ऋग्वेदः सूक्तं ४.१३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.१२ ऋग्वेदः - मण्डल ४
सूक्तं ४.१३
वामदेवो गौतमः
सूक्तं ४.१४ →
दे. अग्निः(लिङ्गोक्तदेवता इति एके)। त्रिष्टुप्


प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् ।
यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥१॥
ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा ।
अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥२॥
यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् ।
तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥३॥
वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म ।
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥४॥
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥५॥


सायणभाष्यम्

‘ प्रत्यग्निः' इति पञ्चर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं तत्तन्मन्त्रवर्णाभिधेयोषःप्रभृतिदैवतं वा । तथा चानुक्रान्त- प्रत्यग्निः पञ्च लिङ्गोक्तदैवतं त्वेके ' इति । लैङ्गिको विनियोगः ॥


प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् ।

या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥१

प्रति॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । वि॒ऽभा॒ती॒नाम् । सु॒ऽमनाः॑ । र॒त्न॒ऽधेय॑म् ।

या॒तम् । अ॒श्वि॒ना॒ । सु॒ऽकृतः॑ । दु॒रो॒णम् । उत् । सूर्यः॑ । ज्योति॑षा । दे॒वः । ए॒ति॒ ॥१

प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । विऽभातीनाम् । सुऽमनाः । रत्नऽधेयम् ।

यातम् । अश्विना । सुऽकृतः । दुरोणम् । उत् । सूर्यः । ज्योतिषा । देवः । एति ॥१

“सुमनाः शोभनमनस्कः "अग्निः "विभातीनां व्युच्छन्तीनाम् “उषसाम् उषोदेवतानां "रत्नधेयं रत्नधानम् । धनप्रकाशकमित्यर्थः । "अग्रं “प्रति पूर्वकालं लक्षीकृत्य “अख्यतः प्रवृद्धो भवति । हे "अश्विना अश्विनौ युवां "सुकृतः यजमानस्य "दुरोणं गृहम् । दुरोणे' इति गृहनाम ‘दुरोणे दुर्याः । (नि. ३. ४. ७ ) इति गृहनामसु पाठात् । "यातं गच्छतम् । "सूर्यः ऋत्विगादीनां प्रेरकः "देवः “ज्योतिषा स्वेन तेजसा “उत् "एति उषःकाले प्रादुर्भवतीत्यर्थः ॥


ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।

अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ॥२

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ ।

अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥२

ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । द्रप्सम् । दविध्वत् । गोऽइषः । न । सत्वा ।

अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आऽरोहयन्ति ॥२

“सविता प्रेरकः "देवः “ऊर्ध्वम् उन्मुखं "भानुम् "अश्रेत् आश्रयति । "यत् यदा रश्मयः “सूर्यं "दिवि द्युलोके "आरोहयन्ति आरोहणं कारयन्ति तदा "वरुणः रात्र्यभिमानी देवः "मित्रः अहरभिमानी, अन्ये देवाश्च “व्रतं तत्संबन्धि कर्म “अनु "यन्ति अनुगच्छन्ति । अनुगमने दृष्टान्त उच्यते । “द्रप्सं पार्थिवं रजः "दविध्वत् धुन्वन् । विकिरन्नित्यर्थः। “गविषः गा इच्छन् "सत्वा "न वृषभ इव तद्वत् ॥


यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म् ।

तं सूर्यं॑ ह॒रित॑ः स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥३

यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् ।

तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥३

यम् । सीम् । अकृण्वन् । तमसे । विऽपृचे । ध्रुवऽक्षेमाः । अनवऽस्यन्तः । अर्थम् ।

तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति ॥३

“ध्रुवक्षेमाः स्थिरनिवासाः सृष्टिकर्तारो देवाः "सीं सर्वतः "तमसे तमसः "विपृचे पृथक्करणाय “अर्थं जगल्लक्षणं कार्यम् "अनवस्यन्तः अविमुञ्चन्तः कुर्वन्त एव "यं सूर्यम् "अकृण्वन् असृजन्नित्यर्थः । “यह्वीः महत्यः "सप्त सप्तसंख्याकाः "हरितः अश्वाः "विश्वस्य समस्तस्य "जगतः प्राणिसमूहस्य “स्पशं प्रेरकत्वेन ज्ञातारं "तं "सूर्यं "वहन्ति धारयन्ति ।


वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।

दवि॑ध्वतो र॒श्मय॒ः सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व१॒॑न्तः ॥४

वहि॑ष्ठेभिः । वि॒ऽहर॑न् । या॒सि॒ । तन्तु॑म् । अ॒व॒ऽव्यय॑न् । असि॑तम् । दे॒व॒ । वस्म॑ ।

दवि॑ध्वतः । र॒श्मयः॑ । सूर्य॑स्य । चर्म॑ऽइव । अव॑ । अ॒धुः॒ । तमः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ ॥४

वहिष्ठेभिः । विऽहरन् । यासि । तन्तुम् । अवऽव्ययन् । असितम् । देव । वस्म ।

दविध्वतः । रश्मयः । सूर्यस्य । चर्मऽइव । अव । अधुः । तमः । अप्ऽसु । अन्तरिति ॥४

हे “देव द्योतमान सूर्य त्वं जगन्निर्वाहात्मकस्य रसस्यादानार्थं “तन्तुं रश्मिसमूहं “विहरन विस्तारयन् “असितं कृष्णवर्णं “वस्म नक्तंचराणां निवासभूतां रात्रिम् “अब्रव्ययन् अवाचीनं यथा भवति तथा संवृण्वन् । तिरस्कुर्वन्नित्यर्थः । "वहिष्ठेभिः वोढुमत्यन्तं शक्तैः अश्वैः “यासि गमनमार्गं गच्छसि । अस्यामृचि पूर्वार्धे सूर्यस्य प्रत्यक्षमर्थं प्रतिपाद्योत्तरार्धे परोक्षमर्थं प्रतिपादयितुमाह । “दविध्वतः धुन्वानाः "सूर्यस्य संबन्धिनः “रश्मयः किरणाः "अप्सु अन्तरिक्षे । आप इत्यन्तरिक्षनाम ‘ आकाशम् आपः पृथिवी' (नि. १. ३.८) इति तन्नामसु पाठात् । “अन्तः मध्ये "चर्मेव चर्मवत् स्थितं “तमः अन्धकारम् “अवाधुः अवाचीनमदधुः । तिरस्कुर्वन्तीत्यर्थः ॥


अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।

कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥५

अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।

कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥५

अनायतः । अनिऽबद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न ।

कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥५

आयतशब्दो दूरवाची । तद्विपरीतः "अनायतः आसीनः सन् “अयं प्रत्यक्षेणोपलभ्यमानो मण्डलाभिमानी सूर्यः "अनिबद्धः केनापि बद्धो न क्रियते । अपि चायं सूर्यः “न्यङ् अवाङ्मुखः सन् केनचित् “कथा कथं “न “अव "पद्यते न हिंस्यते । किंचायम् “उत्तानः ऊर्ध्वमुखत्वेन तिष्ठन् “कया “स्वधया केन बलेन “याति गच्छति । स्वधाशब्दोऽन्नवाची अत्र तत्कार्यं बलं लक्षयति । अपि च “दिवः द्युलोकस्य “स्कम्भः स्तम्भः “समृतः नाकेन समवेतः सूर्यः “नाकं स्वर्गं “पाति पालयति । “को “ददर्श तत्त्वतः कः पश्यति । न कोऽपि जानातीत्यर्थः ॥ ॥ १३ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१३&oldid=209073" इत्यस्माद् पुनः प्राप्तिः