ऋग्वेदः सूक्तं ४.३२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.३२ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.३१ ऋग्वेदः - मण्डल ४
सूक्तं ४.३२
वामदेवो गौतमः
सूक्तं ४.३३ →
दे. इन्द्रः, २३-२४ इन्द्राश्वौ। गायत्री


आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
महान्महीभिरूतिभिः ॥१॥
भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।
चित्रं कृणोष्यूतये ॥२॥
दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा ।
सखिभिर्ये त्वे सचा ॥३॥
वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
अस्माँअस्माँ इदुदव ॥४॥
स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।
अनाधृष्टाभिरा गहि ॥५॥
भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
युजो वाजाय घृष्वये ॥६॥
त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः ।
स नो यन्धि महीमिषम् ॥७॥
न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् ।
स्तोतृभ्य इन्द्र गिर्वणः ॥८॥
अभि त्वा गोतमा गिरानूषत प्र दावने ।
इन्द्र वाजाय घृष्वये ॥९॥
प्र ते वोचाम वीर्या या मन्दसान आरुजः ।
पुरो दासीरभीत्य ॥१०॥
ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
सुतेष्विन्द्र गिर्वणः ॥११॥
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
ऐषु धा वीरवद्यशः ॥१२॥
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
तं त्वा वयं हवामहे ॥१३॥
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
सोमानामिन्द्र सोमपाः ॥१४॥
अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु ।
अर्वागा वर्तया हरी ॥१५॥
पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
वधूयुरिव योषणाम् ॥१६॥
सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे ।
शतं सोमस्य खार्यः ॥१७॥
सहस्रा ते शता वयं गवामा च्यावयामसि ।
अस्मत्रा राध एतु ते ॥१८॥
दश ते कलशानां हिरण्यानामधीमहि ।
भूरिदा असि वृत्रहन् ॥१९॥
भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ।
भूरि घेदिन्द्र दित्ससि ॥२०॥
भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् ।
आ नो भजस्व राधसि ॥२१॥
प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।
माभ्यां गा अनु शिश्रथः ॥२२॥
कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
बभ्रू यामेषु शोभेते ॥२३॥
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
बभ्रू यामेष्वस्रिधा ॥२४॥

सायणभाष्यम्

‘ आ तू न इन्द्र' इति चतुर्विंशत्यृचमेकादशं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्रम् । अन्त्ये 'कनीनकेव ' इत्यादिके द्वे इन्द्रस्याश्वदेवताके। तथा चानुक्रान्तम्-’ आ तू नश्चतुर्विंशतिरन्त्याभ्यामिन्द्राश्वौ स्तुतौ ' इति । गतो विनियोगः ॥


आ तू न॑ इंद्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।

म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥१

आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ ।

म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥१

आ । तु । नः । इन्द्र । वृत्रऽहन् । अस्माकम् । अर्धम् । आ । गहि ।

महान् । महीभिः । ऊतिऽभिः ॥१

हे “वृत्रहन् वृत्राणां शत्रूणां हिंसक “इन्द्र त्वं “नः अस्मान् प्रति “तु क्षिप्रम् “आ गच्छ । हे इन्द्र “महान् प्रभूतस्त्वं “महीभिः महतीभिः “ऊतिभिः रक्षभिः सह “अस्माकमर्धं समीपम् “आ “गहि आगच्छ ।।


भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।

चि॒त्रं कृ॑णोष्यू॒तये॑ ॥२

भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ ।

चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥२

भृमिः । चित् । घ । असि । तूतुजिः । आ । चित्र । चित्रिणीषु । आ ।

चित्रम् । कृणोषि । ऊतये ॥२

हे “चित्र चायनीय पूजनीयेन्द्र त्वं “भृमिश्चित् भ्रमणशीलोऽपि “तूतुजिः “धासि अस्मदभीष्टप्रदाता च भवसि । आकारश्चार्थे । “चित्रिणीषु चित्रकर्मयुक्तास्वस्मद्रूपासु प्रजासु “चित्रं चायनीयं धनम् “ऊतये रक्षणाय “आ “कृणोषि आ समन्तात् करोषि । घ इति पूरणः ॥


द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राधं॑त॒मोज॑सा ।

सखि॑भि॒र्ये त्वे सचा॑ ॥३

द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा ।

सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥३

दभ्रेभिः । चित् । शशीयांसम् । हंसि । व्राधन्तम् । ओजसा ।

सखिऽभिः । ये । त्वे इति । सचा ॥३

हे इन्द्र त्वं “दभ्रेभिश्चित् अल्पैरपि “सखिभिः यजमानैः सह “शशीयांसम् । ‘शश प्लुतगतौ । उत्प्लवमानं “व्राधन्तं महान्तमपि शत्रुम् “ओजसा बलेन “हंसि नाशयसि । "ये यजमानाः “त्वे त्वयि “सचा संगताः । तैरिति पूर्वेण संबन्धः ॥


व॒यमिं॑द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।

अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥४

व॒यम् । इ॒न्द्र॒ । त्वे इति॑ । सचा॑ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ ।

अ॒स्मान्ऽअ॑स्मान् । इत् । उत् । अ॒व॒ ॥४

वयम् । इन्द्र । त्वे इति । सचा । वयम् । त्वा । अभि । नोनुमः ।

अस्मान्ऽअस्मान् । इत् । उत् । अव ॥४

हे “इन्द्र “वयं यजमाना: “त्वे त्वयि “सचा संगताः स्मः । “वयं “त्वा त्वाम् “अभि ”नोनुमः अतिशयेनाभिष्टुमः । हे इन्द्र त्वमपि "अस्मानस्मानित् सर्वानस्मानेव "उदव उत्कर्षेण रक्ष ॥


स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ ।

अना॑धृष्टाभि॒रा ग॑हि ॥५

सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ ।

अना॑धृष्टाभिः । आ । ग॒हि॒ ॥५

सः । नः । चित्राभिः । अद्रिऽवः । अनवद्याभिः । ऊतिऽभिः ।

अनाधृष्टाभिः । आ । गहि ॥५

हे “अद्रिवः वज्रवन्निन्द्र “सः त्वं “चित्राभिः चायनीयाभिः "अनवद्याभिः अनिन्दिताभिः "अनाधृष्टाभिः शत्रुभिरप्रधर्षितैः “ऊतिभिः रक्षणैः सहितः सन् “नः अस्मान् “आ “गहि आगच्छ ॥ ॥ २७ ॥


भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इंद्र॒ गोम॑तः ।

युजो॒ वाजा॑य॒ घृष्व॑ये ॥६

भू॒यामो॒ इति॑ । सु । त्वाऽव॑तः । सखा॑यः । इ॒न्द्र॒ । गोऽम॑तः ।

युजः॑ । वाजा॑य । घृष्व॑ये ॥६

भूयामो इति । सु । त्वाऽवतः । सखायः । इन्द्र । गोऽमतः ।

युजः । वाजाय । घृष्वये ॥६

हे "इन्द्र “त्वावतः त्वत्सदृशस्य “गोमतः गोभिर्युक्तस्य देवस्य संबन्धिनः “सखायः स्तोतारो वयं “घृष्वये महते “वाजाय अन्नाय "युजः संयुक्ताः "सु सुष्ठु "भूयामो भवामैव ॥


त्वं ह्येक॒ ईशि॑ष॒ इंद्र॒ वाज॑स्य॒ गोम॑तः ।

स नो॑ यंधि म॒हीमिषं॑ ॥७

त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः ।

सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥७

त्वम् । हि । एकः । ईशिषे । इन्द्र । वाजस्य । गोऽमतः ।

सः । नः । यन्धि । महीम् । इषम् ॥७

हे “इन्द्र “हि यस्मात् कारणात् “त्वम् “एकः एव “गोमतः गोभिर्युक्तस्य “वाजस्य अन्नस्य “ईशिषे प्रभवसि । अतः कारणात् “सः त्वं “नः अस्मभ्यं “महीं महतीम् “इषम् अन्नं “यन्धि प्रयच्छ ।


न त्वा॑ वरंते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घं ।

स्तो॒तृभ्य॑ इंद्र गिर्वणः ॥८

न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् ।

स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥८

न । त्वा । वरन्ते । अन्यथा । यत् । दित्ससि । स्तुतः । मघम् ।

स्तोतृऽभ्यः । इन्द्र । गिर्वणः ॥८

हे “इन्द्र “गिर्वणः गिरां संभक्तः "स्तुतः अस्माभिः संस्तुतः “यत् यदा “स्तोतृभ्यः अस्मभ्यं “मघं धनं “दित्ससि दातुमिच्छसि । तदा “त्वा त्वाम् “अन्यथा प्रकारान्तरेण “न “वरन्ते न निवारयन्ति । किंतु सर्वेऽप्यनुकूला एव भवन्ति ।


अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।

इंद्र॒ वाजा॑य॒ घृष्व॑ये ॥९

अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । अनू॑षत । प्र । दा॒वने॑ ।

इन्द्र॑ । वाजा॑य । घृष्व॑ये ॥९

अभि । त्वा । गोतमाः । गिरा । अनूषत । प्र । दावने ।

इन्द्र । वाजाय । घृष्वये ॥९

हे 'इन्द्र “त्वा त्वाम् "अभि लक्षीकृत्य “गोतमाः एतन्नामका ऋषयः “गिरा स्तुतिरूपया वाचा “दावने धनदानार्थं “प्र “अनूषत प्रकर्षेण स्तुवन्ति । “घृष्वये महते “वाजाय अन्नाय प्रस्तुवन्ति ॥


प्र ते॑ वोचाम वी॒र्या॒३॒॑ या मं॑दसा॒न आरु॑जः ।

पुरो॒ दासी॑र॒भीत्य॑ ॥१०

प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒सा॒नः । आ । अरु॑जः ।

पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥१०

प्र । ते । वोचाम । वीर्या । याः । मन्दसानः । आ । अरुजः ।

पुरः । दासीः । अभिऽइत्य ॥१०

हे इन्द्र “मन्दसानः - सोमेन मोदमानस्त्वं “दासीः क्षेप्तुरसुरस्य स्वभूताः “याः “पुरः यानि नगराणि "अभीत्य अभिगम्य “आ “अरुजः आ समन्तात् अभाङ्क्षीः । हे इन्द्र “ते त्वदीयानि तत्रत्यानि “वीर्या वीर्याणि वयं स्तोतारः “प्र “वोचाम प्रकर्षेण वदाम ॥ ॥ २८ ॥


ता ते॑ गृणंति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।

सु॒तेष्विं॑द्र गिर्वणः ॥११

ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ ।

सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥११

ता । ते । गृणन्ति । वेधसः । यानि । चकर्थ । पौंस्या ।

सुतेषु । इन्द्र । गिर्वणः ॥११

हे “इन्द्र “गिर्वणः गिरां स्तुतिरूपाणां वाचां संभक्ता त्वं “यानि “पौंस्या पौंस्यानि बलानि “चकर्थ कृतवानसि । हे इन्द्र "वेधसः प्राज्ञाः “सुतेषु अभिषुतेषु सोमेषु “ते त्वदीयानि “ता तानि बलानि “गृणन्ति कीर्तयन्ति ॥


अवी॑वृधंत॒ गोत॑मा॒ इंद्र॒ त्वे स्तोम॑वाहसः ।

ऐषु॑ धा वी॒रव॒द्यशः॑ ॥१२

अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः ।

आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥१२

अवीवृधन्त । गोतमाः । इन्द्र । त्वे इति । स्तोमऽवाहसः ।

आ । एषु । धाः । वीरऽवत् । यशः ॥१२

“स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारः “गोतमाः ऋषयो हे “इन्द्र “त्वे त्वाम् “अवीवृधन्त स्तोत्रैर्वर्धयन्ति । त्वम् “एषु गोतमेषु "वीरवत् पुत्रपौत्रादियुक्तं “यशः अन्नम् “आ “धाः निधेहि ॥


यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।

तं त्वा॑ व॒यं ह॑वामहे ॥१३

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥१३

यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।

तम् । त्वा । वयम् । हवामहे ॥१३

हे “इन्द्र “त्वं “यच्चिद्धि यद्यपि खलु “शश्वतां बहूनां सर्वेषां यजमानानां “साधारणः “असि सामान्यो भवसि । तथापि "तम् एव “त्वा त्वां “वयं स्तोतारः "हवामहे आह्वयामः ॥


अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वांध॑सः ।

सोमा॑नामिंद्र सोमपाः ॥१४

अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः ।

सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥१४

अर्वाचीनः । वसो इति । भव । अस्मे इति । सु । मत्स्व । अन्धसः ।

सोमानाम् । इन्द्र । सोमऽपाः ॥१४

हे “वसो यज्ञनिवासक इन्द्र त्वम् “अस्मे अस्मासु यजमानेषु “अर्वाचीनः अभिमुखः “भव । तथा हे "सोमपाः सोमानां पातः “इन्द्र त्वं “सोमानाम् “अन्धसः अन्नेन “सु सुष्ठु “मत्स्व माद्य ॥


अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इंद्र यच्छतु ।

अ॒र्वागा व॑र्तया॒ हरी॑ ॥१५

अ॒स्माक॑म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः॑ । इ॒न्द्र॒ । य॒च्छ॒तु॒ ।

अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति॑ ॥१५

अस्माकम् । त्वा । मतीनाम् । आ । स्तोमः । इन्द्र । यच्छतु ।

अर्वाक् । आ । वर्तय । हरी इति ॥१५

“मतीनां स्तोतॄणाम् ॥ मन्यतेः कर्तरि क्तिच् ॥ "अस्माकं संबन्धि “स्तोमः स्तोत्रं हे "इन्द्र “त्वा त्वाम् "आ "यच्छतु अस्मासु नियच्छतु । त्वमपि “हरी त्वदीयावश्वौ “अर्वाक् अस्मदभिमुखं यथा भवति तथा “आ “वर्तय परिवर्तनं कुरु ॥


पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।

व॒धू॒युरि॑व॒ योष॑णां ॥१६

पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।

व॒धू॒युःऽइ॑व । योष॑णाम् ॥१६

पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।

वधूयुःऽइव । योषणाम् ॥१६

हे इन्द्र त्वं “नः अस्मदीयं “पुरोळाशं “च पुरोडाशरूपमन्नं च “घसः अद्धि । तथा “नः अस्मदीयाः “गिरश्च स्तुतिरूपा वाचश्च “जोषयासे सेवस्व । तत्र दृष्टान्तः । “वधूयुरिव । स्त्रीकामो यथा “योषणां स्त्रीणां गिरः सेवते तद्वत् ॥ ॥ २९ ॥


स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिंद्र॑मीमहे ।

श॒तं सोम॑स्य खा॒र्यः॑ ॥१७

स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ ।

श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥१७

सहस्रम् । व्यतीनाम् । युक्तानाम् । इन्द्रम् । ईमहे ।

शतम् । सोमस्य । खार्यः ॥१७

वयं स्तोतारः “इन्द्रं परमैश्वर्ययुक्तं "युक्तानां शिक्षितानां “व्यतीनां गमनवतामश्वानां “सहस्रं सहस्रसंख्याकम् “ईमहे याचामहे । तथा “सोमस्य अभिषुतसोमस्य “शतं शतसंख्याकाः “खार्यः खारीः ईमहे द्रोणकलशान् याचामहे। अत्र मानविशेषवाचिना खारीशब्देन द्रोणकलश उपलक्ष्यते । अपरिमितद्रोणकलशान् बहून् यज्ञान् याचामह इत्यर्थः ॥


स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।

अ॒स्म॒त्रा राध॑ एतु ते ॥१८

स॒हस्रा॑ । ते॒ । श॒ता । व॒यम् । गवा॑म् । आ । च्य॒व॒या॒म॒सि॒ ।

अ॒स्म॒ऽत्रा । राधः॑ । ए॒तु॒ । ते॒ ॥१८

सहस्रा । ते । शता । वयम् । गवाम् । आ । च्यवयामसि ।

अस्मऽत्रा । राधः । एतु । ते ॥१८

हे इन्द्र "ते त्वदीयानि “गवां “सहस्रा सहस्रसंख्याकानि “शता शतसंख्याकानि च “आ “च्यावयामसि आच्यावयामः । अस्मदभिमुखं कुर्मः। तथा “अस्मत्रा अस्मासु त्वदीयं “राधः धनं “ते त्वत्तः “एतु आगच्छतु ।।


दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।

भू॒रि॒दा अ॑सि वृत्रहन् ॥१९

दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ ।

भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥१९

दश । ते । कलशानाम् । हिरण्यानाम् । अधीमहि ।

भूरिऽदाः । असि । वृत्रऽहन् ॥१९

हे इन्द्र “ते त्वत्तः “कलशानां कुम्भानाम् । कुम्भपरिमितानामिति यावत् । “हिरण्यानां हितरमणीयानां धनानां “दश दशसंख्याकानि “अधीमहि धारयामः । हे “वृत्रहन् वृत्राणां शत्रूणां हिंसकेन्द्र त्वं “भूरिदाः “असि बहुप्रदो भवसि ॥


भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।

भूरि॒ घेदिं॑द्र दित्ससि ॥२०

भूरि॑ऽदाः । भूरि॑ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि॑ । आ । भ॒र॒ ।

भूरि॑ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥२०

भूरिऽदाः । भूरि । देहि । नः । मा । दभ्रम् । भूरि । आ । भर ।

भूरि । घ । इत् । इन्द्र । दित्ससि ॥२०

हे “इन्द्र “भूरिदाः बहुप्रदस्त्वं “भूरि बहु धनं “नः अस्मभ्यं “देहि प्रयच्छ । किंतु "दभ्रम् अल्पं धनं “मा प्रयच्छ । “भूरि बहुलं धनमस्मभ्यम् “आ “भर आहर । किंच “भूरि “इत् अदभ्रमेव धनं “दित्ससि “घ अस्मभ्यं दातुमिच्छसि खलु ॥


भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।

आ नो॑ भजस्व॒ राध॑सि ॥२१

भू॒रि॒ऽदाः । हि । असि॑ । श्रु॒तः । पु॒रु॒ऽत्रा । शू॒र॒ । वृ॒त्र॒ऽह॒न् ।

आ । नः॒ । भ॒ज॒स्व॒ । राध॑सि ॥२१

भूरिऽदाः । हि । असि । श्रुतः । पुरुऽत्रा । शूर । वृत्रऽहन् ।

आ । नः । भजस्व । राधसि ॥२१

हे “वृत्रहन् वृत्रस्य हिंसक “शूर विक्रान्तेन्द्र "भूरिदाः बहुप्रदस्त्वं “पुरुत्रा पुरुषु बहुषु यजमानेषु "श्रुतः “असि “हि विख्यातो भवसि खलु । “राधसि धने "नः अस्मान् "आ "भजस्व ॥ समन्तात् भागिनः कुरु ।।


प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।

माभ्यां॒ गा अनु॑ शिश्रथः ॥२२

प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒नः॒ । न॒पा॒त् ।

मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥२२

प्र । ते । बभ्रू इति । विऽचक्षण । शंसामि । गोऽसनः । नपात् ।

मा । आभ्याम् । गाः । अनु । शिश्रथः ॥२२

हे “विचक्षण प्राज्ञेन्द्र “ते त्वदीयौ “बभ्रू बभ्रुवर्णावश्वौ “प्र “शंसामि प्रकर्षेण स्तौमि । हे “गोसनः गवां सनितः हे “नपात् न पातयितः स्तोतॄनविनाशयितः । किंतु पालयितरित्यर्थः । हे इन्द्र त्वम् “आभ्यां त्वदीयाभ्यामश्वाभ्यां “गा “अनु अस्मदीया गा लक्षीकृत्य “मा “शिश्रथः विनष्टा मा कार्षीः । गावोऽश्वदर्शनात् विश्लिष्यन्ते । तन्मा भूदित्यर्थः ॥


क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।

ब॒भ्रू यामे॑षु शोभेते ॥२३

क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के ।

ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥२३

कनीनकाऽइव । विद्रधे । नवे । द्रुऽपदे । अर्भके ।

बभ्रू इति । यामेषु । शोभेते इति ॥२३

“विद्रधे विदृढे व्यूढे “नवे नवजाते “अर्भके अल्पके “द्रुपदे दुमाख्यस्थाने स्थिते “कनीनकेव कमनीये शालभञ्जिके इव हे इन्द्र “बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ “यामेषु यज्ञेषु “शोभेते कान्तियुक्तौ भवतः ॥ ‘ कनीनके कन्यके । कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति बा कनतेर्वा स्यात् कान्तिकर्मणः ' ( निरु. ४. १५) इत्यादि निरुक्तम् ।।


अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।

ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥२४

अर॑म् । मे॒ । उ॒स्रऽया॑म्ने । अर॑म् । अनु॑स्रऽयाम्ने ।

ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥२४

अरम् । मे । उस्रऽयाम्ने । अरम् । अनुस्रऽयाम्ने ।

बभ्रू इति । यामेषु । अस्रिधा ॥२४

हे इन्द्र “अस्रिधा अस्रिधावहिंसकौ "बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ “यामेषु गमनेषु प्राप्तेषु सत्सु “उस्रयाम्णे । उस्राभ्यामनडुद्भ्यां युक्तेन रथेन यातीत्युस्रयामा । तस्मै “मे मह्यम् "अरम् अलं पर्याप्तकारिणौ भवताम् । अनुस्रयाम्णे पद्भ्यामेव गच्छते मह्यम् "अरं पर्याप्तकारिणौ भवताम् ।। ॥ ३० ॥ ॥ ३ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके षष्ठोऽध्यायः समाप्तः ।।

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३२&oldid=185116" इत्यस्माद् प्रतिप्राप्तम्