ऋग्वेदः सूक्तं ४.२८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.२८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.२७ ऋग्वेदः - मण्डल ४
सूक्तं ४.२८
वामदेवो गौतमः ।
सूक्तं ४.२९ →
दे. इन्द्रः, इन्द्रासोमौ वा।। त्रिष्टुप्


त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः ।
अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥१॥
त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो ।
अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि ॥२॥
अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यंदिनादभीके ।
दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥३॥
विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः ।
अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः ॥४॥
एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः ।
आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना ॥५॥


सायणभाष्यम्

‘ त्वा युजा ' इति पञ्चर्चं सप्तमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् इन्द्रासोमदेवताकम् । अनुक्रान्तं च'-' त्वा युजैन्द्रासोमम्' इति । विनियोगो लैङ्गिकः ॥


त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इंद्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।

अह॒न्नहि॒मरि॑णात्स॒प्त सिंधू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥१

त्वा । यु॒जा । तव॑ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः॑ । अ॒पः । मन॑वे । स॒ऽस्रुतः॑ । क॒रिति॑ कः ।

अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । अप॑ । अ॒वृ॒णो॒त् । अपि॑हिताऽइव । खानि॑ ॥१

त्वा । युजा । तव । तत् । सोम । सख्ये । इन्द्रः । अपः । मनवे । सऽस्रुतः । करिति कः ।

अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । अप । अवृणोत् । अपिहिताऽइव । खानि ॥१

हे “सोम “तव स्वदीये “तत् तस्मिन् “सख्ये सखित्वे सति “त्वा त्वया “युजा सहायेन “इन्द्रः “सस्रुतः सरणशीलाः “अपः वृष्टिलक्षणान्युदकानि “मनवे मनुष्येभ्यः “कः अकरोत् । किंच “अहिं वृत्रमसुरम् "अहन् हतवान् । “सप्त सर्पणशीलाः “सिन्धून् अपः “अरिणात् प्रैरयत् । “अपिहितेव अपिहितानीव वृत्रेण तिरोहितानि च । अत्रेवशब्दश्चार्थे । “खानि स्रोतसां द्वाराणि “अपावृणोत उद्घाटितवान् ॥


त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येंद्र॑श्च॒क्रं सह॑सा स॒द्य इं॑दो ।

अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥२

त्वा । यु॒जा । नि । खि॒द॒त् । सूर्य॑स्य । इन्द्रः॑ । च॒क्रम् । सह॑सा । स॒द्यः । इ॒न्दो॒ इति॑ ।

अधि॑ । स्नुना॑ । बृ॒ह॒ता । वर्त॑मानम् । म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ ॥२

त्वा । युजा । नि । खिदत् । सूर्यस्य । इन्द्रः । चक्रम् । सहसा । सद्यः । इन्दो इति ।

अधि । स्नुना । बृहता । वर्तमानम् । महः । द्रुहः । अप । विश्वऽआयु । धायि ॥२

हे “इन्दो सोम “इन्द्रः “सद्यः सपदि “त्वा त्वया “युजा सहायेन “सूर्यस्य प्रेरकस्य सवितुः संवन्धिनः पूर्वं द्विचक्रस्य रथस्यैकं “चक्रं “सहसा अभिभावुकेन बलेन “नि “खिदत् आच्छिनत् । कीदृशम्। “अधि उपरि “स्नुना स्थितेन "बृहता महता अन्तरिक्षेण “वर्तमानम्। किंच “मह: महतः प्रभूतस्य “द्रुहः द्रोग्धुः सूर्यस्य संबन्धि “विश्वायु सर्वतो गन्तृ चक्रम् "अप “धायि इन्द्रेणापाहारि ।


अह॒न्निंद्रो॒ अद॑हद॒ग्निरिं॑दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ ।

दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥३

अह॑न् । इन्द्रः॑ । अद॑हत् । अ॒ग्निः । इ॒न्दो॒ इति॑ । पु॒रा । दस्यू॑न् । म॒ध्यन्दि॑नात् । अ॒भीके॑ ।

दुः॒ऽगे । दु॒रो॒णे । क्रत्वा॑ । न । या॒ताम् । पु॒रु । स॒हस्रा॑ । शर्वा॑ । नि । ब॒र्ही॒त् ॥३

अहन् । इन्द्रः । अदहत् । अग्निः । इन्दो इति । पुरा । दस्यून् । मध्यन्दिनात् । अभीके ।

दुःऽगे । दुरोणे । क्रत्वा । न । याताम् । पुरु । सहस्रा । शर्वा । नि । बर्हीत् ॥३

हे “इन्दो सोम “अभीके संग्रामे “दस्यून् शत्रून् "इन्द्रः “अहन् अवधीत् । “अग्निः कांश्चिच्छत्रून् “अदहत् ददाह। कीदृशाविन्द्राग्नी। “मध्यंदिनात् मध्याह्नात् “पुरा पुरस्तात् पूर्वाह्णे तव पानात् लब्धबलाविति' शेषः। “यातां गच्छतामसुराणां “पुरु पुरूणि बहूनि सर्वा सर्वाणि निरवशेषाणि “सहस्रा सहस्राण्यपरिमितानि “नि “बर्हीत् न्यबर्हीत् । इन्द्रोऽवधीत् । तत्र दृष्टान्तः । “दुरोणे दुरवने रक्षितुमशक्ये "दुर्गे दुरवगाहे देशे “क्रत्वा “न कर्मणा स्वकीयं कार्यमुद्दिश्य गच्छतः पथिकान् यथा धनलोलुपश्चोरो हन्ति तद्वत् ॥


विश्व॑स्मात्सीमध॒माँ इं॑द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।

अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नविं॑देथा॒मप॑चितिं॒ वध॑त्रैः ॥४

विश्व॑स्मात् । सी॒म् । अ॒ध॒मान् । इ॒न्द्र॒ । दस्यू॑न् । विशः॑ । दासीः॑ । अ॒कृ॒णोः॒ । अ॒प्र॒ऽश॒स्ताः ।

अबा॑धेथाम् । अमृ॑णतम् । नि । शत्रू॑न् । अवि॑न्देथाम् । अप॑ऽचितिम् । वध॑त्रैः ॥४

विश्वस्मात् । सीम् । अधमान् । इन्द्र । दस्यून् । विशः । दासीः । अकृणोः । अप्रऽशस्ताः ।

अबाधेथाम् । अमृणतम् । नि । शत्रून् । अविन्देथाम् । अपऽचितिम् । वधत्रैः ॥४

हे “इन्द्र त्वं “सीम् एनान् “दस्यून् “विश्वस्मात् सर्वस्मात् गुणात् "अधमान् हीनान् “अकृणोः अकरोः । किंच “दासीः कर्महीनाः “विशः मानुषीः प्रजाः "अप्रशस्ताः गर्हिता अकृणोः । हे इन्द्रासोमौ युवां “शत्रून् "अबाधेथाम् । “नि "अमृणतं नितरां हिंसितवन्तौ । अपि च "वधत्रैः तेषां शत्रूणां प्रहारैः "अपचितिं पूजां जनेभ्यः "अविन्देथाम् अलभेथाम् ॥


ए॒वा स॒त्यं म॑घवाना यु॒वं तदिंद्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।

आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥५

ए॒व । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वम् । तत् । इन्द्रः॑ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य॑म् । गोः ।

आ । अ॒द॒र्दृ॒त॒म् । अपि॑ऽहितानि । अश्ना॑ । रि॒रि॒चथुः॑ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥५

एव । सत्यम् । मघऽवाना । युवम् । तत् । इन्द्रः । च । सोम । ऊर्वम् । अश्व्यम् । गोः ।

आ । अदर्दृतम् । अपिऽहितानि । अश्ना । रिरिचथुः । क्षाः । चित् । ततृदाना ॥५

हे "सोम त्वं च “इन्द्रश्च इति युवामुभौ “ऊर्वं महान्तम् “अश्व्यम् अश्वसमूहं “गोः गवां समूहं च “आदर्दृतम् आदरयतम् । “अपिहितानि पणिभिराच्छादितानि गवां वृन्दानि “क्षाश्चित् पणीनां


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२८&oldid=184922" इत्यस्माद् पुनः प्राप्तिः