ऋग्वेदः सूक्तं ४.४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.३ ऋग्वेदः - मण्डल ४
सूक्तं ४.४
वामदेवो गौतमः
सूक्तं ४.५ →
दे. रक्षोहाऽग्निः। त्रिष्टुप्


कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥१॥
तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः ।
तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥२॥
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥३॥
उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात्तिग्महेते ।
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥४॥
ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥५॥
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥६॥
सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥७॥
अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥८॥
इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् ।
क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥९॥
यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥१०॥
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥११॥
अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥१२॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥१३॥
त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥१४॥
अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥१५॥


सायणभाष्यम्

‘ कृणुष्व' इति पञ्चदशर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभं रक्षोहाग्निदेवताकम् । ‘ कृणुष्व पञ्चोना राक्षोघ्नम्' इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोः सूक्तविनियोगः । प्रवर्ग्येऽभिष्टवे ‘ कृणुष्व पाजः' इत्याद्याः पञ्चर्चो विनियुक्ताः । सूत्रितं च -- कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च ' ( आश्व. श्रौ. ४. ६ ) इति ॥


कृ॒णु॒ष्व पाज॒ः प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न ।

तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥१

कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न ।

तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥१

कृणुष्व । पाजः । प्रऽसितिम् । न । पृथ्वीम् । याहि । राजाऽइव । अमऽवान् । इभेन ।

तृष्वीम् । अनु । प्रऽसितिम् । द्रूणानः । अस्ता । असि । विध्य । रक्षसः । तपिष्ठैः ॥१

हे “अग्ने “पाजः तेजःसंघं “कृणुष्व कुरुष्व विस्तारय । तत्र दृष्टान्तः । "प्रसितिं “न । यथा मृगयुः “पृथ्वीं विस्तीर्णां प्रसितिं प्रकर्षेण सीयते बध्यत इति प्रसितिर्वागुरा। तादृशीं प्रसितिं पक्षिग्रहणार्थं वनगहनेषु प्रसारयति तद्वत् त्वमपि रक्षांसि हन्तुं महद्बलमग्रतस्तनुष्व। “इभेन गतभयेन तेजःसंघेन युक्तस्त्वं “याहि रक्षांसि हन्तुं गच्छ । तत्र दृष्टान्तः । “राजेव । यथा "अमवान् । राज्ञा सह वर्तते इत्यमः अमात्यः । तद्वान् । यद्वा । अमोऽमनं रोगः । शत्रूणां कर्तव्यै रोगैस्तद्वान् । शत्रूणां रोगभूत इत्यर्थः । राजा “इभेन गजेन युक्तः सन् परबलं प्रतिगच्छति तद्वत् । किंच “तृष्वीम् । तृष्वीति क्षिप्रनाम । क्षिप्रगामिनीं “प्रसितिं प्रकृष्टां सेनाम् “अनु “द्रूणानः अनुगच्छन् । यद्वा । तृष्वीमिति तृतीयार्थे द्वितीया । तृष्व्या क्षिप्रया प्रसित्या अनुबद्धया संततया गत्या द्रूणानः परसेनां हिंसन् "अस्ता शत्रूणां क्षेप्ता “असि । “तपिष्ठैः तप्तृतमैः तेजोभिः “रक्षसः राक्षसान् “विध्य ताडय । अत्र निरुक्तम् -- ‘ कुरुष्व पाजः । पाजः पालनात् । प्रसितिमिव पृथ्वीम् । प्रसितिः प्रसहनात्तन्तुर्वा जालं वा । याहि राजेवामात्यवानभ्यमनवान्स्वम वान्वेरावता गणेन गतभयेन हस्तिनेति वा । तृप्व्यानु प्रसित्या द्रूणानः । तृष्वीति क्षिप्रनाम तरतेर्वा त्वरतेर्वा । अस्तासि विध्य रक्षसस्तपिष्ठैस्तप्ततमैः तृप्ततमैः तपिष्ठतमैरिति वा ' (निरु. ६. १२) इति ॥ कृणुष्व ।' कृवि हिंसाकरणयोः'। लोटि ‘धिन्विकृण्व्योर च 'इत्युप्रत्ययः। व्यत्ययेनात्मनेपदम् । विकरणस्वरस्तु सतिशिष्टोऽपि लसार्वधातुकस्वरं न बाधते इति लसार्वधातुकस्वरः (पा. म. ६. १. १५८, ११ ) ॥


तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।

तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥२

तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ।

तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥२

तव । भ्रमासः । आशुऽया । पतन्ति । अनु । स्पृश । धृषता । शोशुचानः ।

तपूंषि । अग्ने । जुह्वा । पतङ्गान् । असम्ऽदितः । वि । सृज । विष्वक् । उल्काः ॥२

हे “अग्ने “तव संबन्धिनः “भ्रमासः भ्राम्यन्तः "आशुया शीघ्रगतयो रश्मयः “पतन्ति सर्वतः प्रसरन्ति । शोशुचानः भृशं दीप्यमानस्त्वं “धृषता अभिभवसमर्थेन तेजःसंघेन शत्रून् “अनु क्रमेण “स्पृश दह । दहनोपायं दर्शयति । "असंदितः परैरनिरुद्धस्त्वं “तपूंषि तापकानि तेजांसि “पतङ्गान् पतनशीलान् विस्फुलिङ्गान् “उल्काः चेत्येतत्त्रितयं “जुह्वा । हूयन्तेऽस्यामाहुतय इति जुहूर्ज्वाला । तया “विष्वक् सर्वतः “वि "सृज प्रसारय ॥ आशुया । आशुशब्दाज्जसः ‘सुपां सुलुक्° 'इति याजादेशः । चित्स्वरः । धृषता । ‘धृष प्रसहने ' । चुरादिधृषीयः । व्यत्ययेन शः । ‘शतुरनुमः इति विभक्तेरुदात्तत्वम् । जुह्वा ।' जुहोतेर्दीर्घश्च ' इति क्विप् द्विर्वचनं दीर्घत्वम् ।' उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वस्य ‘नोङ्धात्वोः ' इति प्रतिषेधे ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । असंदितः । ‘ दो अवखण्डने '। कर्मणि निष्ठा । ‘ द्यतिस्यति ' इति इत्वम् । नञा समासे तस्य स्वरः ॥


प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।

यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥३

प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः ।

यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥३

प्रति । स्पशः । वि । सृज । तूर्णिऽतमः । भव । पायुः । विशः । अस्याः । अदब्धः ।

यः । नः । दूरे । अघऽशंसः । यः । अन्ति । अग्ने । माकिः । ते । व्यथिः । आ । दधर्षीत् ॥३

हे “अग्ने “तूर्णितमः स्वरिततमस्त्वं “स्पशः परबाधकान् रश्मीन् चारान् वा सत्यानृतविवेकार्थं “वि "सृज शत्रून् “प्रति विशेषेण प्रेरय । “अदब्धः केनाप्यहिंसितस्त्वम् “अस्याः त्वदीयायाः “विशः अस्मदादिकायाः प्रजायाः “पायुः पालकः "भव । कस्मात्तद्रक्षणमित्यपेक्षायामाह । “नः अस्माकं “दूरे “यः "अघशंसः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोऽघशंसः । "यः च अघशंसः “अन्ति अस्माकं समीपे तिष्ठति तस्मादुभयविधाच्छत्रोः पालको भव । किंच “ते त्वत्संबधिनोऽस्मान् “माकिः न कश्चिदपि “व्यथिः बाधको राक्षसः “आ “दधर्षीत् आधर्षयतु । अस्माकं कश्चिदपि परिभवं मा करोत्वित्यर्थः ॥ अन्ति । अन्तिकस्य कादिलोप आद्युदात्तत्वं च । अग्ने । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । माकिष्टे इति संहितायां ‘युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति षत्वम् । दधर्षीत् । धृष प्रसहने । लङि ‘ बहुलं छन्दसि ' इति शपः श्लुः । बहुलं छन्दसि ' इति तिप ईडागमः । निघातः ॥


उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते ।

यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥४

उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ ।

यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥४

उत् । अग्ने । तिष्ठ । प्रति । आ । तनुष्व । नि । अमित्रान् । ओषतात् । तिग्मऽहेते ।

यः । नः । अरातिम् । सम्ऽइधान । चक्रे । नीचा । तम् । धक्षि । अतसम् । न । शुष्कम् ॥४

“तिग्महेते । तिग्माः तीक्ष्णाः हेतयो ज्वाला यस्य स तथोक्तः । तादृश हे “अग्ने "उत् “तिष्ठ रक्षोहननार्थमुद्यतो भव । शत्रून् “प्रत्या "तनुष्व ज्वालासंघं विस्तारय । तैस्तेजःसंघैः “अमित्रान् शत्रून् “नि “ओषतात् नितरां दह । हे “समिधान समिद्भिर्दीप्यमानाग्ने “यः पुमान् “नः अस्माकम् “अरातिम् । भावप्रधाननिर्देशः । अरातित्वं शात्रवं “चक्रे कुरुते । अरातिमदानं वा कुरुते । “तं पुमांसं “नीचा न्यग्भूतं “धक्षि दह । तत्र दृष्टान्तः । “अतसं “न । यथा “शुष्कम् अनार्द्रम् अतसं काष्ठं दहसि तद्वत् ॥ ओषतात् ।' उष दाहे'। लोटि हेः ‘तुह्योः' इति तातङादेशः । धक्षि। दहेर्लोटि ‘ बहुलं छन्दसि' इति शपो लुक् । 'हो ढः' इति ढत्वम् । भष्भावः । ‘ षढोः कः सि ' इति कत्वम् । निघातः ॥


ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।

अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥५

ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ ।

अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥५

ऊर्ध्वः । भव । प्रति । विध्य । अधि । अस्मत् । आविः । कृणुष्व । दैव्यानि । अग्ने ।

अव । स्थिरा । तनुहि । यातुऽजूनाम् । जामिम् । अजामिम् । प्र । मृणीहि । शत्रून् ॥५

हे अग्ने “ऊर्ध्वो “भव रक्षोहननार्थमुद्युक्तो भव । “अस्मत् अस्मत्तः “अधि अधिकान् राक्षसान् “प्रति "विध्य प्रत्येकं ताडय । “दैव्यानि तेजांसि च “आविष्कृणुष्व “आविष्कुरु । एतत्त्रयं विधाय “यातुजूनां यातयितुं प्राणिनः क्लेशयितुं ये जवं कुर्वन्ति तेषां यातुधानानां “स्थिरा दृढानि धनूंषि “अव “तनुहि अवगतज्यानि कुरु । किंच “जामिं बन्धुम् “अजामिम् अबन्धुम् एतादृशान् “शत्रून् “प्र “मृणीहि प्रजहि । यद्वा । जामिं यः पूर्वं प्रहृतस्तम् । अजामिं पूर्वमप्रहृतम् । एवंभूतान् शत्रून् जहि । प्रहृतोऽयम् इत्युपेक्षां मा कृथाः ॥ अविष्कृणुष्व इत्यत्र संहितायाम् इदुदुपधस्य चाप्रत्ययस्य ' इति षत्वम् । तनुहि । तनोतेर्लोटि • उतश्च प्रत्ययाच्छन्दसि वावचनम्' इति हेर्लुगभावः । यातुजूनाम् । ‘जु गतौ । क्विब्वचि इत्यादिना क्विप्। दीर्घः । आमि छान्दसो नुम् । मृणीहि । मृङ् प्राणत्यागे'। अन्तर्भावितण्यर्थस्य लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य श्ना । निघातः ॥ ॥ २३ ॥


स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।

विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥६

सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ।

विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॒त् ॥६

सः । ते । जानाति । सुऽमतिम् । यविष्ठ । यः । ईवते । ब्रह्मणे । गातुम् । ऐरत् ।

विश्वानि । अस्मै । सुऽदिनानि । रायः । द्युम्नानि । अर्यः । वि । दुरः । अभि । द्यौत् ॥६

“यविष्ठ युवतम यद्वा देवानां हवींषि मिश्रयितृतम हे अग्ने “यः पुमान् “ईवते गमनवते कल्याणहेतुभूतागमनाय “ब्रह्मणे परिवृढाय तुभ्यं “गातुम् ।। गीयते उच्चार्यते इति गातुः स्तोत्रम् । तत् “ऐरत् प्रेरयति । “सः पुमान् "ते तव "सुमतिं कल्याणकरीमनुग्रहात्मिकां बुद्धिं “जानाति लभत इत्यर्थः । “अस्मै स्तोत्रं कृतवते यजमानाय तदर्थं “विश्वानि सर्वाणि “सुदिनानि शोभनानि दिनानि “रायः धनानि “द्युम्नानि द्युतिमन्ति रस्नकनकादीनि “दुरः गृहान् “अभि अभिलक्ष्य "अर्यः यज्ञानां स्वामी त्वं “वि “द्यौत् विशेषेण द्योतस्व । केचिदत्र वाक्यभेदमङ्गीकुर्वते । स्तोत्रं कृतवते यजमानाय विश्वानि सुदिनानि अभ्युदयकारीणि भवन्ति । रायः । रान्ति क्षीरादीनीति रायो गोधनानि । द्युम्नानि द्योतमानानि कनकादीनि चास्मै भवन्ति। अर्यः कर्मणामनुष्ठाता सः यजमानो दुरो गृहानभि वि द्यौत् विशेषेण द्योतते॥ ईवते। ‘ई गतौ ' । क्विप् । तदस्यास्ति' इति मतुप् । छन्दसीरः ' इति मतुपो वत्वम् । ऐरत् ।' ईर गतौ ' । यद्वृत्तयोगादनिघातः । अर्यः । ‘ ऋ गतौ ।' अर्यः स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपातितः । स्वामिन्यन्तोदात्तत्वम् । द्यौत् । ‘द्युत् दीप्तौ । छान्दसे लुङि 'द्युद्भ्यो लुङि' इति परस्मैपदम् । ‘ बहुलं छन्दसि ' इत्यडभावः ॥


सेद॑ग्ने अस्तु सु॒भग॑ः सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।

पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥७

सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ।

पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥७

सः । इत् । अग्ने । अस्तु । सुऽभगः । सुऽदानुः । यः । त्वा । नित्येन । हविषा । यः । उक्थैः ।

पिप्रीषति । स्वे । आयुषि । दुरोणे । विश्वा । इत् । अस्मै । सुऽदिना । सा । असत् । इष्टिः ॥७

हे अग्ने “यः पुमान् “नित्येन यावज्जीवं संकल्पितेनाग्निहोत्रादिसाधनभूतेन "हविषा “त्वा त्वां पिप्रीषति प्रीणयितुमिच्छति, "यः च “उक्थैः शस्त्रैः प्रीणयितुमिच्छति “सेत् स एव पुमान् “सुभगः शोभनधनः सौभाग्यवान् वा 'सुदानुः शोभनदानोपेतश्च “अस्तु । किंच “दुरोणे दुरवने कृच्छूलभ्ये “स्वे स्वकीये "आयुषि शतवर्षांख्ये जीवने तिष्ठतु। “अस्मै यजमानाय "विश्वा सर्वाणि “सुदिना शोभनानि दिनानि भवन्तु । अस्य “सा "इष्टिः स यज्ञः “असत् फलसाधनसमर्थो भवतु ॥ पिप्रीषति । ‘प्रीञ् तर्पणे '।' धातोः कर्मण:°' (पा. सू. ३. १. ७ ) इति सन् । असत् । अस्तेर्लेट्यडागमः । इष्टिः । ‘ मन्त्रे वृष° ' इत्यादिना क्तिन्नुदात्तः ॥


उखासंभरणीयेष्टावग्नेः क्षत्रभृतः ‘ अर्चामि ते इति याज्या । सूत्रितं च--- ‘ अर्चामि ते सुमतिं घोष्यर्वागितीदंप्रभृतिकर्मणाम् ' ( आश्व. श्रौ. ४. १ ) इति ।

अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः ।

स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥८

अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः ।

सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥८

अर्चामि । ते । सुऽमतिम् । घोषि । अर्वाक् । सम् । ते । ववाता । जरताम् । इयम् । गीः ।

सुऽअश्वाः । त्वा । सुऽरथाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अनु । द्यून् ॥८

हे अग्ने “ते तव “सुमतिम् अनुग्रहकरीं शोभनां बुद्धिम् “अर्चामि पूजयामि । “ववाता पुनःपुनस्त्वाम् अभिगच्छन्ती इयम् उच्यमाना “गीः वाक् “घोषि घोषयुक्तं यथा भवति तथा “अर्वाक् त्वदभिमुखं “ते त्वां “सं “जरतां स्तौतु । वयमपि “स्वश्वाः शोभनाश्वोपेताः “सुरथाः च । उपलक्षणमेतत् । पुत्रपौत्रादिभिः सहिताः सन्तः त्वां “मर्जयेम अलंकुर्याम । परिचरेमेति यावत् । त्वं तु “अनु “द्यून् अन्वहम् “अस्मे अस्मासु “क्षत्राणि धनानि “धारयेः निधेहि ॥ घोषि । ‘घुष शब्दने । औणादिक इन् । नित्त्वादाद्युदात्तः। वावाता। ‘वा गतिगन्धनयोः' इत्यस्य यङ्लुगन्तस्य निष्ठायां रूपम् । मर्जयेम ।' मृजू शौचालंकारयोः'। ण्यन्तस्य लिङि रूपम् । वृद्ध्यभावश्छान्दसः ॥


इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् ।

क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥९

इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒ऽवांस॑म् । अनु॑ । द्यून् ।

क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒ऽवांसः॑ । जना॑नाम् ॥९

इह । त्वा । भूरि । आ । चरेत् । उप । त्मन् । दोषाऽवस्तः । दीदिऽवांसम् । अनु । द्यून् ।

क्रीळन्तः । त्वा । सुऽमनसः । सपेम । अभि । द्युम्ना । तस्थिऽवांसः । जनानाम् ॥९

हे अग्ने “इह रक्षोहननाख्ये कर्मणि यद्वा अस्मिन् लोके यः पुरुषः "दोषावस्तः रात्रावहनि च “दीदिवांसं दीप्यमानं “त्वा त्वाम् “अनु “द्यून् अन्वहं “त्मन् आत्मना स्वयमेव “उप समीपे “भूरि भूयिष्ठं यथा भवति तथा “ आ “चरेत् परिचरति । तस्माद्वयमपि “जनानां शत्रूणां “द्युम्ना द्युम्नानि धनानि “अभि “तस्थिवांसः त्वत्प्रसादादात्मसात्कुर्वन्तोऽत एव “क्रीळन्तः स्वे स्वे गृहे पुत्रपौत्रादिभिः सह संक्रीडमानास्तथा “सुमनसः शोभनमनस्काः सन्तस्त्वां “सपेम परिचरेम । यद्वा । दोषावस्तरिति संबुद्धिः । दोषाया रात्रिकृतस्य तमसो वस्तराच्छादयितर्निवारयितः ॥ त्मन् । आत्मन्शब्दस्य तृतीयायाः ‘सुपां सुलुक्' इति लुक् । मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः । दोषावस्तः । द्वन्द्वपक्षे ‘ कार्तकौजपादयश्च ' इति पूर्वपदप्रकृतिस्वरः । संबुद्धिपक्षे आमन्त्रितस्य पादादित्वात् षाष्टिकमाद्युदात्तत्वम् । सपेम । ‘षप समवाये । लिङि रूपम् । निघातः ॥


यस्त्वा॒ स्वश्व॑ः सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न ।

तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥१०

यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न ।

तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥१०

यः । त्वा । सुऽअश्वः । सुऽहिरण्यः । अग्ने । उपऽयाति । वसुऽमता । रथेन ।

तस्य । त्राता । भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत् ॥१०

हे “अग्ने “यः पुमान् "स्वश्वः शोभनाश्वोपेतः "सुहिरण्यः यागयोग्यधनोपेतः “वसुमता व्रीह्यादिधनयुक्तेन “रथेन सहितः सन् “त्वा त्वाम् “उपयाति परिचरणार्थं तव समीपं गच्छति ॥ “तस्य पुंसः “त्राता सर्वदुरितेभ्यो रक्षकः “भवसि । “यः च पुमान् “ते तव “आतिथ्यम् अतिथियोग्यां पूजाम् “आनुषक् अनुक्रमेण “जुजोषत् प्रापयति “तस्य पुंसः “सखा तदुचितफलप्रदानेनोपकर्ता भवसि । उपयाति । ‘ सह सुपा ' इत्यत्र सहेति योगविभागात् समासः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । आतिथ्यम् । अतिथिशब्दात् तादर्थ्ये ‘ अतिथेर्ञ्यः' इति ञ्यप्रत्ययः । प्रत्ययस्वरः । जुजोषत् । जोषयतेर्लङि ‘बहुलं छन्दसि' इति शपः श्लुः । अडागमः । 'छन्दस्युभयथा' इति तिप आर्धधातुकत्वात् णिलोपः। ‘अभ्यस्तानामादिः' इत्याद्युदात्त: ॥ ॥ २४ ॥


म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।

त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥११

म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ ।

त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥११

महः । रुजामि । बन्धुता । वचःऽभिः । तत् । मा । पितुः । गोतमात् । अनु । इयाय ।

त्वम् । नः । अस्य । वचसः । चिकिद्धि । होतः । यविष्ठ । सुक्रतो इति सुऽक्रतो । दमूनाः ॥११

हे “होतः देवानामाह्वातः "यविष्ठ युवतम “सुक्रतो शोभनप्रज्ञ हे अग्ने “वचोभिः त्वदुद्देशेन कृतैः स्तोत्रैः समुपजाता येयं “बन्धुता बन्धुभावस्तया बन्धुतया “महः महतो राक्षसान् । “रुजामि भनज्मि। “तत् तादृशं स्तोत्रात्मकं वचः “पितुः उत्पादयितुः “गोतमात् ऋषेः सकाशात् “मा मां वामदेवं “अन्वियाय प्राप्तम् । “दमूनाः दान्तमना दानमना वा शत्रूणामुपक्षपयिता वा तादृशः “त्वं “नः अस्मदीयस्य “अस्य “वचसः स्तोत्रात्मकमेतद्वाक्यं “चिकिद्धि जानीहि ॥ चिकिद्धि । कित ज्ञाने ' । जौहोत्यादिकः । लोटि रूपम् । होतः । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । इतरयोस्तु ‘ नामन्त्रिते समानाधिकरणे° ' इति प्रथमस्य अविद्यमानवद्भावनिषेधात् अपादादित्वेन निघातः ॥


अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः ।

ते पा॒यव॑ः स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥१२

अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ।

ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥१२

अस्वप्नऽजः । तरणयः । सुऽशेवाः । अतन्द्रासः । अवृकाः । अश्रमिष्ठाः ।

ते । पायवः । सध्र्यञ्चः । निऽसद्य । अग्ने । तव । नः । पान्तु । अमूर ॥१२

“अमूर अमूढ सर्वज्ञ । यद्वा । अमूर अप्रतिहतगते हे “अग्ने “अस्वप्नजः अस्वपन्तः । जागरूका इति यावत् । “तरणयः सततगमनस्वभावा आपद्भ्यस्तारका वा "सुशेवाः सुसुखाः “अतन्द्रासः अतन्द्रा अनलसाः सर्वदोद्युक्ताः “अवृकाः अहिंसकाः “अश्रमिष्ठाः अश्रान्ततमाः “सध्र्यञ्चः परस्परं संगताः “पायवः रक्षकाः “ते तादृशाः “तव रश्मयः “निषद्य अस्मद्यज्ञे निषण्णा भूत्वा “नः अस्मान् “पान्तु रक्षन्तु ॥ अस्वप्नजः । स्वपितृषोर्नजिङ्प्रत्ययः । मध्येऽवग्रहश्छान्दसः ।। सध्र्यञ्चः । सहपूर्वादञ्चतेः क्विप् । 'सहस्य सध्रिः' इति सहस्य सध्र्यादेशः । सध्र्यादेशस्य अन्तोदात्तत्वनिपातनात् यणादेशे ( उदात्तस्वरितयो:०' इति स्वरितत्वम् । अमूर। ‘मुह वैचित्ये '। निष्ठायां ढकारस्य रेफश्छान्दसः । यद्वा । ‘ मृङ् बन्धने' । औणादिकः रक् ॥


ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् ।

र॒रक्ष॒ तान्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥१३

ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् ।

र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥१३

ये । पायवः । मामतेयम् । ते । अग्ने । पश्यन्तः । अन्धम् । दुःऽइतात् । अरक्षन् ।

ररक्ष । तान् । सुऽकृतः । विश्वऽवेदाः । दिप्सन्तः । इत् । रिपवः । न । अह । देभुः ॥१३

अत्रेयमैतिहासिकी कथा । उचथ्यस्य गर्भिणीं ममतानामधेयां भार्यां तदनुजो बृहस्पतिरचकमत । तस्यां रेत आधित्सुं तं बृहस्पतिं गर्भस्थं रेतोऽब्रवीत् । रेतोऽत्र मा सैक्षीरहमत्र वसामीति । एवमुक्तो बृहस्पतिर्निरुद्धरेतस्कः सन् रेतरूपं गर्भं शशाप । जात्यन्धत्वरूपं दीर्घं तमः प्राप्नुहीति । ततस्तस्यां दीर्घतमा अजनिष्ट। स चान्ध्यपरिहारायाग्निं रतुत्वा चक्षुरलभतेति । तदिदानीमाह । हे “अग्ने “पायवः रक्षकाः “पश्यन्तः अन्धोऽयमिति कृपादृष्ट्या पश्यन्तः "ते तव "ये रश्मयः "मामतेयं ममतायाः पुत्रम् "अन्धं चक्षुर्हीनं दीर्घतमसं "दुरितात् आन्ध्यलक्षणात् शापात् “अरक्षन् चक्षु प्रदानेनापालयन् । “विश्ववेदाः विश्वप्रज्ञो भवान् “सुकृतः शोभनं चक्षुष्प्रदानादिकर्म कृतवतः “तान् रश्मीन् ”ररक्ष आदरेण परिगृह्य पालयति। तेषां परिग्रहसिद्धि: अभिधीयते । “दिप्सन्त “इत् दम्भितुं परिभवितुम् इच्छन्त एव “रिपवः शत्रव एनं दीर्घतमसं “नाह “देभुः नैव परिभवन्ति खलु ॥ मामतेयम्। ममताया अपत्यमित्यर्थे 'स्त्रीभ्यो ढक्'। दिप्सन्तः । ‘ दम्भु दम्भे'।' सनीवन्तर्ध° ' इत्यादिना इडभावः । ‘ दम्भ इच्च' इति इकारः । देभुः । ‘ श्रन्थिग्रन्थिदम्भिष्वञ्जीनामुपसंख्यानम् ' ( का. ६. १ ) इति लिटः कित्त्वादुपधालोपः ॥


त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् ।

उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥१४

त्वया॑ । व॒यम् । स॒ऽध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् ।

उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥१४

त्वया । वयम् । सऽधन्यः । त्वाऽऊताः । तव । प्रऽनीती । अश्याम । वाजान् ।

उभा । शंसा । सूदय । सत्यऽताते । अनुष्ठुया । कृणुहि । अह्रयाण ॥१४

"अह्रयाण अलज्जितगमन। ‘अह्रयाणोऽह्रीतयानः' (निरु.५.१५) इति यास्कः । तादृश हे अग्ने “वयं स्तोतारः “त्वया “सधन्यः त्वत्प्रसादात् समानधनाः “त्वोताः त्वया रक्षिता वयं “तव "प्रणीती प्रणीत्या तव प्रेरणेनानुज्ञया "वाजान् अन्नानि "अश्याम प्राप्नुयाम । हे "सत्यताते । सत्यं तनोतीति वा सत्यं तायते यस्मिन्निति वा सत्यतातिः । हे सत्यताते “शंसा पापानां शंसितारौ “उभा उभौ आसन्नविप्रकृष्टौ शत्रू “सूदय जहि। "अनुष्ठुया अनुक्रमेण “कृणुहि । अस्मिन् सूक्ते प्रतिपादितमर्थं कुरु ॥ सधन्यः । धनमेषामस्तीति छन्दसीवनिपौ° ' इति ईप्रत्ययः।' एरनेकाचः' इति यण् । उदात्तस्वरितयोः' इति स्वरितत्वम् । अनुष्ठुया । “ अपदुःसुषु स्थः ' इति विधीयमानः कुप्रत्ययो बहुलवचनादनुपूर्वस्यापि भवति। ‘सुपां सुलुक्°' इति तृतीयाया याजादेशः । अह्रयाण । ‘ ह्री लज्जायाम् । ‘ बहुलं छन्दसि ' इति शपः श्लुभावाभावः ।“ अनित्यमागमशासनम् ' इति मुगभावः ॥


अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय ।

दहा॒शसो॑ र॒क्षस॑ः पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥१५

अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ।

दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥१५

अया । ते । अग्ने । सम्ऽइधा । विधेम । प्रति । स्तोमम् । शस्यमानम् । गृभाय ।

दह । अशसः । रक्षसः । पाहि । अस्मान् । द्रुहः । निदः । मित्रऽमहः । अवद्यात् ॥१५

हे “अग्ने "अया अनया “समिधा दीप्त्या स्तुत्या “ते त्वां “विधेम परिचरेम । अस्माभिः “शस्यमानम् “इमं “स्तोमं स्तोत्रं “प्रति “गृभाय प्रतिगृहाण । “अशसः । शंसन्ति स्तुवन्तीति शसः स्तोतारः । ते न भवन्तीत्यशसो नृशंसाः । तान् “रक्षसः “दह भस्मसात्कुरु। हे “मित्रमहः मित्रैः पूजनीय हे अग्ने “द्रुहः द्रोग्धुः “निदः निन्दकात् “अवद्यात् परिवादाच्च “अस्मान् “पाहि रक्ष । गृभाय । ग्रहेर्लोटि ‘ छन्दसि शायजपि ' इति श्नः शायच् । हृग्रहोर्भः । पाहि । वाक्यभेदात् अनिघातः । निदः । णिदि कुत्सायाम् । क्विप् । आगमशासनस्यानित्यत्वान्नुमभावः । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । अवद्यात् । ‘ अवद्यपण्य° ' इति यत् । ययतोश्चातदर्थे । ( पा. सू. ६. २. १५६ ) इत्यन्तोदात्तत्वम् । मित्रमहो अवद्यात् इत्यत्र संहितायाम् । अव्यादवद्यात्' इति एङः प्रकृतिभावः ॥ २५ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके चतुर्थोऽध्यायः समाप्तः॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४&oldid=198344" इत्यस्माद् पुनः प्राप्तिः