ऋग्वेदः सूक्तं ४.२३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२२ ऋग्वेदः - मण्डल ४
सूक्तं ४.२३
वामदेवो गौतमः
सूक्तं ४.२४ →
दे. इन्द्रः, ८-१० ऋतं वा। त्रिष्टुप्


कथा महामवृधत्कस्य होतुर्यज्ञं जुषाणो अभि सोममूधः ।
पिबन्नुशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥१॥
को अस्य वीरः सधमादमाप समानंश सुमतिभिः को अस्य ।
कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः ॥२॥
कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद ।
का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥३॥
कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः ।
देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज्जुजोषत् ॥४॥
कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष ।
कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥५॥
किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम ।
श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः ॥६॥
द्रुहं जिघांसन्ध्वरसमनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका ।
ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥७॥
ऋतस्य हि शुरुधः सन्ति पूर्वीरृतस्य धीतिर्वृजिनानि हन्ति ।
ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥८॥
ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि ।
ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥९॥
ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः ।
ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥


सायणभाष्यम्

‘ कथा महाम्' इत्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । “ऋतस्य हि 'इत्याद्यास्तिस्र ऋतदेवताका वा । तथा चानुक्रान्तं-’ कथोपान्त्यास्तिस्र ऋतदेव्यो वा ' इति । आभिप्लविकेऽहनि दशरात्रे प्रथमेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्रेऽहीनसूक्तस्य स्थान इदं तृतीयं संपातसूक्तम् । सूत्रितं च-’ कथा महामिन्द्रः पूर्भिद्य एक इत् ' ( आश्व. श्रौ. ७. ५) इति । महाव्रते निष्केवल्ये एतत् । तथैव पञ्चमारण्यके शौनकेन सूत्रितं च -’ कथा महामवृधत्कस्य होतुरिति संपातः (ऐ. आ. ५. २. २ ) इति ।


क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ ।

पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अंधो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥१

क॒था । म॒हाम् । अ॒वृ॒ध॒त् । कस्य॑ । होतुः॑ । य॒ज्ञम् । जु॒षा॒णः । अ॒भि । सोम॑म् । ऊधः॑ ।

पिब॑न् । उ॒शा॒नः । जु॒षमा॑णः । अन्धः॑ । व॒व॒क्षे । ऋ॒ष्वः । शु॒च॒ते । धना॑य ॥१

कथा । महाम् । अवृधत् । कस्य । होतुः । यज्ञम् । जुषाणः । अभि । सोमम् । ऊधः ।

पिबन् । उशानः । जुषमाणः । अन्धः । ववक्षे । ऋष्वः । शुचते । धनाय ॥१

“महां महान्तं गुणैः प्रवृद्धमिन्द्रं “कथा कथं केन प्रकारेण “अवृधत् वर्धयेत् । अस्मत्प्रेरिता स्तुतिरिति शेषः । तस्य महिम्नोऽतिमहत्त्वादिति भावः । स एवेन्द्रः “होतुः होमनिष्पादकस्य “कस्य यजमानस्य “यज्ञं यागं "जुषाणः प्रीयमाणः सन् “अभि । गच्छेदिति शेषः । उपसर्गश्रुतेरुचितक्रियाध्याहारः । किंच “ऊधः उद्धतमतिप्रवृद्धं “सोमम् “अन्धः सोमलक्षणमन्नं “पिबन् आस्वादयन् "उशानः तदेवान्नं कामयमानः “जुषमाणः सेवमानश्च “ऋष्वः महानिन्द्रः “शुचते प्रदीप्ताय “धनाय हिरण्यादिलक्षणाय। उक्तलक्षणं धनं कस्मै यजमानाय दातुं "ववक्षे वहति । पीतमेवान्नं जठरे धारयति। अनेन वाक्यद्वयेन इन्द्रस्याचिन्त्यचरितत्वं ख्यापितं भवति ॥


को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभिः॒ को अ॑स्य ।

कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः॑ ॥२

कः । अ॒स्य॒ । वी॒रः । स॒ध॒ऽमाद॑म् । आ॒प॒ । सम् । आ॒नं॒श॒ । सु॒म॒तिऽभिः॑ । कः । अ॒स्य॒ ।

कत् । अ॒स्य॒ । चि॒त्रम् । चि॒कि॒ते॒ । कत् । ऊ॒ती । वृ॒धे । भु॒व॒त् । श॒श॒मा॒नस्य॑ । यज्योः॑ ॥२

कः । अस्य । वीरः । सधऽमादम् । आप । सम् । आनंश । सुमतिऽभिः । कः । अस्य ।

कत् । अस्य । चित्रम् । चिकिते । कत् । ऊती । वृधे । भुवत् । शशमानस्य । यज्योः ॥२

“अस्य इन्द्रस्य संबन्धिनं “सधमादम् । सह माद्यन्तीति सधमादः संग्रामः । तं सह सोमपानं वा "वीरः स्तोत्राणाममित्राणां वा वीरयिता "कः पुमान् “आप प्राप्नोति । “कः च “अस्य इन्द्रस्य “सुमतिभिः शोभनाभिरनुग्रहबुद्धिभिः “समानंश संगच्छते । “कत् कदा वा “अस्य इन्द्रस्य “चित्रं चायनीयं धनं “चिकिते प्रज्ञायते । तत्प्रदानसमयं न कोऽपि जनातीत्यर्थः । “कत् कदा वा “शशमानस्य स्तुवतः "यज्योः यष्टुर्यजमानस्य “वृधे वर्धनाय “ऊती ऊत्या रक्षया “भुवत् भवेत् ॥


क॒था शृ॑णोति हू॒यमा॑न॒मिंद्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद ।

का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥३

क॒था । शृ॒णो॒ति॒ । हू॒यमा॑नम् । इन्द्रः॑ । क॒था । शृ॒ण्वन् । अव॑साम् । अ॒स्य॒ । वे॒द॒ ।

काः । अ॒स्य॒ । पू॒र्वीः । उप॑ऽमातयः । ह॒ । क॒था । ए॒न॒म् । आ॒हुः॒ । पपु॑रिम् । ज॒रि॒त्रे ॥३

कथा । शृणोति । हूयमानम् । इन्द्रः । कथा । शृण्वन् । अवसाम् । अस्य । वेद ।

काः । अस्य । पूर्वीः । उपऽमातयः । ह । कथा । एनम् । आहुः । पपुरिम् । जरित्रे ॥३

“इन्द्रः परमैश्वर्ययुक्तः “हूयमानम् आह्वयन्तं स्तोतारं कथा कथं “शृणोति । स्तोत्राणि “शृण्वन् “अस्य स्तोतुः संबन्धीनि “अवसां रक्षणानि “कथा कथं च "वेद वेत्ति । “पूर्वीः पुरीतनानि “अस्य इन्द्रस्य संबन्धीनि “उपमातयः दानानि “काः “ह कानिचित् सन्तीति शेषः । तानि दानानि "जरित्रे स्तोतुः संबन्धिनां कामानां “पपुरिं पूरयितारम् "एनम् इन्द्रं “कथा कथं च “आहुः वदन्ति ॥


क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः ।

दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥४

क॒था । स॒ऽबाधः॑ । श॒श॒मा॒नः । अ॒स्य॒ । नश॑त् । अ॒भि । द्रवि॑णम् । दीध्या॑नः ।

दे॒वः । भु॒व॒त् । नवे॑दाः । मे॒ । ऋ॒ताना॑म् । नमः॑ । ज॒गृ॒भ्वान् । अ॒भि । यत् । जुजो॑षत् ॥४

कथा । सऽबाधः । शशमानः । अस्य । नशत् । अभि । द्रविणम् । दीध्यानः ।

देवः । भुवत् । नवेदाः । मे । ऋतानाम् । नमः । जगृभ्वान् । अभि । यत् । जुजोषत् ॥४

"सबाधः सपत्नानां पीडासहितः “शशमानः इन्द्रविषयां स्तुतिं कुर्वन् “दीध्यानः कर्मभिः दीप्यमानो यजमानः “अस्य इन्द्रस्य संबन्धि “द्रविणं पश्वादिधनं “कथा कथम् “अभि “नशत् अभिप्राप्नोति । “नमः हविर्लक्षणमन्नं “जगृभ्वान् गृहीतवानिन्द्रः “यत् यदा “अभि “जुजोषत् माम् अभिसेवेत तदा “देवः दीप्यमान इन्द्रः “मे मदीयानाम् “ऋतानां स्तोत्राणां “नवेदाः अतिशयेन ज्ञाता “भुवत् भवेत् । अत्र निपातस्थो नकारोऽतिशयवाची ॥


क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष ।

क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥५

क॒था । कत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । दे॒वः । मर्त॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।

क॒था । कत् । अ॒स्य॒ । स॒ख्यम् । सखि॑ऽभ्यः । ये । अ॒स्मि॒न् । काम॑म् । सु॒ऽयुज॑म् । त॒त॒स्रे ॥५

कथा । कत् । अस्याः । उषसः । विऽउष्टौ । देवः । मर्तस्य । सख्यम् । जुजोष ।

कथा । कत् । अस्य । सख्यम् । सखिऽभ्यः । ये । अस्मिन् । कामम् । सुऽयुजम् । ततस्रे ॥५

“देवः द्योतमान इन्द्रः “अस्या “उषसो “व्युष्टौ प्रभाते “मर्तस्य मर्त्यस्य मनुष्यस्य स्तोतुः संबन्धि “सख्यं सखिकर्म “कथा कथं केन प्रकारेण “कत् कदा "जुजोष सेवेत । "ये स्तोतारः “अस्मिन् इन्द्रे “सुयुजं सुष्ठु प्रयुज्यमानं "कामं कामनीयं हविः स्तोत्रं च “ततस्रे वितेनिरे “अस्य इन्द्रस्य “सख्यं सखिकर्म “सखिभ्यः स्तोतृभ्यः “कथा कथं "कत् कदाचित् । भवेदिति शेषः ॥ ॥ ९ ॥


किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम ।

श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥६

किम् । आत् । अम॑त्रम् । स॒ख्यम् । सखि॑ऽभ्यः । क॒दा । नु । ते॒ । भ्रा॒त्रम् । प्र । ब्र॒वा॒म॒ ।

श्रि॒ये । सु॒ऽदृशः॑ । वपुः॑ । अ॒स्य॒ । सर्गाः॑ । स्वः॑ । न । चि॒त्रऽत॑मम् । इ॒षे॒ । आ । गोः ॥६

किम् । आत् । अमत्रम् । सख्यम् । सखिऽभ्यः । कदा । नु । ते । भ्रात्रम् । प्र । ब्रवाम ।

श्रिये । सुऽदृशः । वपुः । अस्य । सर्गाः । स्वः । न । चित्रऽतमम् । इषे । आ । गोः ॥६

हे इन्द्र वयं यजमानाः ते त्वदीयम् “अमत्रं शत्रूनभिभावुकं “सख्यं सखिकर्म “सखिभ्यः स्तोतृभ्यः “किमात् किं स्वित् “प्र “ब्रवाम प्रकर्षेण वदेम । “ते त्वदीयं “भ्रात्रं भ्रातृकर्म च “कदा “नु कदा खलु प्र ब्रवाम । “सुदृशः शोभनदर्शनस्य “अस्य इन्द्रस्य संबन्धिनः “सर्गाः उद्योगाः “श्रिये सर्वेषां स्तोतॄणां श्रेयसे । भवन्तीति शेषः । “स्वर्ण सूर्यो यथा दर्शनीयतमस्तथा “गोः गन्तुरिन्द्रस्य “चित्रतमं दर्शनीयतमं “वपुः शरीरम् “आ “इषे आ समन्तात् सर्वैरिष्यते ॥


द्रुहं॒ जिघां॑संध्व॒रस॑मनिं॒द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का ।

ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥७

द्रुह॑म् । जिघां॑सन् । ध्व॒रस॑म् । अ॒नि॒न्द्राम् । तेति॑क्ते । ति॒ग्मा । तु॒जसे॑ । अनी॑का ।

ऋ॒णा । चि॒त् । यत्र॑ । ऋ॒ण॒ऽयाः । नः॒ । उ॒ग्रः । दू॒रे । अज्ञा॑ताः । उ॒षसः॑ । ब॒बा॒धे ॥७

द्रुहम् । जिघांसन् । ध्वरसम् । अनिन्द्राम् । तेतिक्ते । तिग्मा । तुजसे । अनीका ।

ऋणा । चित् । यत्र । ऋणऽयाः । नः । उग्रः । दूरे । अज्ञाताः । उषसः । बबाधे ॥७

अयमिन्द्रः “द्रुहं द्रोहं कुर्वतीं “ध्वरसं हिंसिकाम् "अनिन्द्राम् इन्द्रमजानतीं राक्षसीं “जिघांसन् हन्तुमिच्छन् “तिग्मा तिग्मानि पूर्वमेव तीक्ष्णानि “अनीका अनीकानि आयुधानि “तुजसे तद्वधाय “तेतिक्ते अत्यर्थं तीक्ष्णीकरोति । यत्र यासूषःसु तदुपलक्षितेष्वहःसु “ऋणा “चित् ऋणान्यपि “नः । अस्मान् बाधन्त इति शेषः । ताः “उषसः च “उग्रः उद्गूर्णबलः “ऋणयाः ऋणस्य हन्तेन्द्रः। यातिः वधकर्मा । "दूरे “अज्ञाताः अननुभूताः सतीः “बबाधे अपीडयत् ॥


ऋतपेयनाम्न्येकाहे मरुत्वतीयनिष्केवल्यशस्त्रयोः निविद्धानात्' पुरस्तात् ' ऋतस्य हि' इत्येतदादिके द्वे ऋचौ क्रमेण शंसनीये । सूत्रितं च-’ ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये' (आश्व. श्रौ. ९. ७ ) इति ॥ ।

ऋ॒तस्य॒ हि शु॒रुधः॒ संति॑ पू॒र्वीर्ऋ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हंति ।

ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥८

ऋ॒तस्य॑ । हि । शु॒रुधः॑ । सन्ति॑ । पू॒र्वीः । ऋ॒तस्य॑ । धी॒तिः । वृ॒जि॒नानि॑ । ह॒न्ति॒ ।

ऋ॒तस्य॑ । श्लोकः॑ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा॑ । बु॒धा॒नः । शु॒चमा॑नः । आ॒योः ॥८

ऋतस्य । हि । शुरुधः । सन्ति । पूर्वीः । ऋतस्य । धीतिः । वृजिनानि । हन्ति ।

ऋतस्य । श्लोकः । बधिरा । ततर्द । कर्णा । बुधानः । शुचमानः । आयोः ॥८

अत्र ऋतशब्देनेन्द्रो वादित्यो वा सत्यं वा यज्ञो वोच्यते । “ऋतस्य ऋतदेवस्य संबन्धिन्यः “पूर्वीः बह्व्यः “शुरुधः आपः “सन्ति “हि भवन्ति खलु । “ऋतस्य ऋतदेवस्य संबन्धिनी “धीतिः प्रज्ञा तद्विषया स्तुतिर्वा “वृजिनानि वर्जनीयानि पापानि “हन्ति हिनस्ति । “ऋतस्य ऋतदेवस्य संबन्धिनी “श्लोकः स्तुतिरूपा वाक् “आयोः गन्तुर्मनुष्यस्य संबन्धिनौ “बधिरा बधिरौ प्रतिबद्धौ "कर्णा कर्णौ "ततर्द तृणत्ति। कीदृशः श्लोकः। “बुधानः बुध्यमानः “शुचमानः दीप्यमानः ॥


ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि संति पु॒रूणि॑ चं॒द्रा वपु॑षे॒ वपूं॑षि ।

ऋ॒तेन॑ दी॒र्घमि॑षणंत॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥९

ऋ॒तस्य॑ । दृ॒ळ्हा । ध॒रुणा॑नि । स॒न्ति॒ । पु॒रूणि॑ । च॒न्द्रा । वपु॑षे । वपूं॑षि ।

ऋ॒तेन॑ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः॑ । ऋ॒तेन॑ । गावः॑ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥९

ऋतस्य । दृळ्हा । धरुणानि । सन्ति । पुरूणि । चन्द्रा । वपुषे । वपूंषि ।

ऋतेन । दीर्घम् । इषणन्त । पृक्षः । ऋतेन । गावः । ऋतम् । आ । विवेशुः ॥९

“वपुषे वपुष्मतः । षष्य्ार्थे चतुर्थी । “ऋतस्य ऋतदेवस्य संबन्धीनि “दृळ्हा दृढानि “धरुणानि धारकाणि “पुरूणि बहूनि “चन्द्रा चन्द्राण्याह्लादकानि “वपूंषि रूपाणि “सन्ति भवन्ति । “ऋतेन ऋतदेवेन “दीर्घम् अत्यधिकं “पृक्षः अन्नम् “इषणन्त स्तोतार इच्छन्ति । “ऋतेन ऋतदेवेन “गावः धेनवः “ऋतं यज्ञं दक्षिणात्वेन “आ “विवेशुः प्रविशन्ति । यद्वा । गावो रश्मय ऋतमुदकम् आविवेशुः ॥


ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः ।

ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥१०

ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य॑ । शुष्मः॑ । तु॒र॒ऽयाः । ऊं॒ इति॑ । ग॒व्युः ।

ऋ॒ताय॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । ग॒भी॒रे इति॑ । ऋ॒ताय॑ । धे॒नू इति॑ । प॒र॒मे इति॑ । दु॒हा॒ते॒ इति॑ ॥१०

ऋतम् । येमानः । ऋतम् । इत् । वनोति । ऋतस्य । शुष्मः । तुरऽयाः । ऊं इति । गव्युः ।

ऋताय । पृथ्वी इति । बहुले इति । गभीरे इति । ऋताय । धेनू इति । परमे इति । दुहाते इति ॥१०

“ऋतम् ऋतदेवं येमानः नियच्छन् स्तुतिभिर्वशीकुर्वन् स्तोता “ऋतमित् ऋतदेवमेव “वनोति संभजते । “ऋतस्य ऋतदेवस्य संबन्धि “शुष्मः बलं “तुरयाः तूर्णं “गव्युः । “उ इति चार्थे । जलकामश्च भवति । “बहुले विस्तीर्ण “गभीरे दुरवगाहे “पृथ्वी द्यावापृथिव्यौ “ऋताय ऋतदेवाय भवतः । “धेनू प्रीणयित्र्यौ “परमे उत्कृष्टे द्यावापृथिव्यौ “ऋताय ऋतदेवायैव “दुहाते दोहनं कुर्वाते ।।


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११

पूर्वं व्याख्याता ॥ ॥ १० ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२३&oldid=184857" इत्यस्माद् पुनः प्राप्तिः