ऋग्वेदः सूक्तं ४.२६
← सूक्तं ४.२५ | ऋग्वेदः - मण्डल ४ सूक्तं ४.२६ वामदेवो गौतमः, १- ३ इन्द्रो वा। |
सूक्तं ४.२७ → |
दे. १ - ३ इन्द्रः, आत्मा वा, ४ - ७ श्येनः। त्रिष्टुप् |
अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः । अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥१॥ अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय । अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥२॥ अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य । शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥३॥ प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥४॥ भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि । तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥५॥ ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् । सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥६॥ आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम् । अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥७॥ *[[ऋग्वेद:]]
मण्डल ४ |
---|
[सम्पाद्यताम्]
४.२६.१
संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः । इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ।।बृहद्देवता १.५१ ।।