ऋग्वेदः सूक्तं ४.१२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.११ ऋग्वेदः - मण्डल ४
सूक्तं ४.१२
वामदेवो गौतमः
सूक्तं ४.१३ →
दे. अग्निः। त्रिष्टुप्


यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् ।
स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥१॥
इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् ।
स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥२॥
अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः ।
दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥३॥
यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।
कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥४॥
महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् ।
मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥५॥
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥६॥


सायणभाष्यम्

“यस्त्वामग्ने ' इति षडृचं द्वितीयं सूक्तम् । वामदेव ऋषिः । त्रैष्टुभं छन्दः । अग्निर्देवता । ‘ यस्त्वाम्' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥


यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् ।

स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥१

यः । त्वाम् । अ॒ग्ने॒ । इ॒नध॑ते । य॒तऽस्रु॑क् । त्रिः । ते॒ । अन्न॑म् । कृ॒णव॑त् । सस्मि॑न् । अह॑न् ।

सः । सु । द्यु॒म्नैः । अ॒भि । अ॒स्तु॒ । प्र॒ऽसक्ष॑त् । तव॑ । क्रत्वा॑ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥१

यः । त्वाम् । अग्ने । इनधते । यतऽस्रुक् । त्रिः । ते । अन्नम् । कृणवत् । सस्मिन् । अहन् ।

सः । सु । द्युम्नैः । अभि । अस्तु । प्रऽसक्षत् । तव । क्रत्वा । जातऽवेदः । चिकित्वान् ॥१

हे "अग्ने “यतस्रुक् स्रुचा संबद्धः "यः यजमानः “त्वाम् "इनधते दीप्तियुक्तं कुर्यात् । यः “सस्मिन्नहन् सर्वस्मिन्नहनि "ते तुभ्यं "त्रिः त्रिवारं सवनत्रये "अन्नं हविर्लक्षणमन्नं "कृणवत् कुर्यात् । हे "जातवेदः जातानां वेदितरग्ने “तव तोषकेण “क्रत्वा इन्धनादिहेतुना कर्मणा “प्रसक्षत् प्रसहमानं त्वदीयं तेजः "चिकित्वान् जानन् "सः यजमानः “द्युम्नैः धनैर्यशोभिर्वा "सु अत्यन्तम् "अभ्यस्तु शत्रून् अभिभवतु ॥


इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् ।

स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥२

इ॒ध्मम् । यः । ते॒ । ज॒भर॑त् । श॒श्र॒मा॒णः । म॒हः । अ॒ग्ने॒ । अनी॑कम् । आ । स॒प॒र्यन् ।

सः । इ॒धा॒नः । प्रति॑ । दो॒षाम् । उ॒षस॑म् । पुष्य॑न् । र॒यिम् । स॒च॒ते॒ । घ्नन् । अ॒मित्रा॑न् ॥२

इध्मम् । यः । ते । जभरत् । शश्रमाणः । महः । अग्ने । अनीकम् । आ । सपर्यन् ।

सः । इधानः । प्रति । दोषाम् । उषसम् । पुष्यन् । रयिम् । सचते । घ्नन् । अमित्रान् ॥२

हे "अग्ने यः यजमानः “ते तुभ्यम् “इध्मं होमसाधनं समिज्जातं "जभरत् आहरेत् ॥ ' हृञ् हरणे '। लिङर्थे लेट् । तस्य तिपः ‘ इतश्च लोपः' इति इकारलोपः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । द्विर्वचनादिकार्यम् । ‘लेटोऽडाटौ ' इत्यडागमः । ‘ हृग्रहोर्भः ' इति भत्वम् ॥ "शश्रमाणः इध्माद्याहरणे श्राम्यन् "महः महतः तव “आ “अनीकम् । आकारश्चार्थे। तेजश्च "सपर्यन् परिचरन् यो यजमानः "दोषां “प्रति रात्रिं लक्षीकृत्य “उषसं प्रति उषःकालं च लक्षीकृत्य । कालद्वयेऽपीत्यर्थः । “इधानः इन्धानस्त्वां दीप्तियुक्तं करोति “पुष्यन् प्रजाभिः पशुभिश्च पुष्टः सन् "सः यजमानः “अमित्रान् शत्रून् “घ्नन् हिंसन् “रयिं धनं "सचते सेवते । सर्वदा पश्वादिधनसमृद्धो भवतीत्यर्थः ॥


अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः ।

दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥३

अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । क्ष॒त्रिय॑स्य । अ॒ग्निः । वाज॑स्य । प॒र॒मस्य॑ । रा॒यः ।

दधा॑ति । रत्न॑म् । वि॒ध॒ते । यवि॑ष्ठः । वि । आ॒नु॒षक् । मर्त्या॑य । स्व॒धाऽवा॑न् ॥३

अग्निः । ईशे । बृहतः । क्षत्रियस्य । अग्निः । वाजस्य । परमस्य । रायः ।

दधाति । रत्नम् । विधते । यविष्ठः । वि । आनुषक् । मर्त्याय । स्वधाऽवान् ॥३

“अग्निः "बृहतः महतः "क्षत्रियस्य बलस्य "ईशे ईश्वरः भवति ॥ वर्तमानेऽर्थे लिट् ॥ किंच “अग्निः "परमस्य उत्कृष्टस्य “वाजस्य अन्नस्य "रायः पश्वादेर्धनस्य चेशे। "यविष्ठः युवतमः "स्वधावान् अन्नवान् तेजस्वी वाग्निः “विधते परिचरते । विधतिः परिचरणकर्मा' इति यास्कः । "मर्त्याय मनुष्याय यजमानाय "रत्नं रमणीयं धनम् "आनुषक् अनुषक्तं "वि "दधाति करोति ॥


यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दाग॑ः ।

कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥४

यत् । चि॒त् । हि । ते॒ । पु॒रु॒ष॒ऽत्रा । य॒वि॒ष्ठ॒ । अचि॑त्तिऽभिः । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।

कृ॒धि । सु । अ॒स्मान् । अदि॑तेः । अना॑गान् । वि । एनां॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥४

यत् । चित् । हि । ते । पुरुषऽत्रा । यविष्ठ । अचित्तिऽभिः । चकृम । कत् । चित् । आगः ।

कृधि । सु । अस्मान् । अदितेः । अनागान् । वि । एनांसि । शिश्रथः । विष्वक् । अग्ने ॥४

हे "यविष्ठ युवतम "अग्ने "यच्चिद्धि यद्यपि खलु "ते त्वदीयेषु "पुरुषत्रा परिचारकेषु पुरुषेषु “अचित्तिभिः अज्ञानैः "कच्चिदागः किंचिदपि पापं वयं 'चकृम तथापि हे अग्ने "अस्मान् "अदितेः भूमेः "अनागान् अनागसः पापरहितान् "सु अत्यन्तं "कृधि कुरु। हे अग्ने "विष्वक् सर्वतो विद्यमानानि “एनांसि अस्माभिः कृतानि पापानि “वि “शिश्रथः विश्लथय शिथिलीकुरु ॥


म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नाम् ।

मा ते॒ सखा॑य॒ः सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥५

म॒हः । चि॒त् । अ॒ग्ने॒ । एन॑सः । अ॒भीके॑ । ऊ॒र्वात् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।

मा । ते॒ । सखा॑यः । सद॑म् । इत् । रि॒षा॒म॒ । यच्छ॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥५

महः । चित् । अग्ने । एनसः । अभीके । ऊर्वात् । देवानाम् । उत । मर्त्यानाम् ।

मा । ते । सखायः । सदम् । इत् । रिषाम । यच्छ । तोकाय । तनयाय । शम् । योः ॥५

हे "अग्ने "देवानाम् इन्द्रादीनाम् “उत अपि च "मर्त्यानां मनुष्याणाम् "अभीके अन्तिके । अभीक इत्यन्तिकनामैतत् । अस्माभिर्यत्पापं कृतं "महश्चित् महतोऽपि “ऊर्वात् विस्तृतादस्मात् “एनसः पापात् "ते त्वदीयाः "सखायः मित्रभूताः स्तोतारो वयं "सदमित् सर्वदैव “मा “रिषाम मा हिंसिता भूम । हे अग्ने त्वं “तोकाय पुत्राय “तनयाय पौत्राय “शं पापरूपोपद्रवाणां शान्तिं “योः सुकृतोत्पादितं सुखं च "यच्छ देहि ।।


यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।

ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒ः प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑ः ॥६

यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ ।

ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥६

यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः ।

एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रऽतरम् । नः । आयुः ॥६

“यजत्राः यजनीयाः पूजार्हा हे "वसवः निवासयितारः अग्नयः यूयं "यथा “ह यथैव "त्यत् त्यां तां "पदि पादे “सितां बद्धां "गौर्यं "चित् गौरीं गामपि “अमुञ्चत त्यक्तवन्तो भूयास्त । "एवो एवमेव "अस्मत् अस्मत्तः "अंहः पापं "सु अत्यन्तं "वि “मुञ्चत विमुक्तं कुरुत । बहुवचनं पूजार्थम् । हे “अग्ने त्वया "प्रतरं प्रवृद्धं "नः अस्मदीयम् "आयुः “प्र “तारि प्रवृद्धं क्रियताम् ॥ ॥ १२ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१२&oldid=198433" इत्यस्माद् पुनः प्राप्तिः