ऋग्वेदः सूक्तं ४.१५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.१४ ऋग्वेदः - मण्डल ४
सूक्तं ४.१५
वामदेवो गौतमः
सूक्तं ४.१६ →
दे. अग्निः, ७-८ सोमकः साहदेव्यः,९-१० अश्विनौ। गायत्री


अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
देवो देवेषु यज्ञियः ॥१॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
आ देवेषु प्रयो दधत् ॥२॥
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
दधद्रत्नानि दाशुषे ॥३॥
अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
द्युमाँ अमित्रदम्भनः ॥४॥
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।
तिग्मजम्भस्य मीळ्हुषः ॥५॥
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
मर्मृज्यन्ते दिवेदिवे ॥६॥
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
अच्छा न हूत उदरम् ॥७॥
उत त्या यजता हरी कुमारात्साहदेव्यात् ।
प्रयता सद्य आ ददे ॥८॥
एष वां देवावश्विना कुमारः साहदेव्यः ।
दीर्घायुरस्तु सोमकः ॥९॥
तं युवं देवावश्विना कुमारं साहदेव्यम् ।
दीर्घायुषं कृणोतन ॥१०॥

सायणभाष्यम्

‘अग्निर्होता ' इति दशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं गायत्रम् । अत्रेयमनुक्रमणिका -- अग्निर्होता दश गायत्रमृषिर्बोधत् इत्याभ्यां सोमकं साहदेव्यमभ्यवदत्पराभ्यामस्याश्विनावायुरयाचत' इति । ‘बोधद्यत्' इति द्वृचेन सोमकराजा स्तूयते ‘एष वाम्' इति द्वृचेनाश्विनौ शिष्टाभिः षड्भिरग्निः स्तूयते। अतस्ता एव क्रमेण देवताः । सूक्तविनियोगो लैङ्गिकः । पशोः पर्यग्निकरणे • अग्निर्होता नः' इत्याद्यस्तृचोऽनुवचनीयः । तथा च सूत्रितम् - ’अग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह' (आश्व. श्रौ. ३.२) इति । प्रातरनुवाकेऽप्याग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चायं तृचो विनियुक्तः । तथा च सूत्रितम् -- ’अग्निर्होता नो अध्वर इति तिस्रः ' ( आश्व. श्रौ. ४. १३) इति ॥


अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥१

अ॒ग्निः । होता॑ । नः॒ । अ॒ध्व॒रे । वा॒जी । सन् । परि॑ । नी॒य॒ते॒ ।

दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते ।

देवः । देवेषु । यज्ञियः ॥

“होता देवानामाह्वाता होमनिष्पादको वा “अग्निः “नः अस्मदीये “अध्वरे यागे । वाजीत्येतत् लुप्तोपमाकम् । “वाजी शीघ्रगामी वोढाश्व इव तथा देवेभ्यो हविर्वाहकः “सन् “परि “णीयते परितः समन्तात् प्राप्यते । तथा ब्राह्मणं च भवति - ’वाजी सन्परि णीयत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति ' ( ऐ. ब्रा. २.५ ) इति । कीदृशोऽग्निः । “देवेषु द्योतमानेष्विन्द्रादिषु मध्ये “देवः द्योतमानः “यज्ञियः यज्ञार्हः ॥


परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व ।

आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२

परि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व ।

आ । दे॒वेषु॑ । प्रयः॑ । दध॑त् ॥

परि । त्रिऽविष्टि । अध्वरम् । याति । अग्निः । रथीःऽइव ।

आ । देवेषु । प्रयः । दधत् ॥

“देवेषु द्योतमानेष्विन्द्रादिषु । प्रयः इत्यन्ननामेदम् । "प्रयः यजमानैर्दत्तं हवीरूपमन्नम् आ “दधत् आ समन्ताद्धारयन् “अग्निः अङ्गनादिगुणविशिष्टोऽग्निः “त्रिविष्टि त्रिवारम् ।सवनत्रयेऽपीत्यर्थः । “परि परितः समन्तात् “अध्वरं यजमानैः कृतं यागं “याति गच्छति । परिगमने दृष्टान्तः । “रथीरिव । रथवान् पुरुषो यथा शीघ्रं याति तद्वत् । तथा च ब्राह्मणं - ’परि त्रिविष्ट्यध्वरं यास्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरं पर्येति' ( ऐ. बा. २. ५) इति ॥


परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।

दध॒द्रत्ना॑नि दा॒शुषे॑ ॥३

परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।

दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

परि । वाजऽपतिः । कविः । अग्निः । हव्यानि । अक्रमीत् ।

दधत् । रत्नानि । दाशुषे ॥

“वाजपतिः वाजानामन्नानां पतिः पालकः । ‘परि वाजपतिः कविरित्येष हि वाजानां पतिः (ऐ. ब्रा, २. ५) इति ब्राह्मणम् । “कविः क्रान्तदर्शी मेधावी वा “दाशुषे हविर्दत्तवते यजमानाय “रत्नानि रमणीयानि धनानि “दधत् प्रयच्छन् “अग्निः “हव्यानि हवींषि “परि “अक्रमीत् परितः क्रामति । व्याप्नोति ॥


अ॒यं यः सृंज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।

द्यु॒माँ अ॑मित्र॒दंभ॑नः ॥४

अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।

द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥

अयम् । यः । सृञ्जये । पुरः । दैवऽवाते । सम्ऽइध्यते ।

द्युऽमान् । अमित्रऽदम्भनः ॥

“यः प्रसिद्धः "अयं प्रत्यक्षेणोपलभ्यमानोऽग्निः “दैववाते देववातस्य पुत्रे "सृञ्जये । सृञ्जयो नाम कश्चित्सोमयाजी । तस्मिन्निमित्तभूते सति । तद्यागार्थमित्यर्थः । सृञ्जयस्य यष्टृत्वं तैत्तिरीया आमनन्ति-- ’वासिष्ठो ह सात्यहव्यो देवभागं पप्रच्छ यत्सृञ्जयान्बहुयाजिनोऽयीयजः' (तै. सं. ६. ६.२.२ ) इति । “पुरः पूर्वस्यां दिशि स्थितायामुत्तरवेद्यां “समिध्यते सम्यग्दीप्यते । "अमित्रदम्भनः शत्रूणां हिंसकः सोऽग्निः “द्युमान् दीप्तिमान् भवतीति शेषः ॥


अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ ।

ति॒ग्मजं॑भस्य मी॒ळ्हुषः॑ ॥५

अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।

ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥

अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः ।

तिग्मऽजम्भस्य । मीळ्हुषः ॥

“वीरः स्तुतौ विक्रान्तः “मर्त्यः मरणधर्मा यजमानः “तिग्मजम्भस्य तीक्ष्णतेजसः “मीळ्हुषः अभिलषितफलानां सेक्तुः “ईवतः गमनवतः “अस्य अग्नेः "ईशीत ईश्वरो भवेत् । “घ इति पादपूरणः । एतेन यजमानः आत्माभीष्टफलं कारयितुं समर्थो भवतीत्यर्थः ॥ ॥ १५ ॥


तमर्वं॑तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशुं॑ ।

म॒र्मृ॒ज्यंते॑ दि॒वेदि॑वे ॥६

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।

म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥

तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् ।

मर्मृज्यन्ते । दिवेऽदिवे ॥

यजमानाः "अर्वन्तं न शीघ्रगामिनमश्वमिव "सानसिं संभजनीयं “दिवः “शिशु “न द्युलोकस्य पुत्रभूतं सूर्यमिव “अरुषम् आरोचमानं “तम् अग्निं “दिवेदिवे प्रतिदिनं “मर्मृज्यन्ते भृशं परिचरणं कुर्वन्ति ॥


बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।

अच्छा॒ न हू॒त उद॑रं ॥७

बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥

बोधत् । यत् । मा । हरिऽभ्याम् । कुमारः । साहऽदेव्यः ।

अच्छ । न । हूतः । उत् । अरम् ॥

“साहदेव्यः सहदेवनाम्नो राज्ञः पुत्रः “कुमारः सोमकाभिधो राजा “हरिभ्याम् अश्वाभ्याम् अश्वौ दातुं "मा मां “यत् यदा “बोधत् बोधयामास इमौ तवाश्वाविति । तदा अहम् "अच्छ आभिमुख्येन कुमारेण “हूतः सन् "न “उदरं तावश्वावलब्ध्वा न निर्गतवानस्मि ।


उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।

प्रय॑ता स॒द्य आ द॑दे ॥८

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒ऽदे॒व्यात् ।

प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥

उत । त्या । यजता । हरी इति । कुमारात् । साहऽदेव्यात् ।

प्रऽयता । सद्यः । आ । ददे ॥

"उत अपि च "साहदेव्यात् सहदेवस्य पुत्रात् “कुमारात् सोमकाख्यात् राज्ञः “यजता पूजनीयौ “प्रयता प्रयतौ “त्या त्यौ तौ प्रसिद्धौ “हरी अश्वौ “सद्यः यस्मिन् दिने तेनाहूतस्तस्मिन्नेव दिने “आ “ददे अदत्तवानस्मि । मन्त्रद्रष्टा ऋषिः ‘बोधत्' इत्यृग्द्वयेन कुमारमश्वेप्सयाभ्युपगम्य अश्वौ एतस्मात् लब्ध्वा प्रीतोऽभवदित्यर्थः ॥


ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः ।

दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९

ए॒षः । वा॒म् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।

दी॒र्घऽआ॑युः । अ॒स्तु॒ । सोम॑कः ॥

एषः । वाम् । देवौ । अश्विना । कुमारः । साहऽदेव्यः ।

दीर्घऽआयुः । अस्तु । सोमकः ॥

“देवौ द्योतमानौ हे “अश्विना अश्विनौ "वां युवां तर्पकः "साहदेव्यः सहदेवस्य पुत्रः "कुमारः सोमकः सोमकाभिधानः “एषः राजा “दीर्घायुरस्तु शतायुष्को भवतु । ' एतमु हैव प्रोचतुः पर्वतनारदौ सोमकाय' इत्यादिना ‘सर्वे हैव महाराजा आसुः' (ऐ. ब्रा. ७.३४ ) इत्यनेन ब्राह्मणेन सोमकस्य राजत्वं स्पष्टीकृतम् ॥


तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यं ।

दी॒र्घायु॑षं कृणोतन ॥१०

तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।

दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥

तम् । युवम् । देवौ । अश्विना । कुमारम् । साहऽदेव्यम् ।

दीर्घऽआयुषम् । कृणोतन ॥

हे “देवावश्विना द्योतमानावश्विनौ "युवं युवां “तं “साहदेव्यं सहदेवस्य पुत्रं “कुमारं सोमकाख्यं राजानं “दीर्घायुषं शतायुष्कं “कृणोतन कुरुतम् । अनेन द्वृचेनास्य कुमारस्य दीर्घमायुः अश्विनावृषिरयाचतेत्यर्थः ॥ ॥ १६ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१५&oldid=165119" इत्यस्माद् पुनः प्राप्तिः