ऋग्वेदः सूक्तं ४.५६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.५६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.५५ ऋग्वेदः - मण्डल ४
सूक्तं ४.५६
वामदेवो गौतमः
सूक्तं ४.५७ →
दे. द्यावापृथिवी। त्रिष्टुप्, ५-७ गायत्री


मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।
यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥२॥
स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥३॥
नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः ।
उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥४॥
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
शुची उप प्रशस्तये ॥५॥
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
ऊह्याथे सनादृतम् ॥६॥
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
परि यज्ञं नि षेदथुः ॥७॥


सायणभाष्यम्

‘मही द्यावापृथिवी ' इति सप्तर्चमेकादशं सूक्तं वामदेवस्यार्षं द्यावापृथिव्यम् । पूर्वत्र ‘ त्रिगायत्र्यन्तं तु ' इत्युक्तत्वात् पञ्चम्याद्यास्तिस्रो गायत्र्यः शिष्टास्त्रिष्टुभः ।' मही सप्त द्यावापृथिवीयम् ' इत्यनुक्रमणिका । व्यूढे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्रे आदितश्चतुर्ऋचं द्यावापृथिव्यनिविद्धानीयम् । तथा च सूत्रितं - मही द्यावापृथिवी इति चतस्र ऋभुर्विभ्वा' ( आश्व. श्रौ. ८. ८) इति ॥


म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः ।

यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवै॑ः ॥१

म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । इ॒ह । ज्येष्ठे॒ इति॑ । रु॒चा । भ॒व॒ता॒म् । शु॒चय॑त्ऽभिः । अ॒र्कैः ।

यत् । सी॒म् । वरि॑ष्ठे॒ इति॑ । बृ॒ह॒ती इति॑ । वि॒ऽमि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः॑ । एवैः॑ ॥१

मही इति । द्यावापृथिवी इति । इह । ज्येष्ठे इति । रुचा । भवताम् । शुचयत्ऽभिः । अर्कैः ।

यत् । सीम् । वरिष्ठे इति । बृहती इति । विऽमिन्वन् । रुवत् । ह । उक्षा । पप्रथानेभिः । एवैः ॥१

“इह यज्ञे "मही महत्यौ "ज्येष्ठे प्रशस्ये "द्यावापृथिवी द्यावापृथिव्यौ "रुचाः दीप्त्या युक्ते “शुचयद्भिः दीपयद्भिः "अर्कैः मन्त्रैः सोमादिहविर्भिर्वा युक्ते "भवताम् । "यत् यस्मात् "सीं सर्वतः “वरिष्ठे उरुतरे “बृहती महत्यौ द्यावापृथिव्यौ "विमिन्वन् परिच्छिन्दन् स्थापयन् "उक्षा सेक्ता पर्जन्यः “पप्रथानेभिः प्रथमानैः "एवैः गमनशीलैर्मरुद्भिर्मेघैर्वा सह "रुवत् रौति शब्दं करोति । "ह इति पूरणः । तस्माद्रुचा भवतामिति संबन्धः ॥


दे॒वी दे॒वेभि॑र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा॑णे ।

ऋ॒ताव॑री अ॒द्रुहा॑ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ॥२

दे॒वी इति॑ । दे॒वेभिः॑ । य॒ज॒ते इति॑ । यज॑त्रैः । अमि॑नती॒ इति॑ । त॒स्थ॒तुः॒ । उ॒क्षमा॑णे॒ इति॑ ।

ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । अ॒द्रुहा॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । य॒ज्ञस्य॑ । ने॒त्री इति॑ । शु॒चय॑त्ऽभिः । अ॒र्कैः ॥२

देवी इति । देवेभिः । यजते इति । यजत्रैः । अमिनती इति । तस्थतुः । उक्षमाणे इति ।

ऋतवरी इत्यृतऽवरी । अद्रुहा । देवपुत्रे इति देवऽपुत्रे । यज्ञस्य । नेत्री इति । शुचयत्ऽभिः । अर्कैः ॥२

“देवी देव्यौ "यजते यष्टव्ये "अमिनती प्रजा अहिंसत्यौ “उक्षमाणे सिञ्चत्यौ “ऋतावरी ऋतवत्यौ "अद्रुहा अद्रोग्ध्र्यौ द्रोहमकुर्वत्यौ “देवपुत्रे देवोत्पादिक्यौ "यज्ञस्य “नेत्री निर्वाहयित्र्यौ द्यावापृथिव्यौ "देवेभिः देवैः "यजत्रैः यष्टव्यैः सहिते "शुचयद्भिः शोचयद्भिः “अर्कैः मन्त्रैः हविर्भिर्वा युक्ते “तस्थतुः तिष्ठतः स्यातामित्यर्थः ॥


स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।

उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीर॒ः शच्या॒ समै॑रत् ॥३

सः । इत् । सु॒ऽअपाः॑ । भुव॑नेषु । आ॒स॒ । यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । ज॒जान॑ ।

उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अ॒वं॒शे । धीरः॑ । शच्या॑ । सम् । ऐ॒र॒त् ॥३

सः । इत् । सुऽअपाः । भुवनेषु । आस । यः । इमे इति । द्यावापृथिवी इति । जजान ।

उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुऽमेके । अवंशे । धीरः । शच्या । सम् । ऐरत् ॥३

“स “इत् स एव "स्वपाः शोभनकर्मा सन् “भुवनेषु "आस आस्ते । “य “इमे "द्यावापृथिवी द्यावापृथिव्यौ "जजान उत्पादितवान् । यश्च प्रजापतिः “उर्वी उर्व्यौ विस्तीर्णे “गभीरे अविचले "सुमेके शोभनरूपे "अवंशे उत्पत्तिरहिते अनाधारे वान्तरिक्षे “धीरः धीमान् "शच्या कुशलकर्मणा “समैरत् सम्यक् प्रेरितवान् । स एव स्वपा इति ॥


नू रो॑दसी बृ॒हद्भि॑र्नो॒ वरू॑थै॒ः पत्नी॑वद्भिरि॒षय॑न्ती स॒जोषा॑ः ।

उ॒रू॒ची विश्वे॑ यज॒ते नि पा॑तं धि॒या स्या॑म र॒थ्य॑ः सदा॒साः ॥४

नु । रो॒द॒सी॒ इति॑ । बृ॒हत्ऽभिः॑ । नः॒ । वरू॑थैः । पत्नी॑वत्ऽभिः । इ॒षय॑न्ती॒ इति॑ । स॒ऽजोषाः॑ ।

उ॒रू॒ची इति॑ । विश्वे॒ इति॑ । य॒ज॒ते इति॑ । नि । पा॒त॒म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥४

नु । रोदसी इति । बृहत्ऽभिः । नः । वरूथैः । पत्नीवत्ऽभिः । इषयन्ती इति । सऽजोषाः ।

उरूची इति । विश्वे इति । यजते इति । नि । पातम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥४

हे "रोदसी द्यावापृथिव्यौ “नु क्षिप्रं "पत्नीवद्भिः पत्नीसहितैः "बृहद्भिः महद्भिः "वरूथैः गृहैर्धनैर्वा सह “इषयन्ती अस्माकमन्नमिच्छन्त्यौ “सजोषाः परस्परं संगते “उरूची उर्वञ्चने "विश्वे व्याप्ते "यजते यष्टव्ये सत्यौ "नः अस्मान् "नि "पातं नितरां रक्षतम् । धियेत्यादि गतम् ॥


‘ प्र वाम् ' इत्यादिगायत्रस्तृचो व्यूढे दशरात्रे वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानीयत्वेन प्रक्षेप्यः । तथा च सूत्रितं - ‘ प्र वां महि द्यवी इति तृचौ ' ( आश्व. श्रौ. ८. ११ ) इति ॥

प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे ।

शुची॒ उप॒ प्रश॑स्तये ॥५

प्र । वा॒म् । महि॑ । द्यवी॒ इति॑ । अ॒भि । उप॑ऽस्तुतिम् । भ॒रा॒म॒हे॒ ।

शुची॒ इति॑ । उप॑ । प्रऽश॑स्तये ॥५

प्र । वाम् । महि । द्यवी इति । अभि । उपऽस्तुतिम् । भरामहे ।

शुची इति । उप । प्रऽशस्तये ॥५

हे द्यावापृथिव्यौ “द्यवी द्योतमाने "वां युवाभ्याम् "उपस्तुतिं स्तोत्रं "महि महत् प्रभूतम् "अभि “प्र “भरामहे प्रकर्षेण संपादयामः । "शुची शुद्धे युवां "प्रशस्तये प्रशंसितुम् "उप । उपसर्गश्रुतेरुचितक्रियाध्याहारः । उप गच्छाम इति शेषः ॥


पु॒ना॒ने त॒न्वा॑ मि॒थः स्वेन॒ दक्षे॑ण राजथः ।

ऊ॒ह्याथे॑ स॒नादृ॒तम् ॥६

पु॒ना॒ने इति॑ । त॒न्वा॑ । मि॒थः । स्वेन॑ । दक्षे॑ण । रा॒ज॒थः॒ ।

ऊ॒ह्याथे॒ इति॑ । स॒नात् । ऋ॒तम् ॥६

पुनाने इति । तन्वा । मिथः । स्वेन । दक्षेण । राजथः ।

ऊह्याथे इति । सनात् । ऋतम् ॥६

हे देव्यौ "तन्वा स्वकीयया मूर्त्या "स्वेन "दक्षेण बलेन च "मिथः प्रत्येकं "पुनाने शोधयन्त्यौ यज्ञं यजमानं वा युवां "राजथः । यद्वा । तन्वा स्वस्वशरीरैकदेशेन मिथः परस्परं पुनाने शोधयन्त्यौ । द्यौः स्वीयेनासारेण भुवं सा च स्वकीयेन कार्ष्ण्येन चन्द्रमसि स्थितेन दिवम् इति विवेकः । “सनात् सदाकालम् "ऋतं यज्ञम् "ऊह्याथे वहथः ॥


म॒ही मि॒त्रस्य॑ साधथ॒स्तर॑न्ती॒ पिप्र॑ती ऋ॒तम् ।

परि॑ य॒ज्ञं नि षे॑दथुः ॥७

म॒ही इति॑ । मि॒त्रस्य॑ । सा॒ध॒थः॒ । तर॑न्ती॒ इति॑ । पिप्र॑ती॒ इति॑ । ऋ॒तम् ।

परि॑ । य॒ज्ञम् । नि । से॒द॒थुः॒ ॥७

मही इति । मित्रस्य । साधथः । तरन्ती इति । पिप्रती इति । ऋतम् ।

परि । यज्ञम् । नि । सेदथुः ॥७

“मही महत्यौ द्यावापृथिव्यौ "मित्रस्य मित्रभूतस्य स्तोतुरभिमतं "साधथः । “ऋतम् अन्नं “तरन्ती तारयन्त्यौ "पिप्रती पूरयन्त्यौ "यज्ञं "परि परितः "नि "षेदथुः आश्रयथः ॥ ॥ ८ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५६&oldid=198766" इत्यस्माद् पुनः प्राप्तिः