सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१ इत्यस्मात् पुनर्निर्दिष्टम्)
ऋग्वेदः - मण्डल ४
सूक्तं ४.१
वामदेवो गौतमः
सूक्तं २ →
दे. अग्निः, २-५ अग्नीवरुणौ वा। त्रिष्टुप्, १ अष्टिः, २ अतिजगती, ३ धृतिः


त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।
अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥१॥
स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् ।
ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥२॥
सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।
अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।
तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥३॥
त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥४॥
स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥५॥
अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु ।
शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥६॥
त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः ।
अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥७॥
स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः ।
रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥८॥
स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति ।
स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥९॥
स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य ।
धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥१०॥
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥११॥
प्र शर्ध आर्त प्रथमं विपन्यँ ऋतस्य योना वृषभस्य नीळे ।
स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥१२॥
अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः ।
अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥१३॥
ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् ।
पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥१४॥
ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् ।
दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥१५॥
ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् ।
तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥१६॥
नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त ।
आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन् ॥१७॥
आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् ।
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥१८॥
अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् ।
शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥१९॥
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥२०॥


सायणभाष्यम्

॥ श्रीः ॥

॥ अथ चतुर्थं मण्डलम् ॥


वामदेव्ये चतुर्थे मण्डले पञ्चानुवाकाः । तत्र प्रथमेऽनुवाके दश सूक्तानि । तेषु ' त्वां ह्यग्ने सदमित्' इति विंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका- त्वां ह्यग्ने विंशतिरष्ट्यतिजगतीधृतय आद्या उपाद्याश्चतस्रो वारुण्यश्च वा ' इति । मन्त्रद्रष्टा वामदेव ऋषिः । प्रथमा चतुःषष्ट्यक्षराष्टिः द्वितीया द्विपञ्चाशदक्षरातिजगती तृतीया द्विसप्तत्यक्षरा धृतिश्चतुर्थ्याद्या अनादेशपरिभाषया सप्तदश त्रिष्टुभः। कृत्स्नस्य सूक्तस्य “ मण्डलादिष्वाग्नेयम्' इति परिभाषयाग्निर्देवता द्विद्याद्याश्चतस्रो वरुणदेवत्या वा । सूक्तविनियोगो लैङ्गिकः । आद्या अध्यायोपाकरणे मण्डलादिहोमे विनियुक्ता ॥


त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे ।

अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥१

त्वाम् । हि । अ॒ग्ने॒ । सद॑म् । इत् । स॒ऽम॒न्यवः॑ । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे । इति॑ । क्रत्वा॑ । नि॒ऽए॒रि॒रे ।

अम॑र्त्यम् । य॒ज॒त॒ । मर्त्ये॑षु । आ । दे॒वम् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् । विश्व॑म् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् ॥१

त्वाम् । हि । अग्ने । सदम् । इत् । सऽमन्यवः । देवासः । देवम् । अरतिम् । निऽएरिरे । इति । क्रत्वा । निऽएरिरे ।

अमर्त्यम् । यजत । मर्त्येषु । आ । देवम् । आऽदेवम् । जनत । प्रऽचेतसम् । विश्वम् । आऽदेवम् । जनत । प्रऽचेतसम् ॥१

वामदेवः स्तौति । हे "अग्ने "समन्यवः । मन्युः स्पर्धा । तया सह वर्तमानाः । स्वसमानैः स्पर्धमाना इत्यर्थः । "देवासः देवनशीला इन्द्रादयो देवाः "देवं द्योतमानम् "अरतिं शीघ्रं गन्तारं “त्वां “सदमित् सदैव "न्येरिरे “हि । स्पर्धानिमित्ते युद्धे प्रेरयन्ति खलु । इतिशब्दो हेत्वर्थः । यस्मात् देवास्त्वां युद्धार्थं नितरां प्रेरयन्ति तस्माद्यजमानाः "क्रत्वा स्तुतिलक्षणेन कर्मणा "न्येरिरे । यज्ञकर्मणि देवान् हविः प्रापयितुं देवानाह्वातुं च त्वां नितरां प्रेरयन्ति खलु । "यजत यजनीय हे अग्ने अमर्त्यं मरणधर्मरहितम् "आ सर्वतः "देवं द्योतमानं "प्रचेतसम् । प्रकृष्टं कर्मविषयं चेतो ज्ञानं यस्य तादृशं त्वां "मर्त्येषु यागं कुर्वाणेषु मनुष्येषु "आदेवम् आगन्तारं “जनत देवा हविःश्रपणार्थम् अजनयन् । तथा “प्रचेतसं कर्माभिज्ञम् “आदेवं तत्तद्यज्ञेष्वागन्तारं त्वां "विश्वं जनत युगपन्नानादेशवर्तिषु यज्ञेषु यौगपद्येन हविरानयनार्थं व्याप्तं देवा अकुर्वन् ॥ न्येरिरे । ' ईर गतौ । लिटि मन्त्रत्वात् आम् न भवति । सहेति योगविभागात् समासः । हियोगादनिघातः । क्रत्वा । ' जसादिषु छन्दसि वावचनम् ' इति नादेशाभावः । यणादेशः ॥


स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसम् ।

ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृत॑म् ॥२

सः । भ्रात॑रम् । वरु॑णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ॑ । सु॒ऽम॒ती । य॒ज्ञऽव॑नसम् । ज्येष्ठ॑म् । य॒ज्ञऽव॑नसम् ।

ऋ॒तऽवा॑नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒ऽधृत॑म् । राजा॑नम् । च॒र्ष॒णि॒ऽधृत॑म् ॥२

सः । भ्रातरम् । वरुणम् । अग्ने । आ । ववृत्स्व । देवान् । अच्छ । सुऽमती । यज्ञऽवनसम् । ज्येष्ठम् । यज्ञऽवनसम् ।

ऋतऽवानम् । आदित्यम् । चर्षणिऽधृतम् । राजानम् । चर्षणिऽधृतम् ॥२

हे “अग्ने “सः तादृशस्त्वं “भ्रातरम् एकस्थानवासेन भ्रातरं “वरुणम् । वृणोत्युदकमिति वरुणः । तं देवं “यज्ञवनसं यज्ञैर्यजनीयैर्हविभिः संभजनीयं “यज्ञवनसं च यज्ञस्य संभक्तारं “ज्येष्ठम् अतिशयेन प्रशस्यम् “ऋतावानम् अपां स्वामितयोदकवन्तं सत्यवन्तं वा “आदित्यम् अदितेः पुत्रं “चर्षणीधृतं मनुष्याणामुदकप्रदानेन धारकं “सुमती शोभनबुद्ध्या हेतुना “चर्षणीधृतं चर्षणिभिर्विद्वद्भिर्धृत “राजानं राजन्तम् एतादृशं वरुणं देवं “देवान् देवनशीलान् स्तोतॄन्’ “अच्छ अभि “आ “ववृत्स्व आवर्तय अभिमुखीकुरु ॥ ववृत्स्व ।' वृतु वर्तने । लोटि ' बहुलं छन्दसि ' इति विकरणस्य श्लुः । निघातः । सुमती । ' मन्त्रे वृष° ' इत्यादिना क्तिन्नुदात्तः ।‘सुपां सुलुक् । इति तृतीयायाः पूर्वसवर्णदीर्घः । एकादेशस्वरः । ज्येष्ठम् । प्रशस्यस्येष्ठनि ‘ज्य च ' इति ज्यादेशः । नित्त्वादाद्युदात्तः । एकादेशस्वरः । यज्ञवनसम् । ‘ वन षण संभक्तौ । कर्मकर्तरि च असुन्प्रत्ययः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति पूर्वपदस्वरः ॥ ।


प्रवर्ग्येऽभिष्टवे उत्तरस्मिन् पटले ‘ सखे सखायम्' इत्येषा । सूत्रितं च--' सखे सखायमभ्या ववृत्स्वोर्ध्व ऊ षु ण ऊतये' (आश्व. श्रौ. ४. ७) इति ॥

सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ ।

अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु ।

तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥३

सखे॑ । सखा॑यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या॑ऽइव । रंह्या॑ । अ॒स्मभ्य॑म् । द॒स्म॒ । रंह्या॑ ।

अग्ने॑ । मृ॒ळी॒कम् । वरु॑णे । सचा॑ । वि॒दः॒ । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ।

तो॒काय॑ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य॑म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥३

सखे । सखायम् । अभि । आ । ववृत्स्व । आशुम् । न । चक्रम् । रथ्याऽइव । रंह्या । अस्मभ्यम् । दस्म । रंह्या ।

अग्ने । मृळीकम् । वरुणे । सचा । विदः । मरुत्ऽसु । विश्वऽभानुषु ।

तोकाय । तुजे । शुशुचान । शम् । कृधि । अस्मभ्यम् । दस्म । शम् । कृधि ॥३

“सखे सखिभूत “दस्म दर्शनीय हे अग्ने त्वं तव “सखायं वरुणम् “अस्मभ्यम् अस्मदर्थम् “आ “ववृत्स्व अभिमुखीकुरु । तत्र दृष्टान्तः। “रंह्या रंहणे गमने साधुभूतौ “रथ्येव रथे योजितौ अश्वौ यथा “आशुं शीघ्रगन्तृ 'चक्रं लक्ष्यदेशं प्रति अभिमुखीकुरुतस्तद्वत् । हे “अग्ने “सचा तव सहाये “वरुणे “मृळीकं सुखकरं हविः “विदः लब्धवानसि । तथा “विश्वभानुषु सर्वतो व्याप्ततेजस्केषु “मरुत्सु सुखकरं लब्धवानसि । अग्निवारुणाग्निमारुतयोः कर्मणोरिष्टवानसीत्यर्थः । “शुशुचान दीप्यमान हे अग्ने "तोकाय। तुज्यते पीड्यतेऽनेन माता गर्भवासेनेति तोकं पुत्रः । तस्मै “तुजे । गच्छत्यनेनानृण्यं पितेति तुक् पौत्रः । तस्मै “शं सुखं “कृधि कुरु। “दस्म दर्शनीय हे अग्ने “अस्मभ्यं “शं “कृधि सुखं कुरु ॥ रथ्येव । रथस्येमावित्यर्थे ' रथाद्यत्' इति यत् । ‘सुपां सुलुक्° ' इति सुपो डादेशः । रंह्या । रंहशब्दात् ‘ तत्र साधुः' इति यत्प्रत्ययः ।' यतोऽनावः' इत्याद्युदात्तत्वम् ॥


‘त्वं नो अग्ने' इत्येतदारभ्येदं सूक्तमुत्तराणि सूक्तानि च प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च विनियुक्तानि । सूत्रितं च- ‘ त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वारि (आश्व. श्रौ. ४. १३) इति । अवभृथेष्ट्यां स्विष्टकृदर्थेऽग्नीवरुणौ यष्टव्यौ । तत्र ‘ त्वं नो अग्ने ' इति द्वे याज्यानुवाक्ये । सूत्रितं च--- अग्नीवरुणौ स्विष्टकृदथें त्वं नो अग्ने वरुणस्य विद्वानिति द्वे ! ( आश्व. श्रौ. ६. १३) इति । अस्नातो यद्यग्निहोत्रं जुहुयात् तदा अग्निवारुणीष्टिः। तस्यामेते एव याज्यानुवाक्ये । ‘ तदाहुर्य अहिताग्निः' इत्युपक्रम्याम्नातं-- तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्त्स त्वं नो अग्नेऽवमो भवोती ' ( ऐ. ब्रा. ७. ९) इति ॥ ।

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः ।

यजि॑ष्ठो॒ वह्नि॑तम॒ः शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥४

त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ ।

यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥४

त्वम् । नः । अग्ने । वरुणस्य । विद्वान् । देवस्य । हेळः । अव । यासिसीष्ठाः ।

यजिष्ठः । वह्निऽतमः । शोशुचानः । विश्वा । द्वेषांसि । प्र । मुमुग्धि । अस्मत् ॥४

हे अग्ने “विद्वान् सर्वपुरुषार्थसाधनोपायज्ञः “त्वं “देवस्य द्योतमानस्य “वरुणस्य “हेळ: क्रोधान् “नः अस्मत्संबन्धिनो वरुणकर्तृकान् पाशग्रहणान् “अव “यासिसीष्टाः अपनय । किंच "यजिष्ठः यष्टृतमः "वह्नितमः हविषामतिशयेन वोढा “शोशुचानः अतिशयेन दीप्यमानस्त्वं “विश्वा सर्वाणि “द्वेषांसि पापानि द्वेष्टॄणि रजांसि वा “अस्मत् अस्मत्तः “प्र 'मुमुग्धि प्रकर्षेण मोचय ॥ हेळ: । 'हेड़ृ अनादरे'। क्विप् । शसि रूपम् । शसः सुप्त्वादनुदात्तत्वे धातुस्वरः । यासिसीष्ठाः । यसेर्ण्यन्तादाशीर्लिङ् । थासि सीयुडागमः । ‘ छन्दस्युभयथा' इति लिङः सार्वधातुकत्वात् णिलोपाभावः। अवपूर्वो यासिर्विनाशे वर्तते । मुमुग्धि । मुञ्चतेर्लोटि रूपम् । ‘ बहुलं छन्दसि ' इति शपः श्लुः ॥


स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥५

सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒ । ऊ॒ती । नेदि॑ष्ठः । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ ।

अव॑ । य॒क्ष्व॒ । नः॒ । वरु॑णम् । ररा॑णः । वी॒हि । मृ॒ळी॒कम् । सु॒ऽहवः॑ । नः॒ । ए॒धि॒ ॥५

सः । त्वम् । नः । अग्ने । अवमः । भव । ऊती । नेदिष्ठः । अस्याः । उषसः । विऽउष्टौ ।

अव । यक्ष्व । नः । वरुणम् । रराणः । वीहि । मृळीकम् । सुऽहवः । नः । एधि ॥५

हे “अग्ने “सः तादृशः “त्वम् “ऊती ऊत्या रक्षणेन “नः अस्माकम् “अवमः अर्वाचीनः प्रत्यासन्नः सन् "अस्या “उषसो “व्युष्टौ व्युच्छने प्रातःकालेऽग्निहोत्रादिकर्मसिद्ध्यर्थं “नेदिष्टः “भव अतिशयेनास्मदन्तिकस्थो भव । यद्वा । ऊत्या गमनेनास्माकमवमो रक्षको भव । किंच “नः अस्माकं “वरुणं वरुणकृतं जलोदरादिरोगम् आवरकं पापं वा “अव “यक्ष्व अवयज । विनाशयेत्यर्थः । “रराणः अस्मद्दत्ते हविषि रममाणः । यद्वा । यजमानेभ्यः अत्यन्तमीप्सितफलप्रदः त्वं “मृळीकं सुखकरमिदं हविः “वीहि भक्षय। किंच “नः अस्माकं “सुहवः शोभनाह्वानोपेतः “एधि भव । नेदिष्टः । अन्तिकशब्दादिष्ठनि अन्तिकबाढयोर्नेदसाधौ ' इति नेद इत्यादेशः । नित्त्वादाद्युदात्तः । रराणः । रमतेः कानचि मकारलोपश्छान्दसः । यद्वा ! रातेः यङ्लुकि व्यत्ययेन कानच् । ‘अभ्यस्तानामादिः । एधि । अस्तेर्लोटि ‘ ध्वसोरेद्धावभ्यासलोपश्च' इति ए इत्यादेशः । तस्यासिद्धत्वात् ‘हुझल्भ्यो हेर्धिः' । निघातः ॥ ॥ १२ ॥


अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु ।

शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥६

अ॒स्य । श्रेष्ठा॑ । सु॒ऽभग॑स्य । स॒म्ऽदृक् । दे॒वस्य॑ । चि॒त्रऽत॑मा । मर्त्ये॑षु ।

शुचि॑ । घृ॒तम् । न । त॒प्तम् । अघ्न्या॑याः । स्पा॒र्हा । दे॒वस्य॑ । मं॒हना॑ऽइव । धे॒नोः ॥६

अस्य । श्रेष्ठा । सुऽभगस्य । सम्ऽदृक् । देवस्य । चित्रऽतमा । मर्त्येषु ।

शुचि । घृतम् । न । तप्तम् । अघ्न्यायाः । स्पार्हा । देवस्य । मंहनाऽइव । धेनोः ॥६

“सुभगस्य सुधनस्य सुष्ठु भजनीयस्याग्नेः "देवस्य “श्रेष्ठा अतिशयेन प्रशस्या “संदृक् संदृष्टिः “मर्त्येषु “चित्रतमा अतिशयेन चायनीया पूजनीया भवति । “स्पार्हा सर्वैः स्पृहणीया भवति । तत्र दृष्टान्तः । यथा “देवस्य क्षीरं कामयमानस्य पुरुषस्य “अघ्न्यायाः अहन्तव्याया गोः “शुचि तेजोयुक्तं “घृतं क्षरणयुक्तं “तप्तं क्षीरं स्पृहणीयं भवति । तत्रैव दृष्टान्तान्तरम् । यथा गां भिक्षमाणस्य मर्त्यस्य “धेनोः दोग्ध्र्या गोः “मंहनेव । महतिर्दानकर्मा । दानं यथा प्रियकरं भवति तद्वत् ॥ सुभगस्य । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । स्पार्ह । “कर्षात्वतो घञोऽन्त उदात्तः'।. देवस्य । दीव्यतीति देवः । दीव्यतेः कान्त्यर्थस्य पचाद्यचि रूपम् ॥


त्रिर॑स्य॒ ता प॑र॒मा स॑न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः ।

अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचि॑ः शु॒क्रो अ॒र्यो रोरु॑चानः ॥७

त्रिः । अ॒स्य॒ । ता । प॒र॒मा । स॒न्ति॒ । स॒त्या । स्पा॒र्हा । दे॒वस्य॑ । जनि॑मानि । अ॒ग्नेः ।

अ॒न॒न्ते । अ॒न्तरिति॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । शुचिः॑ । शु॒क्रः । अ॒र्यः । रोरु॑चानः ॥७

त्रिः । अस्य । ता । परमा । सन्ति । सत्या । स्पार्हा । देवस्य । जनिमानि । अग्नेः ।

अनन्ते । अन्तरिति । परिऽवीतः । आ । अगात् । शुचिः । शुक्रः । अर्यः । रोरुचानः ॥७

“अग्नेः अग्न्यभिमानिनः “अस्य “देवस्य “त्रिः त्रीण्यग्निवायुसूर्यात्मना त्रीणि "ता तानि प्रसिद्धानि “परमा उत्तमानि "सत्या यथार्थभूतानि “जनिमानि जन्मानि “स्पार्हा सर्वैः स्पृहणीयानि “सन्ति । यद्वा । अग्नेरेव त्रीणि जन्मानि दिवस्परि प्रथमं जज्ञे अग्निः ' ( ऋ. सं. १०. ४५. १ ) इति त्रीणि जाना परि भूषन्त्यस्य' ( ऋ. सं. १.९५.३ ). इत्येवमादिषु मन्त्रेषु प्रसिद्धानि । "अनन्ते अपर्यन्ते नभसि “अन्तः मध्ये स्वतेजसा “परिवीतः परिवेष्टितः “शुचिः सर्वस्य शेाधकः “शुक्रः दीप्तियुक्तोऽत एव “रोरुचानः भृशं दीप्यमानः “अर्यः स्वामी तादृशो देवः “आगात् अस्मदीयं यज्ञं प्रत्यागच्छतु ॥ सत्या। ‘शेश्छन्दसि बहुलम्' इति शेर्लुक् । परिवीतः । व्येञ् संवरणे' । कर्मणि क्तः । यजादित्वात् संप्रसारणम् । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अर्यः । ‘ ऋ गतौ । ' अर्यः स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपातितः । ‘ स्वामिन्यन्तोदात्तत्वं वक्तव्यम्' इत्यन्तोदात्तत्वम् ॥


स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः ।

रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥८

सः । दू॒तः । विश्वा॑ । इत् । अ॒भि । व॒ष्टि॒ । सद्म॑ । होता॑ । हिर॑ण्यऽरथः । रम्ऽसु॑जिह्वः ।

रो॒हित्ऽअ॑श्वः । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । सदा॑ । र॒ण्वः । पि॒तु॒मती॑ऽइव । स॒म्ऽसत् ॥८

सः । दूतः । विश्वा । इत् । अभि । वष्टि । सद्म । होता । हिरण्यऽरथः । रम्ऽसुजिह्वः ।

रोहित्ऽअश्वः । वपुष्यः । विभाऽवा । सदा । रण्वः । पितुमतीऽइव । सम्ऽसत् ॥८

देवानां “दूतः “होता देवानामाह्वाता “हिरण्यरथः सुवर्णमयरथोपेतः "रंसुजिह्वः रमणीयशोभनज्वालोपेतः “सः तादृशोऽग्निः “विश्वेत् सर्वाण्येव "सद्म देवयजनस्थानानि “अभि “वष्टि कामयते । पुनश्च कीदृशः । “रोहिदश्वः । रोहितवर्णाः अश्वाः यस्य स तथोक्तः । “वपुष्यः वपुषि रूपे साधुः “विभावा कान्तियुक्तोऽत एव “सदा “रण्वः रमणीयो भवति । तत्र दृष्टान्तः । “पितुमतीव “संसत् ॥ यथा अन्नादिमत् समृद्धं गृहं रमणीयं तद्वत् ॥ रंसुजिह्वः । रमतेः ‘ अन्येभ्योऽपि दृश्यन्ते' इति विच् । बहुव्रीहौ पूर्वपदस्वरः । वपुष्यः । तत्र साधुः' इति यत् । तित्स्वरितः । विभावा। ‘छन्दसीवनिपौ° ' इति वनिप् ॥


स चे॑तय॒न्मनु॑षो य॒ज्ञब॑न्धु॒ः प्र तं म॒ह्या र॑श॒नया॑ नयन्ति ।

स क्षे॑त्यस्य॒ दुर्या॑सु॒ साध॑न्दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥९

सः । चे॒त॒य॒त् । मनु॑षः । य॒ज्ञऽब॑न्धुः । प्र । तम् । म॒ह्या । र॒श॒नया॑ । न॒य॒न्ति॒ ।

सः । क्षे॒ति॒ । अ॒स्य॒ । दुर्या॑सु । साध॑न् । दे॒वः । मर्त॑स्य । स॒ध॒नि॒ऽत्वम् । आ॒प॒ ॥९

सः । चेतयत् । मनुषः । यज्ञऽबन्धुः । प्र । तम् । मह्या । रशनया । नयन्ति ।

सः । क्षेति । अस्य । दुर्यासु । साधन् । देवः । मर्तस्य । सधनिऽत्वम् । आप ॥९

"यज्ञबन्धुः । यज्ञेऽग्निहोत्रादौ बन्धनं विनियोजनं यस्य स तथोक्तः । “सः अग्निः “मनुषः कर्मणि प्रवृत्तान् मनुष्यान् “चेतयत् जानाति । “मह्या महत्या “रशनया स्तुतिरूपया रज्वाप् युक्तं “तं तादृशमग्निं “प्र “नयन्ति उत्तरवेद्यादिष्वध्वर्य्वादयः प्रक्षिपन्ति । “मर्तस्य मनुष्यस्य "अस्य यजमानस्य “दुर्यासु गृहेषु “साधन् अभीष्टानि साधयन् “सः अग्निः “क्षेति वसति । सः “देवः द्योतमानोऽग्निः “सधनित्वं यस्य गृहे निवसति तेन धनिना साहित्यम् “आप प्राप्नोति । प्रभूतं धनं यजमानाय दापयित्वा तेन सहितोऽभवदित्यर्थः ॥ साधन् । ‘राध साध संसिद्धौ ' । ण्यन्तस्य शतरि रूपम् ॥


स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य ।

धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥१०

सः । तु । नः॒ । अ॒ग्निः । न॒य॒तु॒ । प्र॒ऽजा॒नन् । अच्छ॑ । रत्न॑म् । दे॒वऽभ॑क्तम् । यत् । अ॒स्य॒ ।

धि॒या । यत् । विश्वे॑ । अ॒मृताः॑ । अकृ॑ण्वन् । द्यौः । पि॒ता । ज॒नि॒ता । स॒त्यम् । उ॒क्ष॒न् ॥१०

सः । तु । नः । अग्निः । नयतु । प्रऽजानन् । अच्छ । रत्नम् । देवऽभक्तम् । यत् । अस्य ।

धिया । यत् । विश्वे । अमृताः । अकृण्वन् । द्यौः । पिता । जनिता । सत्यम् । उक्षन् ॥१०

"प्रजानन् सर्वं जानानः “सः “अग्निः “देवभक्तं देवैः देवनशीलैः स्तोतृभिः संभजनीयम् “अस्य अग्नेः संबन्धि “यत् उत्तमं “रत्नं धनमस्ति तद्रत्नम् “अच्छ आभिमुख्येन “तु क्षिप्रं "नः अस्मान् “नयतु प्रापयतु । “अमृताः मरणधर्मरहिताः “विश्वे सर्वे देवाः “धिया हविर्वहनलक्षणेन कर्मणा हेतुना “यत् यमग्निम् “अकृण्वन् हविषां प्रापयितारमकुर्वन् । यस्य चाग्नेः “द्यौः “पिता पालयित्री “जनिता जनयित्री च । 'अग्ने दिवः सूनुरसि प्रचेताः ' ( ऋ. सं. ३. २५. १ ) इति श्रवणात् । यद्वा । द्यौर्देवनशील आदित्यः पिता जनयिता च । ‘ आदित्यादग्निः' इत्याम्नानात् । “सत्यं यथार्थभूतं तमग्निम् “उक्षन् । घृताद्याहुतिभिरध्वर्य्वादयः सिञ्चन्ति ॥ देवभक्तम् । ‘ भज सेवायाम् । कर्मणि क्तः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । उक्षन् । उक्ष सेचने'। लङि रूपम् । ‘ बहुलं छन्दसि ' इत्यडभावः ॥


स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ।

अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥११

सः । जा॒य॒त॒ । प्र॒थ॒मः । प॒स्त्या॑सु । म॒हः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ।

अ॒पात् । अ॒शी॒र्षा । गु॒हमा॑नः । अन्ता॑ । आ॒ऽयोयु॑वानः । वृ॒ष॒भस्य॑ । नी॒ळे ॥११

सः । जायत । प्रथमः । पस्त्यासु । महः । बुध्ने । रजसः । अस्य । योनौ ।

अपात् । अशीर्षा । गुहमानः । अन्ता । आऽयोयुवानः । वृषभस्य । नीळे ॥११

“सः अग्निः “प्रथमः अहवनीयादिरूपतया श्रेष्ठः सन् “पस्त्यासु यजमानानां गृहेषु “जायत आहुत्यधिकरणतया संपद्यते । तथा “महः महतः “अस्य “रजसः अन्तरिक्षस्य “बुध्ने मूले पृथिव्यां तत्रापि “योनौ उत्तरवेद्यादिस्थाने संपद्यते । सोऽग्निः “अपात् पादवर्जितः “अशीर्षा शिरोवर्जितः । तदेवाह । “अन्ता आद्यन्ते पादशिरसी “गुहमानः गूहमानः । अविज्ञेयपादशिरा इत्यर्थः । “वृषभस्य बर्षणसमर्थस्य मेघस्य “नीळे निलये नभसि “आयोयुवानः धूमाकारेणात्मानमायोजयन् वर्तते । यद्वा । यः प्रथमो वैद्युतोऽग्निः पस्त्यासु नदीषु बुध्नेऽन्तरिक्षे महो महतो रजस उदकस्य तेजसो वा योनौ स्थाने च चरति । अपादशीर्षा पादशिरोवर्जितः अन्ता आत्मनः पर्यन्तप्रदेशान् स्वतेजसा गुहमान आच्छादयन् पुनश्च आयोयुवानः तानि तेजांसि स्वात्मनि मिश्रीकुर्वन् वृषभस्य मेघस्य नीळे स्थाने नभसि चरति सोऽग्निरधुना कर्मयोग्यतया अजायत । अपात् । “पादस्य लोपोऽहस्त्यादिभ्यः' इति अकारलोपः समासान्तः । गुहमानः । ‘ गुहू संवरणे' । शब्विकरणी। शानचि रूपम् । शानचो लसार्वधातुकस्वरे कृते प्रत्ययस्वरः । आयोयुवानः । ‘ यु मिश्रणे' । यङ्लुकि शानचि रूपम् । अभ्यस्तस्वरेणाद्युदात्तः ॥


प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे ।

स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयन्त॒ वृष्णे॑ ॥१२

प्र । शर्धः॑ । आ॒र्त॒ । प्र॒थ॒मम् । वि॒प॒न्या । ऋ॒तस्य॑ । योना॑ । वृ॒ष॒भस्य॑ । नी॒ळे ।

स्पा॒र्हः । युवा॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । स॒प्त । प्रि॒यासः॑ । अ॒ज॒न॒य॒न्त॒ । वृष्णे॑ ॥१२

प्र । शर्धः । आर्त । प्रथमम् । विपन्या । ऋतस्य । योना । वृषभस्य । नीळे ।

स्पार्हः । युवा । वपुष्यः । विभाऽवा । सप्त । प्रियासः । अजनयन्त । वृष्णे ॥१२

हे अग्ने “विपन्या स्तुत्या युक्तम् “ऋतस्य उदकस्य “योना योनौ स्थाने “वृषभस्य वर्षणसमर्थस्य मेघस्य “नीळे कुलायभूतेऽन्तरिक्षे वैद्युताग्निरूपेण वर्तमानं त्वां “शर्धः तेजः “प्रथमं “प्र “आर्त प्रकर्षेण गच्छति । यश्चाग्निः “स्पार्हः सर्वैः स्पृहणीयः “युवा नित्यतरुणः "वपुष्यः कमनीयः “विभावा दीप्तिमान् तस्मै “वृष्णे अभिमतफलवर्षकाय अग्नये “प्रियासः प्रियाः “सप्त होत्रकाः “अजनयन्त स्तोत्रम् अकुर्वन् ॥ आर्त । ‘ऋ गतौ'। लङि व्यत्ययेनात्मनेपदम् । निघातः । विपन्या । ‘ एन च ' इत्यस्य इन्प्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । ‘ उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । विपन्यँ ऋतस्य इत्यत्र संहितायाम् “ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ' ( पा. सू. ६.१.१२७ ) इत्यनिकोऽपि ह्रस्वोऽनुनासिकश्च ॥


अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुरृ॒तमा॑शुषा॒णाः ।

अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अ॒न्तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥१३

अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । म॒नु॒ष्याः॑ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।

अश्म॑ऽव्रजाः । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः॑ । हु॒वा॒नाः ॥१३

अस्माकम् । अत्र । पितरः । मनुष्याः । अभि । प्र । सेदुः । ऋतम् । आशुषाणाः ।

अश्मऽव्रजाः । सुऽदुघाः । वव्रे । अन्तः । उत् । उस्राः । आजन् । उषसः । हुवानाः ॥१३

“अत्र लोके पूर्वे “मनुष्याः “अस्माकं “पितरः अङ्गिरस: ”ऋतं यज्ञम् “आशुषाणाः अश्नुवानाः सन्तः “अभि “प्र “सेदुः अग्निमभिलक्ष्य प्रजग्मुः । तेऽङ्गिरसोऽग्निपरिचर्याबलात् “अश्मव्रजाः पर्वतैः परिवृताः “वव्रे । वृणोत्याच्छादयतीति वव्रं पर्वतबिलान्तर्वर्ति तमः । तस्मिन् “अन्तः मध्ये स्थिताः “सुदुघाः सुष्ठु दोग्ध्रीः “उस्राः पणिभिरपहृता गाः “उत् "आजन् तस्माद्बिलान्निरगमयन् । किं कुर्वन्तः । तमसो विध्वंसिनीः "उषसः देवीः प्रकाशार्थं “हुवानाः आह्वयन्तः ॥ वव्रे । वृणोतेरौणादिकः कः । ‘ कृञादीनां द्वे भवतः' इति द्विर्वचनम् ॥


ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् ।

प॒श्वय॑न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ॥१४

ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒ऽवांसः॑ । अद्रि॑म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः॑ । वि । वो॒च॒न् ।

प॒श्वऽय॑न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त॑ । ज्योतिः॑ । च॒कृ॒पन्त॑ । धी॒भिः ॥१४

ते । मर्मृजत । ददृऽवांसः । अद्रिम् । तत् । एषाम् । अन्ये । अभितः । वि । वोचन् ।

पश्वऽयन्त्रासः । अभि । कारम् । अर्चन् । विदन्त । ज्योतिः । चकृपन्त । धीभिः ॥१४

“ते अङ्गिरसः “अद्रिं पणिभिरपहृतानां गवां निरोधकं पर्वतं "ददृवांसः विदारयन्तः सन्तः “मर्मृजत अग्निं पर्यचरन् । “एषाम् अङ्गिरसां “तत् तादृशं कर्म “अन्ये महर्षयः “अभितः सर्वत्र जगति "वि “वोचन् विशेषेणाकथयन् । “पश्वयन्त्रासः पशुनिर्गमनार्थानि यन्त्राण्युपाया येषां तेऽङ्गिरसः “कारम् अभिमतस्य प्रयोजनस्य कर्तारमग्निम् “अभि “अर्चन् अस्तुवन् । ततस्तमोपहम् आदित्याख्यं “ज्योतिः “विदन्त अलभन्त । ततः “धीभिः बुद्धिभिः "चकृपन्त यज्ञानकुर्वन् । मर्मृजत ।' मृजू शुद्धौ । यङ्लुकि लङि व्यत्ययेनात्मनेपदम्। निघातः । चकृपन्त । ‘ कृपू सामर्थ्ये'। ण्यन्तस्य लुङि चङि सन्वद्भावाभावश्छान्दसः ।


ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षन्त॒मद्रि॑म् ।

दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥१५

ते । ग॒व्य॒ता । मन॑सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि॑ । सन्त॑म् । अद्रि॑म् ।

दृ॒ळ्हम् । नरः॑ । वच॑सा । दैव्ये॑न । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥१५

ते । गव्यता । मनसा । दृध्रम् । उब्धम् । गाः । येमानम् । परि । सन्तम् । अद्रिम् ।

दृळ्हम् । नरः । वचसा । दैव्येन । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥१५

“नरः कर्मणां नेतारः “उशिजः अग्निं कामयमानाः “ते अङ्गिरसः “गव्यता गा इच्छता “मनसा “रध्रं गवां निर्गमनद्वारनिरोधकम् “उब्धं समुब्धं संहतम् । यद्वा । उभिः पूरणार्थः । गोभिः पूर्णं “गा "येमानं नियच्छंन्तं “परि सर्वतः “सन्तम् वर्तमानं “दृळ्हं दृढं “गोमन्तं गोभिर्युक्तं “व्रजं गवां निवासस्थानम् “अद्रिं पर्वतं “दैव्येन अग्निविषयेण “वचसा वेदात्मकेन स्तोत्रेण “वि “वव्रुः गोनिर्गमनार्थमुद्घाटितवन्तः ॥ उब्धम् । उभ्नातिर्हन्तिना समानार्थः। यद्वा । ‘ उभ उम्भ पूरणे' । कर्मणि क्तः । येमानम् । यमेः कानचि एत्वाभ्यासलोपौ । चित्त्वादन्तोदात्तः । परि षन्तम् इत्यत्र संहितायाम् ‘ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम् ॥ ॥ १४ ॥


ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् ।

तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥१६

ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम॑ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि॑ । वि॒न्द॒न् ।

तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा॑ । गोः ॥१६

ते । मन्वत । प्रथमम् । नाम । धेनोः । त्रिः । सप्त । मातुः । परमाणि । विन्दन् ।

तत् । जानतीः । अभि । अनूषत । व्राः । आविः । भुवत् । अरुणीः । यशसा । गोः ॥१६

हे अग्ने “ते स्तोत्रं कुर्वाणा अङ्गिरसः “मातुः जनन्याः “धेनोः वाचः संबन्धि “नाम स्तुतिसाधकं शब्दमात्रं “प्रथमं पूर्वं “मन्वत अजानत । पश्चात्तस्या वाचः संबन्धीनि “त्रिः “सप्त एकविंशतिसंख्याकानि स्तुतिसाधनानि छन्दांसि । तानि च गायत्र्यादीनि जगत्यन्तानि सप्त । अतिजगत्यादीन्यतिधृत्यन्तानि सप्त । कृतिप्रभृतीन्युत्कृतिपर्यन्तानि सप्तेति । एवं त्रिः सप्त छन्दांसि “परमाणि उत्तमानि “विन्दन् अलभन्त । एवंविधच्छन्दोयुक्तैः मन्त्रैरग्निमस्तुवन्नित्यर्थः। “तत् ततः "जानतीः सर्वं जानानाः “व्राः । व्रा इत्युषोनाम । उषसः “अभ्यनूषत अस्तुवन् । ततः “गोः सूर्यस्य “यशसा तेजसा सह "अरुणीः अरुणवर्णोषाः “आविर्भुवत् आविरभूत् । यद्वा । तेऽङ्गिरसः प्रथमं पुरातनं नाम एहि सुरभि गुग्गुलुगन्धिनीति धेनोर्नामधेयं मन्वत उच्चारयामासुः । मातुर्भूम्याः स्वभूतानि पणिभिरपहृतानि त्रिः सप्त रत्नानि विन्दन् । तत उच्चरितं नाम जानन्यो गावोऽभ्यनूषत । हम्भारवलक्षणं शब्दमकुर्वन् । तदानीमुषाः प्रादुरभूदिति ॥ जानतीः । एकस्मिन् पक्षे वा छन्दसि ' इति पूर्वसवर्णदीर्घः । उभयत्र ‘शतुरनुमो नद्यजादी ' इति ङीप उदात्तत्वम् । अनूषत । णु स्तुतौ '। लुङि रूपम् । कुटादित्वादगुणः । अरुणीः । सोरलोपश्छान्दसः ‘गौरीर्मिमाय' (ऋ. सं. १. १६४. ४१) इतिवत् ॥


नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त ।

आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥१७

नेश॑त् । तमः॑ । दुधि॑तम् । रोच॑त । द्यौः । उत् । दे॒व्याः । उ॒षसः॑ । भा॒नुः । अ॒र्त॒ ।

आ । सूर्यः॑ । बृ॒ह॒तः । ति॒ष्ठ॒त् । अज्रा॑न् । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥१७

नेशत् । तमः । दुधितम् । रोचत । द्यौः । उत् । देव्याः । उषसः । भानुः । अर्त ।

आ । सूर्यः । बृहतः । तिष्ठत् । अज्रान् । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥१७

“तमः रात्रिकृतं ध्वान्तं “दुधितम् । दुधिः प्रेरणकर्मा । प्रातरग्निविहरणकाले उषसा प्रेरितं सत् “नेशत् अनश्यत । ततः “द्यौः अन्तरिक्षं “रोचत अदीप्यत । ततः "देव्याः देवनशीलायाः “उषसो “भानुः प्रभा "उत् "अर्त उद्गच्छति । अथ “सूर्यो "बृहतः महतः "अज्रान् अजरान् पर्वतान् गमनशीलान् रश्मीन् वा “आ “तिष्ठत् अध्यतिष्ठत् । किं कुर्वन् । “मर्तेषु मनुष्येषु विद्यमानम् "ऋजु सत्कर्म “वृजिना अनृजूनि असत्कर्माणि “च “पश्यन् अध्यतिष्ठदिति शेषः । नेशत् । ‘ णश अदर्शने । लङि ‘णशिमन्योरलिठ्येत्वं वक्तव्यम् ' ( पा. म. ६. ४. १२०. ५) इति एत्वम् । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । रोचत । “ रुच दीप्तौ । लङि रूपम् । वाक्यभेदादनिघातः ॥


आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयन्त॒ द्युभ॑क्तम् ।

विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥१८

आत् । इत् । प॒श्चा । बु॒बु॒धा॒नाः । वि । अ॒ख्य॒न् । आत् । इत् । रत्न॑म् । धा॒र॒य॒न्त॒ । द्युऽभ॑क्तम् ।

विश्वे॑ । विश्वा॑सु । दुर्या॑सु । दे॒वाः । मित्र॑ । धि॒ये । व॒रु॒ण॒ । स॒त्यम् । अ॒स्तु॒ ॥१८

आत् । इत् । पश्चा । बुबुधानाः । वि । अख्यन् । आत् । इत् । रत्नम् । धारयन्त । द्युऽभक्तम् ।

विश्वे । विश्वासु । दुर्यासु । देवाः । मित्र । धिये । वरुण । सत्यम् । अस्तु ॥१८

“आदित् सूर्योदयानन्तरं "बुबुधानाः पणिभिरपहृता निरोधान्निर्गता गा जानाना अङ्गिरसः “पश्चा पृष्ठदेशेषु “व्यख्यन् अशेषेण ता गा अपश्यन् । तथा “आदित् अनन्तरं “द्युभक्तं दीप्तियुक्तं देवैः संभक्तं वा "रत्नं पणिभिरपहृतं धनं च “धारयन्त अधारयन् । लब्धगोधनानामङ्गिरसां “विश्वासु दुर्यासु सर्वेषु गृहेषु “विश्वे यजनीयाः सर्वे “देवाः आजग्मुः । हे “मित्र मित्रभूत हे “वरुण उपद्रवाणां वारक हे अग्ने “धिये कर्मणां कर्त्रे स्तोत्रे वा यजमानाय "सत्यमस्तु । यदेतत्तवोपद्रववारणसामर्थ्यं तद्यथार्थभूतमस्तु ।। पश्चा । ‘पश्च पश्चा च छन्दसि ' इति निपातितः । बुबुधानाः । बुधेर्लिटि कानचि रूपम् । चित्त्वादन्तोदात्तः । द्युभक्तम् । ‘ भज सेवायाम्' । कर्मणि क्तः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः ॥


अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् ।

शुच्यूधो॑ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥१९

अच्छ॑ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता॑रम् । वि॒श्वऽभ॑रसम् । यजि॑ष्ठम् ।

शुचि॑ । ऊधः॑ । अ॒तृ॒ण॒त् । न । गवा॑म् । अन्धः॑ । न । पू॒तम् । परि॑ऽसिक्तम् । अं॒शोः ॥१९

अच्छ । वोचेय । शुशुचानम् । अग्निम् । होतारम् । विश्वऽभरसम् । यजिष्ठम् ।

शुचि । ऊधः । अतृणत् । न । गवाम् । अन्धः । न । पूतम् । परिऽसिक्तम् । अंशोः ॥१९

हे अग्ने “शुशुचानं भृशं दीप्यमानं “होतारं देवानामाह्वातारं "विश्वभरसम् आहुतिद्वारा वृष्टिप्रदानेन विश्वस्य पोषकं “यजिष्ठं यष्टृतमम् “अग्निं त्वाम् "अच्छ अभिलक्ष्य “वोचेय स्तवानि । “गवाम् “ऊधः “शुचि शुद्धं पयः “न “अतृणत् । तवाहुत्यर्थं यजमानो न दोग्धि । "अंशोः सोमलताखण्डस्य संबन्धि “अन्धः रसाख्यमन्नं “पूतं दशापवित्रेण शोधितं सत् "न परिषिक्तम् । गृहेषु न प्रक्षिप्तम्। किंत्वनेन यजमानेन केवलं स्तुतिरेव क्रियते" ॥ वोचेय । ब्रूञः आशीर्लिंङि ‘ब्रुवो वचिः'। लिङ्याशिष्यङ्'। ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् सीयुटः सलोपः । अतृणत् । ‘उतृदिर् हिंसानादरयोः । दोहनमेव ऊधोहिंसनम् । परिषिक्तम् । सिञ्चतेः कर्मणि क्तः । ‘उपसर्गात्सुनोति' इति संहितायां षत्वम् ।' गतिरनन्तरः' इति गतेः स्वरः ॥


विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।

अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥२०

विश्वे॑षाम् । अदि॑तिः । य॒ज्ञिया॑नाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् ।

अ॒ग्निः । दे॒वाना॑म् । अवः॑ । आ॒ऽवृ॒णा॒नः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । जा॒तऽवे॑दाः ॥२०

विश्वेषाम् । अदितिः । यज्ञियानाम् । विश्वेषाम् । अतिथिः । मानुषाणाम् ।

अग्निः । देवानाम् । अवः । आऽवृणानः । सुऽमृळीकः । भवतु । जातऽवेदाः ॥२०

अयमग्निः “विश्वेषां सर्वेषां “यज्ञियानां यज्ञार्हाणां देवानाम् “अदितिः। अदितिर्देवमाता । तद्वद्देवानां पोषक इत्यर्थः । यद्वा । विश्वेषां देवानामदितिर्भूस्थानीयः आधारभूत इति यावत् । इयं वा अग्निर्वैश्वानरः' (तै. ब्रा. ३.९.१७) इति श्रुतेः। तथायमग्निः “विश्वेषां “मानुषाणां मनुष्याणाम् "अतिथिः अतिथिवत् पूज्यो भवति । "देवानां देवनशीलानां स्तोतॄणाम् “अवः अन्नं हविः “आवृणानः संभजन् “जातवेदाः । जातं सर्वं वेत्तीति जातवेदाः । सः “अग्निः तेषां स्तोतॄणां “सुमृळीकः सुखकरः “भवतु ॥ अतिथिः । अत सातत्यगमने '।' ऋतन्यञ्जि°' इत्यादिना इथिन्प्रत्ययः । नित्त्वादाद्युदात्तः । मानुषाणाम् । मनोरपत्यानीत्यर्थे ‘मनोर्जातावञ्यतौ षुक्च' इति अञ्प्रत्ययः । ञित्त्वादाद्युदात्तः ॥॥ १५ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१&oldid=198212" इत्यस्माद् प्रतिप्राप्तम्