ऋग्वेदः सूक्तं ४.५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.४ ऋग्वेदः - मण्डल ४
सूक्तं ४.५
वामदेवो गौतमः
सूक्तं ४.६ →
दे. वैश्वानरोऽग्निः। त्रिष्टुप्


वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः ।
अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः ॥१॥
मा निन्दत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् ।
पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥२॥
साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान् ।
पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम् ॥३॥
प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः ।
प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥४॥
अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः ।
पापासः सन्तो अनृता असत्या इदं पदमजनता गभीरम् ॥५॥
इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म ।
बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु ॥६॥
तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः ।
ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु ॥७॥
प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति ।
यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥८॥
इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः ।
ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद ॥९॥
अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः ।
मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥१०॥
ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् ।
त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥११॥
किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् ।
गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥१२॥
का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम् ।
कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥१३॥
अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः ।
अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् ॥१४॥
अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच ।
रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥१५॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

इत्थं तृतीयाष्टकगश्चतुर्थोऽध्याय आदरात् ।

व्याख्यातः सायणायेंण पञ्चमो व्याकरिष्यते ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थे मण्डले प्रथमेऽनुवाके दश सूक्तानि ।' वैश्वानराय ' इति पञ्चदशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । अत्रानुक्रमणिका- वैश्वानराय वैश्वानरीयम्' इति । विनियोगो लैङ्गिकः ॥


वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः ।

अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥१

वै॒श्वा॒न॒राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ । क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । बृ॒हत् । भाः ।

अनू॑नेन । बृ॒ह॒ता । व॒क्षथे॑न । उप॑ । स्त॒भा॒य॒त् । उ॒प॒ऽमित् । न । रोधः॑ ॥१

वैश्वानराय । मीळ्हुषे । सऽजोषाः । कथा । दाशेम । अग्नये । बृहत् । भाः ।

अनूनेन । बृहता । वक्षथेन । उप । स्तभायत् । उपऽमित् । न । रोधः ॥१

"सजोषाः सजोषसः समानप्रीतियुक्ता वयमृत्विग्यजमानाः "वैश्वानराय विश्वनरसंबन्धिने एतन्नामकाय "मीळ्हुषे अभिमतवृष्ट्यादिसेक्त्रे "बृहत् बृहते महते “भाः भासमानाय “अग्नये देवाय “कथा कथं केन प्रकारेण दाशेम दद्याम । सामर्थ्यात् हविरिति गम्यते । अथवा बृहद्भा इत्युत्तरत्र योज्यम् । कथा दाशेमेत्युक्तम् । किं तत्र आधिक्यमिति तदुच्यते । योऽग्निर्बृहन्महान् भा भासमानश्च सन् "अनूनेन अविकलेन संपूर्णेन अत एव "बृहता प्रभूतेन “वक्षथेन वोढव्येन स्वशरीरेण “उप "स्तभायत् उप स्तभ्नाति । सामर्थ्यात् द्यामिति शेषः । द्युलोकं व्याप्नोतीत्यर्थः। तत्र दृष्टान्तः। “उपमिन्न “रोधः । उप समीपे मीयते क्षिप्यते इत्युपमित् स्थूणा । सा यथा तृणाच्छादनादिनिरोधकं वंशादिकमुपस्तभ्नाति तद्वत् । यद्वा । वक्षथेनोक्थलक्षणेन फलादिवाहकेन स्तोत्रेण सह द्युलोकमुपस्तभायत् ॥ स्तभायत् । स्तम्भुः सौत्रो धातुः । लङि ‘ छन्दसि शायजपि ' इति व्यत्ययेन अहावपि शायजादेशः । ‘ बहुलं छन्दसि ' इत्यडभावः ॥ किमिव । उपमिन्न रोधः । उप समीपे मीयते इत्युपमिदुदकम् । कूलमिव ॥


मा निं॑दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् ।

पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥२

मा । नि॒न्द॒त॒ । यः । इ॒माम् । मह्य॑म् । रा॒तिम् । दे॒वः । द॒दौ । मर्त्या॑य । स्व॒धाऽवा॑न् ।

पाका॑य । गृत्सः॑ । अ॒मृतः॑ । विऽचे॑ताः । वै॒श्वा॒न॒रः । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥२

मा । निन्दत । यः । इमाम् । मह्यम् । रातिम् । देवः । ददौ । मर्त्याय । स्वधाऽवान् ।

पाकाय । गृत्सः । अमृतः । विऽचेताः । वैश्वानरः । नृऽतमः । यह्वः । अग्निः ॥२

हे होत्रादयः अमुं वैश्वानरमग्निं "मा "निन्दत निन्दां मा कुरुत । स्तुतेत्यर्थः । "यः "देवः दीप्यमानोऽग्निः "स्वधावान् अस्मद्दत्तेन हविर्लक्षणेनान्नेन तद्वान् सन् “मर्त्याय मरणधर्माय “पाकाय परिपक्वप्रज्ञाय "मह्यं यजमानाय “इमाम् इदानीं दीयमानप्रकारां "रातिं धनं "ददौ दत्तवान् । स विशेष्यते । “गृत्सः मेधावी । मेधाविनामैतत् । "अमृतः अमरणस्वभावः "विचेताः विशिष्टप्रज्ञः "वैश्वानरः विश्वैर्नरैः अहवनीयादिरूपेण नीयमानः “नृतमः नेतृतमः फलादीनां "यह्वः महान् । महन्नामैतत् । “अग्निः अङ्गनादिगुणविशिष्टः। तादृशमग्निं स्तुतेति भावः ॥


साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् ।

प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षां ॥३

साम॑ । द्वि॒ऽबर्हाः॑ । महि॑ । ति॒ग्मऽभृ॑ष्टिः । स॒हस्र॑ऽरेताः । वृ॒ष॒भः । तुवि॑ष्मान् ।

प॒दम् । न । गोः । अप॑ऽगूळ्हम् । वि॒वि॒द्वान् । अ॒ग्निः । मह्य॑म् । प्र । इत् । ऊं॒ इति॑ । वो॒च॒त् । म॒नी॒षाम् ॥३

साम । द्विऽबर्हाः । महि । तिग्मऽभृष्टिः । सहस्रऽरेताः । वृषभः । तुविष्मान् ।

पदम् । न । गोः । अपऽगूळ्हम् । विविद्वान् । अग्निः । मह्यम् । प्र । इत् । ऊं इति । वोचत् । मनीषाम् ॥३

“द्विबर्हाः द्वयोर्मध्यमोत्तमयोः स्थानयोः परिवृढः “तिग्मभृष्टिः तीक्ष्णतेजाः "सहस्ररेताः बहुविधहिरण्यरेतस्कः । रेतःशब्दः सारवाची । प्रभूतसारो वा । "वृषभः वर्षिता कामानां "तुविष्मान् बहुधन:। ईदृशोऽयम् "अग्निः अत्यन्तगोपितं “गोः "पदं "न नष्टाया गोः पदमिव "अपगूळ्हम् अत्यन्तरहस्यम् । मनीषाशब्दो ज्ञानवाची सन् अत्र ज्ञातव्ये वर्तते । "मनीषां ज्ञातव्यं "महि महत् पूज्यं "साम अस्मदभिमतं स्तोत्रं "विविद्वान् विशेषेण जानन "मह्यं "प्रेदु "वोचत् प्रैव ब्रवीतु ॥


प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मजं॑भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः॑ ।

प्र ये मि॒नंति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥४

प्र । तान् । अ॒ग्निः । ब॒भ॒स॒त् । ति॒ग्मऽज॑म्भः । तपि॑ष्ठेन । शो॒चिषा॑ । यः । सु॒ऽराधाः॑ ।

प्र । ये । मि॒नन्ति॑ । वरु॑णस्य । धाम॑ । प्रि॒या । मि॒त्रस्य॑ । चेत॑तः । ध्रु॒वाणि॑ ॥४

प्र । तान् । अग्निः । बभसत् । तिग्मऽजम्भः । तपिष्ठेन । शोचिषा । यः । सुऽराधाः ।

प्र । ये । मिनन्ति । वरुणस्य । धाम । प्रिया । मित्रस्य । चेततः । ध्रुवाणि ॥४

“यः "अग्निः "सुराधाः शोभनधनः सः “तिग्मजम्भः तीक्ष्णदंष्ट्रः सन् "तपिष्ठेन "शोचिषा अतिशयेन शत्रूणां तापकेन तेजसा “तान् वक्ष्यमाणान् द्वेष्टॄन् “प्र “बभसत प्रकर्षेण भर्त्सयतु । दहतु इत्यर्थः ॥ ‘भस भर्त्सनदीप्त्योः '। लेटि ‘ इतश्च लोपः' इतीकारलोपः। ‘लेटोऽडाटौ ' इत्यडागमः ॥ तानित्युक्तं कानित्याह। ये द्वेष्टारः “चेततः जानतः । एतदुभयविशेषणम् । “मित्रस्य “वरुणस्य च “प्रिया प्रियाणि “ध्रुवाणि स्थिराणि “धाम धामानि तेजःस्थानानि कर्माणि वा “प्र “मिनन्ति प्रकर्षेण हिंसन्ति ॥ ‘ मीञ् हिंसायाम्' । “ मीनातेर्निगमे ' इति ह्रस्वत्वम् । विकरणस्वरः ॥


अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यंतः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः॑ ।

पा॒पासः॒ संतो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रं ॥५

अ॒भ्रा॒तरः॑ । न । योष॑णः । व्यन्तः॑ । प॒ति॒ऽरिपः॑ । न । जन॑यः । दुः॒ऽएवाः॑ ।

पा॒पासः॑ । सन्तः॑ । अ॒नृ॒ताः । अ॒स॒त्याः । इ॒दम् । प॒दम् । अ॒ज॒न॒त॒ । ग॒भी॒रम् ॥५

अभ्रातरः । न । योषणः । व्यन्तः । पतिऽरिपः । न । जनयः । दुःऽएवाः ।

पापासः । सन्तः । अनृताः । असत्याः । इदम् । पदम् । अजनत । गभीरम् ॥५

"अभ्रातरः भ्रात्रादिबन्धुरहिताः "योषणः “न गतभर्तृका योषित इव ॥ ‘ वा षपूर्वस्य निगमे इति विकल्पनात् दीर्घाभावः ॥ ता यथा भर्तृगृहात् पितृगृहं प्रत्यायन्ति तद्वत् “व्यन्तः गच्छन्तः । यज्ञादीनपहाय अमागें वर्तमाना इत्यर्थः । तथा “पतिरिपो "न "जनयः पतिद्वेषिण्यः स्त्रिय इव “दुरेवाः दुष्टगतयो दुराचारा अत एव "पापासः पापाः "सन्तः "अनृताः मानससत्यरहिताः "असत्याः वाचिकसत्यरहिता मनसा वाचाग्निमभजमानाः “इदं पापिभिरनुभूयमानतया प्रसिद्धं "गभीरम् अगाधं "पदं नरकस्थानम् "अजनत अजनयन्त उत्पादयन्ति ॥ लङि जनेरन्तर्भावितण्यर्थात् व्यत्ययेनैकवचनम् ॥ ॥ १ ॥


इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ ।

बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥६

इ॒दम् । मे॒ । अ॒ग्ने॒ । किय॑ते । पा॒व॒क॒ । अमि॑नते । गु॒रुम् । भा॒रम् । न । मन्म॑ ।

बृ॒हत् । द॒धा॒थ॒ । धृ॒ष॒ता । ग॒भी॒रम् । य॒ह्वम् । पृ॒ष्ठम् । प्रय॑सा । स॒प्तऽधा॑तु ॥६

इदम् । मे । अग्ने । कियते । पावक । अमिनते । गुरुम् । भारम् । न । मन्म ।

बृहत् । दधाथ । धृषता । गभीरम् । यह्वम् । पृष्ठम् । प्रयसा । सप्तऽधातु ॥६

हे "पावक शोधक “अग्ने "कियते अत्यल्पाय “गुरुं "भारं "न वोढुमशक्यं भारमिव । तं यथा धर्तुमसहमानः पातयति तद्वत् । त्वदीयं कर्म “अमिनते अहिंसतेऽत्यजते "मे मह्यम् "इदं दातव्यत्वेन प्रसिद्धं "बृहत् प्रभूतं "मन्म मननीयं धनं "दधाथ देहि । तदेव विशेष्यते । "धृषता शत्रूणां धर्षकेण “प्रयसा। अन्ननामैतत् । अन्नेन युक्तं "गभीरम् अन्यैरनवगाह्यं "यह्वं महत् "पृष्ठं स्प्रष्टुं योग्यं "सप्तधातु ग्राम्यारण्यभेदेन सप्तप्रकारम् । सप्त ग्राम्याः पशवः सप्तारण्याः ' (तै. सं. ७.२.२. १) इति श्रुतेः । ईदृग्धनं देहीत्यर्थः । गुरुं भारं न अन्यदीयं भारं यथान्यस्मै ददाति तद्वदस्माकं दातव्यं धनं देहीति वा योज्यम् ॥


तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः ।

स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥७

तम् । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नम् । अ॒भि । क्रत्वा॑ । पु॒न॒ती । धी॒तिः । अ॒श्याः॒ ।

स॒सस्य॑ । चर्म॑न् । अधि॑ । चारु॑ । पृश्नेः॑ । अग्ने॑ । रु॒पः । अरु॑पितम् । जबा॑रु ॥७

तम् । इत् । नु । एव । समना । समानम् । अभि । क्रत्वा । पुनती । धीतिः । अश्याः ।

ससस्य । चर्मन् । अधि । चारु । पृश्नेः । अग्ने । रुपः । अरुपितम् । जबारु ॥७

‘अग्निविद्युदादित्यास्त्रयोऽपि मतभेदेन वैश्वानरशब्दाभिधेयाः ' ( निरु. ७. २३ ) इति यास्केनोक्तत्वादत्र आदित्यात्मना वैश्वानरः स्तूयते । “तमित् तमेव वैश्वानरं द्युस्थानं "समानं सर्वेषामेकरूपं "समना सदृशी तद्योग्या "पुनती अस्मान् शोधयित्री “धीतिः मतिः अस्मदीया स्तुतिः “क्रत्वा तदुचितेन कर्मणा “न्वेव क्षिप्रमेव "अश्याः अभिप्राप्नुयात् । भजेदित्यर्थः ॥ अश्नोतेर्लिङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदं मध्यमपुरुषत्वं च । पूर्वत्र तच्छब्दश्रुतेः यच्छब्दोऽध्याहार्यः ॥ यस्य द्युस्थानस्य वैश्वानरस्य "जबारु जवमानरोहि जरमाणरोहि वा “चारु दीप्तं मण्डलम् । ‘ जबारु जरमाणरोहीति वा जवमानरोहीति वा ' ( निरु. ६. १७ ) इति यास्कः । “अग्रे पुरस्तात् पूर्वस्यां दिशि "रुपः । आरोपयति स्वात्मनि सस्यादीनि इति रुबिति भूमिरुच्यते । तस्याः सकाशात् "ससस्य। लुप्तोपममेतत्। स्वपत इव निश्चलस्य "पृश्नेः। द्युनामैतत् । ‘स्वः पृश्निः' ( नि. १. ४. २ ) इति द्युलोकादित्ययोः साधारणनामसु पाठात् । ज्योतिरादिभिः स्पृश्यमानस्य द्युलोकस्य "अधि उपरि “चर्मन चर्मणे चरणाय ॥ चरेरौणादिको मनिन् । 'सुपां सुलुक्' इति चतुर्थ्या लुक् ॥ “आरुपितम् आरोपितं देवैः । तमश्या इति पूर्वत्रान्वयः ॥


प्र॒वाच्यं॒ वच॑सः॒ किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दंति ।

यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥८

प्र॒ऽवाच्य॑म् । वच॑सः । किम् । मे॒ । अ॒स्य । गुहा॑ । हि॒तम् । उप॑ । नि॒णिक् । व॒द॒न्ति॒ ।

यत् । उ॒स्रिया॑णाम् । अप॑ । वाःऽइ॑व । व्रन् । पाति॑ । प्रि॒यम् । रु॒पः । अग्र॑म् । प॒दम् । वेरिति॒ वेः ॥८

प्रऽवाच्यम् । वचसः । किम् । मे । अस्य । गुहा । हितम् । उप । निणिक् । वदन्ति ।

यत् । उस्रियाणाम् । अप । वाःऽइव । व्रन् । पाति । प्रियम् । रुपः । अग्रम् । पदम् । वेरिति वेः ॥८

“मे मदीयस्य "अस्य वक्ष्यमाणस्य “वचसः वाक्यस्य "किं "प्रवाच्यम् अस्ति । तथ्यमेवोच्यत इत्यर्थः । किं तद्वच इत्युच्यते । उस्रियाणाम् । गोनामैतत् । क्षीराद्युत्स्राविणीनां गवां संबन्धि "यत् क्षीरं "वारिव उदकमिव तद्यथा सेकेनाविष्कुर्वन्ति तथा “अप “व्रन् अपवृण्वन्ति दोग्धारः । “निणिक् । नितरां नेनेक्ति शोधयतीति निणिक् क्षीरमुच्यते । तादृक् क्षीरमनेन वैश्वानरेण "गुहा गुहायाम् “उप “हितम् उपनिहितं "वदन्ति वेत्तारः । किंचायं “वेः व्याप्तायाः "रुपः भूम्याः "प्रियं सर्वेषाम् आधारत्वेन प्रियभूतम् "अग्रं श्रेष्ठं "पदं स्थानं "पाति रक्षति ॥


इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः ।

ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥९

इ॒दम् । ऊं॒ इति॑ । त्यत् । महि॑ । म॒हाम् । अनी॑कम् । यत् । उ॒स्रिया॑ । सच॑त । पू॒र्व्यम् । गौः ।

ऋ॒तस्य॑ । प॒दे । अधि॑ । दीद्या॑नम् । गुहा॑ । र॒घु॒ऽस्यत् । र॒घु॒ऽयत् । वि॒वे॒द॒ ॥९

इदम् । ऊं इति । त्यत् । महि । महाम् । अनीकम् । यत् । उस्रिया । सचत । पूर्व्यम् । गौः ।

ऋतस्य । पदे । अधि । दीद्यानम् । गुहा । रघुऽस्यत् । रघुऽयत् । विवेद ॥९

“इदमु इदमेव “श्यत् प्रसिद्धं "महि महत् पूज्यं "महां महतां देवानाम् "अनीकं समूहरूपं सूर्यमण्डलं वैश्वानर एवेति शेषः । "पूर्व्यं पूर्वकालीनं पूरकं वा "यत् मण्डलम् "उस्रिया क्षीराद्युत्स्राविणी “गौः अग्निहोत्राद्यर्थं "सचत सेवते । “ऋतस्य उदकस्य "पदे स्थानेऽन्तरिक्षे “अधि अधिकम् । यद्वा अधीति सप्तम्यर्थानुवादः । “दीद्यानं द्योतमानं "गुहा गुहायां रघुष्यत् शीघ्रं स्यन्दमानं “रघुयत् शीघ्रं गच्छत् सूर्यमण्डलं "विवेद वैश्वानरमेवेति ज्ञातवानस्मि ॥


अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ ।

मा॒तुष्प॒दे प॑र॒मे अंति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥१०

अध॑ । द्यु॒ता॒नः । पि॒त्रोः । सचा॑ । आ॒सा । अम॑नुत । गुह्य॑म् । चारु॑ । पृश्नेः॑ ।

मा॒तुः । प॒दे । प॒र॒मे । अन्ति॑ । सत् । गोः । वृष्णः॑ । शो॒चिषः॑ । प्रऽय॑तस्य । जि॒ह्वा ॥१०

अध । द्युतानः । पित्रोः । सचा । आसा । अमनुत । गुह्यम् । चारु । पृश्नेः ।

मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्रऽयतस्य । जिह्वा ॥१०

“अध अथ “द्युतानः दीप्यमानः "पित्रोः द्यावापृथिव्योः "सचा सह मध्ये व्याप्तः सन् “पृश्नेः गोः संबन्धि "चारु रमणीयं "गुह्यम् ऊधसि निगूढं पयः "आसा स्वकीयेनास्येन "अमनुत पानाय अबुध्यत । उक्तमेवार्थ विवृणोति । “मातुः क्षीरादिनिर्मात्र्याः "गोः "परमे "पदे उत्कृष्टे स्थाने ऊधोलक्षणे "अन्ति "सत् समीपे विद्यमानं क्षीरं "वृष्णः फलानां वर्षितुः “शोचिषः दीप्तस्य "प्रयतस्य आहवनीयादिरूपेण नियतस्य वैश्वानरस्य "जिह्वा पातुमिच्छतीति शेषः ॥ ॥ २ ॥


ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दं ।

त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्यां ॥११

ऋ॒तम् । वो॒चे॒ । नम॑सा । पृ॒च्छ्यमा॑नः । तव॑ । आ॒ऽशसा॑ । जा॒त॒ऽवे॒दः॒ । यदि॑ । इ॒दम् ।

त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व॑म् । दि॒वि । यत् । ऊं॒ इति॑ । द्रवि॑णम् । यत् । पृ॒थि॒व्याम् ॥११

ऋतम् । वोचे । नमसा । पृच्छ्यमानः । तव । आऽशसा । जातऽवेदः । यदि । इदम् ।

त्वम् । अस्य । क्षयसि । यत् । ह । विश्वम् । दिवि । यत् । ऊं इति । द्रविणम् । यत् । पृथिव्याम् ॥११

अहं यजमानः "नमसा नमस्कारेण सह “पृच्छयमानः अन्यैरनुयुज्यमानः सन् “ऋतं "वोचे सत्यं ब्रवीमि । किं तदित्युच्यते । हे “जातवेदः जातानां वेदितर्जातप्रज्ञ वा अग्ने "तवाशसा त्वत्स्तुत्या साधनेन "यदीदं धनं लब्धमस्माभिः स्यात् "अस्य धनस्य “त्वं “क्षयसि त्वमेवेश्वरो भवसि । तस्य धनस्य यज्ञादिद्वारा अग्न्यर्थत्वादिति भावः । अत्यल्पमिदमुक्तम् । "यद्ध "विश्वं यत्खलु कृत्स्नं धनमस्ति तस्यापीशिषे। विश्वमिति सामान्येन यदुक्तं तदेव विशदयति । "दिवि द्युलोके "यदु "द्रविणं यदेव धनं "यत् च "पृथिव्यां धनं तस्य सर्वस्य त्वमीश्वरो भवसि । “यज्ञार्थं द्रव्यमुत्पन्नम्' इति स्मरणात् । अग्निव्यतिरेकेण यज्ञासंभवादिति भावः ॥


किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् ।

गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥१२

किम् । नः॒ । अ॒स्य । द्रवि॑णम् । कत् । ह॒ । रत्न॑म् । वि । नः॒ । वो॒चः॒ । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।

गुहा॑ । अध्व॑नः । प॒र॒मम् । यत् । नः॒ । अ॒स्य । रेकु॑ । प॒दम् । न । नि॒दा॒नाः । अग॑न्म ॥१२

किम् । नः । अस्य । द्रविणम् । कत् । ह । रत्नम् । वि । नः । वोचः । जातऽवेदः । चिकित्वान् ।

गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । निदानाः । अगन्म ॥१२

पूर्वमन्त्रेण यस्य धनस्य अग्निस्वामित्वमुक्तम् "अस्य धनस्य “किं "द्रविणं किं साधनभूतं “नः अस्मभ्यं दातव्यं धनमस्ति । "कद्ध "रत्नं किं च रमणीयं हितकरं धनमस्ति । तद्धनं हे जातवेदः जातधनाग्ने "चिकित्वान् चेतनावानभिज्ञस्त्वं "नः अस्मभ्यं “वि “वोचः विब्रूहि । यद्वा । किं दातव्यं द्रविणमस्ति । अस्य द्रविणराशेः कद्ध रत्नमिति वा योज्यम् । "अस्य “अध्वनः धनप्राप्तिमार्गस्य "यत् "गुहा "गुहायां निहितं गूढं "परमम् उत्कृष्टं प्राप्तव्यमस्ति तदपि "नः अस्मभ्यं विवोचः । वयं "रेकु रिक्तं "पदं गन्तव्यं स्थानं गृहादिकं "निदानाः अन्यैर्निन्द्यमानाः॥ कर्मणि कर्तृप्रत्ययः॥ “न "अगन्म न प्राप्नुमः ॥ का मर्यादा वयुना कई वाममच्छा गमेम रघवो न वाजम् ।।


का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाजं॑ ।

क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥१३

का । म॒र्यादा॑ । व॒युना॑ । कत् । ह॒ । वा॒मम् । अच्छ॑ । ग॒मे॒म॒ । र॒घवः॑ । न । वाज॑म् ।

क॒दा । नः॒ । दे॒वीः । अ॒मृत॑स्य । पत्नीः॑ । सूरः॑ । वर्णे॑न । त॒त॒न॒न् । उ॒षसः॑ ॥१३

का । मर्यादा । वयुना । कत् । ह । वामम् । अच्छ । गमेम । रघवः । न । वाजम् ।

कदा । नः । देवीः । अमृतस्य । पत्नीः । सूरः । वर्णेन । ततनन् । उषसः ॥१३

“का "मर्यादा का प्रीत्यादिव्यवस्था का च "वयुना प्रज्ञानं पदार्थविषयं "कद्ध किं च "वामं वननीयं पदार्थजातम् । एतत्सर्वम् "अच्छ “गमेम अभिगच्छेम । तत्र दृष्टान्तः । "रघवो “न “वाजम् । शीघ्रगामिनोऽश्वादयः संग्राममिव । तद्वत्। "कदा कस्मिन् काले “नः अस्माकं व्यवहाराय "देवीः देव्यो द्योतमानाः "अमृतस्य अमरणधर्मस्यादित्यस्य “पत्नीः पत्न्यः पालयित्र्यः "सूरः प्रसवित्र्यः "उषासः उषसः “वर्णेन प्रकाशेन “ततनन् विस्तारयेयुः । एवं सूर्यसंबन्धिन उषसः स्तुत्या सर्वात्मनो वैश्वानरस्य स्तुतिरवगन्तव्या ॥ ततनन् । तनोतेर्लेटि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । द्विर्भावहलादिशेषौ ॥


अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ ।

अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दंत्यनायु॒धास॒ आस॑ता सचंतां ॥१४

अ॒नि॒रेण॑ । वच॑सा । फ॒ल्ग्वे॑न । प्र॒तीत्ये॑न । कृ॒धुना॑ । अ॒तृ॒पासः॑ ।

अध॑ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः॑ । अस॑ता । स॒च॒न्ता॒म् ॥१४

अनिरेण । वचसा । फल्ग्वेन । प्रतीत्येन । कृधुना । अतृपासः ।

अध । ते । अग्ने । किम् । इह । वदन्ति । अनायुधासः । असता । सचन्ताम् ॥१४

“अनिरेण । इरा अन्नं तद्रहितेन । "फल्ग्वेन तुच्छेन’ “प्रतीत्येन प्रतिगन्तव्येन । आरोह्येणेत्यर्थः। “कृधुना ह्रस्वेन । कृध्विति ह्रस्वनाम ‘ कृधुको वम्रकः ' (नि. २. २. ६ ) इति तन्नामसूक्तत्वात् । एवंविधेन “वचसा “अतृपासः अतृप्ता जनाः "अध अधुना “इह अस्मिन् लोके हे "अग्ने "ते त्वां “किं "वदन्ति । निर्हविष्केण वचसा न किंचिल्लभ्यत इत्यर्थः । किंतु "अनायुधासः । आयुधशब्दः साधनं लक्षयति । हविरादिसाधनरहितास्ते "असता दुःखेन "सचन्तां संगच्छन्ताम् ॥


अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच ।

रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥१५

अ॒स्य । श्रि॒ये । स॒म्ऽइ॒धा॒नस्य॑ । वृष्णः॑ । वसोः॑ । अनी॑कम् । दमे॑ । आ । रु॒रो॒च॒ ।

रुश॑त् । वसा॑नः । सु॒दृशी॑कऽरूपः । क्षि॒तिः । न । रा॒या । पु॒रु॒ऽवारः॑ । अ॒द्यौ॒त् ॥१५

अस्य । श्रिये । सम्ऽइधानस्य । वृष्णः । वसोः । अनीकम् । दमे । आ । रुरोच ।

रुशत् । वसानः । सुदृशीकऽरूपः । क्षितिः । न । राया । पुरुऽवारः । अद्यौत् ॥१५

“समिधानस्य समिध्यमानस्य ॥ कर्मणि कर्तृप्रत्ययः ॥ “वृष्णः वर्षितुः फलस्य "वसोः वासयितुः "अस्य अग्नेः "अनीकं तेजःसंघः “दमे यागगृहे "आ “रुरोच सर्वतो दीप्यते । किमर्थम् । “श्रिये श्रेयसे यजमानानाम् । सोऽग्निः “रुशत् । वर्णनामैतत् । दीप्तं तेजः “वसानः आच्छादयन् अत एव "सुदृशीकरूपः सुष्ठु दर्शनीयरूपः "पुरुवारः बहुभिः ऋत्विग्भिर्यजमानैः वरणीयः सन् "अद्यौत् द्योतते । किमिव । "राया अश्वादिधनेन “क्षितिर्न राजादिरिव । क्षितिरिति मनुष्यनाम ॥ ॥ ३ ॥


[सम्पाद्यताम्]

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५&oldid=209118" इत्यस्माद् पुनः प्राप्तिः