ऋग्वेदः सूक्तं ४.३४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.३४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.३३ ऋग्वेदः - मण्डल ४
सूक्तं ४.३४
वामदेवो गौतमः
सूक्तं ४.३५ →
दे. ऋभवः। त्रिष्टुप्


ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात ।
इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥१॥
विदानासो जन्मनो वाजरत्ना उत ऋतुभिरृभवो मादयध्वम् ।
सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम् ॥२॥
अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे ।
प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥३॥
अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय ।
पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय ॥४॥
आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।
आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥५॥
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।
सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥६॥
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।
अग्रेपाभिरृतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥७॥
सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः ।
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥८॥
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुरृभवो ये अश्वा ।
ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥९॥
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम् ।
ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥१०॥
नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् ।
समिन्द्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥११॥


सायणभाष्यम्

‘ऋभुर्विभ्वा' इत्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । “ ऋभुर्विभ्वा' इत्यनुक्रमणिका । व्यूढे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयमिदम् । 'ऋभुर्विभ्वा स्तुषे जनम् ' ( आश्व. श्रौ. ८. ८) इति सूत्रितत्वात् ॥


ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।

इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥१

ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । इन्द्रः॑ । नः॒ । अच्छ॑ । इ॒मम् । य॒ज्ञम् । र॒त्न॒ऽधेया॑ । उप॑ । या॒त॒ ।

इ॒दा । हि । वः॒ । धि॒षणा॑ । दे॒वी । अह्ना॑म् । अधा॑त् । पी॒तिम् । सम् । मदाः॑ । अ॒ग्म॒त॒ । वः॒ ॥१

ऋभुः । विऽभ्वा । वाजः । इन्द्रः । नः । अच्छ । इमम् । यज्ञम् । रत्नऽधेया । उप । यात ।

इदा । हि । वः । धिषणा । देवी । अह्नाम् । अधात् । पीतिम् । सम् । मदाः । अग्मत । वः ॥१

“ऋभुर्विभ्वा “वाज “इन्द्रः चैते देवाः “नः अस्मदीयम् “इमं “यज्ञम् "अच्छ अभिमुखं “रत्नधेया अस्मभ्यं रत्नधानाय “उप "यात उपगच्छत । ननु इन्द्रः सोमस्वामित्वात् आगच्छतु कथमेतेषां यज्ञप्राप्तिरिति चेत् । उच्यते । “इदा “हि इदानीं खलु “वः युष्माकं “धिषणा वाक् “देवी प्रजापतेः संबन्धिनी “अह्नां सोमाभिषवसंबन्धिनां “पीतिं सोमपानम् अधात् । ‘स प्रजापतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः संपिबस्व ' (ऐ. ब्रा.३.३०) इति ब्राह्मणम् । यस्मादेवं तस्मात् “मदाः च "वः युष्मान् “सम् “अग्मत संगताः । यद्वा । वो मदा देवैः संगताः ॥


वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑रृभवो मादयध्वम् ।

सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥२

वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् ।

सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥२

विदानासः । जन्मनः । वाजऽरत्नाः । उत । ऋतुऽभिः । ऋभवः । मादयध्वम् ।

सम् । वः । मदाः । अग्मत । सम् । पुरम्ऽधिः । सुऽवीराम् । अस्मे इति । रयिम् । आ । ईरयध्वम् ॥२

हे "वाजरत्नाः सोमलक्षणेनान्नेन राजमानाः “ऋभवः यूयं “जन्मनः जननस्य देवत्वलक्षणस्य देवत्वप्राप्तिं “विदानासः जानन्तः । यद्वा विदानासः सोमप्राप्तिं जानन्तो जन्मनः पूर्वं मनुष्यजन्मवन्तश्च सन्तः । उतशब्दश्चार्थे । “ऋतुभिः देवैः सह "मादयध्वम् । “वः युष्मान् “मदाः सोमपानजनिताः “सम् “अग्मत संगताः । “पुरंधिः स्तुतिरपि “सम् अग्मत । ते यूयम् “अस्मे अस्माकं “सुवीरां शोभनैर्वीरैः पुत्रैः उपेतां “रयिं धनम् “एरयध्वं प्रेरयत ॥


अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे ।

प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥३

अ॒यम् । वः॒ । य॒ज्ञः । ऋ॒भ॒वः॒ । अ॒का॒रि॒ । यम् । आ । म॒नु॒ष्वत् । प्र॒ऽदिवः॑ । द॒धि॒ध्वे ।

प्र । वः॒ । अच्छ॑ । जु॒जु॒षा॒णासः॑ । अ॒स्थुः॒ । अभू॑त । विश्वे॑ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥३

अयम् । वः । यज्ञः । ऋभवः । अकारि । यम् । आ । मनुष्वत् । प्रऽदिवः । दधिध्वे ।

प्र । वः । अच्छ । जुजुषाणासः । अस्थुः । अभूत । विश्वे । अग्रिया । उत । वाजाः ॥३

हे “ऋभवः “वः युष्मदर्थम् “अयं “यज्ञः “अकारि । “यं यज्ञं “मनुष्वत् मनुष्यवत् “प्रदिवः प्रकर्षेण द्योतमानाः सन्तः “आ “दधिध्वे धारयत जठरे । तदर्थं “वः युष्मान् “अच्छ आभिमुख्येन “जुजुषाणासः सेवमानाः सोमाः “प्र “अस्थुः प्रतिष्ठन्ते । “उत अपि च धारयित्वा च हे “वाजाः ऋभवः “विश्वे यूयम् “अग्रिया अग्रार्हा अग्रत्वसंपादिनो वा “अभूत भवथ॥


अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य ।

पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥४

अभू॑त् । ऊं॒ इति॑ । वः॒ । वि॒ध॒ते । र॒त्न॒ऽधेय॑म् । इ॒दा । न॒रः॒ । दा॒शुषे॑ । मर्त्या॑य ।

पिब॑त । वा॒जाः॒ । ऋ॒भ॒वः॒ । द॒दे । वः॒ । महि॑ । तृ॒तीय॑म् । सव॑नम् । मदा॑य ॥४

अभूत् । ऊं इति । वः । विधते । रत्नऽधेयम् । इदा । नरः । दाशुषे । मर्त्याय ।

पिबत । वाजाः । ऋभवः । ददे । वः । महि । तृतीयम् । सवनम् । मदाय ॥४

हे “नरः नेतार ऋभवः “वः युष्माकमनुग्रहात् “इदा इदानीं तृतीये सवने “रत्नधेयं दातव्यं रत्नं “विधते । विधतिः परिचरणकर्मा । स्तुत्या परिचरते "दाशुषे हविर्दत्तवते “मर्त्याय यजमानाय मह्यम् “अभूत् भवतु । तदर्थं हे "वाजाः “ऋभवः। एतदद्वयं विभ्वनामकस्याप्युपलक्षणम् । इतरापेक्षया प्रत्येकं बहुवचनम् । यूयं “पिबत । तदर्थं “वः “ददे । किम् । “महि महत्प्रभूतं “तृतीयं “सवनम् । तत्संबन्धिनं सोममित्यर्थः । किमर्थम् । “मदाय हर्षाय तृप्तये वा ॥


आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः ।

आ व॑ः पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥५

आ । वा॒जाः॒ । या॒त॒ । उप॑ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि॑णसः । गृ॒णा॒नाः ।

आ । वः॒ । पी॒तयः॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । इ॒माः । अस्त॑म् । न॒व॒स्वः॑ऽइव । ग्म॒न् ॥५

आ । वाजाः । यात । उप । नः । ऋभुक्षाः । महः । नरः । द्रविणसः । गृणानाः ।

आ । वः । पीतयः । अभिऽपित्वे । अह्नाम् । इमाः । अस्तम् । नवस्वःऽइव । ग्मन् ॥५

हे "वाजाः “ऋभुक्षाः "नरः नेतारो यूयं “नः अस्मान् “उप “आ "यात । किं कुर्वन्तः । “महः महतः “द्रविणसः धनस्य ॥ कर्मणि षष्ठ्यौ ॥ महत् द्रविणं “गृणानाः स्तुवन्तः । किंच "अह्नाम् “अभिपित्वे अभिपतने समाप्तौ । तृतीये सवने इत्यर्थः । "वः युष्मान् “इमाः "पीतयः पानानि “आ “ग्मन् आगच्छन्ति । तत्र दृष्टान्तः । “अस्तम् । गृहनामैतत् । गृहं “नवस्वः नवप्रसवा गावः “इव ॥ ॥ ३ ॥


आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः ।

स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्व॑ः पात रत्न॒धा इन्द्र॑वन्तः ॥६

आ । न॒पा॒तः॒ । श॒व॒सः॒ । या॒त॒न॒ । उप॑ । इ॒मम् । य॒ज्ञम् । नम॑सा । हू॒यमा॑नाः ।

स॒ऽजोष॑सः । सू॒र॒यः॒ । यस्य॑ । च॒ । स्थ । मध्वः॑ । पा॒त॒ । र॒त्न॒ऽधाः । इन्द्र॑ऽवन्तः ॥६

आ । नपातः । शवसः । यातन । उप । इमम् । यज्ञम् । नमसा । हूयमानाः ।

सऽजोषसः । सूरयः । यस्य । च । स्थ । मध्वः । पात । रत्नऽधाः । इन्द्रऽवन्तः ॥६

हे “शवसः “नपातः बलस्य न पातयितारस्तस्य पुत्रा वा । बलवन्त इत्यर्थः । यूयं “नमसा स्तोत्रेण “हूयमानाः आकारिताः सन्तः “इमं “यज्ञम् “उप “आ “यातन उपागच्छत । कीदृशा यूयम् । “सजोषसः इन्द्रेण सह प्रीताः "सूरयः मेधाविनः । इन्द्रस्य चैषां च कः प्रसङ्ग इत्युच्यते । “यस्य “च "स्थ । चेति प्रसिद्धौ । यस्येन्द्रस्य संबन्धिनो यूयं भवथ तदुचिताश्वनिर्माणात् इत्यभिप्रायः । यस्मादेवं तस्मात् “इन्द्रवन्तः प्रीतेन इन्द्रेण तद्वन्तः “रत्नधाः रमणीयधनानां दातारो यूयं “मध्वः मधुरं सोमं “पात पिबत ॥


स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषा॑ः पाहि गिर्वणो म॒रुद्भि॑ः ।

अ॒ग्रे॒पाभि॑रृतु॒पाभि॑ः स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभि॑ः स॒जोषा॑ः ॥७

स॒ऽजोषाः॑ । इ॒न्द्र॒ । वरु॑णेन । सोम॑म् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ।

अ॒ग्रे॒ऽपाभिः॑ । ऋ॒तु॒ऽपाभिः॑ । स॒ऽजोषाः॑ । ग्नाःपत्नी॑भिः । र॒त्न॒ऽधाभिः॑ । स॒ऽजोषाः॑ ॥७

सऽजोषाः । इन्द्र । वरुणेन । सोमम् । सऽजोषाः । पाहि । गिर्वणः । मरुत्ऽभिः ।

अग्रेऽपाभिः । ऋतुऽपाभिः । सऽजोषाः । ग्नाःपत्नीभिः । रत्नऽधाभिः । सऽजोषाः ॥७

हे "इन्द्र त्वं “वरुणेन रात्र्याभिमानिदेवेन “सजोषाः समानप्रीतिः सन् "सोमं “पाहि पिब । हे “गिर्वणः गीर्भिर्वननीय संभजनीयेन्द्र त्वं “मरुद्भिः “सजोषाः संगतः सन् सोमं “पाहि पिब ।। किंच “अग्रेपाभिः प्रथमपातृभिः “ऋतुपाभिः ऋतुयाजदेवैश्च “ग्नाः पत्नीभिः । स्त्रीणां पालयित्र्यो देव्यो ग्नाः पत्न्यः । ताभिः । ‘ मेना ग्ना इति स्त्रीणाम् ' ( निरु. ३. २१ ) इति निरुक्तम् । “रत्नधाभिः रमणीयधनदातृभिर्ऋभुभिः सह पिब । यद्वा । एतत् ग्नाः पत्नीभिरित्यस्य विशेषणम् । ताभिर्वा "सजोषाः सोमं पिब ॥


स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभव॒ः पर्व॑तेभिः ।

स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑स॒ः सिन्धु॑भी रत्न॒धेभि॑ः ॥८

स॒ऽजोष॑सः । आ॒दि॒त्यैः । मा॒द॒य॒ध्व॒म् । स॒ऽजोष॑सः । ऋ॒भ॒वः॒ । पर्व॑तेभिः ।

स॒ऽजोष॑सः । दैव्ये॑न । स॒वि॒त्रा । स॒ऽजोष॑सः । सिन्धु॑ऽभिः । र॒त्न॒ऽधेभिः॑ ॥८

सऽजोषसः । आदित्यैः । मादयध्वम् । सऽजोषसः । ऋभवः । पर्वतेभिः ।

सऽजोषसः । दैव्येन । सवित्रा । सऽजोषसः । सिन्धुऽभिः । रत्नऽधेभिः ॥८

हे “ऋभवः “आदित्यैः “सजोषसः संगता यूयं “मादयध्वम् । तथा “पर्वतेभिः पर्ववद्भिः पर्वण्यर्च्यमानैर्देवविशेषैः “सजोषसः मादयध्वम् । तथा च “दैव्येन देवेभ्यो हितेन “सवित्रा “सजोषसः “रत्नधेभिः रत्नानां दातृभिः “सिन्धुभिः स्यन्दनस्वभावैर्नद्यभिमानिदेवैश्च “सजोषस: मादयध्वम् ॥


ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये अश्वा॑ ।

ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नर॑ः स्वप॒त्यानि॑ च॒क्रुः ॥९

ये । अ॒श्विना॑ । ये । पि॒तरा॑ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः॑ । ये । अश्वा॑ ।

ये । अंस॑त्रा । ये । ऋध॑क् । रोद॑सी॒ इति॑ । ये । विऽभ्वः॑ । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः ॥९

ये । अश्विना । ये । पितरा । ये । ऊती । धेनुम् । ततक्षुः । ऋभवः । ये । अश्वा ।

ये । अंसत्रा । ये । ऋधक् । रोदसी इति । ये । विऽभ्वः । नरः । सुऽअपत्यानि । चक्रुः ॥९

"ये “ऋभवः “अश्विना अश्विनौ “ऊती ऊत्या क्रियया रथनिर्माणरूपया अप्रीणयन् । “ये च “पितरा पितरौ “ततक्षुः तक्षणेन समपादयन् जीर्णौ सन्तावूती ऊत्या युवानौ “चक्रुः । “ये च “धेनुं ततक्षुः मृतायाः पुनर्नवीकरणेन । “ये च "अश्वा अश्वौ ततक्षुः । ‘ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ' (ऋ. सं.१. १६१.७) इत्याद्युक्तम् । "ये च "अंसत्रा अंसत्राणि कवचानि देवेभ्यश्चक्रुः । “ये च "रोदसी द्यावापृथिव्यौ “ऋधक् पृथक् चक्रुः । एवमुक्तप्रकारेण "ये “विभ्वः व्याप्ता ऋभवः “नरः नेतारः “स्वपत्यानि स्वपतनसाधनानि तत्प्राप्तिसाधनानि वा कर्माणि चक्रुः । तेऽग्रेपाः' इत्युत्तरत्र संबन्धः ॥


ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् ।

ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥१०

ये । गोऽम॑न्तम् । वाज॑ऽवन्तम् । सु॒ऽवीर॑म् । र॒यिम् । ध॒त्थ । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।

ते । अ॒ग्रे॒ऽपाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति॑ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति॑ ॥१०

ये । गोऽमन्तम् । वाजऽवन्तम् । सुऽवीरम् । रयिम् । धत्थ । वसुऽमन्तम् । पुरुऽक्षुम् ।

ते । अग्रेऽपाः । ऋभवः । मन्दसानाः । अस्मे इति । धत्त । ये । च । रातिम् । गृणन्ति ॥१०

हे ऋभवः "ये यूयं “गोमन्तं “गोसहितं “वाजवन्तम् अन्नवन्तं “सुवीरं शोभनपुत्रोपेतं "वसुमन्तं निवासयोग्यगृहादिधनोपेतं “पुरुक्षुं बह्वन्नं “रयिं धनं “धत्थ धारयथ मह्यं दातुम्। हे “ऋभवः “ते यूयम् “अग्रेपाः प्रथमं पातारः “मन्दसानाः माद्यन्तः सन्तः “अस्मे अस्मभ्यं “धत्त दत्त रयिम्। "ये “च यूयं “रातिं दानं दत्तं सोमं वा “गृणन्ति स्तुवन्ति । ते धत्त । यद्वा। ये च रातिं गृणन्ति यजमानाः तेभ्योऽपि धत्त ॥


नापा॑भूत॒ न वो॑ऽतीतृषा॒मानि॑ःशस्ता ऋभवो य॒ज्ञे अ॒स्मिन् ।

समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भि॒ः सं राज॑भी रत्न॒धेया॑य देवाः ॥११

न । अप॑ । अ॒भू॒त॒ । न । वः॒ । अ॒ती॒तृ॒षा॒म॒ । अनिः॑ऽशस्ताः । ऋ॒भ॒वः॒ । य॒ज्ञे । अ॒स्मिन् ।

सम् । इन्द्रे॑ण । मद॑थ । सम् । म॒रुत्ऽभिः॑ । सम् । राज॑ऽभिः । र॒त्न॒ऽधेया॑य । दे॒वाः॒ ॥११

न । अप । अभूत । न । वः । अतीतृषाम । अनिःऽशस्ताः । ऋभवः । यज्ञे । अस्मिन् ।

सम् । इन्द्रेण । मदथ । सम् । मरुत्ऽभिः । सम् । राजऽभिः । रत्नऽधेयाय । देवाः ॥११

हे “ऋभवः यूयं “नापाभूत नापगच्छतः । अपरक्ता न भवत । वयं च “वः युष्मान् "न “अतीतृषाम अत्यन्तं तृषितान् मा करवाम । अतो हे ऋभवः “देवाः “अनिःशस्ताः अनिन्दिताः सन्तः “अस्मिन् “यज्ञे “इन्द्रेण “सं “मदथ “मरुद्भिः “सं मदथ । “राजभिः राजमानैरन्यैर्देवैः “सं मदथ तृप्ता भवथ । किमर्थम् । “रत्नधेयाय रमणीयाय धनदानाय ॥ ॥ ४ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३४&oldid=198648" इत्यस्माद् पुनः प्राप्तिः