ऋग्वेदः सूक्तं ४.२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.१ ऋग्वेदः - मण्डल ४
सूक्तं ४.२
वामदेवो गौतमः
सूक्तं ४.३ →
दे. अग्निः। त्रिष्टुप्


यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि ।
होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥१॥
इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अन्तरग्ने ।
दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्राँश्च ॥२॥
अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा ।
अन्तरीयसे अरुषा युजानो युष्माँश्च देवान्विश आ च मर्तान् ॥३॥
अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत ।
स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥४॥
गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।
इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥५॥
यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया ।
भुवस्तस्य स्वतवाँः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य ॥६॥
यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत् ।
आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान् ॥७॥
यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् ।
अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम् ॥८॥
यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् ।
न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥९॥
यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः ।
प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥१०॥
चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् ।
राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥११॥
कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः ।
अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः ॥१२॥
त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।
रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥१३॥
अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः ।
रथं न क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः ॥१४॥
अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् ।
दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥१५॥
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः ।
शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥१६॥
सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ॥१७॥
आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र ।
मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥१८॥
अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः ।
अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः ॥१९॥
एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व ।
उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥२०॥


सायणभाष्यम्

‘यो मर्त्येषु' इति विंशत्यृचं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । “यो मर्त्येषु ' इत्यनुक्रमणिका । अस्य सूक्तस्य प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्त एव विनियोग उक्तः ॥


यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ ।

होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥१

यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । दे॒वः । दे॒वेषु॑ । अ॒र॒तिः । नि॒ऽधायि॑ ।

होता॑ । यजि॑ष्ठः । म॒ह्ना । शु॒चध्यै॑ । ह॒व्यैः । अ॒ग्निः । मनु॑षः । ई॒र॒यध्यै॑ ॥१

यः । मर्त्येषु । अमृतः । ऋतऽवा । देवः । देवेषु । अरतिः । निऽधायि ।

होता । यजिष्ठः । मह्ना । शुचध्यै । हव्यैः । अग्निः । मनुषः । ईरयध्यै ॥१

“अमृतः मरणधर्मरहितः “यः अग्निः “मर्त्येषु मनुष्येषु “ऋतावा सत्यवान् “निधायि निहितः ॥ यद्वा। मर्त्येषु मनुष्यसंबन्धिषु वागादीन्द्रियेषु निहितः। ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्' (ऐ. उ. २. १) इति श्रुतेः। “देवः देवनशीलो योऽग्निरिन्द्रादिषु “देवेषु "अरतिः अभिगन्ता शत्रूणाम् । यद्वा देवलोके गन्ता । निधायि निहितः । स च होता देवानामाह्वाता “यजिष्ठः यष्टृतमः "अग्निः “मह्ना स्वकीयेन महता तेजसा “शुचध्यै दीपितुमुत्तरवेद्यां निहितः । किंच “हव्यैः हवनीयैराज्यपुरोडाशादिभिर्हविर्भिः हेतुभिः “मनुषः मनुष्यस्य यजमानस्य “ईरयध्यै स्वर्गं प्रति प्रेरणाय निहितः ॥ अरतिः । ‘ऋ गतौ ॥ ‘ वहिवस्यर्तिभ्यश्चित् ' इत्यतिप्रत्ययः । चित्त्वादन्तोदात्तः । निधायि । दधातेः कर्मणि लुङि रूपम् ॥ ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । शुचध्यै। ‘शुच दीप्तौ' । तुमर्थे कध्यैप्रत्ययः ॥ कित्त्वादगुणः । प्रत्ययस्वरः । ईरयध्यै । ईरयतेस्तुमर्थे शध्यैप्रत्ययः । शित्त्वेन सार्वधातुकत्वात् णिलोपाभावः ॥


इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अ॒न्तर॑ग्ने ।

दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्राँश्च॑ ॥२

इ॒ह । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । जा॒तः । जा॒तान् । उ॒भया॑न् । अ॒न्तः । अ॒ग्ने॒ ।

दू॒तः । ई॒य॒से॒ । यु॒यु॒जा॒नः । ऋ॒ष्व॒ । ऋ॒जु॒ऽमु॒ष्कान् । वृष॑णः । शु॒क्रान् । च॒ ॥२

इह । त्वम् । सूनो इति । सहसः । नः । अद्य । जातः । जातान् । उभयान् । अन्तः । अग्ने ।

दूतः । ईयसे । युयुजानः । ऋष्व । ऋजुऽमुष्कान् । वृषणः । शुक्रान् । च ॥२

हे "सहसः "सूनो बलस्य पुत्र "अग्ने "अद्य अस्मिन् दिवसे "नः अस्मदीये "इह कर्मणि "जातः आधानपवमानेष्टिभिः संस्कृतः “त्वं “जातान् उत्पन्नान् "उभयान् देवमनुष्यान् "अन्तः तेषामुभयेषां मध्ये "दूतः हवींषि देवान् प्रापयितुम् "ईयसे गच्छसि । किं कुर्वन् । हे "ऋष्व दर्शनीयाग्ने “ऋजुमुष्कान् । मुष्कशब्देन मांसलोऽभिधीयते । ऋजवः प्रसाधकाः । ऋजवश्च ते मुष्काश्च इति ऋजुमुष्काः। तान् "वृषणः रेतःसेचनसमर्थान् "शुक्रान् दीप्यमानानश्वान् "च "युयुजानः स्वरथे योजयन् ईयसे । यद्वा । ऋष्व महन्नग्ने युयुजानो हविर्वहने नियुज्यमानस्त्वं वृषणो हविःसेचनसमर्थान् यजमानान् शुक्रान् दीप्तान् देवांश्चेयसे ॥ सूनो सहसः । परमपि छन्दसि' इति सहसः पराङ्गवद्भावात् द्वयोः सर्वानुदात्तत्वम् । ईयसे । ‘ ईङ् गतौ ' । दिवादिः । निघातः । युयुजानः । युजेः वर्तमाने लिटि कानचि रूपम् । ऋष्व । संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावः । ऋजुमुष्कान् । समासस्वरः ॥


अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा ।

अ॒न्तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥३

अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा ।

अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥३

अत्या । वृधस्नू इति वृधऽस्नू । रोहिता । घृतस्नू इति घृतऽस्नू । ऋतस्य । मन्ये । मनसा । जविष्ठा ।

अन्तः । ईयसे । अरुषा । युजानः । युष्मान् । च । देवान् । विशः । आ । च । मर्तान् ॥३

हे अग्ने “ऋतस्य सत्यभूतस्य तव संबन्धिनौ "मनसा मनसोऽपि "जविष्ठा वेगवत्तमौ "वृधस्नू । वर्धयतीति वृधमन्नम् । तत् क्षरन्तौ । “घृतस्नू । घृतमुदकं तत्स्रवन्तौ "रोहिता रोहितवर्णौ "अत्या अश्वौ “मन्ये स्तौमि । "अरुषा आरोचमानौ तावश्वौ "युजानः रथे युञ्जानस्त्वं "युष्मान् । देवेष्वग्नेरन्तर्भावात् यजनीयरूपेण कीर्तनम् । युष्मान् यष्टव्यान् "देवान् "विशः परिचारकान् "मर्तान् मनुष्यान् "अन्तः । षष्ठ्यर्थे द्वितीया । तेषां मध्ये "आ समन्तात् "ईयसे हविः स्वीकर्तुं यजमानान् गच्छसि । तद्धविः प्रदातुं देवान् गच्छसि ॥ मन्ये । मन्यतिः अर्चतिकर्मा । मनसा । ‘सुपां सुलुक्' इति पञ्चम्या आकारः । युजानः । ‘युजिर योगे'। ‘युजिबुधिदृशः किञ्च' इत्यानच्प्रत्ययः । चित्त्वादन्तोदात्तः ॥


अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिन्द्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त ।

स्वश्वो॑ अग्ने सु॒रथ॑ः सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥४

अ॒र्य॒मण॑म् । वरु॑णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । अ॒श्विना॑ । उ॒त ।

सु॒ऽअश्वः॑ । अ॒ग्ने॒ । सु॒ऽरथः॑ । सु॒ऽराधाः॑ । आ । इत् । ऊं॒ इति॑ । व॒ह॒ । सु॒ऽह॒विषे॑ । जना॑य ॥४

अर्यमणम् । वरुणम् । मित्रम् । एषाम् । इन्द्राविष्णू इति । मरुतः । अश्विना । उत ।

सुऽअश्वः । अग्ने । सुऽरथः । सुऽराधाः । आ । इत् । ऊं इति । वह । सुऽहविषे । जनाय ॥४

हे "अग्ने "स्वश्वः शोभनाश्वोपेतः “सुरथः शोभनरथः "सुराधाः शोभनधनोपेतः त्वम् "एषां मर्त्यानां मध्ये "सुहविषे शोभनहविष्काय “जनाय यजमानाय “अर्यमणं "वरुणं "मित्रं “इन्द्राविष्णू “मरुतः "अश्विना अश्विनौ च यष्टव्यान् देवान् "आ "वह “इदु आह्वयैव । उः पूरणः ॥ इन्द्राविष्णू । ‘ ऋज्रेन्द्र ' इत्यादिना निपातनादिन्द्रशब्द आद्युदात्तः । देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुहविषे ।' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ।।


गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।

इळा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥५

गोऽमा॑न् । अ॒ग्ने॒ । अवि॑ऽमान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्ऽस॑खा । सद॑म् । इत् । अ॒प्र॒ऽमृ॒ष्यः ।

इळा॑ऽवान् । ए॒षः । अ॒सु॒र॒ । प्र॒जाऽवा॑न् । दी॒र्घः । र॒यिः । पृ॒थु॒ऽबु॒ध्नः । स॒भाऽवा॑न् ॥५

गोऽमान् । अग्ने । अविऽमान् । अश्वी । यज्ञः । नृवत्ऽसखा । सदम् । इत् । अप्रऽमृष्यः ।

इळाऽवान् । एषः । असुर । प्रजाऽवान् । दीर्घः । रयिः । पृथुऽबुध्नः । सभाऽवान् ॥५

हे "असुर बलवन् हे "अग्ने “एषः मदीयोऽयं "यज्ञः "गोमान् गोभिस्तद्वान् "अविमान् । अवयो मेषा अस्य सन्ति इति तद्वान् "अश्वी अश्वोपेतश्चास्तु। "नृवत्सखा । नरः कर्मणां नेतारोऽध्वर्वान्दयः तद्वन्तः सखायोऽनुष्ठातारो यजमाना यस्य स तथोक्तः । "सदमित् सदैव "अप्रमृष्यः अप्रधृष्यश्चास्तु । तथा “इळावान्। इळा हविर्लक्षणमन्नम् । तद्वान् । "प्रजावान् पुत्रपौत्रादियुक्तश्चास्तु । "दीर्घः अविच्छिन्नानुष्ठानोपेतः "रयिः धनवान् । लुप्तमत्वर्थीयः । "पृथुबुध्नः । पृथूनि बहुलानि बुध्नानि धनादीनि कारणानि यस्य स तथोक्तः । "सभावान् उपद्रष्टृरूपसभायुक्तश्चास्तु ॥ नृवत्सखा । नरो येषां सन्तीति नृवत् । मतुप् । तस्य छान्दसं वत्वम् । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ॥ १६ ॥


यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वा त॒तप॑ते त्वा॒या ।

भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ॥६

यः । ते॒ । इ॒ध्मम् । ज॒भर॑त् । सि॒स्वि॒दा॒नः । मू॒र्धान॑म् । वा॒ । त॒तप॑ते । त्वा॒ऽया ।

भुवः॑ । तस्य॑ । स्वऽत॑वान् । पा॒युः । अ॒ग्ने॒ । विश्व॑स्मात् । सी॒म् । अ॒घ॒ऽय॒तः । उ॒रु॒ष्य॒ ॥६

यः । ते । इध्मम् । जभरत् । सिस्विदानः । मूर्धानम् । वा । ततपते । त्वाऽया ।

भुवः । तस्य । स्वऽतवान् । पायुः । अग्ने । विश्वस्मात् । सीम् । अघऽयतः । उरुष्य ॥६

हे "अग्ने "ते त्वदर्थं "यः पुमान् "सिष्विदानः स्विद्यद्गात्रः सन् "इध्मं त्वत्समिन्धनार्थं काष्ठभारं “जभरत् आहरति । यः “वा "त्वाया त्वत्कामनया “मूर्धानं स्वमस्तकं "ततपते काष्ठभारेण तापयति "तस्य तादृशस्य पुंसः "स्वतवान् । ‘ स्वतवान्धनवान् ' इति तलवकारे उक्तम् । धनवान् "भुवः भवसि । "पायुः पालयितासि । "सीम् एनं "विश्वस्मात् सर्वस्मात् "अघायतः अघं पारमिच्छतः पुरुषात् “उरुष्य रक्ष ॥ जभरत् । हरतेर्लुङि चङि रूपम् । चङ्यन्यतरस्याम् ' इति चङ्पूर्वस्य उदात्तत्वम् । सिष्विदानः । ‘ ञिष्विदा गात्रक्षरणे' । कानचि रूपम् । संहितायाम् ‘ आदेशप्रत्यययोः' इति धातुसकारस्य षत्वम् । त्वाया । त्वामात्मन इच्छतीत्यर्थे क्यच् । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । दकारस्य छान्दसमात्वम् । क्यजन्तात् धातोर्भावे ‘अ प्रत्ययात् ' इति अकारप्रत्ययः । ‘ सुपां सुलुक् ' इति तृतीयाया आकारः । एकादेशस्वरः । भुवः । भवतेर्लेट्यडागमे रूपम् । भूसुवोस्तिङि' इति गुणप्रतिषेधः। आगमस्यानुदात्तत्वे धातुस्वरः । स्वतवाँ पायुः इत्यत्र संहितायां स्वतवान्पायौ ' ( पा. सू. ८. ३. ११ ) इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति आकारोऽनुनासिकः । रेफस्य विसर्जनीयः । ‘ कुप्वोः क पौ च ' इति प इत्यादेशः । अघायतः । अघमात्मन इच्छतीत्यर्थे सुपः क्यच् । अश्वाघस्यात् ' इति आत्वम् । तदन्ताच्छतृप्रत्ययः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । उरुष्य । उरुशब्दः कण्ड्वादिः । लोटि रूपम् । निघातः ॥


यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्म॒न्द्रमति॑थिमु॒दीर॑त् ।

आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥७

यः । ते॒ । भरा॑त् । अन्नि॑ऽयते । चि॒त् । अन्न॑म् । नि॒ऽशिष॑त् । म॒न्द्रम् । अति॑थिम् । उ॒त्ऽईर॑त् ।

आ । दे॒व॒ऽयुः । इ॒नध॑ते । दु॒रो॒णे । तस्मि॑न् । र॒यिः । ध्रु॒वः । अ॒स्तु॒ । दास्वा॑न् ॥७

यः । ते । भरात् । अन्निऽयते । चित् । अन्नम् । निऽशिषत् । मन्द्रम् । अतिथिम् । उत्ऽईरत् ।

आ । देवऽयुः । इनधते । दुरोणे । तस्मिन् । रयिः । ध्रुवः । अस्तु । दास्वान् ॥७

हे अग्ने "यः पुमान् "अन्नियते अन्नमिच्छते "ते तुभ्यं हविर्लक्षणं पुरोडाशादिकम् "अन्नं "भरात् दातुं बिभृयात् । "चित् इति चार्थे । यश्च "मन्द्रं मदकरं सोमं "निशिषत् नितरां प्रयच्छति । यश्च “अतिथिम् अतिथिवत् पूज्यं त्वाम् "उदीरत् उत्तरवेद्यां प्रणयति । "आ अपि च यश्च “देवयुः देवं त्वां कामयमानः “दुरोणे स्वकीये गृहे "इनधते त्वां समिद्भिः समिन्धते "तस्मिन् एतस्मिन् पुरुषे "रयिः पुत्रः “ध्रुवः आस्तिक्यबुद्ध्या वैदिके मार्गे निश्चलः "अस्तु । तथा “दास्वान् औदार्योपेतश्चास्तु ॥ भरात् । डुभृञ् धारणपोषणयोः ' इत्यस्य लेट्याडागमे रूपम् । यद्वृत्तयोगादनिघातः । अन्नियते । अन्नमात्मन इच्छते । क्यच्। क्यचि च' इति इत्वम् । ह्रस्वश्छान्दसः । निशिषत्। शासु अनुशिष्टौ । लुङि ' सर्तिशास्त्यर्तिभ्यश्च' इति च्लेरङादेशः । 'शास इदङ्हलोः' इति इत्वम् । उदीरत्। ईर गतौ । लेटि व्यत्ययेन परस्मैपदम् । अडागमः । आगमस्यानुदात्तत्वे धातुस्वरः। ‘तिङि चोदात्तवति' इति गतेर्निघातः । इनधते । ञिइन्धी दीप्तौ ' । लटि व्यत्ययेन शप् । रुधादित्वात् श्नम् ।' श्नान्नलोपः ' इति धातुनकारलोपः । क्ङित्परत्वाभावात् श्नसोरल्लोपाभावः । यद्वृत्तयोगादनिघातः । श्नमः स्वरः । दास्वान् । 'दासृ दाने ' । संपदादिलक्षणो भावे क्विप्। तदस्यास्ति ' इति मतुप् । ‘मादुपधायाः इति वत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥


यस्त्वा॑ दो॒षा य उ॒षसि॑ प्र॒शंसा॑त्प्रि॒यं वा॑ त्वा कृ॒णव॑ते ह॒विष्मा॑न् ।

अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह॑सः पीपरो दा॒श्वांस॑म् ॥८

यः । त्वा॒ । दो॒षा । यः । उ॒षसि॑ । प्र॒ऽशंसा॑त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव॑ते । ह॒विष्मा॑न् ।

अश्वः॑ । न । स्वे । दमे॑ । आ । हे॒म्याऽवा॑न् । तम् । अंह॑सः । पी॒प॒रः॒ । दा॒श्वांस॑म् ॥८

यः । त्वा । दोषा । यः । उषसि । प्रऽशंसात् । प्रियम् । वा । त्वा । कृणवते । हविष्मान् ।

अश्वः । न । स्वे । दमे । आ । हेम्याऽवान् । तम् । अंहसः । पीपरः । दाश्वांसम् ॥८

हे अग्ने "यः पुमान् “दोषा दोषायां रात्रौ त्वां "प्रशंसात् संस्तुयात् । "यः च "उषसि प्रातःकाले त्वां प्रशंसेत् । "हविष्मान् संभृतहविष्को यः “वा यजमानः “त्वा त्वां "प्रियं हविर्भिः प्रीतं "कृणवते कुर्यात् । “आ अथ "दाश्वांसं हविर्दत्तवन्तं "तं तादृशं यजमानं "स्वे "दमे स्वकीये गृहे "हेम्यावान् सुवर्णनिर्मितकक्ष्यावान् "अश्वो "न अश्व इव संचरंस्त्वम् "अंहसः पापरूपाद्दारिद्र्यात् “पीपरः पारं नय । तस्मै यजमानाय बहु धनं प्रयच्छेत्यर्थः । दोषा । सप्तम्या आकारः । प्रशंसात् । ‘ शंसु स्तुतौ ' । लेटि आडागमे रूपम् । कृणवते । ‘कृवि हिंसाकरणयोः' इत्यस्य लेटि ‘धिन्विकृण्व्योर च 'इत्युप्रत्ययः।‘लेटोऽडाटौ ' इत्यडागमः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः। हेम्यावान्। हेम अर्हति । 'छन्दसि च ' इति यः । पीपरः । पॄ पालनपूरणयोः' इत्यस्य ण्यन्तस्य लुङि चङि रूपम् । निघातः ॥


यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् ।

न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंह॒ः परि॑ वरदघा॒योः ॥९

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दाश॑त् । दुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् ।

न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥९

यः । तुभ्यम् । अग्ने । अमृताय । दाशत् । दुवः । त्वे इति । कृणवते । यतऽस्रुक् ।

न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघऽयोः ॥९

हे "अग्ने "यः यजमानः "अमृताय मरणधर्मरहिताय "तुभ्यं "दाशत् हवींषि प्रयच्छेत् । “यतस्रुक् संयतस्रुक् ‘ यश्च यजमानः “त्वे त्वयि "दुवः परिचर्या "कृणवते करोति "शशमानः स्तोत्रं कुर्वाणः "सः यजमानः "राया धनेन "न "वि “योषत् न पृथग्भवेत् । सदा धनयुक्तो भवेदित्यर्थः। “अघायोः पापमिच्छतो हिंसकस्य संबन्धि "अंहः आहननं पापम् “एनं यजमानं "न “परि “वरत् न परिवृणुयात् । न स्पृशेदित्यर्थः ॥ दाशत् । दाशृ दाने '। लेट्यडागमे रूपम् । त्वे । ' सुपां सुलुक् । इति सप्तम्याः शे इत्यादेशः । कृणवते । यद्वृत्तयोगादनिघातः । योषत् ।' यु मिश्रणे'। लेटि ‘ सिब्बहुलम् ' इति सिप् । अडागमः । निघातः । वरत् ।' वृञ् वरणे'। लेटि रूपम् ॥


यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो॑षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा॑णः ।

प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा॑म॒ यस्य॑ विध॒तो वृ॒धास॑ः ॥१०

यस्य॑ । त्वम् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जुजो॑षः । दे॒वः । मर्त॑स्य । सुऽधि॑तम् । ररा॑णः ।

प्री॒ता । इत् । अ॒स॒त् । होत्रा॑ । सा । य॒वि॒ष्ठ॒ । असा॑म । यस्य॑ । वि॒ध॒तः । वृ॒धासः॑ ॥१०

यस्य । त्वम् । अग्ने । अध्वरम् । जुजोषः । देवः । मर्तस्य । सुऽधितम् । रराणः ।

प्रीता । इत् । असत् । होत्रा । सा । यविष्ठ । असाम । यस्य । विधतः । वृधासः ॥१०

हे "अग्ने "रराणः रममाण: “देवः दीप्यमानः “त्वं "यस्य "मर्तस्य मनुष्यस्य संबन्धि "सुधितं त्वदर्थं सुष्ठु निहितम् "अध्वरम् अनुपहतं हविर्लक्षणमन्नं "जुजोषः सेवेथाः हे "यविष्ठ युवतम "सा "होत्रा स होता यजमानः “प्रीतेदसत् प्रीत एव भवेत् । "असाम तस्य यजमानस्य संबन्धिनो भवेम “यस्य “विधतः अग्निपरिचर्यां कुर्वतो यजमानस्य होत्रादयः “वृधासः यज्ञस्य वर्धयितारो भवन्ति ॥ जुजोषः । ‘जुषी प्रीतिसेवनयोः' इत्यस्य ‘ बहुलं छन्दसि ' इति श्लुः । अडागमः । अभ्यस्तस्वरः । सुधितम् । दधातेर्निष्ठायां • सुधितवसुधित° ' इति निपातनात् ध्यादेशः । ‘ गतिरनन्तरः' इति गतेः स्वरः । असाम । अस्तेर्लोटि ‘ आडुत्तमस्य पिच्च' इति आडागमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः। विधतः । ‘ विध विधाने' । तुदादिः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥ ॥ १७ ॥


चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् ।

रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥११

चित्ति॑म् । अचि॑त्तिम् । चि॒न॒व॒त् । वि । वि॒द्वान् । पृ॒ष्ठाऽइ॑व । वी॒ता । वृ॒जि॒ना । च॒ । मर्ता॑न् ।

रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्याय॑ । दे॒व॒ । दिति॑म् । च॒ । रास्व॑ । अदि॑तिम् । उ॒रु॒ष्य॒ ॥११

चित्तिम् । अचित्तिम् । चिनवत् । वि । विद्वान् । पृष्ठाऽइव । वीता । वृजिना । च । मर्तान् ।

राये । च । नः । सुऽअपत्याय । देव । दितिम् । च । रास्व । अदितिम् । उरुष्य ॥११

“विद्वान् प्राणिनां पुण्यपापरूपाणि कर्माणि जानानः सोऽग्निः “चित्तिं ज्ञातव्यं पुण्यम् "अचित्तिम् अनुपादेयत्वेनाचेतनीयं पापम् । यद्वा । चित्तिं ज्ञानमचित्तिमज्ञानं "वि “चिनवत् विचिनोतु पृथक्करोतु । तत्र दृष्टान्तः । "पृष्ठेव । यथाश्वपालोऽश्वानां "वीता कान्तानि "वृजिना दुर्वहाणि च पृष्ठा पृष्ठानि हेयोपादेयत्वेन पृथक्करोति तद्वत् । किंच "मर्तान् पुण्यकृतोऽपुण्यकृतः "च मनुष्यान् पृथक्करोतु । हे “देव अग्ने "स्वपत्याय शोभनपुत्रोपेताय "राये धनाय "नः अस्मान् कुरु । “दितिं दातारं “च “रास्व देहि । "अदितिम् । पञ्चम्यर्थे द्वितीया । अदातुः सकाशात् "उरुष्य रक्ष ॥ चित्तिम् ।' चिती संज्ञाने'। स्त्रियां क्तिन् । नित्त्वदाद्युदात्तः । चिनवत् । चिनोतेर्लेट्यडागमः । दितिम् । ‘दाण् दाने । कर्तरि क्तिन् । रास्व। ‘रा दाने ' । लोटि व्यत्ययेनात्मनेपदम् । ‘चवायोगे प्रथमा' इति न निघातः ॥


क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय॑न्तो॒ दुर्या॑स्वा॒योः ।

अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवै॑ः ॥१२

क॒विम् । श॒शा॒सुः॒ । क॒वयः॑ । अद॑ब्धाः । नि॒ऽधा॒रय॑न्तः । दुर्या॑सु । आ॒योः ।

अतः॑ । त्वम् । दृश्या॑न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्ऽभिः । प॒श्येः॒ । अद्भु॑तान् । अ॒र्यः । एवैः॑ ॥१२

कविम् । शशासुः । कवयः । अदब्धाः । निऽधारयन्तः । दुर्यासु । आयोः ।

अतः । त्वम् । दृश्यान् । अग्ने । एतान् । पट्ऽभिः । पश्येः । अद्भुतान् । अर्यः । एवैः ॥१२

हे "अग्ने "आयोः मनुष्यस्य "दुर्यासु गृहेषु "अदब्धाः केनाप्यतिरस्कृताः "निधारयन्तः निवसन्तः "कवयः क्रान्तदृशो देवाः "कविं मेधाविनं त्वां “शशासुः । होता भवेति शशंसुः । "अतः कारणात् “अर्यः यज्ञस्य स्वामी “त्वं "दृश्यान् दर्शनीयान् अद्भुतान् आश्चर्यरूपोपेतानिन्द्रादीन् "एतान् देवान् “एवैः गमनशीलैः "पड्भिः पादैः स्वतेजोभिः "पश्येः जानीयाः ॥ दृश्यान् ।' दृशिर प्रेक्षणे'। ऋदुपधाच्चाक्लृपिचृतेः ' ( पा. सू. ३. १. ११० ) इति कर्मणि क्यप् । कित्त्वादगुणः । पित्त्वादनुदात्तत्वे धातुस्वरः ॥


त्वम॑ग्ने वा॒घते॑ सु॒प्रणी॑तिः सु॒तसो॑माय विध॒ते य॑विष्ठ ।

रत्नं॑ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ॥१३

त्वम् । अ॒ग्ने॒ । वा॒घते॑ । सु॒ऽप्रनी॑तिः । सु॒तऽसो॑माय । वि॒ध॒ते । य॒वि॒ष्ठ॒ ।

रत्न॑म् । भ॒र॒ । श॒श॒मा॒नाय॑ । घृष्वे॒ । पृ॒थु । च॒न्द्रम् । अव॑से । च॒र्ष॒णि॒ऽप्राः ॥१३

त्वम् । अग्ने । वाघते । सुऽप्रनीतिः । सुतऽसोमाय । विधते । यविष्ठ ।

रत्नम् । भर । शशमानाय । घृष्वे । पृथु । चन्द्रम् । अवसे । चर्षणिऽप्राः ॥१३

हे "यविष्ठ युवतम “घृष्वे दीप्तियुक्त । यद्वा । परेषां घर्षणशील हे "अग्ने "चर्षणिप्राः अपेक्षितफलप्रदानेन मनुष्याणां कामपूरकः "सुप्रणीतिः सुष्ठूत्तरवेद्यां प्रणयनीयः “त्वं "सुतसोमाय “विधते तव परिचरणं कुर्वते "शशमानाय त्वां स्तुवते “वाघते यज्ञनिर्वाहकाय यजमानाय “पृथु प्रभूतं "चन्द्रम् आह्लादकारि “रत्नम् उत्तमं धनम् "अवसे रक्षणाय “भर आहर प्रयच्छेत्यर्थः ॥ सुप्रणीतिः। ‘णीञ् प्रापणे ' । कर्मणि क्तिन् ।' तादौ च निति कृति° 'इत्यनन्तरप्रशब्दस्योदात्तत्वम् । पृथु श्चन्द्रम् इत्यत्र संहितायां ' ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति सुडागमः । श्रुत्वेन शकारः ॥


अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभि॑ः ।

रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो॑रृ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥१४

अध॑ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒ऽया । प॒ट्ऽभिः । हस्ते॑भिः । च॒कृ॒म । त॒नूभिः॑ ।

रथ॑म् । न । क्रन्तः॑ । अप॑सा । भु॒रिजोः॑ । ऋ॒तम् । ये॒मुः॒ । सु॒ऽध्यः॑ । आ॒शु॒षा॒णाः ॥१४

अध । ह । यत् । वयम् । अग्ने । त्वाऽया । पट्ऽभिः । हस्तेभिः । चकृम । तनूभिः ।

रथम् । न । क्रन्तः । अपसा । भुरिजोः । ऋतम् । येमुः । सुऽध्यः । आशुषाणाः ॥१४

हे "अग्ने "अधा “ह अथ खलु “वयं “त्वाया त्वत्कामनया “पड्भिः पादैः "हस्तेभिः हस्तैः “तनूभिः अन्यैश्चावयवैः "चकृम "यत् यस्मात् कारणात् कर्मसिद्ध्यर्थं त्वामुपपादयामस्तस्मात् "सुध्यः सुकर्माणः "आशुषाणाः कर्माणि व्याप्नुवन्तस्तेऽङ्गिरसः “ऋतं सत्यभूतं त्वां "भुरिजोः । बिभृतः कर्मकरणसामर्थ्यं पदार्थान् वेति भुरिजौ बाहू । तयोः "अपसा मन्थनाख्येन कर्मणा "येमुः उद्यच्छन्ति । तत्र दृष्टान्तः । "रथं "न । यथा “क्रन्तः कारवः शिल्पिनः क्रामन्तोऽध्वगा वा हस्तयोः यथा रथमुद्यच्छन्ति तद्वत् । यद्वा । भुरिजोः । देवान् मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ । तयोर्मध्येऽपसा परिचरणकर्मणा सत्यभूतं तमग्निं येमुः उद्यच्छन्ति ॥ अध । संहितायां : निपातस्य च ' इति दीर्घः । क्रन्तः । करोतेः शतरि ' बहुलं छन्दसि ' इति विकरणस्य लुक् । प्रत्ययस्वरः ।। भुरिजोः । ‘ डुभृञ् धारणपोषणयोः । ‘ भृञ उच्च' इति इजिप्रत्ययः । धातोरुकारो रपरः । प्रत्ययस्वरः ॥


अधा॑ मा॒तुरु॒षस॑ः स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् ।

दि॒वस्पु॒त्रा अङ्गि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चन्त॑ः ॥१५

अध॑ । मा॒तुः । उ॒षसः॑ । स॒प्त । विप्राः॑ । जाये॑महि । प्र॒थ॒माः । वे॒धसः॑ । नॄन् ।

दि॒वः । पु॒त्राः । अङ्गि॑रसः । भ॒वे॒म॒ । अद्रि॑म् । रु॒जे॒म॒ । ध॒निन॑म् । शु॒चन्तः॑ ॥१५

अध । मातुः । उषसः । सप्त । विप्राः । जायेमहि । प्रथमाः । वेधसः । नॄन् ।

दिवः । पुत्राः । अङ्गिरसः । भवेम । अद्रिम् । रुजेम । धनिनम् । शुचन्तः ॥१५

वामदेवोऽन्यैः षड्भिरङ्गिरोभिः सह ब्रूते । "अध अपि च "मातुरुषसः सकाशात् "सप्त सप्तसंख्याकाः “विप्राः प्राज्ञा वयं स्मः । "प्रथमाः श्रेष्ठा वयं "वेधसः अग्नेः परिचारकान् "नॄन् वेधसो विधातॄन् रश्मीन् वा "जायेमहि वयं जनयामः । "दिवः द्योतमानस्यादित्यस्य "पुत्राः वयं "अङ्गिरसो “भवेम भूतिमन्तः स्याम । “शुचन्तः दीप्यमाना वयं “धनिनम् उदकवन्तम् "अद्रिं मेघं "रुजेम वर्षार्थं भिन्द्याम । यद्वा । धनिनं पणिनामकासुरापहृतगोधनयुक्तमद्रिं पर्वतं रुजेम । अङ्गिरसामादित्यपुत्रत्वमेवमाम्नायते - तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवत् ' इत्युपक्रम्य ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ' ( ऐ. ब्रा. ३. ३४ ) इति ॥ जायेमहि । ‘ जनी प्रादुर्भावे ' । लिङि ' ज्ञाजनोर्जा ' इति जादेशः । वेधसः । डुधाञ् धारणपोषणयोः' इत्यस्मात् ' विधाञो वेध च' ( उ. सू. ४.६६४ ) इति असिप्रत्ययः । धातोर्वेध इत्यादेशः । दिवस्पुत्रा इत्यत्र संहितायां ‘ षष्ठ्याः पतिपुत्र ' इति विसर्जनीयस्य सत्वम् । रुजेम । ‘ रुजो भङ्गे ' । अदादिः । लिङि रूपम् ॥ ॥१८॥


अधा॒ यथा॑ नः पि॒तर॒ः परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।

शुचीद॑य॒न्दीधि॑तिमुक्थ॒शास॒ः क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥१६

अध॑ । यथा॑ । नः॒ । पि॒तरः॑ । परा॑सः । प्र॒त्नासः॑ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।

शुचि॑ । इत् । अ॒य॒न् । दीधि॑तिम् । उ॒क्थ॒ऽशसः॑ । क्षामा॑ । भि॒न्दन्तः॑ । अ॒रु॒णीः । अप॑ । व्र॒न् ॥१६

अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आशुषाणाः ।

शुचि । इत् । अयन् । दीधितिम् । उक्थऽशसः । क्षामा । भिन्दन्तः । अरुणीः । अप । व्रन् ॥१६

हे "अग्ने "अध अपि च "परासः श्रेष्ठाः "प्रत्नासः पुराणाः “ऋतं सत्यभूतं यज्ञं “यथा यथावत् “आशुषाणाः अश्नुवानाः "नः अस्माकं “पितरः अङ्गिरसः "शुचि दीप्तं स्थानम् “अयन् अगच्छन् । तथा “दीधितिं तेजश्चागच्छन् । किंच “उक्थशासः उक्थानां शस्त्राणां शंसितारः “क्षाम क्षयकारणं तमः पापं वा "भिन्दन्तः विनाशयन्तोऽङ्गिरसः "अरुणी: अरुणवर्णाः पणिभिरपहृता गा उषसो वा “अप “व्रन् अपावृण्वन् । प्रकाशितवन्त इत्यर्थः ॥ अयन् । ‘ इण् गतौ ' । लङि ‘ इणो यण् ' इति यण् । व्यत्ययेन अडागमः । दीधितिम् । ‘दीधीङ् दीप्तिदेवनयोः' इत्यस्मात् क्तिनि ह्रस्वश्छान्दसः । नित्त्वादाद्युदात्तः । उक्थशासः । उक्थशब्द उपपदे : शंसु स्तुतौ ' इत्यस्मात् ‘ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ' (पा. सू. ३. २. ७१) इति ण्विन् नकारलोपश्च निपातनादेव । पदकाले ह्रस्वश्छान्दसः । अरुणीः । गौरादिङीषन्तः । एकादेशस्वरः । व्रन् । वृणोतेर्लुङि ‘मन्त्रे घस इत्यादिना च्लेर्लुक् । निघातः ॥


आग्रयण आग्नेन्द्रस्य हविषः ‘सुकर्माणः' इति याज्या । सूत्रितं च - सुकर्माणः सुरुचो देवयन्तो विश्वे देवास आ गत ' ( आश्व. श्रौ. २. ९ ) इति ॥

सु॒कर्मा॑णः सु॒रुचो॑ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः ।

शु॒चन्तो॑ अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं॑ परि॒षद॑न्तो अग्मन् ॥१७

सु॒ऽकर्मा॑णः । सु॒ऽरुचः॑ । दे॒व॒ऽयन्तः॑ । अयः॑ । न । दे॒वाः । जनि॑म । धम॑न्तः ।

शु॒चन्तः॑ । अ॒ग्निम् । व॒वृ॒धन्तः॑ । इन्द्र॑म् । ऊ॒र्वम् । गव्य॑म् । प॒रि॒ऽसद॑न्तः । अ॒ग्म॒न् ॥१७

सुऽकर्माणः । सुऽरुचः । देवऽयन्तः । अयः । न । देवाः । जनिम । धमन्तः ।

शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । ऊर्वम् । गव्यम् । परिऽसदन्तः । अग्मन् ॥१७

“सुकर्माणः सुष्ठ्वनुष्ठितयागादिकर्माणः "सुरुचः शोभनदीप्तयः "देवयन्तः देवान् कामयमानाः “देवाः देवनशीलाः स्तोतारः “जनिम स्वकीयं मानुषं जन्म “धमन्तः यागादिलक्षणेन कर्मणा निर्मलीकुर्वन्तः । तत्र दृष्टान्तः । "अयो "न । यथा कर्मारा अयो भस्त्रेण धमन्ति तद्वत् । तादृशाः "अग्निं “शुचन्तः हविर्भिर्दीपयन्तः “इन्द्रं "ववृधन्तः सोमेन स्तुत्या वा वर्धयन्तोऽङ्गिरसः "परिषदन्तः परितः सीदन्तः सन्तः “ऊर्वं महान्तं "गव्यं गोसंघम् "अग्मन् प्राप्नुवन् ॥ सुकर्माणः । “सोर्मनसी° ' इत्युत्तरपदाद्युदात्तत्वम् । धमन्तः । ध्मा शब्दाग्निसंयोगयोः । शतरि पाघ्रादिना धमादेशः । शपः पित्त्वात् अनुदात्तत्वे ‘ शतुर्लसार्वधातुकस्वरः । ववृधन्तः । वृधु वर्धने'। व्यत्ययेन परस्मैपदम् । शतरि शपः श्लुः । गव्यम् । गवां समूह इत्यर्थे ‘खलगोरथात् ' इति यः । अग्मन् । गमेर्लुङि च्लेर्लुकि रूपम् ॥


आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र ।

मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥१८

आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्वः । अ॒ख्य॒त् । दे॒वाना॑म् । यत् । जनि॑म । अन्ति॑ । उ॒ग्र॒ ।

मर्ता॑नाम् । चि॒त् । उ॒र्वशीः॑ । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्यः । उप॑रस्य । आ॒योः ॥१८

आ । यूथाऽइव । क्षुऽमति । पश्वः । अख्यत् । देवानाम् । यत् । जनिम । अन्ति । उग्र ।

मर्तानाम् । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्यः । उपरस्य । आयोः ॥१८

“उग्र तेजस्विन् हे अग्ने “देवानाम् "अङ्गिरसां संबन्धि "यज्जनिम यं गोसंघम् "अन्ति पर्वतस्य समीपे “आ “अख्यत् ॥ समन्तादिन्द्रोऽपश्यत् । तत्र दृष्टान्तः । "यूथेव । यथा “पश्वः पशूनां गवां यूथानि “क्षुमति अन्नवत्याढ्यगृहे वर्तमानानि पश्यन्ति जनास्तद्वत् । यद्वा । हे अग्ने तव परिचारकः अङ्गिरोगणः देवानाम् इन्द्रादीनां यज्जनिम योऽयं जनः अन्ति मदन्तिके पश्वः पणिभिः अपहृतान् पशून् आख्यत् समन्तान् पश्यति । तत्र दृष्टान्तः । यथा क्षुमति शब्दं कुर्वाणे गवां यूथा यूथे पशून् पश्यन्ति तद्वत् । “मर्तानां “चित् मनुष्याणाम् "उर्वशीः ऊरुभ्यामश्नुवानाः । ‘ उर्वभ्यश्नुत ऊरुभ्यामश्नुते ' ( निरु. ५. १३) इति यास्कः । प्रजाः "अकृप्रन् । ताभिरानीताभिर्गोभिः क्लृप्ताः समर्था अभवन् । “चित् अपि च "अर्यः स्वामी लब्धगोधनः “उपरस्य उप्तस्य निषिक्तस्यापत्यस्य “वृधे वर्धनाय समर्थो भवति । तथा “आयोः मनुष्यस्य भृत्यादेश्च पोषणे समर्थो भवति ॥ यूथेव । शसः सप्तम्या वा डादेशः । क्षुमति । क्षुत् इत्यन्ननाम् । यद्वा । 'टुक्षु शब्दे '। भावे क्विप् । छान्दसः तकारलोपः । ‘ तदस्यास्ति' इति मतुप् । ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । अख्यत् । ‘ख्या प्रकथने '। लुङि च्लेः अस्यतिवक्तिख्यातिभ्योऽङ् ' इत्यङादेशः । आतो लोपः। जनिम । जनी प्रादुर्भावे '। ‘ हृजनिभ्यामिमनिन् ' इति इमनिन्प्रत्ययः । नित्त्वादाद्युदात्तः । अकृप्रन् । ‘कृपू सामर्थ्ये ' । लङि • बहुलं छन्दसि' इति विकरणस्य लुक् । रुडागमः ॥


अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः ।

अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षु॑ः ॥१९

अक॑र्म । ते॒ । सु॒ऽअप॑सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः॑ । वि॒ऽभा॒तीः ।

अनू॑नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒ऽच॒न्द्रम् । दे॒वस्य॑ । मर्मृ॑जतः । चारु॑ । चक्षुः॑ ॥१९

अकर्म । ते । सुऽअपसः । अभूम । ऋतम् । अवस्रन् । उषसः । विऽभातीः ।

अनूनम् । अग्निम् । पुरुधा । सुऽचन्द्रम् । देवस्य । मर्मृजतः । चारु । चक्षुः ॥१९

हे अग्ने "ते तव परिचरणम् "अकर्म कुर्मः । तेन कर्मणा "स्वपसः शोभनकर्माणः “अभूम । “विभातीः व्युच्छन्त्यः “उषसः “ऋतं तेजः “अवस्रन् आच्छादयन्ति । धारयन्तीत्यर्थः । तथा ता उषसः "अनूनं संपूर्णं “पुरुधा बहुधा “सुश्चन्द्रं सुष्ठ्वाह्लादकारिणं यद्वा सुहिरण्यम् "अग्निं धारयन्ति । किंच “देवस्य द्योतमानस्य तव "चारु मनोहरं "चक्षुः तेजः “मर्मृजतः परिचरन्तो वयं स्वपसोऽभूमेति पूर्वेणान्वयः ॥ अकर्म । करोतेर्लङि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । मर्मृजतः । ‘ मृजूष् शुद्धौ ' । यङ्लुकि “ रुग्रिकौ च लुकि ' इत्यभ्यासस्य रुगागमः । शतरि नाभ्यस्ताच्छतुः इति नुमभावः । अभ्यस्तस्वरः ॥


ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व ।

उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य॑न्धि ॥२०

ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । अवो॑चाम । क॒वये॑ । ता । जु॒ष॒स्व॒ ।

उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒ऽवा॒र॒ । प्र । य॒न्धि॒ ॥२०

एता । ते । अग्ने । उचथानि । वेधः । अवोचाम । कवये । ता । जुषस्व ।

उत् । शोचस्व । कृणुहि । वस्यसः । नः । महः । रायः । पुरुऽवार । प्र । यन्धि ॥२०

“वेधः विधातर्हे "अग्ने "कवये मेधाविने "ते तुभ्यम् "एता एतानि “उचथानि उक्थानि शस्त्राणि "अवोचाम । त्वं “ता तानि “जुषस्व सेवस्व । किंच त्वम् “उच्छोचस्व उद्दीप्यस्व । "न: अस्मान् “वस्यसः अतिशयेन धनयुक्तान् "कृणुहि कुरु । तदेवोच्यते । "पुरुवार पुरुभिर्बहुभिर्वरणीय “महो "रायः महद्धनं “प्र "यन्धि अस्मभ्यं प्रयच्छ ॥ अवोचाम। ‘ वच परिभाषणे ' । लुङि च्लेरङादेशः । पादादित्वादनिघातः । कृणुहि । 'कृवि हिंसाकरणयोः' इत्यस्य लोटि रूपम् । तिङः उत्तरत्वादनिघातः । वस्यसः । वसुमच्छब्दात् ईयसुनि ‘विन्मतोर्लुक्' इति मतुपो लुकि टिलोपे च कृते ईकारलोपश्छान्दसः । यन्धि । यमेर्लोटि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ वा छन्दसि ' इति हेर्विकल्पेन पित्त्वात् ‘अङितश्च ' इति धिरादेशः ॥ ॥ १९ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२&oldid=198222" इत्यस्माद् पुनः प्राप्तिः