ऋग्वेदः सूक्तं ४.२४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२३ ऋग्वेदः - मण्डल ४
सूक्तं ४.२४
वामदेवो गौतमः
सूक्तं ४.२५ →
दे. इन्द्रः। त्रिष्टुप्, १० अनुष्टुप्


का सुष्टुतिः शवसः सूनुमिन्द्रमर्वाचीनं राधस आ ववर्तत् ।
ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥१॥
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः ।
स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥२॥
तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम् ।
मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥३॥
क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।
सं यद्विशोऽववृत्रन्त युध्मा आदिन्नेम इन्द्रयन्ते अभीके ॥४॥
आदिद्ध नेम इन्द्रियं यजन्त आदित्पक्तिः पुरोळाशं रिरिच्यात् ।
आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै ॥५॥
कृणोत्यस्मै वरिवो य इत्थेन्द्राय सोममुशते सुनोति ।
सध्रीचीनेन मनसाविवेनन्तमित्सखायं कृणुते समत्सु ॥६॥
य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः ।
प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः ॥७॥
यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः ।
अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥८॥
भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् ।
स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम् ॥९॥
क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः ।
यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥


सायणभाष्यम्

‘ का सुष्टुतिः' इत्येकादशर्चं तृतीयं सूक्तं वामदेवस्यार्षमैन्द्रम् । दशम्यनुष्टुप् शिष्टास्त्रिष्टुभः। तथा चानुक्रमणिका- का सुष्टुतिरुपान्त्यानुष्टुप् ' इति । विनियोगो लैङ्गिकः ॥


का सु॑ष्टु॒तिः शव॑सः सू॒नुमिंद्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् ।

द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥१

का । सु॒ऽस्तु॒तिः । शव॑सः । सू॒नुम् । इन्द्र॑म् । अ॒र्वा॒ची॒नम् । राध॑से । आ । व॒व॒र्त॒त् ।

द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू॑नि । सः । गोऽप॑तिः । निः॒ऽसिधा॑म् । नः॒ । ज॒ना॒सः॒ ॥१

का । सुऽस्तुतिः । शवसः । सूनुम् । इन्द्रम् । अर्वाचीनम् । राधसे । आ । ववर्तत् ।

ददिः । हि । वीरः । गृणते । वसूनि । सः । गोऽपतिः । निःऽसिधाम् । नः । जनासः ॥१

"का कीदृशी "सुष्टुतिः “शवसः “सूनुं बलस्य पुत्रम् । अतिबलिनमित्यर्थः । “अर्वाचीनम् अस्मदभिमुखम् "इन्द्रं परमैश्वर्ययुक्तं “राधसे धनाय अस्मभ्यं धनं दातुम् “आ "ववर्तत् आवर्तयेत् । हे “जनासः जना यजमानाः “वीरः विक्रान्तः “गोपतिः पश्वादिधनस्य पालकः “सः इन्द्रः “निष्षिधां निष्षेद्धॄणां शत्रूणां संबन्धीनि “वसूनि धनानि गृणते गृणद्भ्यः स्तोतृभ्यः “नः अस्मभ्यं "ददिर्हि दाता खलु भवति ।


स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इंद्रः॑ स॒त्यरा॑धाः ।

स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥२

सः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः ।

सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुस्व॑ये । वरि॑वः । धा॒त् ॥२

सः । वृत्रऽहत्ये । हव्यः । सः । ईड्यः । सः । सुऽस्तुतः । इन्द्रः । सत्यऽराधाः ।

सः । यामन् । आ । मघऽवा । मर्त्याय । ब्रह्मण्यते । सुस्वये । वरिवः । धात् ॥२

“सः इन्द्रः "वृत्रहत्ये वृत्राणां शत्रूणां हत्ये हनने निमित्तभूते सति "यामन् युद्धे “हव्यः आह्वातव्यो भवति । “सः इन्द्रः “ईड्यः स्तुत्यो भवति । “सः “इन्द्रः सुष्टुतः सन् 'सत्यराधाः यजमानेभ्यो दातुं सत्यधनो भवति । “मघवा धनवान् “सः इन्द्रः “ब्रह्मण्यते स्तोत्रमिच्छते “सुष्वये सोम सुन्वते मर्त्याय मनुष्याय यजमानाय “वरिवः धनम् । वरिव इति धननामैतत् । “आ “धात् आ समन्तात् ददाति ।।


तमिन्नरो॒ वि ह्व॑यंते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्रां ।

मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥३

तम् । इत् । नरः॑ । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । त्राम् ।

मि॒थः । यत् । त्या॒गम् । उ॒भया॑सः । अग्म॑न् । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ ॥३

तम् । इत् । नरः । वि । ह्वयन्ते । सम्ऽईके । रिरिक्वांसः । तन्वः । कृण्वत । त्राम् ।

मिथः । यत् । त्यागम् । उभयासः । अग्मन् । नरः । तोकस्य । तनयस्य । सातौ ॥३

“नरः नेतारो मनुष्याः “समीके युद्धे “तमित् तमेवेन्द्रं “वि “ह्वयन्ते विविधमाह्वानं कुर्वते । “तन्वः स्वकीयानि शरीराणि “रिरिक्वांसः तपसा रेचयन्तो यजमानास्तमेवेन्द्रं “त्रां त्रातारं “कृण्वत कृण्वते कुर्वते । “यत् यदा “मिथः परस्परं संगताः “उभयासः उभये यजमानाः स्तोतारश्च “त्यागं त्यागकर्तारं दातारमिन्द्रम् “अग्मन् उपगच्छन्ति तदा “नरः उभयविधा मनुष्याः “तोकस्य पुत्रस्य “तनयस्य पौत्रस्य च “सातौ लाभे निमित्तभूते सति तमेवेन्द्रं त्रातारं कुर्वन्तीति संबन्धः ॥


क्र॒तू॒यंति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ ।

सं यद्विशोऽव॑वृत्रंत यु॒ध्मा आदिन्नेम॑ इंद्रयंते अ॒भीके॑ ॥४

क्र॒तु॒ऽयन्ति॑ । क्षि॒तयः॑ । योगे॑ । उ॒ग्र॒ । आ॒शु॒षा॒णासः॑ । मि॒थः । अर्ण॑ऽसातौ ।

सम् । यत् । विशः॑ । अव॑वृत्रन्त । यु॒ध्माः । आत् । इत् । नेमे॑ । इ॒न्द्र॒य॒न्ते॒ । अ॒भीके॑ ॥४

क्रतुऽयन्ति । क्षितयः । योगे । उग्र । आशुषाणासः । मिथः । अर्णऽसातौ ।

सम् । यत् । विशः । अववृत्रन्त । युध्माः । आत् । इत् । नेमे । इन्द्रयन्ते । अभीके ॥४

हे “उग्र उद्गूर्णबलेन्द्र "आशुषाणासः व्याप्नुवन्तः “क्षितयः मनुष्याः । क्षितय इति मनुष्यनामैतत् । “अर्णसातौ सस्यादिफलसिद्ध्यर्थमुदकलाभे निमित्ते सति “मिथः परस्परं “योगे संबन्धे सति “क्रतूयन्ति क्रतूनि कर्माणीच्छन्ति । “यत् यदा “युध्माः योधयित्र्यः “विशः प्रजाः "अभीके युद्धे । अभीक इति संग्रामनामैतत् । “सम् “अववृत्रन्त संवर्तन्ते परस्परं संगच्छन्ते “आदित् तदानीमेव “नेमे केचन भाग्यवन्तो योधकाः “इन्द्रयन्ते युद्धे इन्द्रमिच्छन्ति ।


आदिद्ध॒ नेम॑ इंद्रि॒यं य॑जंत॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात् ।

आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥५

आत् । इत् । ह॒ । नेमे॑ । इ॒न्द्रि॒यम् । य॒ज॒न्ते॒ । आत् । इत् । प॒क्तिः । पु॒रो॒ळाश॑म् । रि॒रि॒च्या॒त् ।

आत् । इत् । सोमः॑ । वि । प॒पृ॒च्या॒त् । असु॑स्वीन् । आत् । इत् । जु॒जो॒ष॒ । वृ॒ष॒भम् । यज॑ध्यै ॥५

आत् । इत् । ह । नेमे । इन्द्रियम् । यजन्ते । आत् । इत् । पक्तिः । पुरोळाशम् । रिरिच्यात् ।

आत् । इत् । सोमः । वि । पपृच्यात् । असुस्वीन् । आत् । इत् । जुजोष । वृषभम् । यजध्यै ॥५

“आदित् तदानीमेव युद्धकाले “नेमे अन्ये योधाः "इन्द्रियं बलवन्तमिन्द्रं “यजन्ते "ह पूजयन्ति खलु । कश्चित् "आदित् अनन्तरमेव “पुरोळाशं पिष्टरूपं हविः पक्तिः पचन् “रिरिच्यात् इन्द्राय दद्यात् । “आदित् अनन्तरमेव “सोमः अभिषुतसोमो यजमानः “असुष्वीन् अनभिषुतसोमान् यजमानान् “वि “पपृच्यात् धनैः पृथक्कुर्यात् । “आदित् अनन्तरमेव कश्चित् “वृषभं कामानां वर्षितारमिन्द्रं “यजध्यै यष्टुं “जुजोष सेवते ।। ।। ११ ॥


कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेंद्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑ ।

स॒ध्री॒चीने॑न॒ मन॒सावि॑वेनं॒तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥६

कृ॒णोति॑ । अ॒स्मै॒ । वरि॑वः । यः । इ॒त्था । इन्द्रा॑य । सोम॑म् । उ॒श॒ते । सु॒नोति॑ ।

स॒ध्री॒चीने॑न । मन॑सा । अवि॑ऽवेनन् । तम् । इत् । सखा॑यम् । कृ॒णु॒ते॒ । स॒मत्ऽसु॑ ॥६

कृणोति । अस्मै । वरिवः । यः । इत्था । इन्द्राय । सोमम् । उशते । सुनोति ।

सध्रीचीनेन । मनसा । अविऽवेनन् । तम् । इत् । सखायम् । कृणुते । समत्ऽसु ॥६

“यः यजमानः “सोमम् "उशते कामयमानाय “इत्था अमुत्र स्वर्गलोके स्थिताय “इन्द्राय सुनोति अभिषवं करोति इन्द्रोऽपि "अस्मै यजमानाय “वरिवः धनं “कृणोति करोति । “सध्रीचीनेन संगतेन “मनसा प्रवणेन चित्तेन “अविवेनम् । वेनतिः कान्तिकर्मा । विवेनो विगतेच्छः । तदन्योऽविवेनः । आत्मानं कामयमानं “तमित् तमेव सुन्वन्तं यजमानं “सखायं मित्रं “समत्सु संग्रामेष्विन्द्रः “कृणुते करोति ।।


य इंद्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः ।

प्रति॑ मना॒योरु॒चथा॑नि॒ हर्यं॒तस्मिं॑दध॒द्वृष॑णं॒ शुष्म॒मिंद्रः॑ ॥७

यः । इन्द्रा॑य । सु॒नव॑त् । सोम॑म् । अ॒द्य । पचा॑त् । प॒क्तीः । उ॒त । भृ॒ज्जाति॑ । धा॒नाः ।

प्रति॑ । म॒ना॒योः । उ॒चथा॑नि । हर्य॑न् । तस्मि॑न् । द॒ध॒त् । वृष॑णम् । शुष्म॑म् । इन्द्रः॑ ॥७

यः । इन्द्राय । सुनवत् । सोमम् । अद्य । पचात् । पक्तीः । उत । भृज्जाति । धानाः ।

प्रति । मनायोः । उचथानि । हर्यन् । तस्मिन् । दधत् । वृषणम् । शुष्मम् । इन्द्रः ॥७

“अद्य अस्मिन् दिवसे “यः यजमानः “इन्द्राय परमैश्वर्ययुक्ताय देवाय “सोमं सोम लक्षणमन्नं “सुनवत् सुनुयात् अभिषवं कुर्यात् । तथा यः “पक्तीः पक्तव्यांश्च पुरोडाशादीन् “पचात् पचेत् पचनं कुर्यात् । "उत अपि च यः “धानाः भर्जनयोग्यान यवान् । अत्र भृष्ट्यववाची धानाशब्दस्तद्योग्यं यवमात्रं लक्षयति । “भृजाति भृज्जेत् भर्जनं कुर्यात् । “इन्द्रः “मनायोः स्तुतिमिच्छतो यजमानस्य “उचथानि स्तोत्राणि "प्रति “हर्यन प्रतिकामयमानः सन् “तस्मिन यजमाने “वृषणं कामानां वर्षणसमर्थं “शुष्मं बलं “दधत् धारयति ।।


य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः ।

अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥८

य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः ।

अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥८

यदा । सऽमर्यम् । वि । अचेत् । ऋघावा । दीर्घम् । यत् । आजिम् । अभि । अख्यत् । अर्यः ।

अचिक्रदत् । वृषणम् । पत्नी । अच्छ । दुरोणे । आ । निऽशितम् । सोमसुत्ऽभिः ॥८

"यदा “ऋघावा शत्रूणां हिंसक इन्द्रः "समर्यं सह मर्तव्यं शत्रुं “व्यचेत् व्यज्ञासीत् विशेषेण जानीयात् । यत् यदा "अर्यः स्वामीन्द्रः “दीर्घम् अत्यधिकम् “आजिं संग्रामम् “अभ्यख्यत् अभिपश्येत् तदा तस्य इन्द्रस्य “पत्नी “दुरोणे यज्ञगृहे 'सोमसुद्भिः सोमं सुन्वद्भिर्ऋत्विग्भिः निशितं तीक्ष्णीकृतम् । सोमपानेनोत्साहवन्तमित्यर्थः । “वृषणं कामानां वर्षितारमिन्द्रम् "अच्छ अभि आ “अचिक्रदत् आक्रन्दति आहृवयते ॥


भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् ।

स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हंति॒ प्र वा॒णं ॥९

भूय॑सा । व॒स्नम् । अ॒च॒र॒त् । कनी॑यः । अवि॑ऽक्रीतः । अ॒का॒नि॒ष॒म् । पुनः॑ । यन् ।

सः । भूय॑सा । कनी॑यः । न । अ॒रि॒रे॒ची॒त् । दी॒नाः । दक्षाः॑ । वि । दु॒ह॒न्ति॒ । प्र । वा॒णम् ॥९

भूयसा । वस्नम् । अचरत् । कनीयः । अविऽक्रीतः । अकानिषम् । पुनः । यन् ।

सः । भूयसा । कनीयः । न । अरिरेचीत् । दीनाः । दक्षाः । वि । दुहन्ति । प्र । वाणम् ॥९

अत्र ऋग्द्वये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाः पठ्यन्ते । ते एव लिख्यन्ते । ‘अल्पं यः परिगृह्णाति मूल्यं पण्येन भूयसा । स क्रेतारं पुनर्गच्छन्न विक्रीतस्त्वयं मया ॥ ६ ॥ इति ब्रुवन्कामयते पुनर्मूल्यस्य पूरणम् । स विक्रेता पुनर्मूल्यं भूयसा न प्रपूरयेत् ॥२॥ हीनं न लभते वस्नं यदा विक्रीतवान्पुरा । यथासमयमेव स्यात्तयोर्न पुनरन्यथा ॥ ३ ॥ अयं विक्रय एवेति समयश्चेत् कृतो भवेत् । अथ मूल्यार्थमेतत्स्याद्विचार्यैव तु निर्णयः ॥४॥ इत्येवं समयोऽकारि तदा मूल्यं प्रपूर्यते। तस्मादादौ मया कार्यः समयोऽत्रेति चिन्तयन् ॥५॥ वामदेवो वशीकृत्य शक्रं स्तोत्रेण भूयसा । विक्रीणन् समयं चक्र इन्द्रं क इममित्यृचि ॥ ६ ॥ अतश्च द्वृच एकार्थो भूयसा वस्नमित्ययम्' इति । अयमर्थः प्रतिपाद्यते । कश्चित् “भूयसा भूम्ना पण्येन द्रव्येण “कनीयः अल्पतरं “वस्नं वसु मूल्यं धनम् “अचरत् प्राप्नोति । “पुनर्यन् क्रेतारं पुनर्गच्छन् स विक्रेतायमर्थो मया “अविक्रीतः इति ब्रुवन् “अकानिषं मूल्यपूर्तिं कामयते ॥ व्यत्ययेन उत्तमपुरुषः ॥ “सः विक्रेता "भूयसा धनेन “कनीयः अल्पतरं मूल्यं नारिरेचीत् क्रेतुः सकाशान्न रिक्तीकरोति । न लभत इत्यर्थः । “दीनाः असमर्थाः “दक्षाः समर्थाश्च “वाणं वचनं “वि “प्र “दुहन्ति यथोक्तं क्रयकाले तथैव लभन्ते ॥


क इ॒मं द॒शभि॒र्ममेंद्रं॑ क्रीणाति धे॒नुभिः॑ ।

य॒दा वृ॒त्राणि॒ जंघ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥१०

कः । इ॒मम् । द॒शऽभिः॑ । मम॑ । इन्द्र॑म् । क्री॒णा॒ति॒ । धे॒नुऽभिः॑ ।

य॒दा । वृ॒त्राणि॑ । जङ्घ॑नत् । अथ॑ । ए॒न॒म् । मे॒ । पुनः॑ । द॒द॒त् ॥१०

कः । इमम् । दशऽभिः । मम । इन्द्रम् । क्रीणाति । धेनुऽभिः ।

यदा । वृत्राणि । जङ्घनत् । अथ । एनम् । मे । पुनः । ददत् ॥१०

“मम मदीयम् “इमं स्वभूतम् “इन्द्रं “धेनुभिः प्रीणयित्रीभिः "दशभिः दशसंख्याकाभिः स्तुतिभिः “कः “क्रीणाति क्रयं करोति । तदानीं हे क्रेतारो युष्माकं मध्ये एवमपि समयः क्रियते । “यदा अयमिन्द्रः “वृत्राणि त्वदीयान् शत्रून् “जङ्घनत् हन्यात् “अथ अनन्तरमेव “एनम् इन्द्रं “मे मह्यं पुनर्ददत् पुनर्दद्यात् ।।


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११

पूर्वं व्याख्याता ॥ ॥ १२ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२४&oldid=184862" इत्यस्माद् पुनः प्राप्तिः