः । अभि । अस्ति । कृष्टीः ॥२

“तुविद्युम्नस्य बहुकीर्तेः "तुविराधसः बहुधनस्य “तस्येत् तस्येन्द्रस्यैव “वृष्ण्यानि बलभूतान् “नॄन् नेतॄन् मरुतो हे स्तोतारो यूयम् “इह अस्मिन् यज्ञे "स्तवथ स्तुत । "साह्वान् शत्रूनभिभावुकः “तरुत्रः अस्मानापद्भयस्तारकः “यस्य इन्द्रस्य “क्रतुः कर्म "कृष्टीः शत्रुसंबन्धिनीः प्रजाः “अभ्यस्ति अभिभवति । तत्र दृष्टान्तः । “विदथ्यो "न “सम्राट् । विदथार्हः' यज्ञार्हः सम्राट् सकललोकानाम् अधिपतिरिव तद्वत् । तस्य वृष्ण्यानि इति पूर्वेण संबन्धः ।।


आ या॒त्विंद्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।

स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥३

आ । या॒तु॒ । इन्द्रः॑ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।

स्वः॑ऽनरात् । अव॑से । नः॒ । म॒रुत्वा॑न् । प॒रा॒ऽवतः॑ । वा॒ । सद॑नात् । ऋ॒तस्य॑ ॥३

आ । यातु । इन्द्रः । दिवः । आ । पृथिव्याः । मक्षु । समुद्रात् । उत । वा । पुरीषात् ।

स्वःऽनरात् । अवसे । नः । मरुत्वान् । पराऽवतः । वा । सदनात् । ऋतस्य ॥३

“मरुत्वान् मरुद्भिः सहितः “इन्द्रः “नः अस्माकम् “अवसे रक्षणाय “दिवः स्वर्गलोकात् “आ “यातु आगच्छतु । “पृथिव्याः भूलोकाच्च “मक्षु शीघ्रम् “आ यातु । “उत “वा अथवा “समुद्रात् अन्तरिक्षलोकाच्चायातु । समुद्र इत्यन्तरिक्षनाम ‘ सगरः समुद्रः अध्वरम् ' ( नि. १. ३. १५ ) इति तन्नामसु पाठात् । अथवा “पुरीषात् उदकादायातु । पुरीषमित्युदकनाम ‘ मधु पुरीषं पिप्पलम् ' ( नि. १. १२. १२ ) इति तन्नामसु पाठात् । “स्वर्णरात् स्वरादित्यो नरो नेता यस्य तस्माल्लोकाद्वा आयातु । “परावतो “वा दूराद्वा आयातु । “ऋतस्य उदकस्य “सदनात् स्थानात् मेघलोकाद्वा आयातु ॥


स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विंद्रं॑ ।

यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥४

स्थू॒रस्य॑ । रा॒यः । बृ॒ह॒तः । यः । ईशे॑ । तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । वि॒दथे॑षु । इन्द्र॑म् ।

यः । वा॒युना॑ । जय॑ति । गोऽम॑तीषु । प्र । धृ॒ष्णु॒ऽया । नय॑ति । वस्यः॑ । अच्छ॑ ॥४

स्थूरस्य । रायः । बृहतः । यः । ईशे । तम् । ऊं इति । स्तवाम । विदथेषु । इन्द्रम् ।

यः । वायुना । जयति । गोऽमतीषु । प्र । धृष्णुऽया । नयति । वस्यः । अच्छ ॥४

"यः इन्द्रः “स्थूरस्य स्थूलस्य "बृहतः महतः “रायः धनस्य “ईशे ईष्टे “विदथेषु यज्ञेषु । विदथ इति यज्ञनामैतत् । “तम् इन्द्रम् "उ' तमिन्द्रमेव वयं स्तोतारः “स्तवाम । “यः इन्द्रः “वायुना प्राणरूपेण बलेन “गोमतीषु सेनासु “जयति शत्रून् विजयते । “धृष्णुया धृष्णुः प्रगल्भो य इन्द्रः स्तोतॄन् "वस्यः वसीयः श्रेष्ठं पश्वादिधनम् "अच्छ अभि “प्र “नयति प्रापयति । तमेवेन्द्रं स्तवामेति पूर्वेण संबन्धः ॥


उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै ।

ऋं॒ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेंद्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥५

उप॑ । यः । नमः॑ । नम॑सि । स्त॒भा॒यन् । इय॑र्ति । वाच॑म् । ज॒नय॑न् । यज॑ध्यै ।

ऋ॒ञ्ज॒सा॒नः । पु॒रु॒ऽवारः॑ । उ॒क्थैः । आ । इन्द्र॑म् । कृ॒ण्वी॒त॒ । सद॑नेषु । होता॑ ॥५

उप । यः । नमः । नमसि । स्तभायन् । इयर्ति । वाचम् । जनयन् । यजध्यै ।

ऋञ्जसानः । पुरुऽवारः । उक्थैः । आ । इन्द्रम् । कृण्वीत । सदनेषु । होता ॥५

“उप "स्तभायन् लोकानुपस्तम्भयन् “यजध्यै यष्टुं “वाचं गर्जितलक्षणां वाचं “जनयन् प्रजनयन् “ऋञ्जसानः प्रसाध्यमानः । ‘ ऋञ्जतिः प्रसाधनकर्मा' इति यास्कः । “उक्थैः शस्त्रलक्षणैः स्तोत्रैः “पुरुवारः बहुभिः संभजनीयः “यः इन्द्रः "नमसि । नम इत्यन्ननामैतत् । यजमानैर्दत्ते हविषि “नमः यजमानेभ्यो यज्ञादिसाधनमन्नम् “इयर्ति प्रेरयति । इन्द्रो हविषा तृप्तः सन् वृष्टिद्वारा अन्नं प्रयच्छति तेन चान्नेन पुनर्यज्ञः प्रजायत इत्यर्थः । अस्मदीयः "होता “सदनेषु यज्ञगृहेषु तम् “इन्द्रम् “आ “कृण्वीत अभिमुखीकरोतु ॥ ॥ ५ ॥


धि॒षा यदि॑ धिष॒ण्यंतः॑ सर॒ण्यान्त्सदं॑तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।

आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्निः॑ ॥६

धि॒षा । यदि॑ । धि॒ष॒ण्यन्तः॑ । स॒र॒ण्यान् । सद॑न्तः । अद्रि॑म् । औ॒शि॒जस्य॑ । गोहे॑ ।

आ । दु॒रोषाः॑ । पा॒स्त्यस्य॑ । होता॑ । यः । नः॒ । म॒हान् । स॒म्ऽवर॑णेषु । वह्निः॑ ॥६

धिषा । यदि । धिषण्यन्तः । सरण्यान् । सदन्तः । अद्रिम् । औशिजस्य । गोहे ।

आ । दुरोषाः । पास्त्यस्य । होता । यः । नः । महान् । सम्ऽवरणेषु । वह्निः ॥६

“धिषण्यन्तः धिषणामिन्द्रविषयां स्तुतिमिच्छन्तः “औशिजस्य । उशिजः कामयमाना ऋत्विजः। तेषां संबन्ध्यौशिजो यजमानः । तस्य “गोहे गृहे “सदन्तः निषीदन्तो जनाः “अद्रिम् । आदृणाति शत्रून् इत्यद्रिरिन्द्रः । तमिन्द्रं “धिषा स्तुत्या "यदि यदा “सरण्यान् उपागच्छेयुः तदा स इन्द्रः “आ यातु । "नः अस्माकं संवरणेषु शत्रुसंबन्धिषु निरोधेषु “वह्निः वोढा पास्त्यस्य पस्त्ये गृहे वसता यजमानेन "होता आह्वाता “दुरोषाः दुस्तरक्रोधः “यः इन्द्रः “महान् प्रभूतो भवति । स आयात्विति ॥


स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य ।

गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥७

स॒त्रा । यत् । ई॒म् । भा॒र्व॒रस्य॑ । वृष्णः॑ । सिस॑क्ति । शुष्मः॑ । स्तु॒व॒ते । भरा॑य ।

गुहा॑ । यत् । ई॒म् । औ॒शि॒जस्य॑ । गोहे॑ । प्र । यत् । धि॒ये । प्र । अय॑से । मदा॑य ॥७

सत्रा । यत् । ईम् । भार्वरस्य । वृष्णः । सिसक्ति । शुष्मः । स्तुवते । भराय ।

गुहा । यत् । ईम् । औशिजस्य । गोहे । प्र । यत् । धिये । प्र । अयसे । मदाय ॥७

“भार्वरस्य । भर्वरो जगद्भर्ता प्रजापतिः । तस्य पुत्रो भार्वरः । तस्य “वृष्णः कामानां वर्षितुरिन्द्रस्य संबन्धी "ईम् एषः “शुष्मः बलं “स्तुवते स्तोत्रं कुर्वन्तं यजमानं “सिषक्ति सेवते इति “यत् तत् "सत्रा सत्यमेव । "ईम् एतद्बलम् “औशिजस्य यजमानस्य “भराय भर्तुं "गुहा गुहायां गुहारूपे हृदये "प्र भवतीति “यत् तत्सत्यम् । यजमानस्य “गोहे गृहे “धिये कर्मणे “प्र भवतीति “यत् तत्सत्यम् । “अयसे गमनाय कामानां प्राप्तये “मदाय हर्षाय तत्र यद्बलं प्रभवति तत्सत्यम् । इन्द्रस्य बलं यजमानं सर्वदा पालयतीत्यर्थः ॥


वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।

वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वहं॑ति ॥८

वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि ।

वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥८

वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयःऽभिः । जिन्वे । अपाम् । जवांसि ।

विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सुऽध्यः । वहन्ति ॥८

इन्द्रः “पर्वतस्य मेघस्य “वरांसि द्वाराणि “वि “वृण्वे विवृतानि कृतवानिति “यत् । “अपाम् उदकानां “जवांसि वेगान् “पयोभिः जलैः "जिन्वे प्याययतीति यत् । “यदि यदा “सुध्यः शोभनकर्माणो यजमानाः “वाजाय अन्नाय “वहन्ति इन्द्रं प्राप्नुवन्ति तदा “गोहे गृहे “गौरस्य गौरमृगस्य “गवयस्य गवयमृगस्य च “विदत् तौ द्वौ पशू लभते इति यत् । तत्सर्वं सत्रा इति पूर्वेण संबन्धः ॥


अभ्युदयेष्टौ इन्द्रस्य प्रदातुः ‘भद्रा ते हस्ता' इति याज्या । सूत्रितं च–' दीर्घस्ते अस्त्वङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी ' ( आश्व. श्रौ. ३.१३) इति ॥

भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑यं॒तारा॑ स्तुव॒ते राध॑ इंद्र ।

का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥९

भ॒द्रा । ते॒ । हस्ता॑ । सुऽकृ॑ता । उ॒त । पा॒णी इति॑ । प्र॒ऽय॒न्तारा॑ । स्तु॒व॒ते । राधः॑ । इ॒न्द्र॒ ।

का । ते॒ । निऽस॑त्तिः । किम् । ऊं॒ इति॑ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्ऽउ॑त् । ऊं॒ इति॑ । ह॒र्ष॒से॒ । दात॒वै । ऊं॒ इति॑ ॥९

भद्रा । ते । हस्ता । सुऽकृता । उत । पाणी इति । प्रऽयन्तारा । स्तुवते । राधः । इन्द्र ।

का । ते । निऽसत्तिः । किम् । ऊं इति । नः । ममत्सि । किम् । न । उत्ऽउत् । ऊं इति । हर्षसे । दातवै । ऊं इति ॥९

हे “इन्द्र "ते त्वदीयौ “भद्रा भद्रौ कल्याणौ “हस्ता हस्तौ “सुकृता सुकृतौ शोभनकर्माणौ भवतः । “उत अपि च “पाणी त्वदीयौ हस्तौ “स्तुवते स्तोत्रे यजमानाय “राधः धनं “प्रयन्तारा प्रयन्तारौ प्रदातारौ भवतः । हे इन्द्र “ते त्वदीया “निषत्तिः निषदनं स्थितिः "का । त्वमस्मान् “किमु किमर्थं “नो “ममत्सि न मादयसि । “किम् "उदुदु किमर्थमेव “दातवै अस्माकं धनं दातुं “न “हर्षसे हृष्टो न भवसि ॥


ऐन्द्रस्य वार्त्रघ्नस्य पशोः ' एवा वस्वः' इति हविषो याज्या । सूत्रितं च -' एवा वस्व इन्द्रः सत्यः सम्राड्यद्वाग्वदन्त्यविचेतनानि ' ( आश्व. श्रौ. ३.८) इति ।

ए॒वा वस्व॒ इंद्रः॑ स॒त्यः स॒म्राड्ढंता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।

पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥१०

ए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः ।

पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । ते॒ । अव॑सः । दैव्य॑स्य ॥१०

एव । वस्वः । इन्द्रः । सत्यः । सम्ऽराट् । हन्ता । वृत्रम् । वरिवः । पूरवे । करिति कः ।

पुरुऽस्तुत । क्रत्वा । नः । शग्धि । रायः । भक्षीय । ते । अवसः । दैव्यस्य ॥१०

“एवा एवमुक्तप्रकारेण स्तूयमानः “सत्यः सत्यवान् “वस्वः धनस्य “सम्राट् ईश्वरः “वृत्रं वृत्रनामानमसुरं “हन्ता हिंसिता “इन्द्रः “पूरवे मनुष्याय यजमानाय “वरिवः धनं "कः करोति । ददातीत्यर्थः । 'क्रत्वा कर्मणा स्तुतिहेतुना हे “पुरुष्टुत बहुभिर्यजमानैः स्तुतेन्द्र त्वं “नः अस्मभ्यं “रायः धनानि “शग्धि देहि ।। “ते त्वया दीयमानस्य “दैव्यस्य देवसंबन्धिनः “अवसः अन्नस्य ।। कर्मणि षष्ठी ॥ अन्नं “भक्षीय अहं भजेय ॥


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११

पूर्वं व्याख्याता ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२१&oldid=215219" इत्यस्माद् पुनः प्राप्तिः