ऋग्वेदः सूक्तं ४.१९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.१८ ऋग्वेदः - मण्डल ४
सूक्तं ४.१९
वामदेवो गौतमः
सूक्तं ४.२० →
दे. इन्द्रः। त्रिष्टुप्


एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।
महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥१॥
अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः ।
अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥२॥
अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र ।
सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥३॥
अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः ।
दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥४॥
अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः ।
अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥५॥
त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् ।
अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून् ॥६॥
प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः ।
धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥७॥
पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् ।
परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥८॥
वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ ।
व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥९॥
प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि ।
यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्यातः पञ्चमोऽध्यायस्तृतीयाष्टक आदरात् ।

धीमता सायणाख्येन षष्ठोऽध्यायोऽथ वर्ण्यते ।

चतुर्थे मण्डले द्वितीयेऽनुवाकेऽष्ट सूक्तानि व्याख्यातानि ।' एवा त्वामिन्द्र ' इत्येकादशर्चं नवमं सूक्तम् । तस्य मण्डलादिपरिभाषया वामदेव ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता। तथा चानुक्रान्तम्-' एवैकादश' इति । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे इदं सूक्तम् । सूत्र्यते हि- एवा त्वामिन्द्रोशन्नु षु णः सुमना उपाक इति याज्या' (आश्व. श्रौ. ५. १६ ) इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि मैत्रावरुणशस्त्रे अहीनसूक्तं तत्स्थाने त्रीणि संपातसूक्तानि । तत्रेदं प्रथमं सूक्तम् । सूत्रितं च–' एवा त्वामिन्द्र यन्न इन्द्रः' (आश्व, श्रौ. ७. ५) इति ॥


ए॒वा त्वामिं॑द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ ।

म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥१

ए॒व । त्वाम् । इ॒न्द्र॒ । व॒ज्रि॒न् । अत्र॑ । विश्वे॑ । दे॒वासः॑ । सु॒ऽहवा॑सः । ऊमाः॑ ।

म॒हाम् । उ॒भे इति॑ । रोद॑सी॒ इति॑ । वृ॒द्धम् । ऋ॒ष्वम् । निः । एक॑म् । इत् । गृ॒ण॒ते॒ । वृ॒त्र॒ऽहत्ये॑ ॥१

एव । त्वाम् । इन्द्र । वज्रिन् । अत्र । विश्वे । देवासः । सुऽहवासः । ऊमाः ।

महाम् । उभे इति । रोदसी इति । वृद्धम् । ऋष्वम् । निः । एकम् । इत् । गृणते । वृत्रऽहत्ये ॥१

“अत्र अस्मिन् यज्ञे “वज्रिन हे वज्रवन् “इन्द्र "सुहवासः सुहवाः शोभनाह्वानाः “ऊमाः रक्षकाः “विश्वे “देवासः सर्वे देवाः "उभे “रोदसी द्यावापृथिव्यौ च “एव एवमुक्तप्रकारेण स्तूयमानं “महां महान्तं प्रभूतं "वृद्धं गुणैः प्रवृद्धम् “ऋष्वं दर्शनीयं “त्वाम् “एकमित् एकमेव “वृत्रहत्ये वृत्रहननार्थं “निः “वृणते निःशेषेण संभजन्ते ।।


अवा॑सृजंत॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळिं॑द्र स॒त्ययो॑निः ।

अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥२

अव॑ । अ॒सृ॒ज॒न्त॒ । जिव्र॑यः । न । दे॒वाः । भुवः॑ । स॒म्ऽराट् । इ॒न्द्र॒ । स॒त्यऽयो॑निः ।

अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । प्र । व॒र्त॒नीः । अ॒र॒दः॒ । वि॒श्वऽधे॑नाः ॥२

अव । असृजन्त । जिव्रयः । न । देवाः । भुवः । सम्ऽराट् । इन्द्र । सत्यऽयोनिः ।

अहन् । अहिम् । परिऽशयानम् । अर्णः । प्र । वर्तनीः । अरदः । विश्वऽधेनाः ॥२

हे “इन्द्र “देवाः त्वां “जिव्रयो “न जीर्णाः प्रवृद्धाः पितरो यूनः पुत्रानिव “अवासृजन्त असुरवधार्थं प्रैरयन् । ततो हे इन्द्र “सत्ययोनिः सत्यनिवासस्त्वं “सम्राट् सर्वेषां लोकानामधीश्वर: “भुवः अभवः । “अर्णः उदकं लक्षीकृत्य “परिशयानं परितः समन्तात् शयनं कुर्वन्तम् “अहिं वृत्रासुरम् “अहन् अवधीः । “विश्वधेनाः विश्वस्य प्रीणयित्रीः “वर्तनीः सर्वत्र प्रवर्तिका नदीः “प्र “अरदः प्रकर्षेण विलेखनं कृतवानसि। इन्द्रो वृत्रं हत्वा तेनावृतान्युदकानि प्रवाहरूपेण प्रवर्तयतीत्यर्थः ॥


अतृ॑प्णुवंतं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमिं॑द्र ।

स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥३

अतृ॑प्णुवन्तम् । विऽय॑तम् । अ॒बु॒ध्यम् । अबु॑ध्यमानम् । सु॒सु॒पा॒नम् । इ॒न्द्र॒ ।

स॒प्त । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । वि । रि॒णाः॒ । अ॒प॒र्वन् ॥३

अतृप्णुवन्तम् । विऽयतम् । अबुध्यम् । अबुध्यमानम् । सुसुपानम् । इन्द्र ।

सप्त । प्रति । प्रऽवतः । आऽशयानम् । अहिम् । वज्रेण । वि । रिणाः । अपर्वन् ॥३

हे “इन्द्र त्वम् “अतृप्णुवन्तं भोगेषु अतृप्यन्तं “वियतं शिथिलाङ्गम् "अबुध्यं दुर्विज्ञानम् “अबुध्यमानं किमप्यजानन्तं “सुषुपाणं सुप्तं "सप्त सर्पणस्वभावाः “प्रवतः अपः “प्रति “आशयानम् आवृत्य तिष्ठन्तम् “अहिं वृत्रम् “अपर्वन् अपर्वणि पौर्णमास्यां “वज्रेण “वि “रिणाः व्यरिणाः । विशेषेण हतवानसि । पौर्णमास्यां वृत्रवधः ‘ त्वष्टा हतपुत्रः' इत्यनुवाके ' घ्नन्ति वा एनं पौर्णमास अमावास्यायां प्याययन्ति ' ( तै. सं. २. ५. २. ५ ) इति तैत्तिरीयेऽपि उक्तः ।।


अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिंद्रः॑ ।

दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभः॒ पर्व॑तानां ॥४

अक्षो॑दयत् । शव॑सा । क्षाम॑ । बु॒ध्नम् । वाः । न । वातः॑ । तवि॑षीभिः । इन्द्रः॑ ।

दृ॒ळ्हानि॑ । औ॒भ्ना॒त् । उ॒शमा॑नः । ओजः॑ । अव॑ । अ॒भि॒न॒त् । क॒कुभः॑ । पर्व॑तानाम् ॥४

अक्षोदयत् । शवसा । क्षाम । बुध्नम् । वाः । न । वातः । तविषीभिः । इन्द्रः ।

दृळ्हानि । औभ्नात् । उशमानः । ओजः । अव । अभिनत् । ककुभः । पर्वतानाम् ॥४

“इन्द्रः परमैश्वर्ययुक्तः “शवसा बलेन “बुध्नम् अन्तरिक्षं “क्षाम क्षीणोदकम् "अक्षोदयत् संपिपेष । तत्र दृष्टान्तः । “वातः वायुः “तविषीभिः बलैः “वार्ण उदकमिव तद्वत् । किंच “ओजः बलम् "उशमानः कामयमान इन्द्रः “दृळ्हानि दृढानि स्थिराण्यप्यभ्राणि "औभ्नात् अभाङ्क्षीत् । तथा “पर्वतानां गिरीणां “ककुभः पक्षान् “अवाभिनत् अत्यन्तमभैत्सीत् ॥


अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।

अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मींत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥५

अ॒भि । प्र । द॒द्रुः॒ । जन॑यः । न । गर्भ॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒कम् । अद्र॑यः ।

अत॑र्पयः । वि॒ऽसृतः॑ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥५

अभि । प्र । दद्रुः । जनयः । न । गर्भम् । रथाःऽइव । प्र । ययुः । साकम् । अद्रयः ।

अतर्पयः । विऽसृतः । उब्जः । ऊर्मीन् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥५

हे “इन्द्र त्वाम् “अद्रयः मरुतः “जनयः जनन्यः “गर्भं “न पुत्रमिव “अभि “प्र “दद्रुः अभिजग्मुः । किंच “रथाइव रंहणशीला रथा यथा तथा वृत्रवधार्थं त्वया “साकं “प्र “ययुः प्रकर्षेण अयासिषुः । हे इन्द्र त्वं “विसृतः विसरणशीला नदीः "अतर्पयः अद्भिरपूरयः । तथा “ऊर्मीन् मेघान् "उब्जः अवधीः । तथा “त्वं वृतान् वृत्रेणावृतान् “सिन्धून् अपः “अरिणाः प्रैरयः ॥ ॥ १ ॥


त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षरं॑तीं ।

अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिंद्र॒ सिंधू॑न् ॥६

त्वम् । म॒हीम् । अ॒वनि॑म् । वि॒श्वऽधे॑नाम् । तु॒र्वीत॑ये । व॒य्या॑य । क्षर॑न्तीम् ।

अर॑मयः । नम॑सा । एज॑त् । अर्णः॑ । सु॒ऽत॒र॒णान् । अ॒कृ॒णोः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥६

त्वम् । महीम् । अवनिम् । विश्वऽधेनाम् । तुर्वीतये । वय्याय । क्षरन्तीम् ।

अरमयः । नमसा । एजत् । अर्णः । सुऽतरणान् । अकृणोः । इन्द्र । सिन्धून् ॥६

हे इन्द्र “त्वं “महीं महती “विश्वधेनां विश्वस्य प्रीणयित्रीं “तुर्वीतये तुर्वीतिनाम्ने राज्ञे “वय्याय वय्यनाम्ने च “क्षरन्तीम् अभीष्टान् कामान् दुहतीम् “अवनिं भूमिं “नमसा अन्नेन “एजत् एजता चलता "अर्णः अर्णसोदकेन च “अरमयः रमयसि । इन्द्रः पृथिवीमन्नोदकसमृद्धां करोतीत्यर्थः । किंच हे "इन्द्र त्वं “सिन्धून् जलानि “सुतरणान् सुष्ठु तीर्णानि “अकृणोः अकार्षीः ॥


प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीर्ऋ॑त॒ज्ञाः ।

धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिंद्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥७

प्र । अ॒ग्रुवः॑ । न॒भ॒न्वः॑ । न । वक्वाः॑ । ध्व॒स्राः । अ॒पि॒न्व॒त् । यु॒व॒तीः । ऋ॒त॒ऽज्ञाः ।

धन्वा॑नि । अज्रा॑न् । अ॒पृ॒ण॒क् । तृ॒षा॒णान् । अधो॑क् । इन्द्रः॑ । स्त॒र्यः॑ । दंऽसु॑पत्नीः ॥७

प्र । अग्रुवः । नभन्वः । न । वक्वाः । ध्वस्राः । अपिन्वत् । युवतीः । ऋतऽज्ञाः ।

धन्वानि । अज्रान् । अपृणक् । तृषाणान् । अधोक् । इन्द्रः । स्तर्यः । दंऽसुपत्नीः ॥७

इन्द्रः “नभन्वः शत्रूणां हिंसिकाः “वक्वाः “न सेना इव “ध्वस्राः कूलानां ध्वंसिकाः “युवतीः अद्भिर्मिश्रिताः “ऋतज्ञाः ऋतस्यान्नस्य जनयित्रीः “अग्रुवः । अग्रुव इति नदीनामैतत् । अग्रगामिनीः नदीः “प्र “अपिन्वत् प्रकर्षेणापूरयत् । तथा “धन्वानि निर्जलानुन्नतान् देशांश्च वृष्ट्या “अपृणक् अपूरयत् । तथा “अज्रान् मार्गस्य गन्तॄन् “तृषाणान् पिपासया युक्तान् पुरुषान् अपृणक् अपूरयत् । किंच “इन्द्रः “दंसुपत्नीः दमनपरा असुराः सुष्ठु पतयो यासां ताः “स्तर्यः स्तरीर्निवृत्तप्रसवी गाः “अधोक् अधुक्षत् । इन्द्रो राक्षसकृतनिरोधदुःखात् निरुद्धप्रसवा अपि गा विमुच्य सप्रसवाश्चकारेत्यर्थः ॥


पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ।

परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इंद्रः॒ स्रवि॑तवे पृथि॒व्या ॥८

पू॒र्वीः । उ॒षसः॑ । श॒रदः॑ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ।

परि॑ऽस्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः॑ । स्रवि॑तवे । पृ॒थि॒व्या ॥८

पूर्वीः । उषसः । शरदः । च । गूर्ताः । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ।

परिऽस्थिताः । अतृणत् । बद्बधानाः । सीराः । इन्द्रः । स्रवितवे । पृथिव्या ॥८

"वृत्रं वृत्राख्यमसुरं “जघन्वान् हतवानिन्द्रः “गूर्ताः तमिस्रया गीर्णाः "पूर्वीः बह्वीः “उषसः “शरदश्च संवत्सरांश्च “वि “असृजत् विशेषेण ससर्ज । तथा “सिन्धून् वृत्रेणावृतान्युदकानि व्यसृजत् । किंच “इन्द्रः “परिष्ठिताः मेघेषु परितः स्थिताः “बद्बधानाः वृत्रेण परितो बध्यमानाः “सीराः नदीः । सीरा इति नदीनामैतत् । “पृथिव्या पृथिवीरूपेण मार्गेण "स्रवितवे स्रवितुं गमनार्थम् “अतृणत् अविध्यत् ॥


व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ ।

व्यं१॒॑धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रंत॒ पर्व॑ ॥९

व॒म्रीभिः॑ । पु॒त्रम् । अ॒ग्रुवः॑ । अ॒दा॒नम् । नि॒ऽवेश॑नात् । ह॒रि॒ऽवः॒ । आ । ज॒भ॒र्थ॒ ।

वि । अ॒न्धः । अ॒ख्य॒त् । अहि॑म् । आ॒ऽद॒दा॒नः । निः । भू॒त् । उ॒ख॒ऽछित् । सम् । अ॒र॒न्त॒ । पर्व॑ ॥९

वम्रीभिः । पुत्रम् । अग्रुवः । अदानम् । निऽवेशनात् । हरिऽवः । आ । जभर्थ ।

वि । अन्धः । अख्यत् । अहिम् । आऽददानः । निः । भूत् । उखऽछित् । सम् । अरन्त । पर्व ॥९

हे "हरिवः हरिसंज्ञकाश्वोपेतेन्द्र त्वं “वम्रीभिः उपजिह्विकाभिः “अदानम् अद्यमानम् "अग्रुवः । अग्रू नाम काचित् । तस्याः “पुत्रं “निवेशनात् वल्मीकाख्यात् स्थानात् "आ "जभर्थ आहृतवानसि ॥ “आददानः इन्द्रेणाह्रियमाणोऽग्रुवः पुत्रः “अन्धः पूर्वमन्धः सन् “अहिं सर्पं “वि “अख्यत् विशेषेण अपश्यत् । ततः निर्भूत् वल्मीकान्निर्गतः अभूत्। 'उखच्छित् वल्मीकाख्याया उखायाश्छेदकानि “पर्व पर्वाणि अस्य सर्वाण्यङ्गानां शिथिलानि पर्वाणि "समरन्त समगच्छन्त । उपजिह्विकाभिः शिथिलीकृतानि अग्रुवः पुत्रस्य पर्वाणीन्द्रेण समधीयन्तेत्यर्थः ॥


प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि ।

यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥१०

प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वि॒प्र॒ । आ॒ऽवि॒द्वान् । आ॒ह॒ । वि॒दुषे॑ । करां॑सि ।

यथा॑ऽयथा । वृष्ण्या॑नि । स्वऽगू॑र्ता । अपां॑सि । रा॒ज॒न् । नर्या॑ । अवि॑वेषीः ॥१०

प्र । ते । पूर्वाणि । करणानि । विप्र । आऽविद्वान् । आह । विदुषे । करांसि ।

यथाऽयथा । वृष्ण्यानि । स्वऽगूर्ता । अपांसि । राजन् । नर्या । अविवेषीः ॥१०

हे “राजन् राजमानेन्द्र “वृष्ण्यानि वर्षणयोग्यानि “स्वगूर्ता स्वगूर्तानि स्वयमुद्गीर्णानि “नर्या नर्याणि मनुष्यहितानि “अपांसि त्वत्संबन्धीनि कर्माणि “यथायथा “अविवेषीः व्याप्नोः । अकार्षीरिति यावत् । तथातथा हे “विप्र प्राज्ञेन्द्र “विदुषे विदुषः सर्वं जानतः “ते त्वत्संबन्धीनि “पूर्वाणि पुरातनानि "करणानि कर्माणि "आविद्वान् आ समन्ताज्जानन् वामदेवः "करांसि त्वदीयानि कर्माणि “प्र प्रकर्षेण “आह ब्रवीति ॥


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११

हे "इन्द्र "नु क्षिप्रं “स्तुतः पूर्वैर्ऋषिभिः संस्तुतः “नु क्षिप्रं “गृणानः अस्माभिः स्तूयमानः त्वम् “इषम् अन्नं “जरित्रे स्तोत्रे मह्यं "नद्यो “न अद्भिर्नदीरिव “पीपेः प्यायय । प्रवृद्धं कुरु । “हरिवः हरिसंज्ञकाश्वोपेतेन्द्र “ते तुभ्यं “नव्यं नवतरं “ब्रह्म स्तोत्रम् “अकारि अस्माभिः क्रियते । “रथ्यः रथवन्तो वयं “धिया प्रज्ञारूपया स्तुत्या “सदासाः त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा “स्याम भूयास्म ॥ ॥ २॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१९&oldid=184297" इत्यस्माद् पुनः प्राप्तिः