ऋग्वेदः सूक्तं ४.११

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.११ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.१० ऋग्वेदः - मण्डल ४
सूक्तं ४.११
वामदेवो गौतमः
सूक्तं ४.१२ →
दे. अग्निः। त्रिष्टुप्


भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य ।
रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् ॥१॥
वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः ।
विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥२॥
त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि ।
त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥३॥
त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः ।
त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा ॥४॥
त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम् ।
द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम् ॥५॥
आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि ।
दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥६॥


सायणभाष्यम्

द्वितीयेऽनुवाके एकादश सूक्तानि । तत्र ‘भद्रं ते' इति षडृचं प्रथमं सूक्तं वामदेवस्यार्षं त्रिष्टुप्छन्दस्कमग्निदेवताकम् । ‘ भद्रं षट् ' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते विनियुक्ते । तथा च सूत्रितं- ‘भद्रं ते अग्न इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति ।


भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।

रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ॥१

भ॒द्रम् । ते॒ । अ॒ग्ने॒ । स॒ह॒सि॒न् । अनी॑कम् । उ॒पा॒के । आ । रो॒च॒ते॒ । सूर्य॑स्य ।

रुश॑त् । दृ॒शे । द॒दृ॒शे॒ । न॒क्त॒ऽया । चि॒त् । अरू॑क्षितम् । दृ॒शे । आ । रू॒पे । अन्न॑म् ॥१

भद्रम् । ते । अग्ने । सहसिन् । अनीकम् । उपाके । आ । रोचते । सूर्यस्य ।

रुशत् । दृशे । ददृशे । नक्तऽया । चित् । अरूक्षितम् । दृशे । आ । रूपे । अन्नम् ॥१

हे “सहसिन् बलवन् “अग्ने “ते त्वदीयं "भद्रं भजनीयम् “अनीकं तेजः “सूर्यस्य “उपाके समीपभूते । दिवसे इत्यर्थः । “आ “रोचते समन्ताद्दीप्यते । “रुशत् रोचमानं “दृशे दर्शनीयं तेजः “नक्तया "चित् रात्रावपि “ददृशे दृश्यते । आ इत्ययं शब्दः चेत्यर्थे वर्तते । “आ किंच "अरूक्षितं स्निग्धं “दृशे दर्शनीयम् “अन्नं पुरोडाशादिरूपं हविः “रूपे रूपवति त्वयि ऋत्विगादिभिः हुतं भवति ॥


वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।

विश्वे॑भि॒र्यद्वा॒वन॑ः शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥२

वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप॑सा । तु॒वि॒ऽजा॒त॒ । स्तवा॑नः ।

विश्वे॑भिः । यत् । व॒वनः॑ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒ऽम॒हः॒ । भूरि॑ । मन्म॑ ॥२

वि । साहि । अग्ने । गृणते । मनीषाम् । खम् । वेपसा । तुविऽजात । स्तवानः ।

विश्वेभिः । यत् । ववनः । शुक्र । देवैः । तत् । नः । रास्व । सुऽमहः । भूरि । मन्म ॥२

हे "तुविजात मथनेन अरणिद्वारा यज्ञादिकर्मसु बहुजन्मन् "अग्ने "स्तवानः ऋत्विगादिभिः स्तूयमानस्त्वं "वेपसा यज्ञादिकर्मणा । वेप इति कर्मनाम 'वेषः वेपः विष्ट्वी ' ( नि. २. १. ५) इति कर्मनामसु पाठात् । "मनीषां स्तुतिं "गृणते कुर्वते यजमानाय “खं यजमानप्राप्यस्य पुण्यलोकस्य द्वारं "वि "षाहि विष्य । विमुञ्चेत्यर्थः ॥ ‘षोऽन्तकर्मणि' इत्यस्माद्धातोर्लोण्मध्यमपुरुषैकवचनं सिप् । ‘दिवादिभ्यः श्यन्'। तस्य ‘ बहुलं छन्दसि' इति लुक् । ‘ आदेच उपदेशेऽशिति' इत्यात्वम् । सेर्हिरादेशः।' तिङ्ङतिङः' इति निघातः ॥ हे "शुक्र दीप्यमानाग्ने त्वं "विश्वेभिः विश्वैः सर्वैः ॥ ‘ बहुलं छन्दसि ' इति भिस ऐसभावः ॥ "देवैः इन्द्रादिभिः सह "यत् पश्वादिधनं “ववनः यजमानेभ्यः प्रयच्छेः ॥ वनतेर्लेट् । तस्य सिपः ‘इतश्च लोपः” इति इकारलोपः । ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘ श्लौ ' इति द्विर्वचनम् । हलादिशेषः। 'लेटोऽडाटौ ' इत्यडागमः । ‘ यद्वृत्तान्नित्यम्' इति निघाताभावः ॥ हे "सुमहः शोभनतेजस्काग्ने “भूरि प्रभूतं "मन्म मननीयं “तत् धनं "नः अस्मभ्यं "रास्व देहि ।।


महापितृयज्ञे स्विष्टकृदग्निः कव्यवाहनो यष्टव्यः । तस्य द्वे अनुवाक्ये । तत्र ‘ त्वदग्ने काव्या' इति द्वितीयानुवाक्या । तथा च सूत्रितं - त्वदग्ने काव्या त्वन्मनीषाः स प्रत्नथा सहसा जायमानः ' (आश्व. श्रौ. २. १९ ) इति ॥

त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यन्ते॒ राध्या॑नि ।

त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥३

त्वत् । अ॒ग्ने॒ । काव्या॑ । त्वम् । म॒नी॒षाः । त्वत् । उ॒क्था । जा॒य॒न्ते॒ । राध्या॑नि ।

त्वत् । ए॒ति॒ । द्रवि॑णम् । वी॒रऽपे॑शाः । इ॒त्थाऽधि॑ये । दा॒शुषे॑ । मर्त्या॑य ॥३

त्वत् । अग्ने । काव्या । त्वम् । मनीषाः । त्वत् । उक्था । जायन्ते । राध्यानि ।

त्वत् । एति । द्रविणम् । वीरऽपेशाः । इत्थाऽधिये । दाशुषे । मर्त्याय ॥३

हे अग्ने "काव्या काव्यानि हविर्वहनदेवतानयनादीन्यग्निसंबन्धीनि कर्माणि आध्वर्यवाणि कर्माणि वा “त्वत् त्वत्तः "जायन्ते उत्पद्यन्ते । "मनीषाः स्तुतिरूपा वाचः “त्वत् एव जायन्ते । "राध्यानि राद्धुं योग्यानि "उक्था उक्थानि शस्त्राणि “त्वत् त्वत्तो जायन्ते । "इत्थाधिये। धीरिति कर्मनाम । इत्थेति सत्यनामसु पाठात् सत्यकर्मणे "दाशुषे हवींषि दत्तवते “मर्त्याय मनुष्याय यजमानाय “वीरपेशाः । पेश इति रूपनाम । इदं विक्रान्तरूपम् । अत्र लिङ्गव्यत्ययेन वीरपेशा इति रूपम् । “द्रविणं पश्वादिधनं “त्वत् त्वत्तः “एति निर्गच्छति । उत्पद्यत इत्यर्थः ॥


त्वद्वा॒जी वा॑जम्भ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः ।

त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥४

त्वत् । वा॒जी । वा॒ज॒म्ऽभ॒रः । विऽहा॑याः । अ॒भि॒ष्टि॒ऽकृत् । जा॒य॒ते॒ । स॒त्यऽशु॑ष्मः ।

त्वत् । र॒यिः । दे॒वऽजू॑तः । म॒यः॒ऽभुः । त्वत् । आ॒शुः । जू॒जु॒ऽवान् । अ॒ग्ने॒ । अर्वा॑ ॥४

त्वत् । वाजी । वाजम्ऽभरः । विऽहायाः । अभिष्टिऽकृत् । जायते । सत्यऽशुष्मः ।

त्वत् । रयिः । देवऽजूतः । मयःऽभुः । त्वत् । आशुः । जूजुऽवान् । अग्ने । अर्वा ॥४

हे "अग्ने “वाजी बलवान् "वाजंभरः हविर्लक्षणान्नस्य वाहकः । अग्नेर्वाजंभर इत्येषा वैदिकी संज्ञा ॥ ‘ संज्ञायां भृतॄवृजि ' इति वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः । ‘ अरुर्विस षदजन्तस्य ' इति मुमागमः । ‘ चितः' इत्यन्तोदात्तत्वम् ॥ “विहायाः महान् "अभिष्टिकृत् यज्ञकृत् अभ्येषणकृत् वा । “सत्यशुष्मः सत्यबलः पुत्रः “त्वत् त्वत्तः "जायते उत्पद्यते । "देवजूतः देवैः प्रेरितः "मयोभुः सुखप्रदः । मय इति सुखनामैतत् । "रयिः धनं "त्वत् जायते । "आशुः शीघ्रगामी । अप्रतिहतगमन इत्यर्थः । 'जूजुवान् वेगेन गच्छन् "अर्वा अश्वः “त्वत् भवतो जायते ।।


त्वाम॑ग्ने प्रथ॒मं दे॑व॒यन्तो॑ दे॒वं मर्ता॑ अमृत म॒न्द्रजि॑ह्वम् ।

द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रम् ॥५

त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । दे॒वम् । मर्ता॑ः । अ॒मृ॒त॒ । म॒न्द्रऽजि॑ह्वम् ।

द्वे॒षः॒ऽयुत॑म् । आ । वि॒वा॒स॒न्ति॒ । धी॒भिः । दमू॑नसम् । गृ॒हऽप॑तिम् । अमू॑रम् ॥५

त्वाम् । अग्ने । प्रथमम् । देवऽयन्तः । देवम् । मर्ता । अमृत । मन्द्रऽजिह्वम् ।

द्वेषःऽयुतम् । आ । विवासन्ति । धीभिः । दमूनसम् । गृहऽपतिम् । अमूरम् ॥५

हे "अमृत अमरणशील "अग्ने "देवयन्तः देवानिच्छन्तः "मर्ताः मर्त्याः मनुष्या यजमानाः “त्वां “धीभिः स्तुतिभिः कर्मभिर्वा “आ “विवासन्ति समन्तात् परिचरन्ति । कीदृशं त्वाम् । "प्रथम देवानाम् आद्यं "देवं द्योतमानं 'मन्द्रजिह्वम् । देवानां मादयित्री जिह्वा यस्य तम्। “द्वेषोयुतं द्वेषसां पापानां पृथक्कर्तारं "दमूनसं रक्षसां दमनकरेण मनसोपेतम् । दमूनःशब्दस्य कथमयमर्थं इति दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यात् ' ( निरु. ४. ४ ) इति यास्केनोक्तत्वात् इति ॥ ‘ दमु उपशमे । दमेरूनसिः' इत्यौणादिक ऊनसिप्रत्ययः ॥ “गृहपतिं गृहाणां पालयितारम् "अमूरम् अमूढम् । प्रगल्भमित्यर्थः ॥


स्वस्त्ययन्याम् ‘आरे अस्मत्' इति स्वस्तिमतोऽग्नेर्याज्या । सूत्रितं च - आरे अस्मदमतिमारे अंहः ' ( आश्व. श्रौ. २. १०) इति ॥

आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ ।

दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥६

आ॒रे । अ॒स्मत् । अम॑तिम् । आ॒रे । अंहः॑ । आ॒रे । विश्वा॑म् । दुः॒ऽम॒तिम् । यत् । नि॒ऽपासि॑ ।

दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच॑से । स्व॒स्ति ॥६

आरे । अस्मत् । अमतिम् । आरे । अंहः । आरे । विश्वाम् । दुःऽमतिम् । यत् । निऽपासि ।

दोषा । शिवः । सहसः । सूनो इति । अग्ने । यम् । देवः । आ । चित् । सचसे । स्वस्ति ॥६

हे "सहसः "सूनो बलस्य पुत्र। मथ्यमानोऽग्निर्मथनकारिणां हि बलेन जायते इत्यग्नेर्बलपुत्रत्वम् । हे "अग्ने "दोषा रात्रौ "शिवः शिवकरः “देवः द्योतमानस्त्वं "यं यानस्मान् "स्वस्ति अविनाशाय “आ “सचसे परितः सेवसे । “चित् इति पूरणः । "यत् यस्मात् कारणात् "निपासि यजमानान् नितरां पालयसि । तेभ्यः "अस्मत् अस्मत्तः "अमतिं पापरूपामशनेच्छाम् "आरे दूरे कुरु ।' अशनाया वै पाप्मामतिः ' (ऐ. ब्रा. २. २ ) इति ब्राह्मणम् । "आरे दूरेऽस्मत्तः "अंहः पापं कुरु । आरे इति दूरनामैतत् । अस्मत्तः "आरे दूरे "विश्वां सर्वां "दुर्मतिं दुर्मनस्त्वं कुरु ॥ ॥ ११ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.११&oldid=270091" इत्यस्माद् प्रतिप्राप्तम्