ऋग्वेदः सूक्तं ४.३५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.३५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.३४ ऋग्वेदः - मण्डल ४
सूक्तं ४.३५
वामदेवो गौतमः
सूक्तं ४.३६ →
दे. ऋभवः। त्रिष्टुप्


इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत ।
अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥१॥
आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः ।
सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥२॥
व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत ।
अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥३॥
किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र ।
अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥४॥
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।
शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥५॥
यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय ।
तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥६॥
प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते ।
समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥७॥
ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद ।
ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥८॥
यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः ।
तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥९॥


सायणभाष्यम्

‘ इहोप यात ' इति नवर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । इहोप नव ' इत्यनुक्रमणिका । तृतीयसवने मैत्रावरुणस्येदमुन्नीयमानसूक्तम् । सूत्रितं च - ‘ आ त्वा वहन्त्वसवि देवमिहोप यातेत्यनुसवनम् ' ( आश्व. श्रौ. ५. ५) इति ।।


इ॒होप॑ यात शवसो नपात॒ः सौध॑न्वना ऋभवो॒ माप॑ भूत ।

अ॒स्मिन्हि व॒ः सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥१

इ॒ह । उप॑ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । मा । अप॑ । भू॒त॒ ।

अ॒स्मिन् । हि । वः॒ । सव॑ने । र॒त्न॒ऽधेय॑म् । गम॑न्तु । इन्द्र॑म् । अनु॑ । वः॒ । मदा॑सः ॥१

इह । उप । यात । शवसः । नपातः । सौधन्वनाः । ऋभवः । मा । अप । भूत ।

अस्मिन् । हि । वः । सवने । रत्नऽधेयम् । गमन्तु । इन्द्रम् । अनु । वः । मदासः ॥१

हे "शवसो “नपातः बलस्य पुत्रास्तस्य न पातयितारो वा हे “सौधन्वनाः सुधन्वनः पुत्राः हे “ऋभवः यूयम् “इहोप “यात अस्मिन् तृतीयसवने उपगच्छत । “माप “भूत अपगता न भवत । “अस्मिन् “सवने “रत्नधेयं रमणीयधनस्य दातारम् “इन्द्रमनु अनुसृत्य “वः युष्मान् "मदासः मदकराः सोमाः “गमन्तु गच्छन्तु । अन्विति क्रियया वा संबध्यते । इन्द्रं युष्मांश्चान्वागच्छन्तु इत्यर्थः । “हि पूरणः ॥


आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः ।

सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥२

आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः ।

सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥२

आ । अगन् । ऋभूणाम् । इह । रत्नऽधेयम् । अभूत् । सोमस्य । सुऽसुतस्य । पीतिः ।

सुऽकृत्यया । यत् । सुऽअपस्यया । च । एकम् । विऽचक्र । चमसम् । चतुःऽधा ॥२

“ऋभूणां युष्माकम् “इह तृतीयसवने “रत्नधेयं रत्नदानम् “आगन् आगच्छतु मह्यम् । यद्वा । युष्माकमेव सोमाख्यं रत्नमागन्। यस्मात् “सोमस्य “सुषुतस्य “पीतिः पानम् “अभूत् प्रजापतिना लब्धमित्यर्थः । तदपि कुत इति चेत् । उच्यते । “यत् यस्मात् “सुकृत्यया शोभनहस्तव्यापारेण “स्वपस्यया शोभनरथनिर्माणादिकर्मेच्छया “च “एकं सन्तं "चमसं “चतुर्धा “विचक्र कृतवन्तः ॥


व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत ।

अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥३

वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒ऽधा । सखे॑ । वि । शि॒क्ष॒ । इति॑ । अ॒ब्र॒वी॒त॒ ।

अथ॑ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत॑स्य । पन्था॑म् । ग॒णम् । दे॒वाना॑म् । ऋ॒भ॒वः॒ । सु॒ऽह॒स्ताः॒ ॥३

वि । अकृणोत । चमसम् । चतुःऽधा । सखे । वि । शिक्ष । इति । अब्रवीत ।

अथ । ऐत । वाजाः । अमृतस्य । पन्थाम् । गणम् । देवानाम् । ऋभवः । सुऽहस्ताः ॥३

हे ऋभवो यूयं “चमसं “चतुर्धा “व्यकृणोत व्यकुरुत । कृत्वा च हे “सखे हे सखिभूताग्ने “वि “शिक्ष अनुगृहाण सोमपानम् “इत्यब्रवीत अवदत यूयम् । “अथ सोऽग्निर्युष्मानवादीत् खलु । किमिति । हे “वाजाः “ऋभवः “सुहस्ताः कुशलहस्ता यूयम् “अमृतस्य “अमरणधर्मकस्य स्वर्गस्य “पन्थां पन्थानम् “ऐत गच्छत । किं तदमृतमिति । “देवानाम् इन्द्रादीनां “गणं संघातमैत ॥


कि॒म्मय॑ः स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र ।

अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥४

कि॒म्ऽमयः॑ । स्वि॒त् । च॒म॒सः । ए॒षः । आ॒स॒ । यम् । काव्ये॑न । च॒तुरः॑ । वि॒ऽच॒क्र ।

अथ॑ । सु॒नु॒ध्व॒म् । सव॑नम् । मदा॑य । पा॒त । ऋ॒भ॒वः॒ । मधु॑नः । सो॒म्यस्य॑ ॥४

किम्ऽमयः । स्वित् । चमसः । एषः । आस । यम् । काव्येन । चतुरः । विऽचक्र ।

अथ । सुनुध्वम् । सवनम् । मदाय । पात । ऋभवः । मधुनः । सोम्यस्य ॥४

“किंमयः “स्वित् किमात्मकः “एषः “चमसः “आस । स्वित् प्रश्ने । "यं चमसमेकं सन्तं "काव्येन कवीनां मेधाविनां संबन्धिना कर्मणा कौशलेन "चतुरो “विचक्र कृतवन्तः । “अथ अधुना “सवनम् । सूयते इति सवनः सोमः । तं “मदाय हर्षाय “सुनुध्वं हे ऋत्विजः । हे “ऋभवः यूयं च "सोम्यस्य सोमसंबन्धिनं “मधुनः मधुररसं “पात पिबत ॥


शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म् ।

शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥५

शच्या॑ । अ॒क॒र्त॒ । पि॒तरा॑ । युवा॑ना । शच्या॑ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒ऽपान॑म् ।

शच्या॑ । हरी॒ इति॑ । धनु॑ऽतरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒ऽवाहौ॑ । ऋ॒भ॒वः॒ । वा॒ज॒ऽर॒त्नाः॒ ॥५

शच्या । अकर्त । पितरा । युवाना । शच्या । अकर्त । चमसम् । देवऽपानम् ।

शच्या । हरी इति । धनुऽतरौ । अतष्ट । इन्द्रऽवाहौ । ऋभवः । वाजऽरत्नाः ॥५

हे “वाजरत्नाः रमणीयसोमान्ना हे “ऋभवः यूयं “शच्या कर्मणा “पितरा मातापितरौ । “युवाना युवानो “अकर्त अकुरुत । तथा “शच्या “चमसं “देवपानं देवपानार्हम् “अकर्त चतुर्धाकुरुतेत्यर्थः। “शच्या “हरी अश्वौ “अतष्ट तक्षणेन संपादितवन्तः । कीदृशौ हरी । “धनुतरौ शीघ्रं गन्तृतरौ इन्द्रवाहौ इन्द्रवोढारौ ॥ ॥ ५ ॥


यो व॑ः सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जास॒ः सव॑नं॒ मदा॑य ।

तस्मै॑ र॒यिमृ॑भव॒ः सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥६

यः । वः॒ । सु॒नोति॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । ती॒व्रम् । वा॒जा॒सः॒ । सव॑नम् । मदा॑य ।

तस्मै॑ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व॑ऽवीरम् । आ । त॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥६

यः । वः । सुनोति । अभिऽपित्वे । अह्नाम् । तीव्रम् । वाजासः । सवनम् । मदाय ।

तस्मै । रयिम् । ऋभवः । सर्वऽवीरम् । आ । तक्षत । वृषणः । मन्दसानाः ॥६

हे "ऋभवः "वाजासः अन्नवन्तः “वः युष्मभ्यं “यः यजमानः “अह्नाम् "अभिपित्वे अभिपतने। तृतीयसवने इत्यर्थः । तस्मिन् “तीव्रं रसवत्तरं “सवनम् । सूयते इति सवनः सोमः । तं “मदाय "सुनोति “तस्मै “सर्ववीरं बहुपुत्रोपेतं “रयिं धनं हे “वृषणः फलवर्षितारः “मन्दसानाः मोदमानाः सन्तः “आ “तक्षत संपादयतेत्यर्थः ॥


प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते ।

समृ॒भुभि॑ः पिबस्व रत्न॒धेभि॒ः सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥७

प्रा॒तरिति॑ । सु॒तम् । अ॒पि॒बः॒ । ह॒रि॒ऽअ॒श्व॒ । माध्य॑न्दिनम् । सव॑नम् । केव॑लम् । ते॒ ।

सम् । ऋ॒भुऽभिः॑ । पि॒ब॒स्व॒ । र॒त्न॒ऽधेभिः॑ । सखी॑न् । यान् । इ॒न्द्र॒ । च॒कृ॒षे । सु॒ऽकृ॒त्या ॥७

प्रातरिति । सुतम् । अपिबः । हरिऽअश्व । माध्यन्दिनम् । सवनम् । केवलम् । ते ।

सम् । ऋभुऽभिः । पिबस्व । रत्नऽधेभिः । सखीन् । यान् । इन्द्र । चकृषे । सुऽकृत्या ॥७

हे “हर्यश्व हरितवर्णाश्वोपेतेन्द्र “प्रातः प्रातःसवने “सुतम् अभिषुतं सोमम् “अपिबः पिबस्व । “माध्यंदिनं “सवनं "केवलं “ते परं तवैव नान्येषाम् । सवनद्वयस्य पृथगभिधानात्तृतीयसवनं परिशिष्यते । तृतीयसवने “रत्नधेभिः रमणीयदानैः “ऋभुभिः “सं “पिबस्व । हे “इन्द्र “यान् ऋभून् “सुकृत्या शोभनकर्मणा “सखीन् “चकृषे अकरोः ॥


ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द ।

ते रत्नं॑ धात शवसो नपात॒ः सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥८

ये । दे॒वासः॑ । अभ॑वत । सु॒ऽकृ॒त्या । श्ये॒नाःऽइ॑व । इत् । अधि॑ । दि॒वि । नि॒ऽसे॒द ।

ते । रत्न॑म् । धा॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । अभ॑वत । अ॒मृता॑सः ॥८

ये । देवासः । अभवत । सुऽकृत्या । श्येनाःऽइव । इत् । अधि । दिवि । निऽसेद ।

ते । रत्नम् । धात । शवसः । नपातः । सौधन्वनाः । अभवत । अमृतासः ॥८

हे ऋभवः "ये यूयं “सुकृत्या शोभनकर्मणा “देवासः देवाः “अभवत अभूत । “श्येनाइवेत् शंसनीयगतयो गृध्रविशेषा इव “दिवि द्युलोके “अधि “निषेद अधिनिषण्णाः हे "शवसो "नपातः बलवन्तः “ते यूयं “रत्नं धनं “धात प्रयच्छत । हे “सौधन्वनाः सुधन्वनः पुत्राः “अमृतासः अमृता देवाः “अभवत ।।


यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः ।

तदृ॑भव॒ः परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभि॑ः पिबध्वम् ॥९

यत् । तृ॒तीय॑म् । सव॑नम् । र॒त्न॒ऽधेय॑म् । अकृ॑णुध्वम् । सु॒ऽअ॒प॒स्या । सु॒ऽह॒स्ताः॒ ।

तत् । ऋ॒भ॒वः॒ । परि॑ऽसिक्तम् । वः॒ । ए॒तत् । सम् । मदे॑भिः । इ॒न्द्रि॒येभिः॑ । पि॒ब॒ध्व॒म् ॥९

यत् । तृतीयम् । सवनम् । रत्नऽधेयम् । अकृणुध्वम् । सुऽअपस्या । सुऽहस्ताः ।

तत् । ऋभवः । परिऽसिक्तम् । वः । एतत् । सम् । मदेभिः । इन्द्रियेभिः । पिबध्वम् ॥९

हे “सुहस्ताः शोभनहस्ताः “ऋभवः “रत्नधेयं रमणीयसोमदानवत् “यत्तृतीयं “सवनम् “अकृणुध्वं प्रसाधितवन्तः । “स्वपस्या शोभनकर्मेच्छया “तत् “एतत् सवनं सवनगतं सोमद्रव्यं “परिषिक्तं परिषेचनवत् “वः युष्माकं संबन्धिभिः “मदेभिः माद्यद्भिः “इन्द्रियेभिः इन्द्रियैः “सं “पिबध्वम् । यद्यपि वदनमेव पानसाधनं तथापि चक्षुःश्रोत्रादीनामपि दर्शनश्रवणादिना तृप्तिसद्भावात् पातृत्वमुपचर्यते ॥ ॥ ६ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३५&oldid=198659" इत्यस्माद् पुनः प्राप्तिः