ऋग्वेदः सूक्तं ४.५७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.५७ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.५६ ऋग्वेदः - मण्डल ४
सूक्तं ४.५७
वामदेवो गौतमः
सूक्तं ४.५८ →
दे. १-३ क्षेत्रपतिः, ४ शुनः, ५, ८ शुनासीरौ, ६-७ सीता। अनुष्टुप्, ५ पुर उष्णिक्, २,३,८ त्रिष्टुप्
क्षेत्रकर्षणम्


क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥२॥
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।
क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥३॥
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥
शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
तेनेमामुप सिञ्चतम् ॥५॥
अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥
इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥
शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥८॥


सायणभाष्यम्

‘ क्षेत्रस्य पतिना' इत्यष्टर्चं द्वादशं सूक्तं वामदेवस्यार्षम् । आद्याचतुर्थषष्ठीसप्तम्योऽनुष्टुभः पञ्चमी पुरउष्णिक् । ' आद्यश्चेत्पुरउष्णिक्' इति हि तल्लक्षणम् । शिष्टास्तिस्रस्त्रिष्टुभः । आद्यास्तिस्रः क्षेत्रपतिदेवताकाश्चतुर्थी शुनाख्यदेवताका पञ्चम्यष्टम्यौ शुनासीरदेवताके षष्ठीसप्तम्यौ सीतादेवताके । तथा चानुक्रमणिका - क्षेत्रस्याष्टौ तिस्रः क्षैत्रपत्याः शुनायैका परा पुरउष्णिक् सान्त्या च शुनासीराभ्यामुपान्त्ये सीतायै ते' अनुष्टुभावाद्या च चतुर्थी च ' इति ॥ क्षेत्रस्य कर्षणेऽनेन सूक्तेन प्रत्यृचं जुहुयाज्जपेद्वा । तथा च सूत्रितं - क्षेत्रस्य पतिना वयमिति प्रत्यृचं जुहुयाज्जपेद्वा ' (आश्व. गृ. २. १०. ४ ) इति ॥ अप्तोर्यामे होतुरतिरिक्तोक्थ्य आश्विनशस्त्रादूर्ध्वं चत्वार्यतिरिक्तोक्थ्यानि । तत्राद्या परिधानीया । सूत्रितं च - ‘ क्षेत्रस्य पतिना वयमिति परिधानीया ' ( आश्व. श्रौ. ९. ११ ) इति ॥


क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।

गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥१

क्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ ।

गाम् । अश्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥१

क्षेत्रस्य । पतिना । वयम् । हितेनऽइव । जयामसि ।

गाम् । अश्वम् । पोषयित्नु । आ । सः । नः । मृळाति । ईदृशे ॥१

“वयं यजमानाः “क्षेत्रस्य “पतिना देवेन ॥ रुद्रं क्षेत्रपतिं प्राहुः केचिदग्निमथापरे । स्वतन्त्र एव वा कश्चित्क्षेत्रस्य पतिरुच्यते ॥ “हितेनेव । इव शब्द एवार्थे । सर्वप्राणिहितेनैव तेन । अथवा मित्रेणेव । यथा सख्युः साहाय्ये सन् स्वकार्यं साधयति तद्वत् । “जयामसि । जयामः क्षेत्रम् । स देवः “गामश्वं च “पोषयित्नु पोषयितृ गवाश्वलक्षणं धनम् "आ हरत्विति शेषः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । “सः एव देवः “नः अस्मान् “ईदृशे उक्तलक्षणे धने दातव्ये सति “मृळाति सुखयति । क्षेत्रस्य पतिना' ( निरु. १०. १५ ) इत्यादिनिरुक्तं जानीयात् ॥


अप्तोर्यामे मैत्रावरुणस्यातिरिक्तोक्थ्ये परिधानीया । सूत्रितं च - क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया ' ( आश्व. श्रौ. ९. ११ ) इति ॥

क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।

म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ः पत॑यो मृळयन्तु ॥२

क्षेत्र॑स्य । प॒ते॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । धे॒नुःऽइ॑व । पयः॑ । अ॒स्मासु॑ । धु॒क्ष्व॒ ।

म॒धु॒ऽश्चुत॑म् । घृ॒तम्ऽइ॑व । सुऽपू॑तम् । ऋ॒तस्य॑ । नः॒ । पत॑यः । मृ॒ळ॒य॒न्तु॒ ॥२

क्षेत्रस्य । पते । मधुऽमन्तम् । ऊर्मिम् । धेनुःऽइव । पयः । अस्मासु । धुक्ष्व ।

मधुऽश्चुतम् । घृतम्ऽइव । सुऽपूतम् । ऋतस्य । नः । पतयः । मृळयन्तु ॥२

हे “क्षेत्रस्य “पते त्वं “मधुमन्तं माधुर्योपेतम् “ऊर्मिं प्रवृद्धम् उदकं “धेनुः “पयः “इव सा यया दुग्धे तथा “अस्मासु “धुक्ष्व । 'मधुश्चुतं मधुस्रावि "सुपूर्तं “घृतमिव इत्युपमा । तादृशमुदकमित्यर्थः । “ऋतस्य यज्ञस्योदकस्य वा “पतयः स्वामिनः “नः अस्मान् “मृळयन्तु सुखयन्तु । यद्वा । ऋतस्य एतत् कर्मणि षष्ठी । ऋतं मृळयन्तु प्रयच्छन्तु । मृळतिरत्र दानकर्मा ॥


ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ्ये परिधानीयैषा । ‘ मधुमतीरोषधीर्द्याव आप इति परिधानीया (आश्व. श्रौ. ९. ११ ) इति सूत्रितत्वात् ॥

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् ।

क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥३

मधु॑ऽमतीः । ओष॑धीः । द्यावः॑ । आपः॑ । मधु॑ऽमत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि॑क्षम् ।

क्षेत्र॑स्य । पतिः॑ । मधु॑ऽमान् । नः॒ । अ॒स्तु॒ । अरि॑ष्यन्तः॑ । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥३

मधुऽमतीः । ओषधीः । द्यावः । आपः । मधुऽमत् । नः । भवतु । अन्तरिक्षम् ।

क्षेत्रस्य । पतिः । मधुऽमान् । नः । अस्तु । अरिष्यन्तः । अनु । एनम् । चरेम ॥३

“ओषधीः ओषध्यो व्रीहिप्रियङ्वादयः “नः अस्मभ्यं “मधुमतीः मधुमत्यः भवन्तु । तथा “द्यावः । तिस्रो दिव इत्युक्तत्वात् बहुवचनं युक्तम् । तथा “आपः "अन्तरिक्षं च नः "मधुमत् “भवतु । किंच “क्षेत्रस्य “पतिः अपि "मधुमान्नो “अस्तु । “अरिष्यन्तः अन्यैरहिंस्यन्तो वयम् “एनं क्षेत्रपतिम् “अनु अनुसृत्य "चरेम संचरेम सुखेन ॥


शु॒नं वा॒हाः शु॒नं नर॑ः शु॒नं कृ॑षतु॒ लाङ्ग॑लम् ।

शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥४

शु॒नम् । वा॒हाः । शु॒नम् । नरः॑ । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् ।

शु॒नम् । व॒र॒त्राः । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥४

शुनम् । वाहाः । शुनम् । नरः । शुनम् । कृषतु । लाङ्गलम् ।

शुनम् । वरत्राः । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥४

“वाहाः बलीवर्दाः “शुनम् । सुखनामैतत् । सुखं यथा भवति तथा वहन्त्विति शेषः । तथा “नरः नेतारो मनुष्याः कर्षकाः “शुनं कुर्वन्तु । तथा “लाङ्गलम् अपि “शुनं "कृषतु । “वरत्राः वरणेन त्रायमाणाः प्रग्रहाः “शुनं “बध्यन्ताम् । “अष्ट्रां प्रतोदं "शुनम् “उदिङ्गय प्रेरय । शुनाख्यो वाय्विन्द्रयोरन्यतमः सुखकृद्देवः । तदनुग्रहादेतत्सर्वं भवत्विति तस्य श्रुतिसामान्येन स्तुतिः ॥


शुनासीरीये पर्वणि शुनासीरदेवताकस्य हविषोऽनुवाक्यैषा अन्त्या ऋक् याज्या । सूत्रितं च -- ‘ शुनासीराविमां वाचं जुषेथां शुनं नः फालाः ' ( आश्व. श्रौ. २. २० ) इति ॥

शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथु॒ः पय॑ः ।

तेने॒मामुप॑ सिञ्चतम् ॥५

शुना॑सीरौ । इ॒माम् । वाच॑म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः॑ । पयः॑ ।

तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥५

शुनासीरौ । इमाम् । वाचम् । जुषेथाम् । यत् । दिवि । चक्रथुः । पयः ।

तेन । इमाम् । उप । सिञ्चतम् ॥५

‘ द्युदेवः शुनदेवता ' इति शौनकः । अतः शुन इन्द्रः सीरो वायुः । ‘ शुनो वायुः शु एत्यन्तरिक्षे सीर आदित्यः सरणात् ' (निरु. ९. ४० ) इति यास्कः । हे शुनासीरौ तौ युवाम् “इमां वक्ष्यमाणां मदीयां “वाचं “जुषेथाम् । “यत् “पयः “दिवि “चक्रथुः “तेनेमां भूमिम् “उ “सिञ्चतम् ॥


अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा ।

यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥६

अ॒र्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । सीते॑ । वन्दा॑महे । त्वा॒ ।

यथा॑ । नः॒ । सु॒ऽभगा॑ । अस॑सि । यथा॑ । नः॒ । सु॒ऽफला॑ । अस॑सि ॥६

अर्वाची । सुऽभगे । भव । सीते । वन्दामहे । त्वा ।

यथा । नः । सुऽभगा । अससि । यथा । नः । सुऽफला । अससि ॥६

हे "सुभगे “सीते त्वम् “अर्वाची अर्वागञ्चना “भव । “त्वा त्वां “वन्दामहे स्तुवीमहि । "यथा “नः “सुभगाससि शोभनधना भवसि । “यथा “नः “सुफलाससि तथा वन्दामहे ॥


इन्द्र॒ः सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु ।

सा न॒ः पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥७

इन्द्रः॑ । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु॑ । य॒च्छ॒तु॒ ।

सा । नः॒ । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥७

इन्द्रः । सीताम् । नि । गृह्णातु । ताम् । पूषा । अनु । यच्छतु ।

सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥७

“इन्द्रः देवः “सीतां सीताधारकाष्ठं “नि “गृह्णातु । “तां सीतां “पूषा देवः “अनु यच्छतु नियमयतु । “सा द्यौः “पयस्वती उदकवती" “दुहां दुह्यात् । कदेति तदुच्यते। "उत्तरामुत्तरां “समाम् उत्तरमुत्तरं संवत्सरम् ॥


अस्या अष्टम्या विनियोगः शुनासीराविमाम् ' इत्यत्रोक्तः ॥

शु॒नं न॒ः फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः ।

शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भि॒ः शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥८

शु॒नम् । नः॒ । फालाः॑ । वि । कृ॒ष॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशाः॑ । अ॒भि । य॒न्तु॒ । वा॒हैः ।

शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयः॑ऽभिः । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥८

शुनम् । नः । फालाः । वि । कृषन्तु । भूमिम् । शुनम् । कीनाशाः । अभि । यन्तु । वाहैः ।

शुनम् । पर्जन्यः । मधुना । पयःऽभिः । शुनासीरा । शुनम् । अस्मासु । धत्तम् ॥८

"नः “भूमिं “फालाः भूमिविदारककाष्ठाः "शुनं “वि “कृषन्तु । “शुनं यथा भवति तथा "कीनाशाः बलीवर्दरक्षकाः "वाहैः बलीवर्दैः "अभि "यन्तु अभिगच्छन्तु । “शुनं यथा भवति तथा “पर्जन्यो "मधुना मधुरैः “पयोभिः उदकैः सिञ्चतु । हे “शुनासीरा इन्द्रवायू वाय्वादित्यौ वा “शुनं सुखम् “अस्मासु “धत्तं धारयतम् ॥ ॥ ९ ॥


[सम्पाद्यताम्]

तैसं १.१.१४.२ मै.सं. ४.११.१ काठ.सं. ४.१५ आप.गृ. ७.२०.१२ नि १०.१५ शां.श्रौ. १५.८.१५ शां.गृ. ४.१३.५ बृ.दे. ५.७

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५७&oldid=400528" इत्यस्माद् प्रतिप्राप्तम्