ऋग्वेदः सूक्तं ४.२५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२४ ऋग्वेदः - मण्डल ४
सूक्तं ४.२५
वामदेवो गौतमः
सूक्तं ४.२६ →
दे. इन्द्रः। त्रिष्टुप्


को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष ।
को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥१॥
को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः ।
क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥२॥
को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे ।
कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥३॥
तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरन्तम् ।
य इन्द्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणाम् ॥४॥
न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् ।
प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥५॥
सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः ।
नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥६॥
न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते ।
आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥७॥
इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम् ।
इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥८॥


सायणभाष्यम्

‘ को अद्य' इत्यष्टर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं-- ‘ को अद्याष्टौ' इति । दशरात्रे चतुर्थेऽहनि माध्यंदिने सवने स्तोमवृद्धौ मैत्रावरुणशस्त्रे आरम्भणीयाया उपरिष्टादिदं सूक्तमावपनीयं च । सूत्रितं च- स्तोमे वर्धमाने को अद्य नर्यः' ( आश्व. श्रौ. ७, १२ ) इति ॥


को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निंद्र॑स्य स॒ख्यं जु॑जोष ।

को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥१

कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।

कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥१

कः । अद्य । नर्यः । देवऽकामः । उशन् । इन्द्रस्य । सख्यम् । जुजोष ।

कः । वा । महे । अवसे । पार्याय । सम्ऽइद्धे । अग्नौ । सुतऽसोमः । ईट्टे ॥१

“अद्य अस्मिन् दिवसे “नर्यः मनुष्यहितः “देवकामः देवानिच्छन् "उशन् कामयमानः “कः यजमानः “इन्द्रस्य “सख्यं सखित्वं “जुजोष सेवते । किंच “सुतसोमः अभिषुतसोमः "को “वा यजमानः “अग्नौ “समिद्धे प्रज्वलिते सति "महे महते प्रवृद्धाय “पार्याय पारमर्हते “अवसे तर्पणाय “ईट्टे इन्द्रं स्तौति ।।


को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।

क इंद्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥२

कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः ।

कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥२

कः । ननाम । वचसा । सोम्याय । मनायुः । वा । भवति । वस्ते । उस्राः ।

कः । इन्द्रस्य । युज्यम् । कः । सखिऽत्वम् । कः । भ्रात्रम् । वष्टि । कवये । कः । ऊती ॥२

“कः यजमानः “वचसा वाग्रूपया स्तुत्या “सोम्याय सोमायेन्द्राय “ननाम नमति प्रह्वीभवति । कः “वा इन्द्राय “मनायुः “भवति स्तुतिकामोऽस्ति । कः “उस्राः इन्द्रेण दत्ता गाः “वरते आच्छादयति । धारयतीत्यर्थः । "कः “इन्द्रस्य “युज्यं साहाय्यं “वष्टि इच्छति । "कः “सखित्वं “को “भ्रात्रं भ्रातृभावं वष्टि इच्छति । “कवये क्रान्तदर्शिने इन्द्राय “ऊती ऊतये तर्पणाय “कः । भवतीति शेषः ॥


को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।

कस्या॒श्विना॒विंद्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बंति॒ मन॒सावि॑वेनं ॥३

कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ ।

कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥३

कः । देवानाम् । अवः । अद्य । वृणीते । कः । आदित्यान् । अदितिम् । ज्योतिः । ईट्टे ।

कस्य । अश्विनौ । इन्द्रः । अग्निः । सुतस्य । अंशोः । पिबन्ति । मनसा । अविऽवेनम् ॥३

“अद्य अस्मिन् दिने “कः यजमानः "देवानां द्योतमानानामिन्द्रादीनाम् “अवः रक्षणं “वृणीते प्रार्थयते । “क “आदित्यान् देवान् “अदितिं देवमातरं च “ज्योतिः उदकं च “ईट्टे याचते । “अश्विनौ अश्विदेवौ “इन्द्रः च “अग्निः च "मनसा स्तुत्या प्रीताः सन्तः "अविवेनम् अविगतकामम् । यथाकाममित्यर्थः । “कस्य यजमानस्य संबन्धिनं "सुतस्य अभिषुतस्य “अंशोः सोमस्य । सोममित्यर्थः । “पिबन्ति पानं कुर्वन्ति ॥


तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चरं॑तं ।

य इंद्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णां ॥४

तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।

यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥४

तस्मै । अग्निः । भारतः । शर्म । यंसत् । ज्योक् । पश्यात् । सूर्यम् । उत्ऽचरन्तम् ।

यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृऽतमाय । नृणाम् ॥४

“भारतः हविषो भर्ताग्निः । ' प्राणो भूत्वा प्रजा धारयन् भारतः' इति वाजसनेयकम् । “अग्निः “तस्मै यजमानाय “शर्म सुखं “यंसत् यच्छेत् । किंचायमग्निः “ज्योक् चिरकालम् “उच्चरन्तम् उद्यन्तं “सूर्यं “पश्यात् पश्येत् । “यः यजमानः “इन्द्राय “सुनवामेत्याह इन्द्रार्थं सोमाभिषवं कुर्यामिति ब्रवीति । कीदृशायेन्द्राय । “नरे नेत्रे “नर्याय नरहिताय “नृणां नराणां नेतॄणां मध्ये "नृतमाय नेतृतमाय ॥


न तं जि॑नंति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् ।

प्रि॒यः सु॒कृत्प्रि॒य इंद्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥५

न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ।

प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥५

न । तम् । जिनन्ति । बहवः । न । दभ्राः । उरु । अस्मै । अदितिः । शर्म । यंसत् ।

प्रियः । सुऽकृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्रऽअवीः । प्रियः । अस्य । सोमी ॥५

“दभ्राः अल्पाः “बहवो “न बहवोऽपि शत्रुजनाः “तं यजमानं “न "जिनन्ति न हिंसन्तु । य इन्द्राय सुनवामेत्याह तमिति पूर्वेण संबन्धः । “अदितिः इन्द्रमाता “अस्मै यजमानाय “उरु विस्तीर्णं “शर्म सुखं “यंसत् यच्छतु । किंच “इन्द्रे इन्द्राय “सुकृत् शोभनयागादीनां कर्ता यजमानः “प्रियः भवति। “मनायुः इन्द्रविषयस्तुतिकामश्चास्येन्द्रस्य ”प्रियः भवति। “सुप्रावीः सुष्ठु प्राविता सुष्ठु प्रगच्छन्नुपगच्छन् वा यजमानोऽस्येन्द्रस्य “प्रियः भवति । “सोमी सोमवान् यजमानः "अस्य इन्द्रस्य “प्रियः भवति ॥ ॥ १३ ॥


सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेंद्रः॑ ।

नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवहं॒तेदवा॑चः ॥६

सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ ।

न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥६

सुप्रऽअव्यः । प्राशुषाट् । एषः । वीरः । सुस्वेः । पक्तिम् । कृणुते । केवला । इन्द्रः ।

न । असुस्वेः । आपिः । न । सखा । न । जामिः । दुःप्रऽअव्यः । अवऽहन्ता । इत् । अवाचः ॥६

“प्राशुषाट् शत्रूणां प्रकर्षेण शीघ्रमभिभविता "वीरः विक्रान्तः “एषः “इन्द्रः “सुप्राव्यः सुष्ठु उपगच्छतो हविर्भिः सुष्ठु प्रतर्पयितुर्वा “सुष्वेः सुन्वतो यजमानस्य संबन्धिनीं "केवला केवलामसाधारणां “पक्तिं “कृणुते आत्मनः कुरुते । किंचेन्द्रः “असुष्वेः असुन्वतोऽयजमानस्य “आपिः व्याप्तः "न भवति । इन्द्रोऽयजमानस्य “सखा “न भवति । "जामिः बन्धुश्च “न भवति । अपि च दुष्प्राव्यः दुरुपगमनस्य "अवाचः स्तुतिरहितस्य पुरुषस्य “अवहन्तेत् हिंसितैव भवति ॥


न रे॒वता॑ प॒णिना॑ स॒ख्यमिंद्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।

आस्य॒ वेदः॑ खि॒दति॒ हंति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥७

न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ ।

आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भू॒त् ॥७

न । रेवता । पणिना । सख्यम् । इन्द्रः । असुन्वता । सुतऽपाः । सम् । गृणीते ।

आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत् ॥७

“सुतपाः अभिषुतं सोमं पिबन् “इन्द्रः “रेवता धनवता “पणिना वणिजा लुब्धेन “असुन्वता सोमाभिषवमकुर्वता अयजमानेन सह “सख्यं सखित्वं “न “सं “गृणीते न संस्तौति । नानुमन्यत इत्यर्थः । किंच “अस्य अयजमानस्य “नग्नं निरर्थकं “वेदः धनं ज्ञानं वा “आ “खिदति उद्धरति । “हन्ति हिनस्ति च । अपि च "सुष्वये सोमं सुन्वते “पक्तये हवींषि पचते यजमानाय “केवलः असाधारणः सन् “वि “भूत् विभवति ॥


इंद्रं॒ परेऽव॑रे मध्य॒मास॒ इंद्रं॒ यांतोऽव॑सितास॒ इंद्रं॑ ।

इंद्रं॑ क्षि॒यंत॑ उ॒त युध्य॑माना॒ इंद्रं॒ नरो॑ वाज॒यंतो॑ हवंते ॥८

इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् ।

इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥८

इन्द्रम् । परे । अवरे । मध्यमासः । इन्द्रम् । यान्तः । अवऽसितासः । इन्द्रम् ।

इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते ॥८

“परे उत्कृष्टाः “अवरे निकृष्टाश्च जनाः' “इन्द्रं “हवन्ते आह्वयन्ति । “मध्यमासः मध्यमाश्च “इन्द्रम् एव हवन्ते । “यान्तः कार्यसिद्ध्यर्थं गच्छन्तो जनाः इन्द्रमेवाह्वयन्ति । “अवसितासः निविष्टाश्च “इन्द्रम् एवाह्वयन्ति । “क्षियन्तः गृहे निवसन्तो जनाः “इन्द्रम् एव हवन्ते । "उत अपि चं “युध्यमानाः युद्धं कुर्वाणा जना जयार्थमिन्द्रमेवाह्वयन्ति । "वाजयन्तः वाजमन्नमिच्छन्तः “नरः नेतारो मनुष्याः “इन्द्रम् एव “हवन्ते ॥ ॥ १४ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



[सम्पाद्यताम्]

४.२५.१

होता यक्षदिति प्रैषः को अद्येति तु विस्मयः । जामयेऽपह्नवो नैषा विततादिः प्रवल्हिका ।।बृहद्देवता १.५७ ।।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२५&oldid=184918" इत्यस्माद् पुनः प्राप्तिः