ऋग्वेदः सूक्तं ४.३९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.३९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ४.३८ ऋग्वेदः - मण्डल ४
सूक्तं ४.३९
वामदेवो गौतमः
सूक्तं ४.४० →
दे. दधिक्राः। त्रिष्टुप्, ६ अनुष्टुप्


आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम ।
उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन् ॥१॥
महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।
यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ॥२॥
यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ ।
अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥३॥
दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् ।
स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम् ॥४॥
इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः ।
दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम् ॥५॥
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥६॥


सायणभाष्यम्

‘ आशुं दधिक्राम्' इति षडृचं सप्तमं सूक्तम् । आदितः पञ्च त्रिष्टुभः षष्ठ्यनुष्टुप् । ऋषिर्वामदेवः । पूर्वसूक्ते हीत्युक्तत्वात् एतदपि दाधिक्रम् । तथा चानुक्रान्तम् - ‘ आशुं षळन्त्यानुष्टुप् ' इति । सूक्तविनियोगो लैङ्गिकः ॥


आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।

उ॒च्छन्ती॒र्मामु॒षस॑ः सूदय॒न्त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥१

आ॒शुम् । द॒धि॒ऽक्राम् । तम् । ऊं॒ इति॑ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ ।

उ॒च्छन्तीः॑ । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒तानि॑ । प॒र्ष॒न् ॥१

आशुम् । दधिऽक्राम् । तम् । ऊं इति । नु । स्तवाम । दिवः । पृथिव्याः । उत । चर्किराम ।

उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुःऽइतानि । पर्षन् ॥१

“आशुं शीघ्रगामिनं "तमु तमेव "दधिक्रां देवं "नु क्षिप्रं "स्तवाम । "उत अपि च "दिवः “पृथिव्याः च सकाशादस्य घासं “चर्किराम विक्षिपाम । “उच्छन्तीः तमो विवासयन्तीः "उषसः "मां प्रति "सूदयन्तु रक्षन्तु फलानि । 'विश्वानि सर्वाणि दुरितानि “अति “पर्षन् अतिपारयन्तु । अन्यदेवताकेषु मन्त्रेष्वन्यदेवतास्तुतिस्तासां निपातभाक्त्वान्न विरुध्यते ॥


म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्ण॑ः पुरु॒वार॑स्य॒ वृष्ण॑ः ।

यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिम् ॥२

म॒हः । च॒र्क॒र्मि॒ । अर्व॑तः । क्र॒तु॒ऽप्राः । द॒धि॒ऽक्राव्णः॑ । पु॒रु॒ऽवार॑स्य । वृष्णः॑ ।

यम् । पू॒रुऽभ्यः॑ । दी॒दि॒ऽवांस॑म् । न । अ॒ग्निम् । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । ततु॑रिम् ॥२

महः । चर्कर्मि । अर्वतः । क्रतुऽप्राः । दधिऽक्राव्णः । पुरुऽवारस्य । वृष्णः ।

यम् । पूरुऽभ्यः । दीदिऽवांसम् । न । अग्निम् । ददथुः । मित्रावरुणा । ततुरिम् ॥२

“क्रतुप्राः कर्मणां पूरकोऽहं "महः महतः "अर्वतः अरणवतः "पुरुवारस्य पुरुभिः बहुभिर्वरणीयस्य “वृष्णः वर्षकस्य "दधिक्राव्णः स्तुतिं "चर्कर्मि अत्यर्थं करोमि । हे "मित्रावरुणा मित्रावरुणौ युवां “ततुरिं तारकं "यं "दीदिवांसं "नाग्नि दीप्यमानमग्निमिव स्थितं "पूरुभ्यः मनुष्येभ्यस्तेषामुपकाराय "ददथुः धारयथः ॥


यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ ।

अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषा॑ः ॥३

यः । अश्व॑स्य । द॒धि॒ऽक्राव्णः॑ । अका॑रीत् । सम्ऽइ॑द्धे । अ॒ग्नौ । उ॒षसः॑ । विऽउ॑ष्टौ ।

अना॑गसम् । तम् । अदि॑तिः । कृ॒णो॒तु॒ । सः । मि॒त्रेण॑ । वरु॑णेन । स॒ऽजोषाः॑ ॥३

यः । अश्वस्य । दधिऽक्राव्णः । अकारीत् । सम्ऽइद्धे । अग्नौ । उषसः । विऽउष्टौ ।

अनागसम् । तम् । अदितिः । कृणोतु । सः । मित्रेण । वरुणेन । सऽजोषाः ॥३

"यः यजमानः "अश्वस्य अश्वरूपस्य व्याप्तस्य वा "दधिक्राव्णः स्तुतिम् “उषसो “व्युष्टौ प्रभाते सति "अग्नौ "समिद्धे सति "अकारीत् अकार्षीत् । “मित्रेण “वरुणेन चाहोरात्राभिमाननिदेवाभ्यां सजोषाः समानप्रीतिः "अदितिः अखण्डनीयो दधिक्राः "तं यजमानम् "अनागसं पापरहितं “कृणोतु करोतु ॥


द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रम् ।

स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इन्द्रं॒ वज्र॑बाहुम् ॥४

द॒धि॒ऽक्राव्णः॑ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम॑न्महि । म॒रुता॑म् । नाम॑ । भ॒द्रम् ।

स्व॒स्तये॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । हवा॑महे । इन्द्र॑म् । वज्र॑ऽबाहुम् ॥४

दधिऽक्राव्णः । इषः । ऊर्जः । महः । यत् । अमन्महि । मरुताम् । नाम । भद्रम् ।

स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्रऽबाहुम् ॥४

“इषः अन्नसाधकस्य “ऊर्जः बलसाधकस्य “महः महतः "दधिक्राव्णः देवस्य “मरुतां स्तोतॄणां स्वभूतं "भद्रं कल्याणं "नाम नामरूपमस्ति "यत् तत् “अमन्महि स्तुमः । किंचात्र निपातभाजो वरुणादींश्च "स्वस्तये क्षेमाय "हवामहे ॥


इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑ः ।

द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्व॑म् ॥५

इन्द्र॑म्ऽइव । इत् । उ॒भये॑ । वि । ह्व॒य॒न्ते॒ । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।

द॒धि॒ऽक्राम् । ऊं॒ इति॑ । सूद॑नम् । मर्त्या॑य । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । नः॒ । अश्व॑म् ॥५

इन्द्रम्ऽइव । इत् । उभये । वि । ह्वयन्ते । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः ।

दधिऽक्राम् । ऊं इति । सूदनम् । मर्त्याय । ददथुः । मित्रावरुणा । नः । अश्वम् ॥५

"इन्द्रमिव एनं दधिक्राम् "उदीराणाः युद्धाय उद्योगं कुर्वन्तः "यज्ञमुपप्रयन्तः यज्ञमुपक्रम्य प्रवर्तमानाश्च "उभये “वि “ह्वयन्ते आह्वयन्ति। यं “मर्त्याय मर्त्यस्य "सूदनं प्रेरकम् "अश्वम् अश्वरूप “दधिक्रां देवं हे "मित्रावरुणा मित्रावरुणौ “नः अस्माकमर्थाय “ददथुः धारयथः । तं विह्वयन्ते । उभये इत्यत्र स्तोतृशंसितृभेदेन वा उभयविधत्वम् अवगन्तव्यम् ॥


'दधिक्राव्णो अकारिषम् ' इति षष्ठी पवित्रेष्ट्या अनुवाक्या । सूत्रितं च-- ‘दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः ' ( आश्व. श्रौ. २. १२ ) इति । दधिद्रप्सभक्षणेऽप्येषा । दधिक्राव्णो अकारिषमित्याग्नीध्रीये दधिद्रप्सान् भक्षयन्ति' ( आ. श्रौ. ६. १२ ) इति सूत्रितत्वात् ॥


द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑ः ।

सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥६

द॒धि॒ऽक्राव्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ।

सु॒र॒भि । नः॒ । मुखा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥६

दधिऽक्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः ।

सुरभि । नः । मुखा । करत् । प्र । नः । आयूंषि । तारिषत् ॥६

“दधिक्राव्णः देवस्य स्तुतिम् "अकारिषं करवाणि । "जिष्णोः जयशीलस्य "अश्वस्य व्यापकस्य “वाजिनः वेगवतः । स देवः “नः अस्माकं “मुखा मुखानि चक्षुरादीन्द्रियाणि "सुरभि सुरभीणि “करत् करोतु । "नः अस्मभ्यम् "आयूंषि “प्र “तारिषत् प्रवर्धयतु । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ॥१.३॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३९&oldid=198670" इत्यस्माद् पुनः प्राप्तिः