ऋग्वेदः सूक्तं ४.२२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२१ ऋग्वेदः - मण्डल ४
सूक्तं ४.२२
वामदेवो गौतमः
सूक्तं ४.२३ →
दे. इन्द्रः। त्रिष्टुप्


यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित् ।
ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥१॥
वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान् ।
श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥२॥
यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ।
दधानो वज्रं बाह्वोरुशन्तं द्याममेन रेजयत्प्र भूम ॥३॥
विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौरृष्वाज्जनिमन्रेजत क्षाः ।
आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः ॥४॥
ता तू त इन्द्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या ।
यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः ॥५॥
ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः ।
अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥६॥
अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः ।
यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै ॥७॥
पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः ।
अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥८॥
अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि ।
अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य ॥९॥
अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान् ।
अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥


सायणभाष्यम्

तत्र तृतीयानुवाके एकादश सूक्तानि । तत्र ‘ यन्न इन्द्रः' इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘यन्नः' इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्रे द्वितीयमिदं संपातसूक्तम् । सूत्रितं च-' एवा त्वामिन्द्र यन्न इन्द्रः' ( आश्व. श्रौ. ७. ५) इति ॥


यन्न॒ इंद्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् ।

ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥१

यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । वष्टि॑ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् ।

ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥१

यत् । नः । इन्द्रः । जुजुषे । यत् । च । वष्टि । तत् । नः । महान् । करति । शुष्मी । आ । चित् ।

ब्रह्म । स्तोमम् । मघऽवा । सोमम् । उक्था । यः । अश्मानम् । शवसा । बिभ्रत् । एति ॥१

“इन्द्रः “नः अस्मदीयं “यत् हविर्लक्षणान्नादिकं “जुजुषे सेवते “यच्च हविरादिकं च “वष्टि कामयते “महान् प्रभूतः “शुष्मी बलवानिन्द्रः । चिदिति चार्थे । “ब्रह्म “चित् हविर्लक्षणपुरोडाशादिकमन्नं च “स्तोमं स्तोत्रसमूहं च “सोमम् अभिषुतं सोमं च "उक्था उक्थानि शस्त्राणि चेत्येवंभूतं “तत् ब्रह्मादिचतुष्टयम् “आ “करति आकरोतु स्वीकरोतु । “मघवा धनवान् । अत्र अश्मशब्दः वज्रवाची । “अश्मानं वज्रं “बिभ्रत् धारयन् “शवसा बलेन युक्तः “यः इन्द्रः “एति आगच्छति । स इन्द्रः स्वीकरोत्विति पूर्वेण संबन्धः ॥६ ।।


वृषा॒ वृषं॑धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् ।

श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥२

वृषा॑ । वृष॑न्धिम् । चतुः॑ऽअश्रिम् । अस्य॑न् । उ॒ग्रः । बा॒हुऽभ्या॑म् । नृऽत॑मः । शची॑ऽवान् ।

श्रि॒ये । परु॑ष्णीम् । उ॒षमा॑णः । ऊर्णा॑म् । यस्याः॑ । पर्वा॑णि । स॒ख्याय॑ । वि॒व्ये ॥२

वृषा । वृषन्धिम् । चतुःऽअश्रिम् । अस्यन् । उग्रः । बाहुऽभ्याम् । नृऽतमः । शचीऽवान् ।

श्रिये । परुष्णीम् । उषमाणः । ऊर्णाम् । यस्याः । पर्वाणि । सख्याय । विव्ये ॥२

“वृषा कामानां वर्षिता “वृषन्धिं मेघभेदनद्वारेण वर्षं कुर्वन्तं “चतुरश्रिं चतसृभिः अश्रिभिः धाराभिरुपेतं वज्रं “बाहुभ्यां हस्ताभ्याम् “अस्यन् शत्रुषु प्रक्षिपन् “उग्रः उद्गूर्णबलः “नृतमः नेतृतमः “शचीवान कर्मवानिन्द्रः “ऊर्णाम् आच्छादिकां परुष्णीं पर्ववतीं नदीं “श्रिये आश्रयणार्थम् “उषमाणः सेवमान: भवति । “यस्याः नद्याः “पर्वाणि भिन्नान् देशान् “सख्याय सखिकर्मणे "विव्ये संवृतवान्॥


यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।

दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शंतं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥३

यः । दे॒वः । दे॒वऽत॑मः । जाय॑मानः । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।

दधा॑नः । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । द्याम् । अमे॑न । रे॒ज॒य॒त् । प्र । भूम॑ ॥३

यः । देवः । देवऽतमः । जायमानः । महः । वाजेभिः । महत्ऽभिः । च । शुष्मैः ।

दधानः । वज्रम् । बाह्वोः । उशन्तम् । द्याम् । अमेन । रेजयत् । प्र । भूम ॥३

“देवः दीप्यमानः “देवतमः दातृतमः "जायमानः उत्पद्यमानः “यः इन्द्रः “महः महद्भिः “वाजेभिः अन्नैः “महद्भिः “शुष्मैः बलैः “च । युक्तोऽभवदिति शेषः । स इन्द्रः “बाह्वोः हस्तयोः “उशन्तं कामयमानं "वज्रं “दधानः धारयन् "अमेन बलेन “द्यां द्युलोकं च “भूम भूलोकं च “प्र “रेजयत् प्रकम्पयति स्म ।।


विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः ।

आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवंत॒ वाताः॑ ॥४

विश्वा॑ । रोधां॑सि । प्र॒ऽवतः॑ । च॒ । पू॒र्वीः । द्यौः । ऋ॒ष्वात् । जनि॑मन् । रे॒ज॒त॒ । क्षाः ।

आ । मा॒तरा॑ । भर॑ति । शु॒ष्मी । आ । गोः । नृ॒ऽवत् । परि॑ऽज्मन् । नो॒नु॒व॒न्त॒ । वाताः॑ ॥४

विश्वा । रोधांसि । प्रऽवतः । च । पूर्वीः । द्यौः । ऋष्वात् । जनिमन् । रेजत । क्षाः ।

आ । मातरा । भरति । शुष्मी । आ । गोः । नृऽवत् । परिऽज्मन् । नोनुवन्त । वाताः ॥४

“विश्वा विश्वानि “रोधांसि । रोधःशब्देन उन्नतप्रदेशः उच्यते । उन्नतप्रदेशाः पर्वताश्च पूर्वीः पूर्व्यो बहूनि “प्रवतः प्रवणानि । समुद्राश्चेत्यर्थः। “द्यौः द्युलोकश्च “क्षाः पृथिवी च "जनिमन् इन्द्रस्य जन्मनि सति “ऋष्वात् महतोऽस्मादिन्द्रात् “रेजत अरेजन्त अकम्पन्त । किंच शुष्मी बलवान् इन्द्रः “गोः गन्तुः सूर्यस्य “मातरा मातरौ मातापितृभूतौ द्यावापृथिव्यौ च । “आ इति चार्थे । “आ “भरति आ समन्तात् बिभर्ति । “नृवत् मनुष्या इव “वाताः इन्द्रेण प्रेरिता वायवश्च परिज्मन् अन्तरिक्षे “नोनुवन्त शब्दायन्ते ।


ता तू त॑ इंद्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ ।

यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥५

ता । तु । ते॒ । इ॒न्द्र॒ । म॒ह॒तः । म॒हानि॑ । विश्वे॑षु । इत् । सव॑नेषु । प्र॒ऽवाच्या॑ ।

यत् । शू॒र॒ । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि॑म् । वज्रे॑ण । शव॑सा । अवि॑वेषीः ॥५

ता । तु । ते । इन्द्र । महतः । महानि । विश्वेषु । इत् । सवनेषु । प्रऽवाच्या ।

यत् । शूर । धृष्णो इति । धृषता । दधृष्वान् । अहिम् । वज्रेण । शवसा । अविवेषीः ॥५

हे "इन्द्र “महतः प्रभूतस्य ते त्वदीयानि “ता तानि कर्माणि "तु क्षिप्रं "महानि महान्ति भवन्ति । “विश्वेष्वित् सर्वेष्वेव “सवनेषु प्रातः सवनादिकर्मसु त्वदीयानि कर्माणि “प्रवाच्या प्रवाच्यानि स्तोतृभिः प्रकर्षेण वक्तुं योग्यानि स्तुत्यानि इति “यत् । हे “धृष्णोः प्रगल्भ हे “शूर विक्रान्तेन्द्र “दधृष्वान् पालकत्वेन लोकान् धारयन् “शवसा बलेन युक्तस्त्वं “धृषता धर्षकेण “वज्रेण “अहिं वृत्रमसुरम् “अविवेषीः अवधीरिति यत् । एतदादीनि कर्माणि महान्तीति पूर्वेण संबन्धः । अत्र अविवेषीरिति वधकर्मा ॥ ॥ ७ ॥


ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ ।

अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिंध॑वो॒ जव॑सा चक्रमंत ॥६

ता । तु । ते॒ । स॒त्या । तु॒वि॒ऽनृ॒म्ण॒ । विश्वा॑ । प्र । धे॒नवः॑ । सि॒स्र॒ते॒ । वृष्णः॑ । ऊध्नः॑ ।

अध॑ । ह॒ । त्वत् । वृ॒ष॒ऽम॒नः॒ । भि॒या॒नाः । प्र । सिन्ध॑वः । जव॑सा । च॒क्र॒म॒न्त॒ ॥६

ता । तु । ते । सत्या । तुविऽनृम्ण । विश्वा । प्र । धेनवः । सिस्रते । वृष्णः । ऊध्नः ।

अध । ह । त्वत् । वृषऽमनः । भियानाः । प्र । सिन्धवः । जवसा । चक्रमन्त ॥६

हे "तुविनृम्ण अधिकबल इन्द्र “ते त्वदीयानि “विश्वा विश्वानि “ता तानि कर्माणि “तु क्षिप्रं “सत्या सत्यानि भवन्ति । हे इन्द्र “वृष्णः कामानां वर्षितुस्त्वत्तो भयात् “धेनवः गावः “ऊध्नः स्वकीयादापीनात् “प्र “सिस्रते प्रकर्षेण क्षीरं क्षरन्ति । “अध अपि च हे वृषमनः कामानां वर्षणपरमनस्केन्द्र “सिन्धवः नद्यः “त्वत् त्वत्तः “भियानाः बिभ्यत्यः सत्यः "जवसा वेगेन “प्र “चक्रमन्त “ह प्रकर्षेण गच्छन्ति खलु ॥


अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिंद्र स्तवंत॒ स्वसा॑रः ।

यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यंद॒यध्यै॑ ॥७

अत्र॑ । अह॑ । ते॒ । ह॒रि॒ऽवः॒ । ताः । ऊं॒ इति॑ । दे॒वीः । अवः॑ऽभिः । इ॒न्द्र॒ । स्त॒व॒न्त॒ । स्वसा॑रः ।

यत् । सी॒म् । अनु॑ । प्र । मु॒चः । ब॒द्ब॒धा॒नाः । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । स्य॒न्द॒यध्यै॑ ॥७

अत्र । अह । ते । हरिऽवः । ताः । ऊं इति । देवीः । अवःऽभिः । इन्द्र । स्तवन्त । स्वसारः ।

यत् । सीम् । अनु । प्र । मुचः । बद्बधानाः । दीर्घाम् । अनु । प्रऽसितिम् । स्यन्दयध्यै ॥७

हे “इन्द्र त्वं “यत् यदा “बद्बधानाः वृत्रेण बध्यमानाः “सीमनु एता: नदीरुद्दिश्य “दीर्घाम् अत्यधिकां “प्रसितिं बन्धनम् “अनु स्यन्दयध्यै यथाकामं स्यन्दितुं “प्र “मुचः प्रकर्षेणामोचयः । हे “हरिवः हरिवन् इन्द्र “अत्राह अत्रैव मोचनवेलायां "ता “उ ताः प्रसिद्धा एव “देवीः देव्यो द्योतमानाः “स्वसारः नद्यः । अत्र स्वसृशब्दो नदीवाची । “अवोभिः त्वत्कृतै रक्षणैः "ते त्वां “स्तवन्त स्तावयन्ति । नदीपूरणादिभिः कर्मभिः जना इन्द्रं स्तुवन्तीत्यर्थः ॥


पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिंधु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः ।

अ॒स्म॒द्र्य॑क्शुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥८

पि॒पी॒ळे । अं॒शुः । मद्यः॑ । न । सिन्धुः॑ । आ । त्वा॒ । शमी॑ । श॒श॒मा॒नस्य॑ । श॒क्तिः ।

अ॒स्म॒द्र्य॑क् । शु॒शु॒चा॒नस्य॑ । य॒म्याः॒ । आ॒शुः । न । र॒श्मिम् । तु॒वि॒ऽओज॑सम् । गोः ॥८

पिपीळे । अंशुः । मद्यः । न । सिन्धुः । आ । त्वा । शमी । शशमानस्य । शक्तिः ।

अस्मद्र्यक् । शुशुचानस्य । यम्याः । आशुः । न । रश्मिम् । तुविऽओजसम् । गोः ॥८

हे इन्द्र “मद्यः मादयिता "अंशुः सोमः "पिपीळे अपीड्यत। अभ्यषूयत इत्यर्थः। नेति संप्रत्यर्थे । “न इदानी “सिन्धुः स्यन्दमानः सोमः “त्वा त्वाम् “आ “यम्याः आयच्छतु । “शुशुचानस्य दीप्यमानस्य “शशमानस्य स्तुवतः संबन्धी “अस्मद्र्यक् अस्मदभिमुखं “शमी शमनं “शक्तिः स्तुतिकर्म च आयच्छतु । तत्र दृष्टान्तः । “आशुः शीघ्रगामी यन्ता “गोः गन्तुरश्वस्य तुव्योजसं बहुबलम् । दृढमित्यर्थः। “रश्मिं “न अश्वबन्धनरज्जुमिव तद्वत् ॥


अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि ।

अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रंधि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥९

अ॒स्मे इति॑ । वर्षि॑ष्ठा । कृ॒णु॒हि॒ । ज्येष्ठा॑ । नृ॒म्णानि॑ । स॒त्रा । स॒हु॒रे॒ । सहां॑सि ।

अ॒स्मभ्य॑म् । वृ॒त्रा । सु॒ऽहना॑नि । र॒न्धि॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य ॥९

अस्मे इति । वर्षिष्ठा । कृणुहि । ज्येष्ठा । नृम्णानि । सत्रा । सहुरे । सहांसि ।

अस्मभ्यम् । वृत्रा । सुऽहनानि । रन्धि । जहि । वधः । वनुषः । मर्त्यस्य ॥९

हे “सहुरे सहनशीलेन्द्र त्वं “सत्रा सर्वदा "सहांसि शत्रूनभिभावुकानि “वर्षिष्ठा वर्षिष्ठानि प्रवृद्धानि “ज्येष्ठा ज्येष्ठानि प्रशस्तानि “नम्णानि बलानि "अस्मे अस्मभ्यं “कृणुहि कुरु। हे इन्द्र त्वम् “अस्मभ्यं “सुहनानि शोभनवधानि “वृत्रा वृत्राणि शत्रून् “रन्धि रन्धय वशं नय । किंच “वनुषः हिंसकस्य “मर्त्यस्य मरणधर्मणः शत्रोः संबन्धि “वधः हननसाधनमायुधं "जहि नाशय ॥


अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमिं॑द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।

अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥१०

अ॒स्माक॑म् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् ।

अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥१०

अस्माकम् । इत् । सु । शृणुहि । त्वम् । इन्द्र । अस्मभ्यम् । चित्रान् । उप । माहि । वाजान् ।

अस्मभ्यम् । विश्वाः । इषणः । पुरम्ऽधीः । अस्माकम् । सु । मघऽवन् । बोधि । गोऽदाः ॥१०

हे "इन्द्र “त्वम् “अस्माकमित् अस्मदीयाः एव स्तुतीः "सु सुष्ठु “शृणुहि । तथा हे इन्द्र त्वं “चित्रान् चायनीयानि "वाजान् अन्नानि “अस्मभ्यम् "उप “माहि देहि । किंच “अस्मभ्यं “विश्वाः सर्वाः “पुरंधीः बुद्धीः “इषणः प्रेरय । अपि च हे “मघवन् धनवन्निन्द्र त्वं “अस्माकं “गोदाः गवां दाता "सु सुष्ठु "बोधि भव ॥


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११

पूर्वं व्याख्याता ॥ ॥ ८ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२२&oldid=184852" इत्यस्माद् पुनः प्राप्तिः