ऋग्वेदः सूक्तं ४.४८
← सूक्तं ४.४७ | ऋग्वेदः - मण्डल ४ सूक्तं ४.४८ वामदेवो गौतमः । |
सूक्तं ४.४९ → |
दे. वायुः।। अनुष्टुप् |
विहि होत्रा अवीता विपो न रायो अर्यः ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥१॥
निर्युवाणो अशस्तीर्नियुत्वाँ इन्द्रसारथिः ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥२॥
अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥३॥
वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥४॥
वायो शतं हरीणां युवस्व पोष्याणाम् ।
उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥५॥
सायणभाष्यम्
‘ विहि होत्राः' इति पञ्र्चर्षं तृतीयं सूक्तं वामदेव्यं वायव्यम् । अत्रानुक्रमणिका---' विहि पञ्च वायव्यम्' इति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे वायव्यतृचस्य द्वितीया । तथा च सूत्रितं --' विहि होत्रा अवीता वायो शतं हरीणाम्' (आश्व. श्रौ. ७. ११) इति ॥
वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥१
वि॒हि । होत्रा॑ । अवी॑ताः । विपः॑ । न । रायः॑ । अ॒र्यः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥१
विहि । होत्रा । अवीताः । विपः । न । रायः । अर्यः ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥१
हे “वायो “विहि वीहि भक्षय । “होत्राः होमसाधिकाः सोमाहुतीः "अवीताः अन्यैः पूर्वमभक्षिताः “विपो “न शत्रूणां वेपयिता राजेव। किंच “अर्यः स्तोतुर्मम "रायः धनानि । संपादयेति शेषः । हे वायो 'चन्द्रेण आह्लादकेन “रथेन “आ “याहि "सुतस्य सोमस्य पीतये पानाय ।।
नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥२
निः॒ऽयु॒वा॒नः । अश॑स्तीः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥२
निःऽयुवानः । अशस्तीः । नियुत्वान् । इन्द्रऽसारथिः ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥२
हे "वायो त्वम् “अशस्तीः अभिशस्तीः “निर्युवाणः निःशेषेण नियोजयन् “नियुत्वान् नियुत्संज्ञकाश्ववान् “इन्द्रसारथिः इन्द्रसहायः सन् ”आ “याहि ॥
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥३
अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । ये॒माते॒ इति॑ । वि॒श्वऽपे॑शसा ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥३
अनु । कृष्णे इति । वसुधिती इति वसुऽधिती । येमाते इति । विश्वऽपेशसा ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥३
“कृष्णे कृष्णवर्णे "वसुधिती वसूनां धात्र्यौ "विश्वपेशसा विश्वरूपे द्यावापृथिव्यौ त्वाम् “अनु “येमाते अनुगच्छतः ॥
वह॑न्तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥४
वह॑न्तु । त्वा॒ । म॒नः॒ऽयुजः॑ । यु॒क्तासः॑ । न॒व॒तिः । नव॑ ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥४
वहन्तु । त्वा । मनःऽयुजः । युक्तासः । नवतिः । नव ।
वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥४
हे "वायो “त्वा त्वां “मनोयुजः मनःसमानगतयः "युक्तासः परस्परसंयुक्ताः "नवतिर्नव नवोत्तरनवतिसंख्याका अश्वाः "वहन्तु धारयन्तु ॥
‘वायो शतम्' इति पञ्चमी पूर्वोक्त एवं तृचे तृतीया । सूत्रं पूर्वमेवोक्तम् ॥
वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम् ।
उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥५
वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् ।
उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥५
वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् ।
उत । वा । ते । सहस्रिणः । रथः । आ । यातु । पाजसा ॥५
हे “वायो त्वं “पोष्याणां पोषणीयानां “हरीणां “शतं “युवस्व योजय रथे। “उत “वा अपि च “ते “सहस्रिणः सहस्रसंख्यापूरका अश्वाः । तैर्युक्तः “रथः “पाजसा बलेन “आ “यातु आगच्छतु ॥ ॥ २४ ॥
मण्डल ४ | |
---|---|
|