ऋग्वेदः सूक्तं ४.१०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.१० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.९ ऋग्वेदः - मण्डल ४
सूक्तं ४.१०
वामदेवो गौतमः
सूक्तं ४.११ →
दे. अग्निः। पदपङ्क्तिः, ४,६,७ उष्णिग्वा, ५ महापङ्क्तिः, ८ उष्णिक्


अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा त ओहैः ॥१॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥२॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥३॥
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
प्र ते दिवो न स्तनयन्ति शुष्माः ॥४॥
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
श्रिये रुक्मो न रोचत उपाके ॥५॥
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः ॥६॥
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
इत्था यजमानादृतावः ॥७॥
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥


सायणभाष्यम्

‘ अग्ने तमद्य' इत्यष्टर्चं दशमं सूक्तं वामदेवस्यार्षम् आग्नेयम् । तथा चानुक्रमणिका - अग्ने तमद्य पदपाङ्क्तं पञ्चमी महापदपङ्क्तिरन्त्योष्णिक् चतुर्थी षष्ठ्युपान्त्या वा सप्तम्याः पञ्चकौ मुख्यौ तृतीयः सप्तको नवकश्चाष्टम्याः पञ्चकः पादश्चतुष्कः सप्तकस्त्रैष्टुभश्च ' इति । इदं कृत्स्नमपि सूक्तं पदपङ्क्तिच्छन्दस्कं ' पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः' इत्युक्तलक्षणोपेतत्वात्। पञ्चमी ' तव स्वादिष्ठा' इत्येषा महापदपङ्क्तिः ‘पञ्च पञ्चकाः षट्कश्चैकः ' इति लक्षणसद्भावात् । अन्त्या शिवा नः सख्या ' इत्येषोष्णिक्छन्दस्का । चतुर्थीषष्ठीसप्तम्यः ‘ आभीष्टे अद्य', ' घृतं न पूतं ', ' कृतं चिद्धि ष्मा ' इत्येतास्तिस्र उष्णिहः पदपङ्क्तयो वा । अत्र सप्तम्यष्टम्योः पदपङ्क्त्युष्णिहोः परिभाषोक्तपादविच्छेदापवादाय प्रकारान्तरेण विच्छेदः कृतः । दशमेऽहनि इदं सूक्तमाज्यशस्त्रम् । सूत्रितं च- ‘ अग्ने तमद्याश्वं न स्तोमैरित्याज्यम्' (आश्व. श्रौ. ८. १२) इति । पिण्डपितृयज्ञे ' अग्ने तमद्य' इत्यनयाग्निं प्रत्यागच्छेत् । सूत्रितं च - ‘अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैः ' ( आश्व. श्रौ. २. ७ ) इति । पौनराधेयिक्यां स्विष्टकृत्येषैव याज्या । सूत्रितं च - ‘ अग्ने तमद्याश्वं न स्तोमैरिति संयाज्ये ' ( आश्व. श्रौ. २. ८) इति ।।


अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒ः क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् ।

ऋ॒ध्यामा॑ त॒ ओहै॑ः ॥१

अग्ने॑ । तम् । अ॒द्य । अश्व॑म् । न । स्तोमैः॑ । क्रतु॑म् । न । भ॒द्रम् । हृ॒दि॒ऽस्पृश॑म् ।

ऋ॒ध्याम॑ । ते॒ । ओहैः॑ ॥१

अग्ने । तम् । अद्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिऽस्पृशम् ।

ऋध्याम । ते । ओहैः ॥१

हे “अग्ने “अद्य अस्मिन्नहनि वयमृत्विगादयः "ओहैः इन्द्रादिप्रापकैः “स्तोमैः स्तोत्रसमूहैः “तं प्रसिद्धं “ते त्वाम् “ऋध्याम समर्धयामः । कीदृशं त्वाम् । “अश्वं “न वोढारमश्वमिव तथा हविषो वाहकं “क्रतुं “न कर्तारमिव । उपकर्तारमित्यर्थः । तथा “भद्रं भजनीयं “हृदिस्पृशं हृदयंगमम् । अतिशयेन प्रियमित्यर्थः ॥


पौनराधेयक्यामिष्टौ प्रधानस्य ' अधा ह्यग्ने' इत्येषानुवाक्या । ‘ एभिर्नो अर्कैः' इति तस्यां स्विष्टकृतोऽनुवाक्या । ' आभिष्टे अद्य ' इति प्रधानस्य याज्या । सूत्रितं च - अधा ह्यग्ने क्रतोर्भद्रस्याभिष्टे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैः' ( आश्व. श्रौ. २. ८ ) इति ॥

अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।

र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥२

अध॑ । हि । अ॒ग्ने॒ । क्रतोः॑ । भ॒द्रस्य॑ । दक्ष॑स्य । सा॒धोः ।

र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । ब॒भूथ॑ ॥२

अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः ।

रथीः । ऋतस्य । बृहतः । बभूथ ॥२

“अधा “हि इदानीमेव हे “अग्ने त्वं “क्रतोः अस्मदीयस्य यागस्य “रथीः नेता “बभूथ भवसि ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति भवतेर्वर्तमानेऽर्थे लिटि सिपस्थल्। ‘ आर्धधातुकस्येड्वलादेः ' इतीडागमे प्राप्ते ' बभूथाततन्थ° ' इति निपातनादिडभावः ॥ कीदृशस्य यागस्य । “भद्रस्य भजनीयस्य “दक्षस्य प्रवृद्धस्य “साधोः अभीष्टफलानां साधकस्य “ऋतस्य सत्यभूतस्य “बृहतः महतः ॥


ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योति॑ः ।

अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥३

ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । न । ज्योतिः॑ ।

अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥३

एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः ।

अग्ने । विश्वेभिः । सुऽमनाः । अनीकैः ॥३

हे “अग्ने “ज्योतिः ज्योतिष्मान् “स्वर्ण सूर्य इव तथा “विश्वेभिः विश्वैः समस्तैः “अनीकैः तेजोभिः “सुमनाः शोभनमनस्कस्त्वं “नः अस्मदीयैः “एभिः एतैः '“अर्कैः अर्चनीयैः स्तोत्रैः "नः अस्माकम् “अर्वाङ् अभिमुखः “भव ॥


आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म ।

प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्मा॑ः ॥४

आ॒भिः । ते॒ । अ॒द्य । गीः॒ऽभिः । गृ॒णन्तः॑ । अग्ने॑ । दाशे॑म ।

प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः॑ ॥४

आभिः । ते । अद्य । गीःऽभिः । गृणन्तः । अग्ने । दाशेम ।

प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः ॥४

“अद्य अस्मिन् दिवसे हे “अग्ने “आभिः गीर्भिः स्तुतिरूपाभिर्वाग्भिः “गृणन्तः त्वां स्तुवन्तो वयमृत्विगादयः “ते तुभ्यं “दाशेम हवींषि दद्याम'। “दिवो “न सूर्यस्य रश्मय इव “ते त्वदीयाः “शुष्माः शोधका ज्वालाः “प्र “स्तनयन्ति प्रकर्षेण शब्दायन्ते । यद्वा । दिवो न मेघा इव त्वदीया ज्वालाः शब्दायन्ते ॥


तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।

श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥५

तव॑ । स्वादि॑ष्ठा । अग्ने॑ । सम्ऽदृ॑ष्टिः । इ॒दा । चि॒त् । अह्नः॑ । इ॒दा । चि॒त् । अ॒क्तोः ।

श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥५

तव । स्वादिष्ठा । अग्ने । सम्ऽदृष्टिः । इदा । चित् । अह्नः । इदा । चित् । अक्तोः ।

श्रिये । रुक्मः । न । रोचते । उपाके ॥५

हे “अग्ने “स्वादिष्ठा स्वादुतमा प्रियतमा “तव त्वदीया “संदृष्टिः दीप्तिः “अह्नः “इदा “चित् दिवसस्येदानीं च "अक्तोः “इदा “चित् । अक्तुरिति रात्रिनाम ‘शर्वरी अक्तुः ऊर्म्या '(नि. १.७.४) इति रात्रिनामसु पाठात् । रात्रेरिदानीं च । अहोरात्र इत्यर्थः ॥ ‘ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ' इत्यस्माद्धातोः ‘ किञ्च' इत्यौणादिकसूत्रेण तुप्रत्ययः तस्य किद्वद्भावश्च । तितुत्र' इतीट्प्रतिषेधः । ‘ अनिदिताम् । इत्युपधानकारलोपः । ‘ चोः कुः' इति कुत्वम् ॥ “रुक्मो “न अलंकार इव “श्रिये पदार्थमाश्रयितुम् “उपाके अन्तिके। उपाक इत्यन्तिकनाम ‘आके उपाके' (नि. २. १६. ७) इति तन्नामसु पाठात् । “रोचते राजते ॥


घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् ।

तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥६

घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् ।

तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥६

घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् ।

तत् । ते । रुक्मः । न । रोचत । स्वधाऽवः ॥६

हे “स्वधावः । स्वधाशब्दोऽन्नवाची । अन्नवन्नग्ने “पूतं शोधितं “घृतं “न आज्यमिव “तनूः त्वदीया मूर्तिः "अरेपाः पापरहिता भवति । “शुचि शुद्धं “हिरण्यं हितरमणीयं “ते त्वदीयं “तत् प्रसिद्धं तेजः “रुक्मो “न भूषणमिव “रोचत रोचते भासते ॥


कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।

इ॒त्था यज॑मानादृतावः ॥७

कृ॒तम् । चि॒त् । हि । स्म॒ । सने॑मि । द्वेषः॑ । अग्ने॑ । इ॒नोषि॑ । मर्ता॑त् ।

इ॒त्था । यज॑मानात् । ऋ॒त॒ऽवः॒ ॥७

कृतम् । चित् । हि । स्म । सनेमि । द्वेषः । अग्ने । इनोषि । मर्तात् ।

इत्था । यजमानात् । ऋतऽवः ॥७

हे “ऋतावः सत्यवन् “अग्ने “कृतं "चित् यजमानेन कृतमपि “सनेमि चिरंतनम् । सनेमीति पुराणनाम ‘ सनेमि पूर्व्यम् ' (नि. ३. २७. ४ ) इति पुराणनामसु पाठात् । "द्वेषः पापं “मर्तात् मनुष्यात् यजमानात् “इत्था सत्यम् । इत्थेति सत्यनामैतत् ' अद्धा इत्था ' ( नि. ३. १०. ५) इति तन्नामसु पाठात् । “इनोषि “हि "स्म प्रेरयस्येव खलु । नाशयसीत्यर्थः ॥


शि॒वा न॑ः स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे ।

सा नो॒ नाभि॒ः सद॑ने॒ सस्मि॒न्नूध॑न् ॥८

शि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ ।

सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑न् ॥८

शिवा । नः । सख्या । सन्तु । भ्रात्रा । अग्ने । देवेषु । युष्मे इति ।

सा । नः । नाभिः । सदने । सस्मिन् । ऊधन् ॥८

हे “अग्ने "नः अस्मदीयानि “सख्या सख्यानि सखित्वानि "भ्रात्रा भ्रात्राणि भ्रातृसंबन्धीनि कर्माणि "देवेषु द्योतमानेषु "युष्मे युष्मासु ॥ ‘सुपां सुलुक्' इति सप्तमीबहुवचनस्य शेआदेशः ॥ “शिवा शिवानि “सन्तु मङ्गलानि भवन्तु । “सा सखित्वभ्रातृकर्मसंततिः “सदने देवानां स्थाने “सस्मिन्नूधन् सर्वस्मिन् यज्ञे "नः अस्माकं "नाभिः बन्धनं भवति ॥ ॥ १० ॥ ॥ १ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=198431" इत्यस्माद् पुनः प्राप्तिः