ऋग्वेदः सूक्तं ४.२६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२५ ऋग्वेदः - मण्डल ४
सूक्तं ४.२६
वामदेवो गौतमः, १- ३ इन्द्रो वा।
सूक्तं ४.२७ →
दे. १ - ३ इन्द्रः, आत्मा वा, ४ - ७ श्येनः। त्रिष्टुप्


अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः ।
अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥१॥
अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय ।
अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥२॥
अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य ।
शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥३॥
प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा ।
अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥४॥
भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि ।
तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥५॥
ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् ।
सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥६॥
आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम् ।
अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥७॥

सायणभाष्यम्

'अहं मनुः' इति सप्तर्चं पञ्चमं सूक्तं वामदेवस्यार्षम् । अत्रेयमनुक्रमणिका--- 'अहं मनुः सप्ताद्याभिस्तिसृभिरिन्द्रमिवात्मानमृऋषिस्तुष्टावेन्द्रो वात्मानं परा नवाष्टौ वा श्येनस्तुतिः' इति । अत्र 'अहं मनुः' इत्याद्याभिस्तिसृभिरात्मानमिन्द्ररूपेण वामदेवः स्तुतवान् । यद्वा । इन्द्र एव आत्मानं स्तुतवान् । अतो वामदेववाक्यपक्षे वामदेव ऋषिरिन्द्रो देवता । इन्द्रवाक्यपक्षे त्विन्द्र ऋषिः परमात्मा देवता । त्रिष्टुप् छन्दः । अवशिष्टानां वामदेव ऋषिः । अवशिष्टाभिरुत्तरसूक्तेन च सुपर्णात्मना ब्रह्म स्तूयते । अतस्तासां परब्रह्म देवता । श्येननाम्न्येकाहे माध्यंदिनसवने मरुत्वतीयशस्त्रे इदं सूक्तम् । सूत्रितं च- श्येनाजिराभ्यामभिचरन्यजेताहं मनुर्गर्भे नु सन्' ( आश्व. श्रौ. ९. ७ ) इति ॥


अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ ।

अ॒हं कुत्स॑मार्जुने॒यं न्यृ॑ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥१

अ॒हम् । मनुः॑ । अ॒भ॒व॒म् । सूर्यः॑ । च॒ । अ॒हम् । क॒क्षीवा॑न् । ऋषिः॑ । अ॒स्मि॒ । विप्रः॑ ।

अ॒हम् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना॑ । पश्य॑त । मा॒ ॥१

अहम् । मनुः । अभवम् । सूर्यः । च । अहम् । कक्षीवान् । ऋषिः । अस्मि । विप्रः ।।

अहम् । कुत्सम् । आर्जुनेयम् । नि । ऋञ्जे । अहम् । कविः । उशना । पश्यत । मा ॥ १ ॥

इदमादिमन्त्रत्रयेण गर्भे वसन् वामदेवः उत्पन्नतत्त्वज्ञानः सन् सार्वात्म्यं स्वानुभवं मन्वादिरूपेण प्रदर्शयन्नाह । अहं वामदेव इन्द्रो वा मनुरभवं सर्वस्य मन्ता प्रजापतिरस्मि । अहम् एव सूर्यश्च सर्वस्य प्रेरकः सविता चास्मि । विप्रः मेधावी कक्षीवान् दीर्घतमसः पुत्रः एतत्संज्ञकः ऋषिः अप्यहमेव अस्मि । आर्जुनेयम् अर्जुन्याः पुत्रं कुत्सम् एतन्नामकमृषिम् अहम् एव न्यृञ्जे नितरां प्रसाधयामि । "कविः क्रान्तदर्शी "उशना एतदाख्य ऋषिः अहम् एवास्मि । उक्तमुपलक्षणम् । परमार्थदृष्ट्या कृत्स्नमप्यहमेवास्मीत्यर्थः । हे जनाः मा मां सर्वात्मकं पश्यत । यूयमप्येवमेव स्वस्वरूपमनुभवतेत्युक्तं भवति ॥


अ॒हं भूमि॑मददा॒मार्या॑या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या॑य ।

अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ॥२

अ॒हम् । भूमि॑म् । अ॒द॒दा॒म् । आर्या॑य । अ॒हम् । वृ॒ष्टिम् । दा॒शुषे॑ । मर्त्या॑य ।

अ॒हम् । अ॒पः । अ॒न॒य॒म् । वा॒व॒शा॒नाः । मम॑ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् ॥२

अहम् । भूमिम् । अददाम् । आर्याय । अहम् । वृष्टिम् । दाशुषे । मर्त्याय ।

अहम् । अपः । अनयम् । वावशानाः । मम । देवासः । अनु । केतम् । आयन् ॥ २ ॥

"अहं वामदेव इन्द्रो वा आर्याय मनवे "भूमिं पृथ्वीम् अददां दत्तवानस्मि । दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय "वृष्टिं सस्याद्यभिवृद्धयर्थं वृष्टिलक्षणमुदकम् अहम् एव अददाम् । किच "अहं वावशानाः शब्दायमानाः "अपः उदकानि "अनयं सर्वमपि प्रदेशम् अगमयम् । देवासः वह्न्यादयो देवाः "मम "केतं मदीयं संकल्पम् अनु आयन् अनुयन्ति ।।


अ॒हं पुरो॑ मन्दसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य ।

श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदाव॑म् ॥३

अ॒हम् । पुरः॑ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव॑ । सा॒कम् । न॒व॒तीः । शम्ब॑रस्य ।

श॒त॒ऽत॒मम् । वे॒श्य॑म् । स॒र्वऽता॑ता । दिवः॑ऽदासम् । अ॒ति॒थि॒ऽग्वम् । यत् । आव॑म् ॥३

अहम् । पुरः । मन्दसानः । वि । ऐरम् । नव । साकम् । नवतीः । शम्बरस्य ।

शतऽतमम् । वेश्यम् । सर्वऽताता । दिवःऽदासम् । अतिथिऽग्वम् । यत् । आवम् ॥ ३ ॥

"अहं वामदेव इन्द्रो वा मन्दसानः सोमेन माद्यन् नव नवसंख्याकाः नवतीः नवतिसंख्याकाश्च शम्बरस्य एतन्नामकस्यासुरस्य संबन्धीनि पुरः पुराणि "साकं युगपदेव व्यैरम् अध्वंसयम् । शततमं शतसंख्यापूरणं पुरं वेश्यं दिवोदासनाम्ने प्रवेशार्हमकरवम् । सर्वताता सर्वतातौ यज्ञे "अतिथिग्वम् अतिथीनामभिगन्तारं दिवोदासं दिवोदासनामकं राजर्षिं यत् यदा आवम् अपालयम् । तदा पुरो व्यैरमिति पूर्वेण संबन्धः ॥


प्र सु ष विभ्यो॑ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा॑ ।

अ॒च॒क्रया॒ यत्स्व॒धया॑ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ॥४

प्र । सु । सः । विऽभ्यः॑ । म॒रु॒तः॒ । विः । अ॒स्तु॒ । प्र । श्ये॒नः । श्ये॒नेभ्यः॑ । आ॒शु॒ऽपत्वा॑ ।

अ॒च॒क्रया॑ । यत् । स्व॒धया॑ । सु॒ऽप॒र्णः । ह॒व्यम् । भर॑त् । मन॑वे । दे॒वऽजु॑ष्टम् ॥४

प्र । सु । सः । विऽभ्यः। मरुतः। विः । अस्तु । प्र । श्येनः । श्येनेभ्यः । आशुऽपत्वा ।

अचक्रया । यत् । स्वधया। सुऽपर्णः । हव्यम् । भरत् । मनवे । देवऽजुष्टम् ॥ ४ ॥

अथैतदादिभिः श्येनः स्तूयते । हे "मरुतः वेगेन मरुत्सदृशाः पक्षिणः सः प्रसिद्धः श्येनाख्यः विः पक्षी विभ्यः पक्षिभ्यो युष्मत्तः प्र सु "अस्तु बलेन प्रकृष्टो भवतु । किंच श्येनेभ्यः शंसनीयगमनेभ्यः स्वसमानजातिभ्यः पक्षिभ्यः सकाशात् "आशुपत्वा आशुपतनः शीघ्रगामी श्येनः प्रकृष्टो भवतु । 'सुपर्णः शोभनपतनः यत् यदा श्येनः "अचक्रया चक्रवर्जितया स्वधया रथेन देवजुष्टं देवैः सेवितं "हव्यं सोमलक्षणं हविः "मनवे प्रजापतये भरत् अहरत द्युलोकसकाशादाहृतवान् । अत्र स्वधाशब्दो रथवाची अचक्रया स्वधया वर्तमानम् ' ( ऋ. सं. १०. २७. १९) इत्यादौ दर्शनात् ॥


भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि ।

तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥५

भर॑त् । यदि॑ । विः । अतः॑ । वेवि॑जानः । प॒था । उ॒रुणा॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ ।

तूय॑म् । य॒यौ॒ । मधु॑ना । सो॒म्येन॑ । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । श्ये॒नः । अत्र॑ ॥५

भरत् । यदि । विः । अतः । वेविजानः । पृथा । उरुणा । मनःऽजवाः । असर्जि ।

तूयम् । ययौ । मधुना । सोम्येन । उत । श्रवः । विविदे । श्येनः । अत्र ॥ ५॥

"यदि यदा विः पक्षी श्येनः अतः अमुष्मात् द्युलोकात् "वेविजानः सोमपालकान् भीषयन् भरत् अहरत् । सोममाहृतवान् । तदा उरुणा विस्तीर्णेन पथा अन्तरिक्षमार्गेण "मनोजवाः मनोवत् वेगयुक्तः सन् असर्जि संसृष्टः आसीत् । सोम्येन सोममयेन मधुना अन्नेन सह "तूयं क्षिप्रं ययौ जगाम । उत अपि च अत्र अस्मिन् लोके श्येनः सुपर्णः श्रवः सोमाहरणनिमित्तं यशः विविदे लेभे ॥


ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद॑म् ।

सोमं॑ भरद्दादृहा॒णो दे॒वावा॑न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ॥६

ऋ॒जी॒पी । श्ये॒नः । दद॑मानः । अं॒शुम् । प॒रा॒ऽवतः॑ । श॒कु॒नः । म॒न्द्रम् । मद॑म् ।

सोम॑म् । भ॒र॒त् । द॒दृ॒हा॒णः । दे॒वऽवा॑न् । दि॒वः । अ॒मुष्मा॑त् । उत्ऽत॑रात् । आ॒ऽदाय॑ ॥६

ऋजीपी। श्ये॒नः । ददमानः । अंशुम् । पराऽवतः । शकुनः । मन्द्रम् । मदम् ।

सोमम् । भरत् । ददृहाणः । देवऽवान् । दिवः । अमुष्मात् । उत्ऽतरात् । आऽदाय ।। ६॥

ऋजीपी ऋजुगामी परावतः दूरात् "अंशुं सोमं "ददमानः धारयन् श्येनः शंसनीयगमनः देववान् देवैः सहितः शकुनः पक्षी मन्द्रं मदनीयं स्तुत्यं मदं मदकरं सोमम् उत्तरात् उद्गततरात् "अमुष्मात् "दिवः द्युलोकात् आदाय स्वीकृस्य ददृहाणः दृढीभवन् "भरत् अहरत् ॥


आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं॑ स॒हस्रं॑ स॒वाँ अ॒युतं॑ च सा॒कम् ।

अत्रा॒ पुरं॑धिरजहा॒दरा॑ती॒र्मदे॒ सोम॑स्य मू॒रा अमू॑रः ॥७

आ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् ।

अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥

आऽदाय । श्येनः। अभरत् । सोमम् । सहस्रम् । सवान् । अयुतम् । च । साकम् ।

अत्र । पुरम्ऽधिः । अजहात्। अरातीः । मदे । सोमस्य । मूराः । अमूरः ॥ ७ ॥

"श्येनः शंसनीयगमनः पक्षी "सवान् सवानां यज्ञानां सहस्रं सहस्रसंख्याकम् अयुतं च अयुतसंख्याकम् । अपरिमितसंख्याकमित्यर्थः । साकं सह सोमं सोमलक्षणमन्नम् आदाय आदानं कृत्वा "अभरत् अहरत् । आजहार । अत्र अस्मिन् सोमे आहृते सति पुरंधिः पुरंधीर्बहुकर्मा अमूरः अमूढः प्राज्ञ इन्द्रः सोमस्य संबन्धिनि मदे हर्षे सति "मूराः मूढाः अरातीः शत्रून् अजहात् अत्यजत् । जघानेत्यर्थः । अत्रारातिशब्दः स्त्रीलिङ्गः ॥ ॥ १५ ॥


[सम्पाद्यताम्]

४.२६.१

संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः । इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ।।बृहद्देवता १.५१ ।।


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२६&oldid=209120" इत्यस्माद् पुनः प्राप्तिः