ऋग्वेदः सूक्तं ४.१६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.१५ ऋग्वेदः - मण्डल ४
सूक्तं ४.१६
वामदेवो गौतमः
सूक्तं ४.१७ →
दे. इन्द्रः। त्रिष्टुप्


आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः ।
तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥
अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै ।
शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् ।
दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।
अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥
ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा ।
अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥
विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः ।
अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः ।
प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥७॥
अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।
स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥८॥
अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् ।
ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥९॥
आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः ।
स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी ॥१०॥
यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः ।
ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥११॥
कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा ।
सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥१२॥
त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः ।
पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥१३॥
सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः ।
मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥१४॥
इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः ।
श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः ॥१५॥
तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि ।
यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः ॥१६॥
तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् ।
घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥१७॥
भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ ।
त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥१८॥
एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ ।
द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥१९॥
एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् ।
नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥२०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥


सायणभाष्यम्

‘ आ सत्यो यातु ' इत्येकविंशत्यृचं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । अत्रेयमनुक्रमणिका -- ’आ सत्यः सैकैन्द्रम्' इति । तत्र ‘ऐन्द्रम्' इत्युक्तत्वादग्न्यधिकारो निवृत्त इत्यवगम्यते । चतुर्विंशेऽहनि माध्यंदिनसवने मैत्रवरुणशस्त्रे इदं द्वितीयमहीनसूक्तम् । तथा च सूत्रितम्- आ सत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुणः ' ( आश्व. श्रौ. ७. ४) इति । समूळ्हे दशरात्रे नवमेऽहनि निष्केवल्यशस्त्रे इदं सूक्तम् । तथा च सूत्रितम्-‘आ सत्यो यात्वहं भुवं तत्त इन्द्रियमिति निष्केवल्यम्' ( आश्व. श्रौ. ८. ७) इति ॥


आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रवं॑त्वस्य॒ हर॑य॒ उप॑ नः ।

तस्मा॒ इदंधः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥१

आ । स॒त्यः । या॒तु॒ । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑यः । उप॑ । नः॒ ।

तस्मै॑ । इत् । अन्धः॑ । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒नः ॥१

आ । सत्यः । यातु । मघऽवान् । ऋजीषी । द्रवन्तु । अस्य । हरयः । उप । नः ।

तस्मै । इत् । अन्धः । सुसुम । सुऽदक्षम् । इह । अभिऽपित्वम् । करते । गृणानः ॥१

“ऋजीषी। ऋजीषशब्देन निष्पिष्टो विगतसारः सोमोऽभिधीयते । तद्वान् "सत्यः सत्यवान् “मघवान् धनवानिन्द्रः “नः अस्माकम् “उप समीपे “आ “यातु आगच्छतु। किंच “अस्य इन्द्रस्य “हरयः अश्वाः नोऽस्माकम् उप समीपे “द्रवन्तु आगच्छन्तु । वयं यजमानाः “इह अस्मिन् यज्ञे “तस्मै इन्द्राय “सुदक्षं शोभनबलम्। सारोपेतमित्यर्थः। “इत् इदं प्रत्यक्षेणोपलभ्यमानम् “अन्धः अन्नरूपं सोमं "सुषुम अभिषुतं कुर्याम। “गृणानः अस्माभिः स्तूयमान इन्द्रः "अभिपित्वम् अस्मदभिमतप्राप्तिं “करते करोतु ॥


अव॑ स्य शू॒राध्व॑नो॒ नांते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने मं॒दध्यै॑ ।

शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥२

अव॑ । स्य॒ । शू॒र॒ । अध्व॑नः । न । अन्ते॑ । अ॒स्मिन् । नः॒ । अ॒द्य । सव॑ने । म॒न्दध्यै॑ ।

शंसा॑ति । उ॒क्थम् । उ॒शना॑ऽइव । वे॒धाः । चि॒कि॒तुषे॑ । अ॒सु॒र्या॑य । मन्म॑ ॥२

अव । स्य । शूर । अध्वनः । न । अन्ते । अस्मिन् । नः । अद्य । सवने । मन्दध्यै ।

शंसाति । उक्थम् । उशनाऽइव । वेधाः । चिकितुषे । असुर्याय । मन्म ॥२

हे "शूर शत्रूणाम् अभिभवसमर्थेन्द्र “अद्य इदानीम् “अस्मिन् “सवने माध्यंदिनाख्ये “मन्दध्यै त्वां मादयितुं “नः अस्मान् “अव "स्य विमुञ्च । तत्र दृष्टान्तः । “अध्वनः गन्तव्यस्य मार्गस्य “अन्ते समीपे “न अश्वान्मनुष्या यथा मुञ्चन्ति तद्वत् । "उशनेव काव्य इव “वेधाः शंसिता यजमानो हे इन्द्र "चिकितुषे सर्वं जानते “असुर्याय असुराणां हिंसकाय तुभ्यं “मन्म मननीयम् “उक्थं शस्त्ररूपं स्तोत्रं “शंसाति शंसनं करोति ॥


क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् ।

दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णंतः॑ ॥३

क॒विः । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒नः । अर्चा॑त् ।

दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रुः॒ । व॒युना॑ । गृ॒णन्तः॑ ॥३

कविः । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । विऽपिपानः । अर्चात् ।

दिवः । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रुः । वयुना । गृणन्तः ॥३

"कविः मेधावी “निण्यं न । निण्यमित्यन्तर्हितनामैतत् । अन्तर्हितं गूढमर्थमिव “विदथानि वेदनीयानि कार्यजातानि “साधन साधयन् “वृषा कामानां वर्षितेन्द्रः “यत् यदा “सेकं सेचनीयं सोमं “विपिपानः अत्यर्थं पिबन् “अर्चात् विशेषेणार्चति । सोमपाने श्रद्धां करोतीत्यर्थः । तदानीं “दिवः अमुष्मात् द्युलोकात् “इत्था सत्यमेव “सप्त सप्तसंख्याकान् "कारून रश्मीन् "जीजनत् अजीजनत् । जनयति । “गृणन्तः स्तूयमाना रश्मयः “वयुना वयुनानि मनुष्याणां ज्ञानानि "अह्ना “चित् “दिवसेनापि “चक्रुः कृतवन्तः ॥


स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ ।

अं॒धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥४

स्वः॑ । यत् । वेदि॑ । सु॒ऽदृशी॑कम् । अ॒र्कैः । महि॑ । ज्योतिः॑ । रु॒रु॒चुः॒ । यत् । ह॒ । वस्तोः॑ ।

अ॒न्धा । तमां॑सि । दुधि॑ता । वि॒ऽचक्षे॑ । नृऽभ्यः॑ । च॒का॒र॒ । नृऽत॑मः । अ॒भिष्टौ॑ ॥४

स्वः । यत् । वेदि । सुऽदृशीकम् । अर्कैः । महि । ज्योतिः । रुरुचुः । यत् । ह । वस्तोः ।

अन्धा । तमांसि । दुधिता । विऽचक्षे । नृऽभ्यः । चकार । नृऽतमः । अभिष्टौ ॥४

"यद्ध यदा खलु "महि महत् प्रभूतं "ज्योतिः तेजोरूपं "यत् "स्वः यो द्युलोकः "अर्कैः रश्मिभिः "सुदृशीकं सुष्ठु दर्शनीयं "वेदि अवेदि ज्ञायते तदानीं देवास्तस्मिन् स्वर्गे “वस्तो: निवासार्थं “रुरुचुः दीप्तियुक्ता बभूवुः । "नृतमः नेतृतमः सूर्यः "अभिष्टौ अभ्यागमने "नृभ्यः नॄणां "विचक्षे विशेषेण दर्शनाय "अन्धा अन्धकाररूपाणि निबिडानि “तमांसि "दुधिता दुधितानि नाशितानि "चकार कृतवान् ॥


व॒व॒क्ष इंद्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।

अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥५

व॒व॒क्षे । इन्द्रः॑ । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।

अतः॑ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ । अ॒भि । यः । विश्वा॑ । भुव॑ना । ब॒भूव॑ ॥५

ववक्षे । इन्द्रः । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ।

अतः । चित् । अस्य । महिमा । वि । रेचि । अभि । यः । विश्वा । भुवना । बभूव ॥५

“ऋजीषी । ऋजीषशब्देन निष्पिष्टो विगतसारः सोमोऽभिधीयते । तद्वान् "इन्द्रः परमैश्वर्ययुक्तः “अमितम् इयत्तारहितं महिमानं "ववक्षे उवाह । किंच "महित्वा महत्त्वेन स्वेन महिम्ना "उभे “रोदसी उभे द्यावापृथिव्यौ “आ “पप्रौ समन्तादपूरयत् । "यः इन्द्रः "विश्वा "भुवना सर्वाणि भुवनानि “अभि "बभूव तिरश्चकार । अतश्चित् एभ्योऽपि विश्वेभ्यो भुवनेभ्यः "अस्य इन्द्रस्य "महिमा “वि “रेचि अतिरिरिचे । अधिको बभूवेत्यर्थः ॥ ॥ १७ ॥


विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।

अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥६

विश्वा॑नि । श॒क्रः । नर्या॑णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि॑ऽभिः । निऽका॑मैः ।

अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दुः । वचः॑ऽभिः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रु॒रिति॑ वव्रुः ॥६

विश्वानि । शक्रः । नर्याणि । विद्वान् । अपः । रिरेच । सखिऽभिः । निऽकामैः ।

अश्मानम् । चित् । ये । बिभिदुः । वचःऽभिः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुरिति वव्रुः ॥६

“विश्वानि समस्तानि “नर्याणि मनुष्याणां हितानि वृष्ट्यादीनि कार्याणि "विद्वान् जानम् “शक्रः समर्थ इन्द्रः “निकामैः निकामयमानेभ्यः "सखिभिः मित्रभूतेभ्यो मरुद्यः् ॥ व्यत्ययेन चतुर्थ्यर्थे तृतीया ॥ “अपः वृष्टिलक्षणान्युदकानि “रिरेच रिक्तीचकार । इन्द्रः सस्यादिफलसिद्ध्यर्थं मेघस्थान्युदकानि मरुद्योिल दत्तवानित्यर्थः । यद्वा । निकामैर्निकामयमानैः सखिभिर्मरुद्भिः सहितः सन् अपो नभसः सकाशात् । आप इत्यन्तरिक्षनामैतत् । अत्र विभक्तिव्यत्ययः । रिरेच व्यतिरिक्तः बभूव । "ये मरुतः "वचोभिः वाग्रूपैर्ध्वनिभिः "अश्मानं "चित् पर्वतमपि मेघं वा । अश्मेति मेघनामैतत् । "बिभिदुः अभैत्सुः । "उशिजः कामयमानास्ते मरुतः "गोमन्तं गोभिरुपेतं ”व्रजम्, अङ्गिरसां संबन्धि गोस्थानं "वि "वव्रुः आच्छादयामासुः ॥


अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः ।

प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥७

अ॒पः । वृ॒त्रम् । व॒व्रि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ताः ।

प्र । अर्णां॑सि । स॒मु॒द्रिया॑णि । ऐ॒नोः॒ । पतिः॑ । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥७

अपः । वृत्रम् । वव्रिऽवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सऽचेताः ।

प्र । अर्णांसि । समुद्रियाणि । ऐनोः । पतिः । भवन् । शवसा । शूर । धृष्णो इति ॥७

हे इन्द्र "प्रावत् राक्षसादिभ्यः प्रकर्ष्ण लोकान् पालयितृ “ते त्वदीयं "वज्रम् "अपः वृष्टिलक्षणान्युदकानि “वव्रिवांसम् आवरकं "वृत्रं मेघं "पराहन् प्रकर्षेण प्रेरयति स्म । “पृथिवी भूमिः “सचेताः चेतनावती । त्वया संगता बभूव । “धृष्णो धर्षणशील हे "शूर विक्रान्तेन्द्र त्वं “शवसा बलेन "पतिर्भवन् लोकानां पालकः सन् "समुद्रियाणि समुद्रसंबन्धीनि “अर्णांसि नभसि स्थितानि उदकानि “प्र “ऐनोः प्रेरकः अभूः ॥


अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ ।

स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नंगि॑रोभिर्गृणा॒नः ॥८

अ॒पः । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्दः॑ । आ॒विः । भु॒व॒त् । स॒रमा॑ । पू॒र्व्यम् । ते॒ ।

सः । नः॒ । ने॒ता । वाज॑म् । आ । द॒र्षि॒ । भूरि॑म् । गो॒त्रा । रु॒जन् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ॥८

अपः । यत् । अद्रिम् । पुरुऽहूत । दर्दः । आविः । भुवत् । सरमा । पूर्व्यम् । ते ।

सः । नः । नेता । वाजम् । आ । दर्षि । भूरिम् । गोत्रा । रुजन् । अङ्गिरःऽभिः । गृणानः ॥८

हे "पुरुहूत बहुभिराहूतेन्द्र "यत् यदा “अपः प्रति वृष्टिलक्षणान्युदकानि लक्षीकृत्य “अद्रिं मेघं “दर्दः विदारितवानसि। "सरमा देवशुनी "पूर्व्य पुरा "ते तुभ्यं पणिभिः अपहृतं गोधनम् "आविर्भुवत् प्रकाशयामास । “अङ्गिरोभिः ऋषिभिः "गृणानः स्तूयमानः सन् “गोत्रा गोत्राण्यभ्राणि "रुजन् “नः अस्मान “भूरि प्रभूतं “वाजम् अन्नं "नेता प्रापयिता "सः त्वम् "आ "दर्षि आदरं कृतवानसि ॥


अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानं ।

ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥९

अच्छ॑ । क॒विम् । नृ॒ऽम॒नः॒ । गाः॒ । अ॒भिष्टौ॑ । स्वः॑ऽसाता । म॒घ॒ऽव॒न् । नाध॑मानम् ।

ऊ॒तिऽभिः॑ । तम् । इ॒ष॒णः॒ । द्यु॒म्नऽहू॑तौ । नि । मा॒याऽवा॑न् । अब्र॑ह्मा । दस्युः॑ । अ॒र्त॒ ॥९

अच्छ । कविम् । नृऽमनः । गाः । अभिष्टौ । स्वःऽसाता । मघऽवन् । नाधमानम् ।

ऊतिऽभिः । तम् । इषणः । द्युम्नऽहूतौ । नि । मायाऽवान् । अब्रह्मा । दस्युः । अर्त ॥९

हे "मघवन् धनवन्निन्द्र "नृमणः नृभिर्मनुष्यैर्मन्यते इति नृमणः । त्वं "कविं मेधाविनं कुत्सम् “अच्छ’ “गाः अभ्यगाः । किंच "स्वर्षाता । स्वर्धनम् । तस्य सातौ दाने निमित्ते "अभिष्टौ कवेरभिगमे सति "नाधमानं युद्धार्थं त्वां याचमानं कुत्सम् “ऊतिभिः शत्रुकृतोपद्रवपरिहाररूपै रक्षणैः "इषणः प्रेरितवानसि । "मायावान् कपटवान् "अब्रह्मा । ऋत्विग्भिः क्रियमाणं सर्वं कर्मजातमनुज्ञारूपेण जानन् ऋत्विग्विशेषो ब्रह्मशब्देनोच्यते । स न विद्यते यस्य असौ अब्रह्मा । वेदोक्तकर्मस्वास्तिक्यरहितः इत्यर्थः । "दस्युः कुत्सस्य शत्रुः "द्युम्नहूतौ द्युम्नं धनं हूतिराह्वानं यस्यां युधि तस्यां "नि "अर्त विनष्टो बभूव । इन्द्रः कुत्सेनाहूतः सन् तस्य शत्रुं हतवानित्यर्थः ॥


आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः ।

स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥१०

आ । द॒स्यु॒ऽघ्ना । मन॑सा । या॒हि॒ । अस्त॑म् । भुव॑त् । ते॒ । कुत्सः॑ । स॒ख्ये । निऽका॑मः ।

स्वे । योनौ॑ । नि । स॒द॒त॒म् । सऽरू॑पा । वि । वा॒म् । चि॒कि॒त्स॒त् । ऋ॒त॒ऽचित् । ह॒ । नारी॑ ॥१०

आ । दस्युऽघ्ना । मनसा । याहि । अस्तम् । भुवत् । ते । कुत्सः । सख्ये । निऽकामः ।

स्वे । योनौ । नि । सदतम् । सऽरूपा । वि । वाम् । चिकित्सत् । ऋतऽचित् । ह । नारी ॥१०

अत्र काचिदाख्यायिका श्रूयते । कथम् । रुरुनामकः कश्चिद्राजर्षिः । तस्य पुत्रः कुत्साख्यो राजर्षिरासीत् । स च कदाचित् शत्रुभिः सह युयुत्सुः संग्रामे स्वयमशक्तः सन् शत्रूणां हननार्थमिन्द्रस्य आह्वानं चकार । स चेन्द्रः कुत्सस्य गृहमागत्य तस्य शत्रून् जघान । तदनन्तरमतिप्रीत्या तयोः सख्यमभवत् । सख्यानन्तरमिन्द्र एनमपि स्वकीयं गृहं प्रापयामास । तत्र शची इन्द्रं प्राप्तुमागता सती तौ समानरूपौ दृष्ट्वा अयमिन्द्रोऽयं कुत्स इति विवेकाभावेन संशयं चकार इति । अनयाख्यायिकया प्रतीयमानोऽर्थोऽत्र प्रतिपाद्यते । हे इन्द्र "दस्युघ्ना दस्यूनां शत्रूणां हन्त्रा "मनसा युक्तस्त्वम् "अस्तं कुत्सस्य गृहम् । अस्तमिति गृहनामैतत् । “आ "याहि आगाः ॥ लुङर्थे लोट् ॥ "कुत्सः च "ते तव संबन्धिनि "सख्ये "निकामः नितरां कामयमानः "भुवत् अभवत्। ततः तौ युवां "स्वे योनौ स्वकीये स्थाने "नि “षदतं न्यसीदतम् । उपविष्टावभूतम् । “ऋतचित् सत्यदर्शनी "नारी इन्द्रस्य भार्या शची "सरूपा सरूपौ समानरूपौ "वां युवां "वि "चिकित्सत् संशयं चकार ॥ ॥ १८ ॥


यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः ।

ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥११

यासि॑ । कुत्से॑न । स॒ऽरथ॑म् । अ॒व॒स्युः । तो॒दः । वात॑स्य । हर्योः॑ । ईशा॑नः ।

ऋ॒ज्रा । वाज॑म् । न । गध्य॑म् । युयू॑षन् । क॒विः । यत् । अह॑न् । पार्या॑य । भूषा॑त् ॥११

यासि । कुत्सेन । सऽरथम् । अवस्युः । तोदः । वातस्य । हर्योः । ईशानः ।

ऋज्रा । वाजम् । न । गध्यम् । युयूषन् । कविः । यत् । अहन् । पार्याय । भूषात् ॥११

हे इन्द्र "अवस्युः कुत्सस्य रक्षणमिच्छन् ॥ छन्दसि क्यच् परेच्छायामपि दृश्यते ॥ “तोदः तोदकः शत्रूणां हिंसकः “वातस्य वायुसदृशयोर्वेगवतोः "हर्योः अश्वयोः "ईशानः ईश्वरस्त्वं "कुत्सेन कुत्साख्येन राजर्षिणा "सरथं समानरथं "यासि गच्छसि। “गध्यं ग्राह्यम् । गध्यं गृह्णातेः। ऋज्रा वाजं न गध्यं युयूषन्नित्यपि निगमो भवति ' (निरु. ५. १५) इति निरुक्तम् । "वाजं "न अन्नमिव "ऋज्रा ऋजुगामिनौ अश्वौ "युयूषन् स्वकीये रथे योजयन् "कविः प्राज्ञः कुत्सः "यत् यस्मिन् "अहन् अहनि दिवसे "पार्याय पारणाय आपन्निस्तरणाय "भूषात् प्रभवते । तस्मिन्नेव दिने कुत्सेन सरथं यासीति पूर्वेण संबन्धः ।।


कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ ।

स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥१२

कुत्सा॑य । शुष्ण॑म् । अ॒शुष॑म् । नि । ब॒र्हीः॒ । प्र॒ऽपि॒त्वे । अह्नः॑ । कुय॑वम् । स॒हस्रा॑ ।

स॒द्यः । दस्यू॑न् । प्र । मृ॒ण॒ । कु॒त्स्येन॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ ॥१२

कुत्साय । शुष्णम् । अशुषम् । नि । बर्हीः । प्रऽपित्वे । अह्नः । कुयवम् । सहस्रा ।

सद्यः । दस्यून् । प्र । मृण । कुत्स्येन । प्र । सूरः । चक्रम् । वृहतात् । अभीके ॥१२

‘ शुष्णं पिप्रुम्' (ऋ. सं. १. १०३. ८) इत्यस्यामृचि प्रतिपादितः अर्थः ‘ कुत्साय' इत्यनेन ऋग्द्वयेन स्पष्टीक्रियते । हे इन्द्र त्वं “कुत्साय कुत्सार्थम् "अशुषम् । शूषमिति सुखनामैतत् । तद्रहितम् । अत्र दीर्घाभावः । “शुष्णं शुष्णनामानमसुरं "नि “बर्हीः न्यबर्हीः अवधीः । तथा “अह्नः दिवसस्य “प्रपित्वे प्रक्रमे पूर्वाह्ने "कुयवं कुयवनामानमसुरं च हतवानसि । तथा स त्वं "सहस्रा सहस्रेण बहुभिः परिजनैः सह "सद्यः यस्मिन् काले कुयवमवधीस्तस्मिन् काल एव “कुत्स्येन । कुत्स इति वज्रनामैतत् । कुत्स एव कुत्स्यं वज्रम् । तेन "दस्यून् शत्रून् “प्र “मृण जहि ॥ भूतार्थे लोट् ॥ हतवानसि । तथा "सूरः प्रेरकस्य सूर्यस्य "चक्रम् आयुधम् "अभीके समीपे संग्रामे वा “प्र “वृहतात् प्रकर्षेण छिन्नवानसि॥


त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रंधीः ।

पं॒चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥१३

त्वम् । पिप्रु॑म् । मृग॑यम् । शू॒शु॒ऽवांस॑म् । ऋ॒जिश्व॑ने । वै॒द॒थि॒नाय॑ । र॒न्धीः॒ ।

प॒ञ्चा॒शत् । कृ॒ष्णा । नि । व॒पः॒ । स॒हस्रा॑ । अत्क॑म् । न । पुरः॑ । ज॒रि॒मा । वि । द॒र्द॒रिति॑ दर्दः ॥१३

त्वम् । पिप्रुम् । मृगयम् । शूशुऽवांसम् । ऋजिश्वने । वैदथिनाय । रन्धीः ।

पञ्चाशत् । कृष्णा । नि । वपः । सहस्रा । अत्कम् । न । पुरः । जरिमा । वि । दर्दरिति दर्दः ॥१३

हे इन्द्र "त्वं “पिप्रुं पिप्रुनामानमसुरं “शूशुवांसं प्रवृद्धं “मृगयं मृगयनामानमसुरं च हतवानसि किंच स त्वं "वैदथिनाय विदथिनः पुत्राय “ऋजिश्वने ऋजिश्वनाम्ने राज्ञे "रन्धीः वशमनयः । "पञ्चाशत् पञ्चाशत्संख्याकानि “सहस्रा सहस्राणि "कृष्णा कृष्णवर्णानि रक्षांसि “नि “वपः न्यवपः अवधीः । तथा स त्वं "जरिमा जरा "अत्कं "न वयोविशेषं रूपमिव “पुरः शम्बरस्य नगराणि "वि “दर्दः विदारितवानसि ॥


सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ ।

मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥१४

सूरः॑ । उ॒पा॒के । त॒न्व॑म् । दधा॑नः । वि । यत् । ते॒ । चेति॑ । अ॒मृत॑स्य । वर्पः॑ ।

मृ॒गः । न । ह॒स्ती । तवि॑षीम् । उ॒षा॒णः । सिं॒हः । न । भी॒मः । आयु॑धानि । बिभ्र॑त् ॥१४

सूरः । उपाके । तन्वम् । दधानः । वि । यत् । ते । चेति । अमृतस्य । वर्पः ।

मृगः । न । हस्ती । तविषीम् । उषाणः । सिंहः । न । भीमः । आयुधानि । बिभ्रत् ॥१४

हे इन्द्र "सूरः प्रेरकस्य सूर्यस्य "उपाके समीपे "तन्वं त्वदीयं शरीरं "यत् यदा "दधानः धारकोऽभवः तदा “अमृतस्य मरणरहितस्य “ते त्वदीयं "वर्पः रूपं "वि “चेति व्यचेति । हे इन्द्र ज्ञातृभिर्विशेषेण अज्ञायत । सूर्यस्य समीपे सर्वाणि रूपाणि मलिनीभवन्ति न तथेन्द्रस्य रूपं किंतु सूर्यस्य समीपे इन्द्रस्य रूपं विशेषेण भासमानं बभूवेत्यर्थः । अपि च हे इन्द्र “हस्ती "मृगः “न गजविशेषो मृग इव "तविषीं परेषां बलम् "उषाणः दहन “आयुधानि वज्रादीनि शस्त्राणि "बिभ्रत् बिभ्राणस्त्वं “सिंहो "न सिंह इव "भीमः भयंकरोऽभूः ॥


इंद्रं॒ कामा॑ वसू॒यंतो॑ अग्म॒न्त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः ।

श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥१५

इन्द्र॑म् । कामाः॑ । व॒सु॒ऽयन्तः॑ । अ॒ग्म॒न् । स्वः॑ऽमीळ्हे । न । सव॑ने । च॒का॒नाः ।

श्र॒व॒स्यवः॑ । श॒श॒मा॒नासः॑ । उ॒क्थैः । ओकः॑ । न । र॒ण्वा । सु॒दृशी॑ऽइव । पु॒ष्टिः ॥१५

इन्द्रम् । कामाः । वसुऽयन्तः । अग्मन् । स्वःऽमीळ्हे । न । सवने । चकानाः ।

श्रवस्यवः । शशमानासः । उक्थैः । ओकः । न । रण्वा । सुदृशीऽइव । पुष्टिः ॥१५

“कामाः राक्षसादिभयनिवारणार्थमिन्द्रं कामयमानाः "वसूयन्तः पश्वादिधनमिच्छन्तः स्तोतारः “इन्द्रं परमैश्वर्ययुक्तम् "अग्मन् अगमन् गच्छन्ति ॥ वर्तमानेऽर्थे छान्दसो लुङ् ॥ कीदृशाः स्तोतारः । “स्वर्मीळ्हे “न युद्धे इव "सवने यज्ञे “चकानाः याचमानाः “श्रवस्यवः अन्नकामाः "उक्थैः स्तोत्रैः “शशमानासः शंसमानाः स्तुवन्तः । तदा सोऽयमिन्द्रः “ओको "न स्तोतॄणामावास इव भवति । “रण्वा रमणीया “सुदृशीव “पुष्टिः शोभनदर्शना लक्ष्मीरिव भवति ॥ ॥ १९ ॥


तमिद्व॒ इंद्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ ।

यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥१६

तम् । इत् । वः॒ । इन्द्र॑म् । सु॒ऽहव॑म् । हु॒वे॒म॒ । यः । ता । च॒कार॑ । नर्या॑ । पु॒रूणि॑ ।

यः । माऽव॑ते । ज॒रि॒त्रे । गध्य॑म् । चि॒त् । म॒क्षु । वाज॑म् । भर॑ति । स्पा॒र्हऽरा॑धाः ॥१६

तम् । इत् । वः । इन्द्रम् । सुऽहवम् । हुवेम । यः । ता । चकार । नर्या । पुरूणि ।

यः । माऽवते । जरित्रे । गध्यम् । चित् । मक्षु । वाजम् । भरति । स्पार्हऽराधाः ॥१६

“यः इन्द्रः “नर्या नर्याणि मनुष्यहितानि “पुरूणि बहूनि “ता तानि प्रसिद्धानि कर्माणि “चकार अकरोत् । किंच "स्पार्हराधाः स्पृहणीयधनः "यः इन्द्रः "मावते मत्सदृशाय “जरित्रे स्तोत्रे “गध्यं चित् ग्राह्यं संयोजनीयमपि “वाजम् अन्नं "मक्षु शीघ्रं "भरति आहरति । वयं स्तोतारो हे यजमानाः "वः युष्मभ्यं "तमित् तमेव “इन्द्रं "सुहवं शोभनमाह्वानं यथा भवति तथा “हुवेम आह्वयामः ।।


ति॒ग्मा यदं॒तर॒शनिः॒ पता॑ति॒ कस्मिं॑चिच्छूर मुहु॒के जना॑नां ।

घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥१७

ति॒ग्मा । यत् । अ॒न्तः । अ॒शनिः॑ । पता॑ति । कस्मि॑न् । चि॒त् । शू॒र॒ । मु॒हु॒के । जना॑नाम् ।

घो॒रा । यत् । अ॒र्य॒ । सम्ऽऋ॑तिः । भवा॑ति । अध॑ । स्म॒ । नः॒ । त॒न्वः॑ । बो॒धि॒ । गो॒पाः ॥१७

तिग्मा । यत् । अन्तः । अशनिः । पताति । कस्मिन् । चित् । शूर । मुहुके । जनानाम् ।

घोरा । यत् । अर्य । सम्ऽऋतिः । भवाति । अध । स्म । नः । तन्वः । बोधि । गोपाः ॥१७

हे "शूर विक्रान्तेन्द्र "यत् यदा "कस्मिंश्चित् सर्वस्मिन्नपि “जनानां मनुष्याणां “मुहुके मोहके युद्धे “अन्तः अस्माकं मध्ये "तिग्मा तीक्ष्णा “अशनिः "पताति पतेत् । हे “अर्य स्वामिन्निन्द्र "यत् यदास्माकं शत्रुभिः सह “घोरा भीमरूपा "समृतिः युद्धं "भवाति भवेत् । "अध तदानीं “नः अस्मदीयस्य "तन्वः शरीरस्य “गोपाः रक्षकः "बोधि "स्म अबोधि । शत्रुभ्यः सकाशात् अस्मान् रक्षकत्वेन बुद्धवानसि खलु ।।


भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ ।

त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥१८

भुवः॑ । अ॒वि॒ता । वा॒मऽदे॑वस्य । धी॒नाम् । भुवः॑ । सखा॑ । अ॒वृ॒कः । वाज॑ऽसातौ ।

त्वाम् । अनु॑ । प्रऽम॑तिम् । आ । ज॒ग॒न्म॒ । उ॒रु॒ऽशंसः॑ । ज॒रि॒त्रे । वि॒श्वध॑ । स्याः॒ ॥१८

भुवः । अविता । वामऽदेवस्य । धीनाम् । भुवः । सखा । अवृकः । वाजऽसातौ ।

त्वाम् । अनु । प्रऽमतिम् । आ । जगन्म । उरुऽशंसः । जरित्रे । विश्वध । स्याः ॥१८

हे इन्द्र त्वं "वामदेवस्य वामदेवाख्यस्य मन्त्रद्रष्टुर्मम संबन्धिनीनां “धीनां कर्मणाम् "अविता रक्षिता "भुवः भव । "अवृकः हिंसारहितस्त्वं "वाजसातौ युद्धे "सखा मम सुहृत् "भुवः भव । हे इन्द्र वयं "प्रमतिं प्रकृष्टज्ञानं “त्वामनु लक्षीकृत्य “आ “जगन्म आगच्छाम । स त्वं "विश्वध सर्वदा “जरित्रे स्तोत्रे "उरुर्वांसः महता शंसनेन युक्तः "स्याः भवेः ।।


ए॒भिर्नृभि॑रिंद्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ ।

द्यावो॒ न द्यु॒म्नैर॒भि संतो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥१९

ए॒भिः । नृऽभिः॑ । इ॒न्द्र॒ । त्वा॒युऽभिः॑ । त्वा॒ । म॒घव॑त्ऽभिः । म॒घ॒ऽव॒न् । विश्वे॑ । आ॒जौ ।

द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्तः॑ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः॑ । च॒ । पू॒र्वीः ॥१९

एभिः । नृऽभिः । इन्द्र । त्वायुऽभिः । त्वा । मघवत्ऽभिः । मघऽवन् । विश्वे । आजौ ।

द्यावः । न । द्युम्नैः । अभि । सन्तः । अर्यः । क्षपः । मदेम । शरदः । च । पूर्वीः ॥१९

हे मघवन् धनवन् "इन्द्र “विश्वे विश्वस्मिन् “आजौ संग्रामे “त्वायुभिः शत्रुजयार्थं त्वां कामयमानैः "मघवद्भिः त्वदर्थं दीयमानहविर्लक्षणैर्धनैरुपेतैः “एभिः प्रत्यक्षेणोपलभ्यमानैः "नृभिः पुत्रपौत्राद्यैः परिजनैः सहिता वयं यजमानाः "द्युम्नैः धनैः "द्यावो "न द्योतमानाः प्रकाशमाना धनिनो यथा तथा "अर्यः अरीन् शत्रून् "अभि "सन्तः अभिभवन्तः "क्षपः सर्वा रात्रीः "पूर्वीः बह्वीः “शरदश्च संवत्सरांश्च "मदेम स्तवाम । यजमानाः सर्वेषु कालेषु स्तोत्रैरिन्द्रं हर्षयन्तीत्यर्थः ॥


ए॒वेदिंद्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथं॑ ।

नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥२०

ए॒व । इत् । इन्द्रा॑य । वृ॒ष॒भाय॑ । वृष्णे॑ । ब्रह्म॑ । अ॒क॒र्म॒ । भृग॑वः । न । रथ॑म् ।

नु । चि॒त् । यथा॑ । नः॒ । स॒ख्या । वि॒ऽयोष॑त् । अस॑त् । नः॒ । उ॒ग्रः । अ॒वि॒ता । त॒नू॒ऽपाः ॥२०

एव । इत् । इन्द्राय । वृषभाय । वृष्णे । ब्रह्म । अकर्म । भृगवः । न । रथम् ।

नु । चित् । यथा । नः । सख्या । विऽयोषत् । असत् । नः । उग्रः । अविता । तनूऽपाः ॥२०

“यथा इन्द्रः "नः अस्मदीयानि "सख्या सख्यानि कर्माणि "नू “चित् क्षिप्रमेव “वियोषत् न पृथक्कुर्यात् । "उग्रः तेजस्वी “तनूपाः शरीराणां पालक इन्द्रो यथा "नः अस्मान् "अविता रक्षिता “असत् स्यात् । तथा वयं यजमानाः "एवेत् एवमेवोक्तप्रकारेण “इन्द्राय "वृषभाय कामानां वर्षित्रे “वृष्णे नित्यतरुणाय “ब्रह्म स्तोत्रम् "अकर्म अकुर्म । तत्र दृष्टान्तः । “भृगवः दीप्तास्तक्षाणः "रथं “न रथमिव तद्वत् । यजमानेभ्यो यथेन्द्रोऽभीप्सितफलप्रदो भवति तथेन्द्रं यजमानाः स्तुवन्तीत्यर्थः ॥ १८ ॥


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥२१

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥२१

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥२१

हे "इन्द्र "नु क्षिप्रं "स्तुतः पूर्वैर्ऋषिभिः संस्तुतः "नु क्षिप्रं "गृणानः अस्माभिः स्तूयमानश्च त्वम् "इषम् अन्नं "जरित्रे स्तोत्रे मह्यं "नद्यो "न अद्भिर्नदीरिव “पीपेः प्यायय प्रवृद्धं कुरु । हे “हरिवः हरिवन् हरिसंज्ञकाश्वोपेतेन्द्र "ते तुभ्यं "नव्यं नवतरं "ब्रह्म स्तोत्रम् "अकारि अस्माभिः क्रियते । "रथ्यः रथवन्तो वयं "धिया प्रज्ञारूपया स्तुत्या "सदासाः त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्य अन्नस्य दातारो वा "स्याम भूयास्म ॥ ॥ २० ॥


टिप्पणी (३.१६.२०) --भृगवो न रथम् = ऋभवो न रथम् - सायण भाष्यम्; तुलनीय - ऋ. १०.३९.१४

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१६&oldid=184071" इत्यस्माद् पुनः प्राप्तिः