ऋग्वेदः सूक्तं ४.९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.८ ऋग्वेदः - मण्डल ४
सूक्तं ४.९
वामदेवो गौतमः
सूक्तं ४.१० →
दे. अग्निः। गायत्री


अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।
इयेथ बर्हिरासदम् ॥१॥
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।
दूतो विश्वेषां भुवत् ॥२॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥३॥
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।
उत ब्रह्मा नि षीदति ॥४॥
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥५॥
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।
हव्यं मर्तस्य वोळ्हवे ॥६॥
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
अस्माकं शृणुधी हवम् ॥७॥
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥८॥


सायणभाष्यम्

‘ अग्ने मृळ 'इत्यष्टर्चं नवमं सूक्तं वामदेवस्यार्षं गायत्रीच्छन्दस्कमग्निदेवताकम् । अनुक्रान्तं च - ' अग्ने मृळ ' इति । द्वितीये छन्दोमे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । सूत्रितं च ‘_ ‘ क्रीळं वः शर्धोऽग्ने मृळेत्याग्निमारुतम्' (आश्व. श्रौ. ८. १०) इति ॥


अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् ।

इ॒येथ॑ ब॒र्हिरा॒सद॑म् ॥१

अग्ने॑ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒ऽयुम् । जन॑म् ।

इ॒येथ॑ । ब॒र्हिः । आ॒ऽसद॑म् ॥१

अग्ने । मृळ । महान् । असि । यः । ईम् । आ । देवऽयुम् । जनम् ।

इयेथ । बर्हिः । आऽसदम् ॥१

हे “अग्ने "मृळ अस्मान् सुखय । स त्वं “महान् “असि प्रभूतो भवसि । “यः त्वम् “ईम् इमं “देवयुं देवानां कामयितारं “जनं यजमानं “बर्हिः दर्भम् “आसदं यज्ञे आसत्तुम् “आ “इयेथ आगच्छसि ॥


स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।

दू॒तो विश्वे॑षां भुवत् ॥२

सः । मानु॑षीषु । दुः॒ऽदभः॑ । वि॒क्षु । प्र॒ऽअ॒वीः । अम॑र्त्यः ।

दू॒तः । विश्वे॑षाम् । भु॒व॒त् ॥२

सः । मानुषीषु । दुःऽदभः । विक्षु । प्रऽअवीः । अमर्त्यः ।

दूतः । विश्वेषाम् । भुवत् ॥२

“दूळभः दुर्दभो राक्षसादिना दुर्हिंसः “मानुषीषु मनुसंबन्धिनीषु “विक्षु प्रजासु “प्रावीः प्रकर्षेण गन्ता "अमर्त्यः अमरणधर्मा “सः अग्निः “विश्वेषां सर्वेषां देवानां “दूतः “भुवत् भवतु ॥


स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु ।

उ॒त पोता॒ नि षी॑दति ॥३

सः । सद्म॑ । परि॑ । नी॒य॒ते॒ । होता॑ । म॒न्द्रः । दिवि॑ष्टिषु ।

उ॒त । पोता॑ । नि । सी॒द॒ति॒ ॥३

सः । सद्म । परि । नीयते । होता । मन्द्रः । दिविष्टिषु ।

उत । पोता । नि । सीदति ॥३

“सः अग्निः “सद्म यज्ञगृहं “परि “णीयते ऋत्विग्भिः परितो नीयते । नीयमानः सन् “दिविष्टिषु योगेषु “मन्द्रः मदनीयः स्तुत्यः सोऽग्निः “होता च भवति । "उत अपि च “पोता सन् “नि “षीदति यज्ञगृहे उपविशति ।।


उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।

उ॒त ब्र॒ह्मा नि षी॑दति ॥४

उ॒त । ग्नाः । अ॒ग्निः । अ॒ध्व॒रे । उ॒तो इति॑ । गृ॒हऽप॑तिः । दमे॑ ।

उ॒त । ब्र॒ह्मा । नि । सी॒द॒ति॒ ॥४

उत । ग्नाः । अग्निः । अध्वरे । उतो इति । गृहऽपतिः । दमे ।

उत । ब्रह्मा । नि । सीदति ॥४

“उत अपि च "अग्निः “अध्वरे यागे "ग्नाः देवपत्नीर्यजति । यष्टा भवतीत्यर्थः । यद्वा । ग्ना गच्छन् अध्वर्युर्भवति । "उतो अपि च सोऽग्निः "दमे यज्ञगृहे “गृहपतिः यजमानश्च भवति । “उत अपि च “ब्रह्मा ब्राह्मणाच्छंसी सन् “नि “षीदति उपविशति ॥


वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् ।

ह॒व्या च॒ मानु॑षाणाम् ॥५

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् ।

ह॒व्या । च॒ । मानु॑षाणाम् ॥५

वेषि । हि । अध्वरिऽयताम् । उपऽवक्ता । जनानाम् ।

हव्या । च । मानुषाणाम् ॥५

"अध्वरीयतां यज्ञमिच्छतां "मानुषाणां मनुसंबन्धिनां “जनानां “हव्या “च हव्यानि हवींषि हे अग्ने “वेषि “हि कामयसे खलु । "उपवक्ता अध्वर्युप्रभृतीनां सर्वेषां कर्मणामनुज्ञार्थं ‘ मां प्रणय ' इत्यादिरूपस्य वाक्यस्य वक्ता सन् ब्रह्मा चासि । ‘ ब्रह्मा त्वो वदति जातविद्याम् ' ( ऋ. सं. १०. ७१. ११ ) इति श्रुतेः । उपवक्ता सर्वेषां कर्मणामवैकल्यार्थमुपद्रष्टा वा सदस्योऽसि । ' स हि सप्तदशः कर्मणामुपद्रष्टा भवति' इत्यापस्तम्बेनोक्तत्वात् ॥


वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रम् ।

ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥६

वेषि॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । दू॒त्य॑म् । यस्य॑ । जुजो॑षः । अ॒ध्व॒रम् ।

ह॒व्यम् । मर्त॑स्य । वोळ्ह॑वे ॥६

वेषि । इत् । ऊं इति । अस्य । दूत्यम् । यस्य । जुजोषः । अध्वरम् ।

हव्यम् । मर्तस्य । वोळ्हवे ॥६

हे अग्ने त्वं “मर्तस्य मनुष्यस्य/“यस्य यजमानस्य “अध्वरं यागं “हव्यं हविः "वोळ्हवे वोढुम् ॥ वहेर्धातोः ‘तुमर्थे सेसेनसे ' इति तवेन्प्रत्ययः । ‘ ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् ॥ "जुजोषः सेवेथाः ॥ ‘जुषी प्रीतिसेवनयोः' । लेट्। 'बहुलं छन्दसि ' इति शपः श्लुर्द्विर्भावश्च । 'लेटोऽडाटौ' इत्यडागमः ॥ “अस्य यजमानस्य दूत्यं दूतकर्म “वेषीदु कामयस एव ।।


अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः ।

अ॒स्माकं॑ शृणुधी॒ हव॑म् ॥७

अ॒स्माक॑म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक॑म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।

अ॒स्माक॑म् । शृ॒णु॒धि॒ । हव॑म् ॥७

अस्माकम् । जोषि । अध्वरम् । अस्माकम् । यज्ञम् । अङ्गिरः ।

अस्माकम् । शृणुधि । हवम् ॥७

हे “अङ्गिरः अग्ने त्वम् “अस्माकम् “अध्वरम् अस्मदीयं यागं “जोषि जुषस्व सेवस्व । “अस्माकम् अस्मदीयं “यज्ञं यजनसाधनं हविश्च जुषस्व । “अस्माकम् अस्मदीयं “हवम् आह्वानरूपं स्तोत्रं च “शृणुधि शृणु ॥ शृणोतेर्लोण्मध्यमैकवचनम् । सिप् । तस्य हिरादेशे ‘ श्रुवः शृ च ' इति धातोः श्नुप्रत्ययः शृभावश्च । ' श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिरादेशः ॥


परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वत॑ः ।

येन॒ रक्ष॑सि दा॒शुष॑ः ॥८

परि॑ । ते॒ । दुः॒ऽदभः॑ । रथः॑ । अ॒स्मान् । अ॒श्नो॒तु॒ । वि॒श्वतः॑ ।

येन॑ । रक्ष॑सि । दा॒शुषः॑ ॥८

परि । ते । दुःऽदभः । रथः । अस्मान् । अश्नोतु । विश्वतः ।

येन । रक्षसि । दाशुषः ॥८

हे अग्ने त्वं “येन रथेन "विश्वतः विश्वास सर्वासु दिक्षु गच्छन् “दाशुषः हविष्प्रदातॄन् यजमानान् “रक्षसि विघ्नेभ्यः पालयसि । “ते त्वदीयः “दूळभः दुर्दभः दुर्हिंसः सः “रथः “अस्मान् यजमानानु “परि परितः सर्वतः “अश्नोतु व्याप्नोतु ॥ अश्नोतेर्व्यत्ययेन परस्मैपदम् ॥ ॥ ९॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=198428" इत्यस्माद् पुनः प्राप्तिः