ऋग्वेदः सूक्तं ४.४२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.४२ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.४१ ऋग्वेदः - मण्डल ४
सूक्तं ४.४२
त्रसदस्युः पौरुकुत्स्यः
सूक्तं ४.४३ →
दे. त्रसदस्युः, ७-१० इन्द्रावरुणौ। त्रिष्टुप्


मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः ।
क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥१॥
अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त ।
क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥२॥
अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।
त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥३॥
अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।
ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥४॥
मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥५॥
अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् ।
यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥६॥
विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।
त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥७॥
अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने ।
त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥८॥
पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः ।
अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥९॥
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥१०॥


सायणभाष्यम्

‘ मम द्विता ' इति दशर्चं दशमं सूक्तम् । पुरुकुत्सस्य पुत्रस्त्रसदस्यू राजर्षिः । आद्यासु षट्स्वात्मनः स्तुत्यत्वात् आत्मा देवता । अवशिष्टानां चतसृणामिन्द्रावरुणौ देवता । त्रिष्टुप् छन्दः । अत्रानुक्रमणिका- मम द्विता दश त्रसदस्युः 'पौरुकुत्स्यः षळाद्या आत्मस्तवः' इति । उक्तो विनियोगः पूर्वसूक्ते ॥


मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः ।

क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥१

मम॑ । द्वि॒ता । रा॒ष्ट्रम् । क्ष॒त्रिय॑स्य । वि॒श्वऽआ॑योः । विश्वे॑ । अ॒मृताः॑ । यथा॑ । नः॒ ।

क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥१

मम । द्विता । राष्ट्रम् । क्षत्रियस्य । विश्वऽआयोः । विश्वे । अमृताः । यथा । नः ।

क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥१

“क्षत्रियस्य क्षत्रियजात्युत्पन्नस्य “विश्वायोः कृत्स्नमनुष्याधीशस्य । मम इत्यात्मनो निर्देशः । “द्विता क्षितिस्वर्गभेदेन द्वित्वापन्नं “राष्ट्रम् । “मम त्रसदस्योः “विश्वे सर्वे "अमृताः देवाः “यथा “नः अस्माकं भवन्ति तथा राष्ट्रं प्रजाश्चेत्यर्थः । “वरुणस्य वारकस्य वरुणात्मनो वा "कृष्टेः मनुष्यस्य तद्वतो वा “उपमस्य । अन्तिकनामैतत् । सर्वेषामन्तिकतमस्य “वव्रेः । रूपनामैतत् । रूपवतो मम “क्रतुं कर्म “सचन्ते सेवन्ते "देवाः सर्वेऽपि । अहं च “राजामि । राजतिरैश्वर्यकर्मा। सर्वेश्वरः भवामि । यद्वा । उपमस्य वव्रेः कृष्टे राजामीति योज्यम् ॥


अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयन्त ।

क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥२

अ॒हम् । राजा॑ । वरु॑णः । मह्य॑म् । तानि॑ । अ॒सु॒र्या॑णि । प्र॒थ॒मा । धा॒र॒य॒न्त॒ ।

क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥२

अहम् । राजा । वरुणः । मह्यम् । तानि । असुर्याणि । प्रथमा । धारयन्त ।

क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥२

“अहम् एव च “राजा “वरुणः भवामि । “मह्यं मदर्थमेव “प्रथमा मुख्यानि “तानि प्रसिद्धानि “असुर्याणि असुरविघातकानि बलानि “धारयन्त । अधारयन् देवाः । शिष्टं गतम् ॥


अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।

त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥३

अ॒हम् । इन्द्रः॑ । वरु॑णः । ते इति॑ । म॒हि॒ऽत्वा । उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

त्वष्टा॑ऽइव । विश्वा॑ । भुव॑नानि । वि॒द्वान् । सम् । ऐ॒र॒य॒म् । रोद॑सी॒ इति॑ । धा॒रय॑म् । च॒ ॥३

अहम् । इन्द्रः । वरुणः । ते इति । महिऽत्वा । उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुऽमेके ।

त्वष्टाऽइव । विश्वा । भुवनानि । विद्वान् । सम् । ऐरयम् । रोदसी इति । धारयम् । च ॥३

"अहं त्रसदस्युः “इन्द्रः इन्द्रोऽप्यस्मि । अहं “वरुणः च । “ते "महित्वा महित्वेन "उर्वी विस्तीर्णे “गभीरे दुरवगाहे अवकाशवत्यौ वा “सुमेके सुरूपे “रजसी द्यावापृथिव्यौ ते अप्यहमेव । “विद्वान् जानन्नहं “त्वष्टेव प्रजापतिरिव “विश्वा “भुवनानि सर्वाणि भूतानि “समैरयं संप्रैरयम् । “रोदसी द्यावापृथिव्यौ “धारयं “च धृतवानस्मि ॥


अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ ।

ऋ॒तेन॑ पु॒त्रो अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥४

अ॒हम् । अ॒पः । अ॒पि॒न्व॒म् । उ॒क्षमा॑णाः । धा॒रय॑म् । दिव॑म् । सद॑ने । ऋ॒तस्य॑ ।

ऋ॒तेन॑ । पु॒त्रः । अदि॑तेः । ऋ॒तऽवा॑ । उ॒त । त्रि॒ऽधातु॑ । प्र॒थ॒य॒त् । वि । भूम॑ ॥४

अहम् । अपः । अपिन्वम् । उक्षमाणाः । धारयम् । दिवम् । सदने । ऋतस्य ।

ऋतेन । पुत्रः । अदितेः । ऋतऽवा । उत । त्रिऽधातु । प्रथयत् । वि । भूम ॥४

"अहम् एव “उक्षमाणाः सिञ्चतीः “अपः “अपिन्वम् असेचयम् । तथा “ऋतस्य उदकस्य आदित्यस्य वा “सदने स्थाने निमित्ते सति “दिवं द्युलोकं “धारयम् । यद्वा । उदकाधारे स्थाने दिवमादित्यं धारयम् । अहमेव “ऋतेन उदकेन निमित्तेन "अदितेः “पुत्रः “ऋतावा अभूवम् । “उत अपि च “भूम व्याप्तमाकाशं “त्रिधातु त्रिप्रकारं “वि विशेषेण “प्रथयत् । मदर्थमेव क्षित्यादिलोकत्रयमकार्षीत् परमेश्वरः ॥


मां नर॒ः स्वश्वा॑ वा॒जय॑न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते ।

कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥५

माम् । नरः॑ । सु॒ऽअश्वाः॑ । वा॒जय॑न्तः । माम् । वृ॒ताः । स॒म्ऽअर॑णे । ह॒व॒न्ते॒ ।

कृ॒णोमि॑ । आ॒जिम् । म॒घऽवा॑ । अ॒हम् । इन्द्रः॑ । इय॑र्मि । रे॒णुम् । अ॒भिभू॑तिऽओजाः ॥५

माम् । नरः । सुऽअश्वाः । वाजयन्तः । माम् । वृताः । सम्ऽअरणे । हवन्ते ।

कृणोमि । आजिम् । मघऽवा । अहम् । इन्द्रः । इयर्मि । रेणुम् । अभिभूतिऽओजाः ॥५

“मां मामेव “स्वश्वाः शोभनाश्वाः “वाजयन्तः संग्राममिच्छन्तः “नरः नेतारो भटाः । अनुगच्छन्ति इति शेषः । “माम् एव “वृताः सन्तः “समरणे संग्रामे “हवन्ते आह्वयन्ति युद्धार्थम् । “मघवा धनवान् “अहमिन्द्रः सन् “आजिं रणं “कृणोमि करोमि । “अभिभूत्योजाः परेषाम् अभिभाविबलोऽहं "रेणुम् “इयर्मि प्रेरयामि ॥ ॥ १७ ॥


अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतम् ।

यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥६

अ॒हम् । ता । विश्वा॑ । च॒क॒र॒म् । नकिः॑ । मा॒ । दैव्य॑म् । सहः॑ । व॒र॒ते॒ । अप्र॑तिऽइतम् ।

यत् । मा॒ । सोमा॑सः । म॒मद॑न् । यत् । उ॒क्था । उ॒भे इति॑ । भ॒ये॒ते॒ इति॑ । रज॑सी॒ इति॑ । अ॒पा॒रे इति॑ ॥६

अहम् । ता । विश्वा । चकरम् । नकिः । मा । दैव्यम् । सहः । वरते । अप्रतिऽइतम् ।

यत् । मा । सोमासः । ममदन् । यत् । उक्था । उभे इति । भयेते इति । रजसी इति । अपारे इति ॥६

“अहं त्रसदस्युः “ता तानि प्रसिद्धानि “विश्वा सर्वाणि “चकरम् अकार्षम् । “अप्रतीतम् अप्रतिगतं “मा मां “दैव्यं “सहः देवसंबन्धि सहो बलं “नकिः “वरते नैव वारयति । “यत् यस्मात् “सोमासः सोमाः “मा मां “ममदन् अमदयन्। “यत् च “उक्था शस्त्राण्यपि ममदन् तस्मात् मत्तः “अपारे दूरपारे “उभे “रजसी द्यावापृथिव्यौ “भयेते चलतः ॥


वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः ।

त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥७

वि॒दुः । ते॒ । विश्वा॑ । भुव॑नानि । तस्य॑ । ता । प्र । ब्र॒वी॒षि॒ । वरु॑णाय । वे॒धः॒ ।

त्वम् । वृ॒त्राणि॑ । शृ॒ण्वि॒षे॒ । ज॒घ॒न्वान् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥७

विदुः । ते । विश्वा । भुवनानि । तस्य । ता । प्र । ब्रवीषि । वरुणाय । वेधः ।

त्वम् । वृत्राणि । शृण्विषे । जघन्वान् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥७

इतः परमिन्द्रावरुणयोः स्तुतिः । हे वरुण “तस्य “ते । कर्मणि षष्ठी। तं त्वां “विश्वा सर्वाणि “ता तानि "भुवनानि भूतजातानि “विदुः जानन्ति । हे “वेधः । स्तोतृनामैतत् । हे स्तोतः “वरुणाय “प्र “ब्रवीषि वरुणं स्तौषि । हे “इन्द्र “त्वं “वृत्राणि वैरिणः “जघन्वान् हतवानिति “शृण्विषे श्रूयसे। किंच हे इन्द्र “त्वं “वृतान् आच्छन्नान् “सिन्धून् स्यन्दनस्वभावानप्संघान् “अरिणाः अगमयः॥


अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने ।

त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ॥८

अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । ते । आ॒स॒न् । स॒प्त । ऋष॑यः । दौः॒ऽग॒हे । ब॒ध्यमा॑ने ।

ते । आ । अ॒य॒ज॒न्त॒ । त्र॒सद॑स्युम् । अ॒स्याः॒ । इन्द्र॑म् । न । वृ॒त्र॒ऽतुर॑म् । अ॒र्ध॒ऽदे॒वम् ॥८

अस्माकम् । अत्र । पितरः । ते । आसन् । सप्त । ऋषयः । दौःऽगहे । बध्यमाने ।

ते । आ । अयजन्त । त्रसदस्युम् । अस्याः । इन्द्रम् । न । वृत्रऽतुरम् । अर्धऽदेवम् ॥८

पुरुकुत्सस्य महिषी दौर्गहे बन्धनस्थिते । पत्यावराजकं दृष्ट्वा राष्ट्रं पुत्रस्य लिप्सया ॥ यदृच्छया समायातान् सप्तर्षीन्पर्यपूजयत् । ते च प्रीताः पुनः प्रचुर्यजेन्द्रावरुणौ भृशम् ॥ सा चेन्द्रावरुणाविष्ट्वा त्रसदस्युमजीजनत् । इतिहासमिमं जानन्नृषिर्ब्रूते ऋचाविह॥ अथ "अस्माकमत्र अस्मिन्नराजके देशेऽस्यां पृथिव्यां वा “पितरः पालयितारः उत्पादकाः “ते "आसन् अभवन् । एते “सप्त “ऋषयः प्रसिद्धाः “दौर्गहे दुर्गहस्य पुत्रे पुरुकुत्से “बध्यमाने दृढं पाशैर्यस्मात् “अस्याः अस्यै पुरुकुत्सान्यै “त्रसदस्युम् “आयजन्त प्रादुरिन्द्रावरुणयोरनुग्रहात। कीदृशं तम्। "वृत्रतुरं वृत्रस्य शत्रोर्हन्तारम् "अर्धदेवं देवानामर्धे समीपे वर्तमानम् । यद्वा । देवानामर्धभूतम् “इन्द्रं “न इन्द्रमिव स्थितं पुत्रं दत्तवन्तः। ‘ यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः' (तै. सं. ५. ४. ८. ३) इति तैत्तिरीयकम् ॥


पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।

अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वम् ॥९

पु॒रु॒ऽकुत्सा॑नी । हि । वा॒म् । अदा॑शत् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।

अथ॑ । राजा॑नम् । त्र॒सद॑स्युम् । अ॒स्याः॒ । वृ॒त्र॒ऽहन॑म् । द॒द॒थुः॒ । अ॒र्ध॒ऽदे॒वम् ॥९

पुरुऽकुत्सानी । हि । वाम् । अदाशत् । हव्येभिः । इन्द्रावरुणा । नमःऽभिः ।

अथ । राजानम् । त्रसदस्युम् । अस्याः । वृत्रऽहनम् । ददथुः । अर्धऽदेवम् ॥९

हे इन्द्रावरुणौ “पुरुकुत्सानी पुरुकुत्सस्य पत्नी ऋषिप्रेरिता “वां युवाम् “अदाशत् “हि अप्रीणयत् खलु । “हव्येभिः हविर्भिः “नमोभिः स्तुतिभिश्च । “अथ “राजानं “त्रसदस्युं वृत्रहणम् "अर्धदेवम् उक्तलक्षणं पुत्रम् “अस्याः अस्यै पुरुकुत्सान्यै “ददथुः दत्तवन्ताविति ॥


रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।

तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥१०

रा॒या । व॒यम् । स॒स॒ऽवांसः॑ । म॒दे॒म॒ । ह॒व्येन॑ । दे॒वाः । यव॑सेन । गावः॑ ।

ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा॑ । ध॒त्त॒म् । अन॑पऽस्फुरन्तीम् ॥१०

राया । वयम् । ससऽवांसः । मदेम । हव्येन । देवाः । यवसेन । गावः ।

ताम् । धेनुम् । इन्द्रावरुणा । युवम् । नः । विश्वाहा । धत्तम् । अनपऽस्फुरन्तीम् ॥१०

“राया धनेन “मदेम “ससवांसः युवां संभक्तारः “वयम् । “हव्येन “देवाः मोदन्तु “यवसेन च “गावः। “तां “धेनुं प्रीणयित्रीं रयिं हे इन्द्रावरुणौ “विश्वाहा विश्वस्य हन्तारौ “युवं युवां “नः अस्माकं “धत्तं दत्तम् । कीदृशीम् । “अनपस्फुरन्तीम् अनवहिंसिताम् । यद्वा । विश्वाहेत्यव्ययम् । सर्वदेत्यर्थः ॥ ॥ १८ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४२&oldid=198673" इत्यस्माद् प्रतिप्राप्तम्