ऋग्वेदः सूक्तं ४.४०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.४० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.३९ ऋग्वेदः - मण्डल ४
सूक्तं ४.४०
वामदेवो गौतमः
सूक्तं ४.४१ →
दे. दधिक्राः, ५ सूर्यः। जगती, १ त्रिष्टुप्


दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु ।
अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥१॥
सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् ।
सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत् ॥२॥
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः ।
श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥३॥
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि ।
क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥४॥
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥५॥


सायणभाष्यम्

‘दधिक्राव्ण इत्' इति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षं दाधिक्रम् । आद्या त्रिष्टुप् शिष्टा जगत्यः । ‘ हंसः शुचिषत् ' इत्येषा सूर्यदेवताका । तथा चानुक्रमणिका - दधिक्राव्णः पञ्च चतस्रोऽन्त्या जगत्योऽन्त्या सौरी ' इति । सूक्तविनियोगो लैङ्गिकः ॥


द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षस॑ः सूदयन्तु ।

अ॒पाम॒ग्नेरु॒षस॒ः सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥१

द॒धि॒ऽक्राव्णः॑ । इत् । ऊं॒ इति॑ । नु । च॒र्कि॒रा॒म॒ । विश्वा॑ । इत् । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ ।

अ॒पाम् । अ॒ग्नेः । उ॒षसः॑ । सूर्य॑स्य । बृह॒स्पतेः॑ । आ॒ङ्गि॒र॒सस्य॑ । जि॒ष्णोः ॥१

दधिऽक्राव्णः । इत् । ऊं इति । नु । चर्किराम । विश्वा । इत् । माम् । उषसः । सूदयन्तु ।

अपाम् । अग्नेः । उषसः । सूर्यस्य । बृहस्पतेः । आङ्गिरसस्य । जिष्णोः ॥१

"दधिक्राव्ण “इदु एतन्नामकस्य देवस्यैव स्तुतिं "नु क्षिप्रं "चर्किराम भृशं करवाम । "मां “विश्वा "इत् "उषसः सर्वा अपि ताः "सूदयन्तु कर्मसु प्रेरयन्तु । "अपाम् "अग्नेः "उषसः “सूर्यस्य “बृहस्पतेः “आङ्गिरसस्य “जिष्णोः एतेषां देवतानामहं स्तुतिं करवाणीति शेषः । तासामपि निपातभाक्त्वात् स्तुतिरविरुद्धा ।।


सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् ।

स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥२

सत्वा॑ । भ॒रि॒षः । गो॒ऽइ॒षः । दु॒व॒न्य॒ऽसत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः॑ । तु॒र॒ण्य॒ऽसत् ।

स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒ऽक्रावा॑ । इष॑म् । ऊर्ज॑म् । स्वः॑ । ज॒न॒त् ॥२

सत्वा । भरिषः । गोऽइषः । दुवन्यऽसत् । श्रवस्यात् । इषः । उषसः । तुरण्यऽसत् ।

सत्यः । द्रवः । द्रवरः । पतङ्गरः । दधिऽक्रावा । इषम् । ऊर्जम् । स्वः । जनत् ॥२

“सत्वा गन्ता “भरिषः भरणकुशलः "गविषः गवां प्रेरकः एष्टा वा दुवन्यसत् । दुवः परिचरणमिच्छन्तो दुवन्याः । तेषु सीदतीति दुवन्यसत् । "इषः इष्यमाणायाः "उषसः संबन्धिनि काले इत्यर्थः । यद्वा । इषः एष्टा एषणीयो वा । “श्रवस्यात् श्रवस्येत् अन्नमिच्छेत् । किंच “तुरण्यसत्'। त्वरया सीदतीति तुरण्यसत्' । "सत्यः सत्सु तायमानः “द्रवः गन्ता "द्रवरः प्रकृष्टवेगवान् "पतङ्गरः । पतनेनोत्प्लवनेन पतनं पतङ्गः । तद्वान् पतङ्गरः । उक्तलक्षणः "दधिक्रावा देवः "इषम् अन्नम् “ऊर्जं बलं "स्वः स्वर्गं च "जनत् जनयेत् उत्पादयेत् ॥


उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिन॑ः ।

श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण॑ः स॒होर्जा तरि॑त्रतः ॥३

उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ ।

श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥३

उत । स्म । अस्य । द्रवतः । तुरण्यतः । पर्णम् । न । वेः । अनु । वाति । प्रऽगर्धिनः ।

श्येनस्यऽइव । ध्रजतः । अङ्कसम् । परि । दधिऽक्राव्णः । सह । ऊर्जा । तरित्रतः ॥३

“उत "स्म अपि च खलु “द्रवतः गच्छतः “तुरण्यतः त्वरमाणस्य “प्रगर्धिनः प्रकर्षेणाभिकाङ्क्षतः “अस्य "दधिक्राव्णः देवस्य गतिं "वेः गन्तुः पक्षिणः”पर्णं "न गमनं पत्रं वा अनुसृत्य यथा वान्त्यन्ये पक्षिणस्तद्वत् "अनु "वाति सर्वो वेगवान् जनः । सर्वेषामपि शीघ्रगामीत्यर्थः । किंच “ध्रजतः गच्छतः “तरित्रतः तारयतोऽन्यान् ॥ अन्तर्भावितण्यर्थोऽयम् ॥ "श्येनस्येव “अङ्कसं पादाधारम् उरःप्रदेशं वा "परि परितः “ऊर्जा बलेन निमित्तेनान्नार्थं वा "सह एकीभूय । संघेन गच्छन्तीति शेषः ॥


उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।

क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्कां॒स्यन्वा॒पनी॑फणत् ॥४

उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया॑म् । ब॒द्धः । अ॒पि॒ऽक॒क्षे । आ॒सनि॑ ।

क्रतु॑म् । द॒धि॒ऽक्राः । अनु॑ । स॒म्ऽतवी॑त्वत् । प॒थाम् । अङ्कां॑सि । अनु॑ । आ॒ऽपनी॑फणत् ॥४

उत । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बद्धः । अपिऽकक्षे । आसनि ।

क्रतुम् । दधिऽक्राः । अनु । सम्ऽतवीत्वत् । पथाम् । अङ्कांसि । अनु । आऽपनीफणत् ॥४

“उत अपि च "स्यः सः "वाजी वेजनवानश्वरूपो देवः “ग्रीवायां गरणसाधनायां कण्ठे "बद्धः “अपिकक्षे कक्षप्रदेशे "आसनि आस्ये च बद्धः । बद्धपल्यङ्कस्योक्तेषु स्थानेषु पाशबन्धाः संभवन्ति । एवं बद्धः सन् “क्षिपणिं क्षेपणम् "अनु तुरण्यति त्वरयति गन्तुम्। किंचायं "दधिक्राः देवः "क्रतुं कर्म प्रज्ञां वा "अनु अनुसृत्य "संतवीत्वत् प्रवृद्धबलवान सन् “पथां मार्गाणाम् "अङ्कांसि कुटिलानि अनुसृत्य "आपनीफणत् सर्वतो भृशं गच्छति ॥ फणतेर्गत्यर्थस्य यङ्लुकि इदं रूपम् ॥ अपि स वाजी वेजनवान्' (निरु. २.२८ ) इत्यादि निरुक्तमनुसंधेयम् ॥


हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।

नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥५

हं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् ।

नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥५

हंसः । शुचिऽसत् । वसुः । अन्तरिक्षऽसत् । होता । वेदिऽसत् । अतिथिः । दुरोणऽसत् ।

नृऽसत् । वरऽसत् । ऋतऽसत् । व्योमऽसत् । अप्ऽजाः । गोऽजाः । ऋतऽजाः । अद्रिऽजाः । ऋतम् ॥५

अनया सौर्यर्चा य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः' (छा. उ. १.६. ६) इत्यादिश्रुत्युक्तो मण्डलाभिमानी देवोऽस्ति यश्च सर्वप्राणिचित्तरूपस्थितः परमात्मा यच्च निरस्तसमस्तौपाधिकं परं ब्रह्म तत्सर्वमेकमेवेति प्रतिपाद्यते ॥ "हंसः । हन्तिर्गत्यर्थः । सर्वत्र सर्वदा गन्ता ‘ योऽहं सोऽसौ' इत्यादिश्रुत्युक्तप्रकारेणैकीकृत्योपास्यः परमात्ममन्त्रप्रतिपाद्य आदित्यः। स च शुचौ दीप्ते द्युलोके सीदतीति “शुचिषत् । अथ यदतः परो दिवो ज्योतिर्दीप्यते ' ( छा. उ. ३. १३. ७) इत्यादिश्रुतेः । अनेन द्युस्थानः आदित्यः प्रतिपादितः । स एव मध्यस्थानो वायुरित्याह । "वसुः सर्वस्य वासयिता वायुः । स च "अन्तरिक्षसत् अन्तरिक्षसंचारी । अथ तस्यैव क्षितिस्थानवैदिकाग्निरूपतामाह । “होता देवानामाह्वाता होमनिष्पादको वा "वेदिषत् वेद्यां गार्हपत्यादिरूपेण स्थितः । “अतिथिः अतिथिवत् सर्वदा पूज्योऽग्निः । “दुरोणसत् । दुरोणं गृहनाम । तत्र पाकादिसाधनत्वेन स्थितः । अनेन लौकिकाग्न्यात्मकत्वमुक्तम् । “नृषत् । नृषु मनुष्येषु चैतन्यरूपेण सीदतीति नृषत् । अनेन परमात्मरूपत्वमुक्तम् । पुनरप्यादित्यात्मतामाह। “वरसत् । वरे वरणीये मण्डले सीदतीति वरसत् आदित्यः । वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपति (ऐ.ब्रा. ४.२०) इति हि श्रूयते । ऋतं सत्यं ब्रह्म यज्ञो वा । तत्र सीदतीति “ऋतसत् अग्निः । व्योमान्तरिक्षम् । तत्र सीदतीति “व्योमसत् वायुः । इदानीमादित्यतोच्यते । “अब्जाः उदकेषु जातः । उदकमध्ये खल्वयं जायते । "गोजाः गोषु रश्मिषु जातः । ऋतं सत्यम् । सर्वैर्दृश्यत्वेन सत्यजातः। न ह्यसाविन्द्रादिवत् परोक्षो भवति । यद्वा । उदकेषु वैद्युतरूपेण वा वाडवरूपेण वा जातः । 'अद्रिजाः अद्भावुदयाचले जातः । एवं महानुभाव आदित्यः “ऋतं सत्यमबाध्यं सर्वाधिष्ठानं ब्रह्मतत्वम् । तद्रूपो ह्यसावेव। आदित्यस्योक्तरूपत्वं 'हंसः शुचिषदित्येष वै हंसः शुचिषत् ' (ऐ. ब्रा. ४. २०) इत्यादिना ब्राह्मणे समाम्नतम् ॥ ॥ १४ ॥

[सम्पाद्यताम्]

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४०&oldid=216198" इत्यस्माद् पुनः प्राप्तिः