सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.४१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.४१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.४० ऋग्वेदः - मण्डल ४
सूक्तं ४.४१
वामदेवो गौतमः
सूक्तं ४.४२ →
दे. इन्द्रावरुणौ। त्रिष्टुप्


इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता ।
यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् ॥१॥
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् ।
स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे ॥२॥
इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता ।
यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥३॥
इन्द्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रम् ।
यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः ॥४॥
इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः ।
सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥५॥
तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये ।
इन्द्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायाम् ॥६॥
युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी ।
वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥७॥
ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू ।
श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः ॥८॥
इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः ।
उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः ॥९॥
अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम ।
ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम् ॥१०॥
आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ ।
यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः ॥११॥


सायणभाष्यम्

‘इन्द्रा को वाम्' इत्येकादशर्चं नवमं सूक्तं वामदेवस्या त्रैष्टुभमैन्द्रावरुणम् । अत्रानुक्रमणिका ‘ इन्द्रा को वामेकादशैन्द्रावरुणं तु ' इति । अभिप्लविकेधूक्थेषु तृतीयसवने मैत्रावरुणशस्त्रेषु स्तोमवृद्धावावापार्थमेतदादिसूक्तद्वयम् । इन्द्रा को वामिति सूक्ते' (आश्व. श्रौ. ७.९) इति सूत्रितत्वात् ॥


इन्द्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ ।

यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ॥१

इन्द्रा॑ । कः । वा॒म् । व॒रु॒णा॒ । सु॒म्नम् । आ॒प॒ । स्तोमः॑ । ह॒विष्मा॑न् । अ॒मृतः॑ । न । होता॑ ।

यः । वा॒म् । हृ॒दि । क्रतु॑ऽमान् । अ॒स्मत् । उ॒क्तः । प॒स्पर्श॑त् । इ॒न्द्रा॒व॒रु॒णा॒ । नम॑स्वान् ॥१

इन्द्रा । कः । वाम् । वरुणा । सुम्नम् । आप । स्तोमः । हविष्मान् । अमृतः । न । होता ।

यः । वाम् । हृदि । क्रतुऽमान् । अस्मत् । उक्तः । पस्पर्शत् । इन्द्रावरुणा । नमस्वान् ॥१

हे "इन्द्रा हे "वरुणा हे इन्द्रावरुणौ । परस्परापेक्षया द्विवचनम् । "वां युवयोः "सुम्नं सुखं "कः “स्तोमो "हविष्मान् हविर्भिरुपेतः सोमाज्यादिप्रदेयद्रव्योपेतं कतमत् स्तोत्रं सुम्नम्न "आप । फलकत्वेन प्राप्नुयादित्यर्थः । यद्वा । हविष्मानित्येतदुत्तरत्र योज्यम् । हविष्मान् हविर्युक्तः "अमृतः अमरणलक्षणः स्वर्गसाधनो “होता अग्निरिव । स यथा तथा "यः स्तोमो हे इन्द्रावरुणौ “वां युवयोः "हृदि हृदये “क्रतुमान् प्रज्ञोपेतः "अस्मत् अस्मत्सकाशात् "उक्तः उदितः "नमस्वान् हविष्मान् नमस्कारोपेतो वा "पस्पर्शत् स्पृशेत् हृदयंगमो भवेत् । स क इति स्तोमप्रशंसा ॥


इन्द्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्त॑ः स॒ख्याय॒ प्रय॑स्वान् ।

स ह॑न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भि॒ः स प्र शृ॑ण्वे ॥२

इन्द्रा॑ । ह॒ । यः । वरु॑णा । च॒क्रे । आ॒पी इति॑ । दे॒वौ । मर्तः॑ । स॒ख्याय॑ । प्रय॑स्वान् ।

सः । ह॒न्ति॒ । वृ॒त्रा । स॒म्ऽइ॒थेषु॑ । शत्रू॑न् । अवः॑ऽभिः । वा॒ । म॒हत्ऽभिः॑ । सः । प्र । शृ॒ण्वे॒ ॥२

इन्द्रा । ह । यः । वरुणा । चक्रे । आपी इति । देवौ । मर्तः । सख्याय । प्रयस्वान् ।

सः । हन्ति । वृत्रा । सम्ऽइथेषु । शत्रून् । अवःऽभिः । वा । महत्ऽभिः । सः । प्र । शृण्वे ॥२

“इन्द्रा “वरुणा इन्द्रावरुणौ "देवौ । हशब्दः पूरणः प्रसिद्धौ वा । "यः “मर्तः मरणधर्मा “प्रयस्वान् हविर्लक्षणान्नवान् सन् "सख्याय सखित्वाय "आपी बन्धू "चक्रे करोति। "सः मर्तः "वृत्रा आवरकाणि पापानि "हन्ति । तथा “समिथेषु संग्रामेषु "शत्रून् हन्ति । वाशब्दश्चार्थे। "महद्भिः “अवोभिः रक्षणैः "सः नरः “प्र “शृण्वे प्रकृष्टं श्रूयते विख्यातो भवति ।।


इन्द्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्य॑ः शशमा॒नेभ्य॒स्ता ।

यदी॒ सखा॑या स॒ख्याय॒ सोमै॑ः सु॒तेभि॑ः सुप्र॒यसा॑ मा॒दयै॑ते ॥३

इन्द्रा॑ । ह॒ । रत्न॑म् । वरु॑णा । धेष्ठा॑ । इ॒त्था । नृऽभ्यः॑ । श॒श॒मा॒नेभ्यः॑ । ता ।

यदि॑ । सखा॑या । स॒ख्याय॑ । सोमैः॑ । सु॒तेभिः॑ । सु॒ऽप्र॒यसा॑ । मा॒दयै॑ते॒ इति॑ ॥३

इन्द्रा । ह । रत्नम् । वरुणा । धेष्ठा । इत्था । नृऽभ्यः । शशमानेभ्यः । ता ।

यदि । सखाया । सख्याय । सोमैः । सुतेभिः । सुऽप्रयसा । मादयैते इति ॥३

हे इन्द्रावरुणौ “ता । "ह इति प्रसिद्धौ। तौ खलु देवौ “इत्था इत्थं "नृभ्यः मनुष्येभ्यः “शशमानेभ्यः शंसमानेभ्यः स्तोतृभ्योऽस्मभ्यं “रत्नं रमणीयं धनं “धेष्ठा दातृतमौ । भवत इति शेषः । “यदि “सखाया परस्परं यजमानस्य वा सखिभूतौ “सख्याय सखिकर्मणे सखित्वाय "सुतेभिः अभिषुतैः “सोमैः "सुप्रयसा शोभनसोमान्नवन्तौ “मादयैते माद्येताम् । तर्हि रत्नानां दातारौ भवतः ॥


इन्द्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र॑म् ।

यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑ः ॥४

इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । दि॒द्युम् । अ॒स्मि॒न् । ओजि॑ष्ठम् । उ॒ग्रा॒ । नि । व॒धि॒ष्ट॒म् । वज्र॑म् ।

यः । नः॒ । दुः॒ऽएवः॑ । वृ॒कतिः॑ । द॒भीतिः॑ । तस्मि॑न् । मि॒मा॒था॒म् । अ॒भिऽभू॑ति । ओजः॑ ॥४

इन्द्रा । युवम् । वरुणा । दिद्युम् । अस्मिन् । ओजिष्ठम् । उग्रा । नि । वधिष्टम् । वज्रम् ।

यः । नः । दुःऽएवः । वृकतिः । दभीतिः । तस्मिन् । मिमाथाम् । अभिऽभूति । ओजः ॥४

हे “इन्द्रा इन्द्रौ "वरुणा वरुणौ हे “उग्रा उग्रौ । अत्र सर्वत्र परस्परापेक्षया द्विवचनं ‘ प्र मित्रयोर्वरुणयोः ' (ऋ. सं. ७.६६.१) इतिवत्। यद्वा । छान्दसत्वात् व्यवहितस्यापि आनङ् । “अस्मिन् शत्रौ “दिद्युं दीप्तम् "ओजिष्ठम् अतिशयेन तेजोवत् "वज्रम् आयुधं “नि “वधिष्टम् । वधार्थं प्रेरयतमित्यर्थः ।“यः शत्रुः “नः अस्माकं “दुरेवः दुष्प्रापः “वृकतिः अतिशयेनादाता “दभीतिः हिंसक “तस्मिन् शत्रौ "अभिभूति अभिभावुकम् "ओजः बलं "युवं युवां “मिमाथां कुरुतमित्यर्थः ॥ इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेवं धेनोः ।


इन्द्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः ।

सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥५

इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । भू॒तम् । अ॒स्याः । धि॒यः । प्रे॒तारा॑ । वृ॒ष॒भाऽइ॑व । धे॒नोः ।

सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥५

इन्द्रा । युवम् । वरुणा । भूतम् । अस्याः । धियः । प्रेतारा । वृषभाऽइव । धेनोः ।

सा । नः । दुहीयत् । यवसाऽइव । गत्वी । सहस्रऽधारा । पयसा । मही । गौः ॥५

हे "इन्द्रा "वरुणा इन्द्रावरुणौ "युवं युवाम् “अस्या “धियः स्तुत्याः "प्रेतारा प्रीणयितारौ “भूतं भवतम् । "वृषभा सेक्तारौ वृषभौ “धेनोः “इव । “सा स्तुतिरूपा धेनुः “नः अस्माकं “दुहीयत् दुह्येत्। कामान् पूरयेत् । “यवसा तृणादिघासेन' निमित्तेन ”गत्वी गत्वा “पयसा "सहस्रधारा “मही महती “गौः “इव ॥ ॥ १५ ॥


तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।

इन्द्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायाम् ॥६

तो॒के । हि॒ते । तन॑ये । उ॒र्वरा॑सु । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।

इन्द्रा॑ । नः॒ । अत्र॑ । वरु॑णा । स्या॒ता॒म् । अवः॑ऽभिः । द॒स्मा । परि॑ऽतक्म्यायाम् ॥६

तोके । हिते । तनये । उर्वरासु । सूरः । दृशीके । वृषणः । च । पौंस्ये ।

इन्द्रा । नः । अत्र । वरुणा । स्याताम् । अवःऽभिः । दस्मा । परिऽतक्म्यायाम् ॥६

हे इन्द्रावरुणौ देवौ नः “हिते “तोके पुत्रे “तनये तत्पुत्रे च "उर्वरासु सस्याढ्यासु भूमिषु निमित्तभूतासु “सूरः प्रेरकस्य सूर्यस्य “दृशीके चिरकालदर्शनाय । चिरजीवनायेत्यर्थः । तथा “वृषणः सेक्तुर्मम “पौंस्ये “च पुंस्त्वाय च पुनरपि प्रजननसामर्थ्याय च "दस्मा शत्रूणां हिंसकौ सन्तौ “नः अस्माकम् “अवोभिः रक्षणैः सह “परितक्म्यायां परितकने निमित्तभूते सति । यद्वा रात्रिनामैतत् । रात्रौ हिंसकानां वधाय “स्यातां भवेताम् ॥


यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू॑ती ग॒विष॑ः स्वापी ।

वृ॒णी॒महे॑ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे॑व श॒म्भू ॥७

यु॒वाम् । इत् । हि । अव॑से । पू॒र्व्याय॑ । परि॑ । प्रभू॑ती॒ इति॒ प्रऽभू॑ती । गो॒ऽइषः॑ । स्वा॒पी॒ इति॑ सुऽआपी ।

वृ॒णी॒महे॑ । स॒ख्याय॑ । प्रि॒याय॑ । शूरा॑ । मंहि॑ष्ठा । पि॒तरा॑ऽइव । श॒म्भू इति॑ श॒म्ऽभू ॥७

युवाम् । इत् । हि । अवसे । पूर्व्याय । परि । प्रभूती इति प्रऽभूती । गोऽइषः । स्वापी इति सुऽआपी ।

वृणीमहे । सख्याय । प्रियाय । शूरा । मंहिष्ठा । पितराऽइव । शम्भू इति शम्ऽभू ॥७

हे इन्द्रावरुणौ “गविषः गा इच्छन्तो वयं "युवामित् । “हि इति पादपूरणः । युवामेव “पूर्व्याय पुरातनाय युवाभ्यां कृताय "अवसे रक्षणाय । वृणीमहे इति संबन्धः । "प्रभूती प्रभवन्तौ “स्वापी शोभनबन्धुभूतौ । आपिरिति बन्धुनाम । यद्वा । सुष्ठु व्यापनशीलौ “शूरा विक्रान्तौ "मंहिष्ठा अतिशयेन पूज्यौ युवां “सख्याय समानख्यानाय “प्रियाय च “परि “वृणीमहे परितः प्रार्थयामहे । “शंभू सुखस्य भावयितारौ “पितरेव पितरौ पुत्राय तद्वत् ॥


ता वां॒ धियोऽव॑से वाज॒यन्ती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू ।

श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥८

ताः । वा॒म् । धियः॑ । अव॑से । वा॒ज॒ऽयन्तीः॑ । आ॒जिम् । न । ज॒ग्मुः॒ । यु॒व॒ऽयूः । सु॒दा॒नू॒ इति॑ सुऽदानू ।

श्रि॒ये । न । गावः॑ । उप॑ । सोम॑म् । अ॒स्थुः॒ । इन्द्र॑म् । गिरः॑ । वरु॑णम् । मे॒ । म॒नी॒षाः ॥८

ताः । वाम् । धियः । अवसे । वाजऽयन्तीः । आजिम् । न । जग्मुः । युवऽयूः । सुदानू इति सुऽदानू ।

श्रिये । न । गावः । उप । सोमम् । अस्थुः । इन्द्रम् । गिरः । वरुणम् । मे । मनीषाः ॥८

“सुदानू शोभनफलदातारौ हे देवौ “वां युवां “वाजयन्तीः रत्नमिच्छन्त्यः “धियः स्तुतयः “जग्मुः गच्छन्ति । “युवयूः युवां कामयमानाः पदातयः “अवसे रक्षणाय “आजिं “न संग्राममिव । किंच “श्रिये दध्यादिश्रयणाय “गावः “सोमं “न सोममिव “इन्द्रं “वरुणं च “मे मदीयाः "मनीषाः मनस ईश्वराः “गिरः स्तुतयः “उप “अस्थुः तिष्ठन्ति प्रीणयन्तीत्यर्थः ॥


इ॒मा इन्द्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः ।

उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥९

इ॒माः । इन्द्र॑म् । वरु॑णम् । मे॒ । म॒नी॒षाः । अग्म॑न् । उप॑ । द्रवि॑णम् । इ॒च्छमा॑नाः ।

उप॑ । ई॒म् । अ॒स्थुः॒ । जो॒ष्टारः॑ऽइव । वस्वः॑ । र॒घ्वीःऽइ॑व । श्रव॑सः । भिक्ष॑माणाः ॥९

इमाः । इन्द्रम् । वरुणम् । मे । मनीषाः । अग्मन् । उप । द्रविणम् । इच्छमानाः ।

उप । ईम् । अस्थुः । जोष्टारःऽइव । वस्वः । रघ्वीःऽइव । श्रवसः । भिक्षमाणाः ॥९

“इन्द्रं “वरुणं च “मे मम “मनीषाः स्तुतयः" "द्रविणमिच्छमानाः सत्यः “उप “अग्मन् उपगच्छन्ति । “जोष्टारः सेवकाः “वस्वः धनस्य लाभाय धनिकं स्वामिनम् ”इव। "रघ्वीरिव लघ्व्य इव शीघ्रगामिन्य इव “श्रवसः अन्नस्य अन्नं "भिक्षमाणाः एनमिन्द्रं वरुणं च "उप “अस्थुः उपतिष्ठन्ते ॥


अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम ।

ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युत॑ः सचन्ताम् ॥१०

अश्व्य॑स्य । त्मना॑ । रथ्य॑स्य । पु॒ष्टेः । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ ।

ता । च॒क्रा॒णौ । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । अ॒स्म॒ऽत्रा । रायः॑ । नि॒ऽयुतः॑ । स॒च॒न्ता॒म् ॥१०

अश्व्यस्य । त्मना । रथ्यस्य । पुष्टेः । नित्यस्य । रायः । पतयः । स्याम ।

ता । चक्राणौ । ऊतिऽभिः । नव्यसीभिः । अस्मऽत्रा । रायः । निऽयुतः । सचन्ताम् ॥१०

“अश्व्यस्य अश्वसमूहस्य “रथ्यस्य रथरूपस्य रथार्हस्य वा “पुष्टेः पोषस्य “नित्यस्य अविचलितस्य “रायः धनस्य “त्मना आत्मना स्वयमेवाप्रयत्नेन "पतयः “स्याम । “ता तौ देवौ "चक्राणा चङ्क्रममाणौ गन्तारौ । भवतमिति शेषः। "नव्यसीभिः नूतनाभिः “ऊतिभिः रक्षाभिः “अस्मत्रा अस्मासु “नियुतः अश्वाः “रायः धनानि च "सचन्तां सेवन्ताम् ॥


आ नो॑ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ ।

यद्दि॒द्यव॒ः पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥११

आ । नः॒ । बृ॒ह॒न्ता॒ । बृ॒ह॒तीभिः॑ । ऊ॒ती । इन्द्र॑ । या॒तम् । व॒रु॒ण॒ । वाज॑ऽसातौ ।

यत् । दि॒द्यवः॑ । पृत॑नासु । प्र॒ऽक्रीळा॑न् । तस्य॑ । वा॒म् । स्या॒म॒ । स॒नि॒तारः॑ । आ॒जेः ॥११

आ । नः । बृहन्ता । बृहतीभिः । ऊती । इन्द्र । यातम् । वरुण । वाजऽसातौ ।

यत् । दिद्यवः । पृतनासु । प्रऽक्रीळान् । तस्य । वाम् । स्याम । सनितारः । आजेः ॥११

हे "बृहन्ता महान्तौ हे "इन्द्र हे “वरुण "बृहतीभिः महतीभिः “ऊती ऊतिभिः रक्षाभिः सह "आ “यातम् आगच्छतम् । “वाजसातौ संग्रामेऽन्नलाभनिमित्तभूते वा “यत् यस्मिन्नाजौ संग्रामे “पृतनासु सेनासु “दिद्यवः । आयुधनामैतत् । आयुधानि शत्रुसंबन्धीनि “प्रक्रीळान् प्रक्रीडन्ते । “तस्य तादृशस्य "आजेः युद्धस्य “सनितारः संभक्तारः “स्याम भवेम । "वां युवयोरनुग्रहात् ॥ ॥ १६ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४१&oldid=198672" इत्यस्माद् प्रतिप्राप्तम्