सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.२०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.१९ ऋग्वेदः - मण्डल ४
सूक्तं ४.२०
वामदेवो गौतमः
सूक्तं ४.२१ →
दे. इन्द्रः। त्रिष्टुप्


आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः ।
ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥१॥
आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च ।
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥२॥
इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः ।
श्वघ्नीव वज्रिन्सनये धनानां त्वया वयमर्य आजिं जयेम ॥३॥
उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।
पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥४॥
वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता ।
मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम् ॥५॥
गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः सनादेव सहसे जात उग्रः ।
आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥६॥
न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य ।
उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥७॥
ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनाम् ।
शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम् ॥८॥
कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः ।
पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥९॥
मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते ।
नव्ये देष्णे शस्ते अस्मिन्त उक्थे प्र ब्रवाम वयमिन्द्र स्तुवन्तः ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥


सायणभाष्यम्

' आ न इन्द्रः' इत्येकादशर्चं दशमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ नः' इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि निष्केवल्ये एतन्निविद्धानीयम् । सूत्रितं च -- आ न इन्द्र इति निष्केवल्यम् ' ( आश्व. श्रौ. ७. ५) इति । महाव्रतेऽप्येतत् संपातसूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च–' आ न इन्द्रो दूरादा न आसादिति संपातः ' (ऐ. आ. ५. २. २) इति ॥


आ न॒ इंद्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥१

आ । नः॒ । इन्द्रः॑ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒ऽकृत् । अव॑से । या॒स॒त् । उ॒ग्रः ।

ओजि॑ष्ठेभिः । नृ॒ऽपतिः॑ । वज्र॑ऽबाहुः । स॒म्ऽगे । स॒मत्ऽसु॑ । तु॒र्वणिः॑ । पृ॒त॒न्यून् ॥१

आ । नः । इन्द्रः । दूरात् । आ । नः । आसात् । अभिष्टिऽकृत् । अवसे । यासत् । उग्रः ।

ओजिष्ठेभिः । नृऽपतिः । वज्रऽबाहुः । सम्ऽगे । समत्ऽसु । तुर्वणिः । पृतन्यून् ॥१

“अभिष्टिकृत् यजमानसंबन्धिनामभीष्टानां कर्ता "उग्रः तेजस्वी "इन्द्रः “नः अस्माकम् “अवसे रक्षणाय “दूरात् "आ "यासत् आयातु आगच्छतु । अपि च "आसात् आसन्नादन्तिकाच्च “नः अस्माकमवसे रक्षणाय “आ यासत् आयातु । कीदृशः । “समत्सु संग्रामेषु “संगे शत्रुभिः संयोगे सति “पृतन्यून् शत्रून् "तुर्वणिः हिंसन् "वज्रबाहुः वज्रहस्तः "नृपतिः वृष्टिद्वारा नृणां मनुष्याणां पालकः “ओजिष्ठेभिः अतिशयेन तेजस्विभिः मरुद्भिर्युक्त इति शेषः ॥


आ न॒ इंद्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।

तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥२

आ । नः॒ । इन्द्रः॑ । हरि॑ऽभिः । या॒तु॒ । अच्छ॑ । अ॒र्वा॒ची॒नः । अव॑से । राध॑से । च॒ ।

तिष्ठा॑ति । व॒ज्री । म॒घऽवा॑ । वि॒ऽर॒प्शी । इ॒मम् । य॒ज्ञम् । अनु॑ । नः॒ । वाज॑ऽसातौ ॥२

आ । नः । इन्द्रः । हरिऽभिः । यातु । अच्छ । अर्वाचीनः । अवसे । राधसे । च ।

तिष्ठाति । वज्री । मघऽवा । विऽरप्शी । इमम् । यज्ञम् । अनु । नः । वाजऽसातौ ॥२

“अर्वाचीनः अस्मदभिमुखः “इन्द्रः “अवसे अस्मदीयाय रक्षणाय “राधसे “च धनाय च “नः “अच्छ अस्मान् अभि लक्षीकृत्य “हरिभिः अश्वैः सह “आ “यातु आगच्छतु । किंच "वज्री वज्रवान् “मघवा धनवान् “विरप्शी महान् । विरप्शीति महन्नामसु पाठात् । अस्मदीयस्य कर्मणो द्वेष्टृभिरसुरादिभिः सह “नः अस्माकं “वाजसातौ युद्धे प्राप्ते सति “इमम् अस्मदीयं “यज्ञम् “अनु उद्दिश्य “तिष्ठाति तिष्ठतु ॥


इ॒मं य॒ज्ञं त्वम॒स्माक॑मिंद्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।

श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥३

इ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ ।

श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥३

इमम् । यज्ञम् । त्वम् । अस्माकम् । इन्द्र । पुरः । दधत् । सनिष्यसि । क्रतुम् । नः ।

श्वघ्नीऽइव । वज्रिन् । सनये । धनानाम् । त्वया । वयम् । अर्यः । आजिम् । जयेम ॥३

हे “इन्द्र “त्वं “नः अस्मान् “पुरो “दधत् पुरस्कृतान् कुर्वन् “अस्माकं “क्रतुं क्रियमाणम् “इमं “यज्ञं “सनिष्यसि संभजिष्यसि । अपि च “श्वघ्नीव मृगयुर्मृगानिव हे “वज्रिन् वज्रवन्निन्द्र “त्वया “अर्यः अरयः स्तोतारः “वयं “धनानां पश्वादिधनानां “सनये लाभाय “आजिं शत्रुसंबन्धिनं संग्रामं “जयेम संजीयास्म ॥


अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणस्य ‘उशन्नु षु णः' इति शस्त्रयाज्या । सूत्रितं च - उशन्नु षु णः सुमना उपाक इति याज्या' ( आश्व. श्रौ. ५. १६ ) इति ॥ उशन्नु षु णः सुमन उपके सोमस्य नु सुषुतस्य स्वधावः ।

उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः ।

पा इं॑द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समंध॑सा ममदः पृ॒ष्ठ्ये॑न ॥४

उ॒शन् । ऊं॒ इति॑ । सु । नः॒ । सु॒ऽमनाः॑ । उ॒पा॒के । सोम॑स्य । नु । सुऽसु॑तस्य । स्व॒धा॒ऽवः॒ ।

पाः । इ॒न्द्र॒ । प्रति॑ऽभृतस्य । मध्वः॑ । सम् । अन्ध॑सा । म॒म॒दः॒ । पृ॒ष्ठ्ये॑न ॥४

उशन् । ऊं इति । सु । नः । सुऽमनाः । उपाके । सोमस्य । नु । सुऽसुतस्य । स्वधाऽवः ।

पाः । इन्द्र । प्रतिऽभृतस्य । मध्वः । सम् । अन्धसा । ममदः । पृष्ठ्येन ॥४

हे “स्वधावः अन्नवन् “इन्द्र “सुमनाः शोभनमनस्कस्त्वम् “उपाके समीपे "नः अस्मान् "उशन्नु “सु अत्यन्तं कामयमानः सन् "सुषुतस्य सुष्ठ्वभिषुतं “प्रतिभृतस्य संभृतं “मध्वः मादकं “सोमस्य सोमं नु क्षिप्रमेव “पाः पिब । “पृष्ठ्येन । पृष्ठशब्देन माध्यंदिनसवने उद्गातृभिरुद्गीयमानं स्तोत्रमुच्यते । तत्संबन्धिना "अन्धसा पीतेन सोमेन “सं “ममदः प्रहृष्टो भव ॥


वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।

मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिंद्रं॑ ॥५

वि । यः । र॒रप्शे । ऋषि॑ऽभिः । नवे॑भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः॑ । न । जेता॑ ।

मर्यः॑ । न । योषा॑म् । अ॒भि । मन्य॑मानः । अच्छ॑ । वि॒व॒क्मि॒ । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् ॥५

वि । यः । ररप्शे । ऋषिऽभिः । नवेभिः । वृक्षः । न । पक्वः । सृण्यः । न । जेता ।

मर्यः । न । योषाम् । अभि । मन्यमानः । अच्छ । विवक्मि । पुरुऽहूतम् । इन्द्रम् ॥५

“पक्वः पक्वफलः “वृक्षो “न वृक्ष इव । अत्र सृणिशब्दोऽङ्कुशवाची । तेनायुधमात्रं लक्ष्यते । “सृण्यः आयुधकुशलः “जेता “न शत्रूविजयी वीरपुरुष इव “यः “नवेभिः नवैर्नूतनैः “ऋषिभिः “वि “ररप्शे विविधं स्तूयते । स्तोताहं “पुरुहूतं बहुभिराहूतं तम् “इन्द्रम् “अच्छ अभि लक्षीकृत्य “विवक्मि विशेषेण वच्मि स्तौमि । तत्र दृष्टान्तः । “अभि “मन्यमानः मदीयेयं योषिदित्यभिजानन् “मर्यः मर्त्यः “योषां “न स्त्रीमिव तद्वत् ॥ ॥ ३ ॥


गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इंद्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।

आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टं ॥६

गि॒रिः । न । यः । स्वऽत॑वान् । ऋ॒ष्वः । इन्द्रः॑ । स॒नात् । ए॒व । सह॑से । जा॒तः । उ॒ग्रः ।

आऽद॑र्ता । वज्र॑म् । स्थवि॑रम् । न । भी॒मः । उ॒द्नाऽइ॑व । कोश॑म् । वसु॑ना । निऽऋ॑ष्टम् ॥६

गिरिः । न । यः । स्वऽतवान् । ऋष्वः । इन्द्रः । सनात् । एव । सहसे । जातः । उग्रः ।

आऽदर्ता । वज्रम् । स्थविरम् । न । भीमः । उद्नाऽइव । कोशम् । वसुना । निऽऋष्टम् ॥६

"गिरिर्न पर्वत इव “स्वतवान् स्वयं प्रवृद्धः “ऋष्वः महान् । ऋष्व इति महन्नाम ‘ महत् ब्रध्नः ऋष्वः ' ( नि. ३. ३. ३) इति तन्नामसु पाठात् । “उग्रः ओजस्वी “यः “इन्द्रः “सहसे शत्रोरभिभवाय “सनादेव चिरादेव “जातः उत्पन्नः “भीमः शत्रूणां भयंकरः स इन्द्रः “उद्नेव “कोशम् उदकेन जलपात्रमिव “वसुना तेजसा “न्यृष्टं निगतं “स्थविरं बृहत् “वज्रं “न वज्रं च । नेति चार्थे । "आदर्ता आदृतवान् आसीत् ॥


न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ ।

उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥७

न । यस्य॑ । व॒र्ता । ज॒नुषा॑ । नु । अस्ति॑ । न । राध॑सः । आ॒ऽम॒री॒ता । म॒घस्य॑ ।

उ॒त्ऽव॒वृ॒षा॒णः । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । अ॒स्मभ्य॑म् । द॒द्धि॒ । पु॒रु॒ऽहू॒त॒ । रा॒यः ॥७

न । यस्य । वर्ता । जनुषा । नु । अस्ति । न । राधसः । आऽमरीता । मघस्य ।

उत्ऽववृषाणः । तविषीऽवः । उग्र । अस्मभ्यम् । दद्धि । पुरुऽहूत । रायः ॥७

हे इन्द्र “यस्य तव कश्चित् "जनुषा जन्मना स्वत एव “नु नूनं सत्यं “वर्ता वारयिता “न “अस्ति। “राधसः यज्ञादिकर्मणां साधकस्य “मघस्य त्वया दीयमानस्य धनस्य “आमरीता कश्चिदपि नाशयिता “न अस्ति । हे "तविषीवः बलवन् “उग्र तेजस्विन हे “पुरुहूत बहुभिराहूतेन्द्र “उद्ववृषाणः अभीष्टान् कामान् वर्षकस्त्वं “रायः पश्वादिधनानि “अस्मभ्यं स्तोतृभ्यः “दद्धि देहि ॥


ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोनां॑ ।

शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरिं॑ ॥८

ईक्षे॑ । रा॒यः । क्षय॑स्य । च॒र्ष॒णी॒नाम् । उ॒त । व्र॒जम् । अ॒प॒ऽव॒र्ता । अ॒सि॒ । गोना॑म् ।

शि॒क्षा॒ऽन॒रः । स॒म्ऽइ॒थेषु॑ । प्र॒हाऽवा॑न् । वस्वः॑ । रा॒शिम् । अ॒भि॒ऽने॒ता । अ॒सि॒ । भूरि॑म् ॥८

ईक्षे । रायः । क्षयस्य । चर्षणीनाम् । उत । व्रजम् । अपऽवर्ता । असि । गोनाम् ।

शिक्षाऽनरः । सम्ऽइथेषु । प्रहाऽवान् । वस्वः । राशिम् । अभिऽनेता । असि । भूरिम् ॥८

हे इन्द्र त्वं “चर्षणीनां प्रजानां "रायः धनस्य “क्षयस्य गृहस्य च "ईक्षे ईक्षसे । "उत अपि च “गोनां गवां “व्रजं समूहम् "अपवर्ता अपवारकः “असि । निरोधकेभ्योऽसुरेभ्यो गवां मोचयिता भवसीत्यर्थः । किंच हे इन्द्र “शिक्षानरः शिक्षया नेता प्रज्ञानां शासकः “समिथेषु युद्धेषु “प्रहावान् प्रहरणवांस्त्वं “भूरिं प्रभूतं “वस्वः धनस्य “राशिं समूहम् अभिनेतासि प्रापयिता च भवसि ॥


कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।

पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥९

कया॑ । तत् । शृ॒ण्वे॒ । शच्या॑ । शचि॑ष्ठः । यया॑ । कृ॒णोति॑ । मुहु॑ । का । चि॒त् । ऋ॒ष्वः ।

पु॒रु । दा॒शुषे॑ । विऽच॑यिष्ठः । अंहः॑ । अथ॑ । द॒धा॒ति॒ । द्रवि॑णम् । ज॒रि॒त्रे ॥९

कया । तत् । शृण्वे । शच्या । शचिष्ठः । यया । कृणोति । मुहु । का । चित् । ऋष्वः ।

पुरु । दाशुषे । विऽचयिष्ठः । अंहः । अथ । दधाति । द्रविणम् । जरित्रे ॥९

“शचिष्ठः अतिशयेन प्राज्ञः । तदिति लिङ्गब्यत्ययः । “तत् स इन्द्रः "कया “शच्या कया प्रज्ञया । शचीति प्रज्ञानामैतत् । “शृण्वे श्रूयते । "ऋष्वः महानिन्द्रः “मुहु मुहुः “यया प्रज्ञया “का “चित् कानिचित् कर्माणि “कृणोति करोति । स इन्द्रः “दाशुषे हविर्दत्तवते यजमानाय “पुरु भूयिष्ठम् “अंहः पापं “विचयिष्ठः अतिशयेन नाशको भवति । “अथ अपि च “जरित्रे स्तोत्रे ““द्रविणं पश्वादिधनं “दधाति ददाति ॥


मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ ।

नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिंत॑ उ॒क्थे प्र ब्र॑वाम व॒यमिं॑द्र स्तु॒वंतः॑ ॥१०

मा । नः॒ । म॒र्धीः॒ । आ । भ॒र॒ । द॒द्धि । तत् । नः॒ । प्र । दा॒शुषे॑ । दात॑वे । भूरि॑ । यत् । ते॒ ।

नव्ये॑ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः॑ ॥१०

मा । नः । मर्धीः । आ । भर । दद्धि । तत् । नः । प्र । दाशुषे । दातवे । भूरि । यत् । ते ।

नव्ये । देष्णे । शस्ते । अस्मिन् । ते । उक्थे । प्र । ब्रवाम । वयम् । इन्द्र । स्तुवन्तः ॥१०

हे इन्द्र त्वं "नः अस्मान् “मा 'मर्धीः मा हिंसीः । किंतु त्वम् "आ “भर पोषको भव। हे इन्द्र "ते त्वदीयं “भूरि बह्वपि “यत् धनं “दाशुषे हविर्दत्तवते यजमानाय “दातवे दातुम् । “प्र भवतीति शेषः । “नः अस्मभ्यं “तत् धनम् आहृत्य “दद्धि देहि । हे "इन्द्र त्वां स्तुवन्तः “वयम् “अस्मिन् “उक्थे अस्मिन्निष्केवल्याख्यशस्त्रे “ते त्वदर्थं "नव्ये नूतने “शस्ते प्रशस्ते “देष्णे दातव्ये हविषि निमित्तभूते सति “प्र “ब्रवाम प्रकर्षेण त्वां वदाम ॥


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११

पूर्वं व्याख्याता ॥ ॥ ४ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२०&oldid=300025" इत्यस्माद् प्रतिप्राप्तम्