ऋग्वेदः सूक्तं ४.५१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.५० ऋग्वेदः - मण्डल ४
सूक्तं ४.५१
वामदेवो गौतमः
सूक्तं ४.५२ →
दे. उषाः। त्रिष्टुप्


इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् ।
नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥१॥
अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु ।
व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥२॥
उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः ।
अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥३॥
कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ।
येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥४॥
यूयं हि देवीरृतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः ।
प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥५॥
क्व स्विदासां कतमा पुराणी यया विधाना विदधुरृभूणाम् ।
शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥६॥
ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।
यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप ॥७॥
ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः ।
ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥८॥
ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति ।
गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥९॥
रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः ।
स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥१०॥
तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः ।
वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥११॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथाष्टमं व्याख्यातुमारभते । ' इदमु त्यत्' इत्येकादशर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमुषोदेवताकम् । इदमुषस्यं तु' इत्यनुक्रान्तम् । प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे इदं सूक्तम् । सूत्रितं च - उषो वाजेनेदमु त्यत् ' (आश्व. श्रौ. ४. १४) इति ।।


इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् ।

नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥१

इ॒दम् । ऊं॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् ।

नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥१

इदम् । ऊं इति । त्यत् । पुरुऽतमम् । पुरस्तात् । ज्योतिः । तमसः । वयुनऽवत् । अस्थात् ।

नूनम् । दिवः । दुहितरः । विऽभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥१

“इदमु पुरतो दृश्यमानमिदं “त्यत् तदस्माभिः स्तुत्यं सर्वप्रसिद्धं “पुरुतमम् अत्यन्तप्रभूतं “ज्योतिः तेजः “वयुनावत् ॥ वेतेः कान्तिकर्मण इदम् ॥ प्रकृष्टकान्तिमत् । अथवा वयुनमिति प्रज्ञानाम । प्रज्ञोपेतम् । सर्वस्य प्रज्ञापकमित्यर्थः । कीदृक् तेजः । “पुरस्तात् पूर्वस्यां दिशि “तमसः अन्धकारात् “अस्थात् उदतिष्ठत् । एवं सति “नूनं सत्यं “दिवः अदित्यस्य “दुहितरः दुहितृस्थानीयाः “विभातीः विभानं कुर्वतीः “उषसो “जनाय यजमानानां “गातुं गमनं गमनादिव्यापारसामर्थ्यं “कृणवन् अकुर्वन् ।।


अस्थु॑रु चि॒त्रा उ॒षस॑ः पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ ।

व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥२

अस्थुः॑ । ऊं॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ ।

वि । ऊं॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पा॒व॒काः ॥२

अस्थुः । ऊं इति । चित्राः । उषसः । पुरस्तात् । मिताःऽइव । स्वरवः । अध्वरेषु ।

वि । ऊं इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥२

“चित्राः चायनीयाः “उषसः “पुरस्तात् पूर्वस्यां दिशि “अस्थुः तिष्ठन्ति । व्याप्ता इत्यर्थः । तत्र दृष्टान्तः । “अध्वरेषु “मिताः खाताः “स्वरवः यूपाः “इव । ते यथा वेद्याः पुरतो भासन्ते तद्वत् । यद्यपि स्वरुशब्दो यूपच्छेदपतितप्रथमशकलवाची ' यः प्रथमः शकलः परापतेत्स स्वरुः कार्यः' इत्युक्तत्वात् तथाप्यत्र मितशब्दश्रवणात् 'चषालवन्तः स्वरवः' ( ऋ. सं. ३. ८. १० ) इत्यादौ तथा दर्शनाच्चात्र यूपवचनः । ताः “व्रजस्य वारकस्य “तमसो “द्वारा द्वाराणि “वि “उच्छन्तीः “शुचयः दीप्ताः पावकाः शोधिकाः “अव्रन् व्यावृण्वन् ॥


उ॒च्छन्ती॑र॒द्य चि॑तयन्त भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनी॑ः ।

अ॒चि॒त्रे अ॒न्तः प॒णय॑ः सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥३

उ॒च्छन्तीः॑ । अ॒द्य । चि॒त॒य॒न्त॒ । भो॒जान् । रा॒धः॒ऽदेया॑य । उ॒षसः॑ । म॒घोनीः॑ ।

अ॒चि॒त्रे । अ॒न्तरिति॑ । प॒णयः॑ । स॒स॒न्तु॒ । अबु॑ध्यमानाः । तम॑सः । विऽम॑ध्ये ॥३

उच्छन्तीः । अद्य । चितयन्त । भोजान् । राधःऽदेयाय । उषसः । मघोनीः ।

अचित्रे । अन्तरिति । पणयः । ससन्तु । अबुध्यमानाः । तमसः । विऽमध्ये ॥३

“अद्य अस्मिन् दिने “उच्छन्तीः तमः विवासयन्त्यः “मघोनीः धनवत्यः “उषसः “भोजान् भोजयितॄन् यजमानान् तेषां “राधोदेयाय सोमादिधनदानाय “चितयन्त प्रज्ञापयन्ति । “अचित्रे अचायनीये “तमसो “विमध्ये । अत्यन्तगाढान्धकारे इत्यर्थः । तत्र "पणयः वणिज इवादातारः "अयुध्यमानाः “ससन्तु स्वपन्तु ।।


कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य ।

येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥४

कु॒वित् । सः । दे॒वीः॒ । स॒नयः॑ । नवः॑ । वा॒ । यामः॑ । ब॒भू॒यात् । उ॒ष॒सः॒ । वः॒ । अ॒द्य ।

येन॑ । नव॑ऽग्वे । अङ्गि॑रे । दश॑ऽग्वे । स॒प्तऽआ॑स्ये । रे॒व॒तीः॒ । रे॒वत् । ऊ॒ष ॥४

कुवित् । सः । देवीः । सनयः । नवः । वा । यामः । बभूयात् । उषसः । वः । अद्य ।

येन । नवऽग्वे । अङ्गिरे । दशऽग्वे । सप्तऽआस्ये । रेवतीः । रेवत् । ऊष ॥४

हे देवीः द्योतमानाः "उषसो “वः युष्मान् “सनयः पुराणः "नवो “वा “यामः गमनसाधनः “सः रथः “अद्य अस्मिन् यागदिने “कुवित् बहुवारं “बभूयात् भवेत् गच्छेदित्यर्थः । “येन रथेन हे “रेवतीः धनवत्यो यूयं "नवग्वे “दशग्वे “सप्तास्ये सप्तच्छन्दोयुक्तमुखे “अङ्गिरे अङ्गिरोगणे । तौ द्वौ तत्र येऽप्यङ्गिरसः तेषां गणे । तथान्यत्र ‘ नवग्वो नु दशग्वो अङ्गिरस्तमः ( ऋ. सं. १०. ६२. ६ ) इति । "रेवत् धनवत् यथा भवति तथा “ऊष विभातं कृतवत्यः ॥ वसेर्व्युच्छनकर्मणो लिण्मध्यमबहुवचनस्येदं रूपम् ॥


यू॒यं हि दे॑वीरृत॒युग्भि॒रश्वै॑ः परिप्रया॒थ भुव॑नानि स॒द्यः ।

प्र॒बो॒धय॑न्तीरुषसः स॒सन्तं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वम् ॥५

यू॒यम् । हि । दे॒वीः॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । प॒रि॒ऽप्र॒या॒थ । भुव॑नानि । स॒द्यः ।

प्र॒ऽबो॒धय॑न्तीः । उ॒ष॒सः॒ । स॒सन्त॑म् । द्वि॒ऽपात् । चतुः॑ऽपात् । च॒रथा॑य । जी॒वम् ॥५

यूयम् । हि । देवीः । ऋतयुक्ऽभिः । अश्वैः । परिऽप्रयाथ । भुवनानि । सद्यः ।

प्रऽबोधयन्तीः । उषसः । ससन्तम् । द्विऽपात् । चतुःऽपात् । चरथाय । जीवम् ॥५

हे “देवीः द्योतमानाः "उषसः “यूयं “हि खलु "ऋतयुग्भिः यज्ञगामिभिः "अश्वैः "भुवनानि “सद्यः “परिप्रयाथ परितः प्रकृष्टं गच्छथ । किं कुर्वत्यः। “ससन्तं स्वपन्तं द्विपाच्चतुष्पात् मनुष्य गवादिलक्षणं “जीवं “चरथाय चरणाय गमनादिव्यवहाराय "प्रबोधयन्तीः प्रबोधयन्त्यः सत्यः परिप्रयाथ ॥ ॥ १ ॥


क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुरृ॑भू॒णाम् ।

शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर॑न्ति॒ न वि ज्ञा॑यन्ते स॒दृशी॑रजु॒र्याः ॥६

क्व॑ । स्वि॒त् । आ॒सा॒म् । क॒त॒मा । पु॒रा॒णी । यया॑ । वि॒ऽधाना॑ । वि॒ऽद॒धुः । ऋ॒भू॒णाम् ।

शुभ॑म् । यत् । शु॒भ्राः । उ॒षसः॑ । चर॑न्ति । न । वि । ज्ञा॒य॒न्ते॒ । स॒ऽदृशीः॑ । अ॒जु॒र्याः ॥६

क्व । स्वित् । आसाम् । कतमा । पुराणी । यया । विऽधाना । विऽदधुः । ऋभूणाम् ।

शुभम् । यत् । शुभ्राः । उषसः । चरन्ति । न । वि । ज्ञायन्ते । सऽदृशीः । अजुर्याः ॥६

“आसाम् उषसां मध्ये “क्व “स्वित् अभूदद्य "कतमा “पुराणी पुरातनी । “यया “ऋभूणां संबन्धीनि “विधाना चमसादिनिर्माणानि “विदधुः अकुर्वन् ऋभवः। “यत् याश्च “उषसः “शुभ्राः दीप्ताः “शुभं “चरन्ति शोभां दीप्तिं कुर्वन्ति । ताः "अजुर्याः अशीर्णा नित्यनूतनाः ”न “वि “ज्ञायन्ते । यतः “सदृशीः सदृश्यः सर्वेष्वपि दिवसेष्वेकरूपा अतोऽद्यतन्य एता एताः पुराण्य इति न ज्ञायन्ते । उषासादृश्यं सदृशीरद्य सदृशीरिदु श्वः' (ऋ. सं. १. १२३. ८) इत्यत्र प्रतिपादितम् ॥


ता घा॒ ता भ॒द्रा उ॒षस॑ः पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः ।

यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ॥७

ताः । घ॒ । ताः । भ॒द्राः । उ॒षसः॑ । पु॒रा । आ॒सुः॒ । अ॒भि॒ष्टिऽद्यु॑म्नाः । ऋ॒तजा॑तऽसत्याः ।

यासु॑ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस॑न् । द्रवि॑णम् । स॒द्यः । आप॑ ॥७

ताः । घ । ताः । भद्राः । उषसः । पुरा । आसुः । अभिष्टिऽद्युम्नाः । ऋतजातऽसत्याः ।

यासु । ईजानः । शशमानः । उक्थैः । स्तुवन् । शंसन् । द्रविणम् । सद्यः । आप ॥७

“ता “घ । घेति प्रसिद्धौ । ताः खलूपकारिण्यः “ता "भद्राः कल्याण्यः स्तुत्या वा “उषसः “पुरा पूर्वम् “आसुः अभवन् । "अभिष्टिद्युम्नाः अभिगमनमात्रेण द्युम्नं धनं यासां ताः । “ऋतजातसत्याः । ऋतार्थं यज्ञार्थं जाताश्च ताः सत्याः सत्यफलाश्च तादृश्यः । "यासु उषःसु “ईजानः यागं कुर्वाणः उक्थैः शस्त्रैः “शशमानः शंसमानः “स्तुवन् सामभिः स्तोत्रं निष्पादयन् “शंसन् शस्त्राणि कुर्वन् “द्रविणं धनं “सद्यः “आप प्राप्नोति । ता भद्रा इति संबन्धः ॥


ता आ च॑रन्ति सम॒ना पु॒रस्ता॑त्समा॒नत॑ः सम॒ना प॑प्रथा॒नाः ।

ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरन्ते ॥८

ताः । आ । च॒र॒न्ति॒ । स॒म॒ना । पु॒रस्ता॑त् । स॒मा॒नतः॑ । स॒म॒ना । प॒प्र॒था॒नाः ।

ऋ॒तस्य॑ । दे॒वीः । सद॑सः । बु॒धा॒नाः । गवा॑म् । न । सर्गाः॑ । उ॒षसः॑ । ज॒र॒न्ते॒ ॥८

ताः । आ । चरन्ति । समना । पुरस्तात् । समानतः । समना । पप्रथानाः ।

ऋतस्य । देवीः । सदसः । बुधानाः । गवाम् । न । सर्गाः । उषसः । जरन्ते ॥८

“ताः उषसः “आ सर्वतः “चरन्ति । “समना सर्वतः समाना: “पुरस्तात् पूर्वस्यां दिशि “समानतः समानाद्देशात् अन्तरिक्षात् “समना सर्वतः “पप्रथानाः प्रथमाना: “ऋतस्य यज्ञस्य “सदसः सदः । तत्रत्यम् ऋत्विग्घविरादिकम् इत्यर्थः । “बुधानाः बोधयन्त्यः ॥ अन्तर्भावितण्यर्थोऽयम् ॥ एवं महानुभावाः “उषसो “जरन्ते स्तूयन्ते । “गवां “सर्गाः “न उदकानां सृष्टय इव। ‘ गवां सर्गा न रश्मयः ' ( ऋ. सं. ४. ५२. ५) इति हि श्रुतम् । ता यथा सर्वत्र प्रसंगादुपकारत्वाच्च स्तूयन्ते तद्वत् ॥


ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरन्ति ।

गूह॑न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभि॒ः शुच॑यो रुचा॒नाः ॥९

ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी॑तऽवर्णाः । उ॒षसः॑ । च॒र॒न्ति॒ ।

गूह॑न्तीः । अभ्व॑म् । असि॑तम् । रुश॑त्ऽभिः । शु॒क्राः । त॒नूभिः॑ । शुच॑यः । रु॒चा॒नाः ॥९

ताः । इत् । नु । एव । समना । समानीः । अमीतऽवर्णाः । उषसः । चरन्ति ।

गूहन्तीः । अभ्वम् । असितम् । रुशत्ऽभिः । शुक्राः । तनूभिः । शुचयः । रुचानाः ॥९

“ता: “एव उषसः । इदिति पूरणः । “नु अद्य “समना समानाः एकधेत्यर्थः । “समानीः एकरूपाः अमीतवर्णाः अहिंसितवर्णाः अपरिमितवर्णा वा “उषसश्चरन्ति सर्वतः । किं कुर्वत्यः । “अभ्वम् । महन्नामैतत् । अतिमहत् “असितं कृष्णं रूपं “गूहन्तीः गोपयन्त्यः “रुशद्भिः रोचमानैः “तनूभिः स्वशरीरैः “शुक्राः दीप्ताः “शुचयः शुद्धाः “रुचानाः रोचमाना रोचयन्त्यो वा ॥


र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव॑न्तं यच्छता॒स्मासु॑ देवीः ।

स्यो॒नादा व॑ः प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥१०

र॒यिम् । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । प्र॒जाऽव॑न्तम् । य॒च्छ॒त॒ । अ॒स्मासु॑ । दे॒वीः॒ ।

स्यो॒नात् । आ । वः॒ । प्र॒ति॒ऽबुध्य॑मानाः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥१०

रयिम् । दिवः । दुहितरः । विऽभातीः । प्रजाऽवन्तम् । यच्छत । अस्मासु । देवीः ।

स्योनात् । आ । वः । प्रतिऽबुध्यमानाः । सुऽवीर्यस्य । पतयः । स्याम ॥१०

हे “दिवो “दुहितरः द्योतमानस्यादित्यस्य दुहितृस्थानीयाः “विभातीः विभात्यो विशेषेण भानं कुर्वत्यः “अस्मासु “प्रजावन्तं “रयिं पुत्राद्युपेतं धनं “यच्छत दत्त । हे “देवीः देव्यः “स्योनात् सुखात् निमित्तभूतात् “वः युष्मान् प्रतिबुध्यमानाः प्रतिबोधयन्तो वयं “सुवीर्यस्य “पतयः “स्याम । पुत्रादिसहितस्य धनस्य पालका भवेम ॥


‘ तद्वो दिवः' इति व्युष्टायां जपेत् ॥

तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।

व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥११

तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः ।

व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥११

तत् । वः । दिवः । दुहितरः । विऽभातीः । उप । ब्रुवे । उषसः । यज्ञऽकेतुः ।

वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी ॥११

हे “दिवो “दुहितरः हे "उषसः “विभाती: “वः युष्मान् “तत् उत्तरार्धप्रथमपादेन वक्ष्यमाणं फलं "यज्ञकेतुः । यज्ञ एव केतुः प्रज्ञापको यस्य तादृशोऽहम् "उप "ब्रुवे उपेत्य ब्रवीमि । अथ बहुवदुच्यते। "वयं स्तुवन्तः "जनेषु अस्मत्समानेषु मध्ये “यशसः कीर्तेः अन्नस्य वा स्वामिनः “स्याम। “तत् यशः "द्यौः “पृथिवी “च "देवी “धत्तां धारयताम् ॥ ॥ २ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५१&oldid=198681" इत्यस्माद् पुनः प्राप्तिः