वायुपुराणम्/उत्तरार्धम्/अध्यायः ८

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


← उत्तरार्धम्, अध्यायः ७ वायुपुराणम्
अध्यायः ८
वेदव्यासः
उत्तरार्धम्, अध्यायः ९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



          ।।सूत उवाच।।
गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्त्तिताः।
चित्रसेनोग्रसेनश्च ऊर्णायुरनघस्तथा ।। ८.१ ।।

धृतराष्ट्रः पुलोमा च सूर्यवर्च्चास्तथैव च।
युगपत्तृणपत्कालिर्दितिश्चित्ररथ स्तथा ।। ८.२ ।।

त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः।
कलिः पञ्चदशश्वैव नारदश्चैव षोडशः।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ।। ८.३ ।।

चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः ।
अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा ।। ८.४ ।।

मिश्रकेशी तथा शाची पर्णिनी वाप्यलम्बुषा।
मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ।। ८.५ ।।

अद्रिका लक्षणा चैव देवी रम्भा मनोरमा।
सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ।। ८.६ ।।

पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा।
हेमासरा सुती चैव सुवृत्ता कमला च या ।। ८.७ ।।

सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा।
गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ।। ८.८ ।।

गन्धर्वाणां दुहितरो मया याः परिकीर्त्तिताः।
तासां नामानि सर्वासां कीर्त्त्यमानानि मे श्रृणु ।। ८.९ ।।

सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् ।
विद्यावती चारुमुखी सुमुखी च वरानना ।। ८.१० ।।

तत्रेमे सुयशापुत्रा महाबलपराक्रमाः।
प्रचेतसः सुता यक्षास्तेषां नामानि मे श्रृणु ।। ८.११ ।।

कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा।
मेघमालीतु यक्षाणां गण एष उदाहृतः ।। ८.१२ ।।

सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः।
तासां नामानि वै सम्यग् ब्रुवतो मे निबोधत ।। ८.१३ ।।

लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम्।
कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ।। ८.१४ ।।

ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्त्तिताः।
उत्पादिता विशालेन विक्रान्तेन महात्मना ।। ८.१५ ।।

लोहेयो भरतेयश्च कृशाङ्गेयश्च विश्रुतः ।
विशालेश्च यक्षाणां पुराणे प्रथिता गणाः ।। ८.१६ ।।

इत्येतैरसुरैर्घोरैर्महाबलपराक्रमैः।
लोकैर्यक्षगणैर्व्याप्ता लोकालोक विदांवराः ।। ८.१७ ।।

गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना।
उत्पादिता महावीर्या महागन्धर्वनायकाः ।। ८.१८ ।।

विक्रमौदार्यसम्पन्ना महाबलपराक्रमाः।
तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ।। ८.१९ ।।

चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च।
चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान्।
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ।। ८.२० ।।

प्रथमा त्वग्निका नाम कम्बला तदनन्तरम्।
तथा वसुमती नाम रूपेणाप्रतिमौजसः ।। ८.२१ ।।

ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे।
त्रयो गन्धर्वमुख्यानां विक्रान्ता युद्धदुर्मदाः ।। ८.२२ ।।

आग्नेयाः काम्बलेयाश्च तथा वसुमतीसुताः।
तैर्गणैर्विविधैर्व्याप्तमिदं लोकचराचरम् ।। ८.२३ ।।

विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना।
उत्पादिता महाभागा रूपविद्याधनेश्वराः ।। ८.२४ ।।

तेषामुदीर्ण वीर्याणां गन्धर्वाणां महात्मनाम्।
नामानि कीर्त्त्यमानानि श्रृणुध्वं मे विवक्षतः ।। ८.२५ ।।

हिरण्यरोमा कपिलः सुलोमा मागधस्तथा।
चन्द्रकेतुश्च वै गाङ्गो गोदश्चैव महाबलः ।। ८.२६ ।।

महाविद्यावदातानां विक्रान्तानां तपस्विनाम्।
इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ।। ८.२७ ।।

शिवा च सुमनाश्चैव ताभ्यामपि महात्मना।
उत्पादिता विश्रवसा विद्याचरणगोचराः ।। ८.२८ ।।

शैवेयाश्चैव विक्रान्तास्तथा सौमनसो गणाः।
एतैर्व्याप्तमिदं लोकं विद्याधरगणैस्त्रिभिः ।। ८.२९ ।।

एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम्।
लोके गणशतान्येव विद्याघरविचेष्टितात् ।। ८.३० ।।

अश्वमुखाश्च तेनैव विक्रान्तेन महात्मना।
उत्पादिता ह्यश्वमुखाः किन्नरांस्तान्निबोधत ।। ८.३१ ।।

समुद्रः सेनः कालिन्दो महानेत्रो महाबलः।
सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ।। ८.३२ ।।

इत्येवमादिर्हि गणः किन्नराणां महात्मनाम्।
हयाननानां विद्वद्भिर्विस्तीर्णः परिकीर्त्त्यते ।। ८.३३ ।।

तथासमुत्थितेनैव विक्रान्तेन महात्मना।
उत्पादिता नरमुखाः किन्नराः शांशपायनाः ।। ८.३४ ।।

हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान्।
रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुम महाद्रुमौ ।। ८.३५ ।।

बिन्दुश्च बिन्दुसारश्च चन्द्रवंशाश्च किन्नराः।
इत्येते किन्नराः श्रेष्ठा लोके ख्याताः सुशोभनाः ।। ८.३६ ।।

नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः।
लोके गणशतान्येव किन्नराणां महात्मनाम् ।। ८.३७ ।।

यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी।
दुहीता सुरविन्देति प्रकाशा सिद्धसम्मता ।। ८.३८ ।।

उपायाकेतनस्याहि स्वयमुत्पादितो गणः ।
करालकेन भूतानां तेषां नामानि मे श्रृणु ।। ८.३९ ।।

भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः।
इत्येवमादिर्हि गणो भूमिगोचरकः स्मृतः ।। ८.४० ।।

विज्ञेय इह लोकेऽस्मिन् भूतानां भूतनायकः।
ये उत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम्।
वृक्षाग्रमात्रमाकाशं ते चरन्ति न संशयः ।। ८.४१ ।।

तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया।
देवोपस्थाननिरता विज्ञेयास्ते यशस्विनः ।। ८.४२ ।।

नारायणं सुरगुरुं विरजं पुष्करेक्षणम्।
हिरण्यगर्भञ्च तथा चतुर्वक्त्रं स्वयम्भुवम् ।। ८.४३ ।।

शङ्करञ्च महादेवमीशानञ्च जगत्प्रभुम्।
इन्द्रपूर्वांस्तथा दित्यान् रुद्रांश्च वसुभिः सह ।। ८.४४ ।।

उपतस्थुः सगन्धर्वा नृत्त्यगीतविशारदाः।
त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ।। ८.४५ ।।

हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हुहूः।
चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ।। ८.४६ ।।

षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः।
इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ।। ८.४७ ।।

सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः।
अनवद्यामनवशामन्वतां मदनप्रियाम्।
अरूषां सुभगां भासी मरिष्टाऽष्टौ व्यजायत ।। ८.४८ ।।

मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे।
पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ।। ८.४९ ।।

मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला।
घृतस्थला घृताची च विश्वाची पूर्वचीत्यपि।
प्रम्लोचेत्यभिविख्यातानुम्लोचन्ती तथैव च ।। ८.५० ।।

अनादिनिधनस्याथ जज्ञे नारायणस्य या।
ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ।। ८.५१ ।।

मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः ।
सर्वाश्च ब्रह्म वादिन्यो महायोगाश्च ताः स्मृताः ।। ८.५२ ।।

गणा अप्सरसाङ्ख्याताः पुण्यास्ते वै चतुर्द्दश।
आहूताः शोभयन्तश्च गणा ह्येते चतुर्द्दश ।। ८.५३ ।।

ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः।
वेगवन्त्यस्त्वरिष्टाया ऊर्ज्जायाश्चाग्निसम्भवाः ।। ८.५४ ।।

आयुष्मन्त्यश्च सूर्यस्य रश्मिजाताः सुभा स्वराः।
वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ।। ८.५५ ।।

वायूत्पन्ना मुदा नाम भूमिजाता भवास्तु वै ।
विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ।। ८.५६ ।।

शोभयन्त्यः कामगुणा गणाः प्रोक्ताश्चतुर्द्दश।
सेन्द्रोपेन्द्रैः सुरगणैः रूपातिशयनिर्मिताः ।। ८.५७ ।।

शुभरूपा महाभागा दिव्या नारी तिलोत्तमा।
ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती।
रूपयौवनसम्पन्ना उत्पन्ना लोकविश्रुता ।। ८.५८ ।।

वे दीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः।
नाम्ना वेदवती नाम सुरनारी महाप्रभा ।। ८.५९ ।।

तथा यमस्य दुहिता रूपयौवनशालिनी।
वरहेमविभा हेमा देवनारी सुलोचना ।। ८.६० ।।

इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः।
देवतानामृषीणाञ्च पत्न्यस्ता मातरश्च ह ।। ८.६१ ।।

सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः।
सम्प्रयोगे तु कान्तेन माद्यन्ति मदिरां विना।
तासामाप्यायते स्पर्शादानन्दश्च विवर्द्धते ।। ८.६२ ।।

विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह।
षट्‌त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ।। ८.६३ ।।

गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः।
इत्येवाहानि सर्वाणि दिक्षु सन्निहितानि च ।। ८.६४ ।।

कद्रूर्नागसहस्रं वै चरा चरमजीजनत् ।
अनेकशिरसां तेषां खेचराणां महात्मनाम्।
बहुधानामधेयानां प्रायशस्तु निबोधत ।। ८.६५ ।।

तेषां प्रधाननागाश्च शेषवासुकितक्षकाः।
सकणीरश्च जम्भश्च अञ्जनो वामनस्तथा ।। ८.६६ ।।

ऐरावतमहापझौ कम्बलाश्वतरावुभौ।
ऐलपत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ।। ८.६७ ।।

महाकर्णो महानीलो धृतराष्ट्रबलाहकौ।
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ।। ८.६८ ।।

शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः ।
बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ।। ८.६९ ।।

कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः ।
प्रह्लादः पझचित्रश्च गन्धर्वोऽथ नमस्विकः ।। ८.७० ।।

नहुषः खररोमा च मणिरित्येवमादयः।
काद्रवेया मया ख्याताः खशायांस्तु निबोधत ।। ८.७१ ।।

खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ।
ज्येष्ठं पश्चिमसङ्ख्यायां पूर्वस्यां मनुजास्तथा ।। ८.७२ ।।

विलोहितं विकर्णञ्च पूर्वं साऽजनयत् सुतम्।
चतुर्भुजं चतुष्पादं द्विमूर्द्धानं द्विधागतिम् ।। ८.७३ ।।

सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम्।
स्थूलशीर्षं महाकर्णं मुञ्जाकेशं मनोरथम् ।। ८.७४ ।।

हस्त्योष्ठं दीर्घजङ्घञ्च अश्वदंष्ठ्रं महाहनुम्।
रक्तजिह्वं जटाक्षञ्च स्थूलास्यं दीर्घनासिकम् ।। ८.७५ ।।

गुह्यकं शितिकर्णञ्च महानन्दं महामुखम्।
एवंविधं खशापुत्रं विजज्ञे साऽतिभीषणम् ।। ८.७६ ।।

तस्यानुजं द्वितीयन्तु खशा चैव व्यजायत।
त्रिशीर्षञ्च त्रिपादञ्च त्रिहस्तं कृष्णलोचनम् ।। ८.७७ ।।

ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् ।
ह्रस्व कायं सुबाहुञ्च महाकायं महाबलम् ।। ८.७८ ।।

आकर्णदारितास्यञ्च लम्बभ्रूं स्थूलनासिकम्।
स्थूलोष्ठमष्टदंष्ट्रञ्च द्विजिह्वं शङ्कुकर्णकम् ।। ८.७९ ।।

पिङ्गलोद्वृत्तनयनं जटिलं पिङ्गलं तथा।
महाकर्णं महोरस्कं कटिहीनं कृशोदरम्।
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूयते ।। ८.८० ।।

सद्यः प्रसूयमात्रौ तु विवृद्धौ च प्रमाणतः।
उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ।
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूष्यताम् ।। ८.८१ ।।

ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत।
अब्रवीन्मातरायाहि भक्षार्थे क्षुधयार्द्दितः ।। ८.८२ ।।

न्यषेधयत् पुनर्ह्येनं ज्यायांसन्तु कनिष्ठकः।
अब्रवीत् सोऽसकृत्तं वै रक्षेमां मातरं खशाम्।
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ।। ८.८३ ।।

एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता ।
तौ दृष्ट्वा विकृताकारौ वसतां हीत्यभाषत ।। ८.८४ ।।

तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ ।
मातुरेव पुनस्वाङ्के प्रलपेतां स्वमायया ।। ८.८५ ।।

अथोऽब्रवीदृषिर्भार्यामावाभ्यामुक्तवत्यसि ।
पूर्वमाचक्ष्व तत्त्वेन तथैवाभ्यां व्यतिक्रमम् ।। ८.८६ ।।

मातुलं भजते पुत्रः पितॄन् भजति कन्यका।
यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ।। ८.८७ ।।

यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम्।
मातॄणां शीलदोषेण तथा शीलगुणैः पुनः।
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ।। ८.८८ ।।

बलशीलादिभिस्तासामदितिर्धर्मतत्परा।
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ।। ८.८९ ।।

गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता।
विनता तु पुनर्द्देवी वैहायसगतिप्रिया ।। ८.९० ।।

तपोमयेन शीलेन सुरभिः समलंकृता।
क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ।। ८.९१ ।।

दनायुषायाः शीलं वै वैरनुग्रह लक्षणम्।
त्वञ्च देवि महाभागे क्रोधशीला मतासि मे ।। ८.९२ ।।

इत्येतानि सशीलानि स्वभावाल्लोकनान्नृणाम्।
कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा।
क्षमातश्चैव भिन्नानि भावितार्थबलेन च ।। ८.९३ ।।

रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः।
मातुलन्त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ।। ८.९४ ।।

इत्येवमुक्त्वा भगवान् खशामप्रतिमां तदा।
पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः ।। ८.९५ ।।

ताभ्याञ्च यत् कृतं तस्यास्तदाचष्ट तदा खशा।
मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक् पृथक्।
तेन धात्वर्थयोगेन तत्त्वदर्शी चकार ह ।। ८.९६ ।।

यक्ष इत्येष धातुर्वै खादने कृषणे च सः।
यक्षयेत्युक्तवान् यस्मात् तस्माद्यक्षो भवत्ययम् ।। ८.९७ ।।

रक्ष इत्येष धातुर्यः पालने स विभाव्यते।
उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम्।
नाम्नाऽयं राक्षसस्तस्मात् भविष्यति तवात्मजः ।। ८.९८ ।।

स तदा तद्विधान् दृष्ट्वा विस्मितः परिमृग्य च।
तयोः प्रादिशदाहारं प्रजापतिरसृग्वसे ।। ८.९९ ।।

पिता तौ क्षुधितौ दृष्ट्वा वरञ्चेमं तयोर्ददौ।
युवयोर्हस्तसंस्पर्शो नक्तमेन तु सर्वशः ।। ८.१०० ।।

नक्ताहारविहारौ च दिवा स्वप्नोपभोगिनौ।
नक्तञ्चैव बलीयांसौ दिवा सुप्तावुभौ युवाम् ।। ८.१०१ ।।

मातरं रक्षतञ्चैव धर्मश्चैवानुशिष्यताम्।
इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ।। ८.१०२ ।।

गते पितरि तौ वीरौ निसर्गादेव दारुणौ।
विपर्ययेण वर्त्तन्तौ किम्भक्षौ प्राणिहिंसकौ ।। ८.१०३ ।।

महाबलौ महासत्त्वौ महाकायौ दुरासदौ।
मायाविनौ च दृश्यौ तावन्तर्द्धानगतावुभौ ।। ८.१०४ ।।

तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः।
रूपानुरूपैराहारैः प्रभवेतामुभावपि ।। ८.१०५ ।।

देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि।
पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ।। ८.१०६ ।।

भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ।
इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ।। ८.१०७ ।।

यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम्।
आहारं स परीप्सन् वै शब्देनानुचचार ह ।। ८.१०८ ।।

आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ।
पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ।। ८.१०९ ।।

असृङ्मांसवसाहारौ पुरुषादौ महाबलौ।
कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ।। ८.११० ।।

द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे।
आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ।। ८.१११ ।।

तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम्।
सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ।। ८.११२ ।।

रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः।
पितरावूचतुः कन्ये युवामानयत द्रुतम् ।। ८.११३ ।।

जीवग्राहं विगृह्यैनं विस्फुरन्तं पदे पदे।
ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा।
गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ।। ८.११४ ।।

ताभ्यां करे गृहीतं तं पिशाचमथ राक्षसम्।
पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ।। ८.११५ ।।

तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्षभौ।
अजञ्च शण्डं तस्यैते प्रत्यपादयतां सुते।
तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुः सुते ।। ८.११६ ।।

पैशाचेव विवाहेन सुदत्या बुद्धवाहनः।
अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ।। ८.११७ ।।

इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका ।
ब्रह्मसत्त्वधनाहारा इति खण्डोभ्यभाषत ।। ८.११८ ।।

इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी।
जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ।। ८.११९ ।।

सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा।
अकर्णान्ताप्यरोमा च कन्या ब्रह्मधना तु या ।। ८.१२० ।।

ब्रह्मधनं प्रसूता सा धनानाच्चैव कन्यका।
एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम्।
तयोः प्रजाविसर्गञ्च ब्रुवतो मे निबोधत ।। ८.१२१ ।।

हेतिः प्रहेतिरुग्रश्च पौरुषेयो वधस्तथा।
विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ।। ८.१२२ ।।

सर्पश्च राक्षसा ह्येते यातुधानात्मजा दश।
सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ।। ८.१२३ ।।

हेतिपुत्रस्तथा लङ्कुर्लङ्कोर्द्वावेव चात्मजौ।
माल्यवांश्च सुमाली च प्रहेतितनयान् श्रृणु।
प्रहेतितनयः श्रीमान् पुलोमा नाम विश्रुतः ।। ८.१२४ ।।

वधपुत्रो निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः।
वातपुत्रो विरागस्तु आपपुत्रस्तु जम्बुकः ।। ८.१२५ ।।

व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः।
इत्येते वै परिक्रान्ताः क्रूराः सर्वे तु राक्षसाः ।। ८.१२६ ।।

कीर्तिता यातुधानास्तु ब्रह्मधानान् निबोधत।
यज्ञः पिता धुनिः क्षेमो ब्रह्मा पापोऽथ यज्ञहा ।। ८.१२७ ।।

स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश।
स्वसारो ब्रह्मराक्षस्यस्तेषाञ्चेमाः सुदारुणाः ।। ८.१२८ ।।

रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी।
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ।। ८.१२९ ।।

श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः।
इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ।। ८.१३० ।।

चकमेऽप्सरसं यक्ष पञ्चस्थूलां क्रतुस्थलीम्।
तां लिप्सुश्चिन्तमानश्च नन्दनं स चचार ह ।। ८.१३१ ।।

वैभ्राजं सुरभिञ्चैव तथा चैत्ररथञ्च यत्।
दृष्टवान् नन्दने तस्मिन्नप्सरोभिः सहासतीम् ।। ८.१३२ ।।

नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन्।
दूषितः स्वेन रूपेण कर्म्मणा तेन दूषितः ।। ८.१३३ ।।

ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः।
तत्कथं नाम चार्वङ्गीं प्राप्नुयामहमङ्गनाम् ।। ८.१३४ ।।

दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तत।
कृत्वा रूपं बहुमतं गन्धर्वस्य तु गुह्यकः।
ततः सोऽप्सरसां मध्ये तां जग्राह क्रतुस्थलीम् ।। ८.१३५ ।।

बुद्ध्वा च सुरुचिं तं सा भावेनैवाभ्यवर्त्तत।
संवृतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ।। ८.१३६ ।।

स तत्र सिद्धकरणः सद्यो जातः सुतोऽस्य वै ।
परिणाहोच्छ्रयैर्युक्तः सद्यो वृत्तो ज्वलन् श्रिया ।। ८.१३७ ।।

राजाहमिति नाभिर्हि पितरं सोऽभ्यभाषत।
तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ।। ८.१३८ ।।

मात्रानुरूपो रूपेण पितुर्वीर्येण जायते।
जाते स तस्मिन् हर्षेण स्वरूपं प्रत्यपद्यत ।। ८.१३९ ।।

स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः ।
म्रियमाणाः प्रसुप्ताश्च क्रुद्धा भीताः प्रहर्षिताः ।। ८.१४० ।।

ततोऽब्रवीदप्सरसः स्मयमानः स गुह्यकः।
गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ।। ८.१४१ ।।

इत्युक्त्वा सहसा तञ्च दृष्ट्वा स्वं रूपमास्थितम्।
विभ्रान्ताः प्राद्रवन् भीताः क्रोधमानाऽप्सरोगणाः ।। ८.१४२ ।।

गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन् गिरा।
गन्धर्वाप्सरसां मध्येतां नीत्वा स न्यवर्त्तत ।। ८.१४३ ।।

ताञ्च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः।
यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै क्रतुस्थलीम् ।। ८.१४४ ।।

जगाम सह पुत्रेण ततो यक्षः स्वमालयम्।
न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते।
तस्मान्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ।। ८.१४५ ।।

यक्षो रजतनाभस्तु गुह्यकानां पितामहः।
अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम्।
उपयेमे स भद्रायां यस्यां मणिवरो वशी ।। ८.१४६ ।।

जज्ञे सा मणिभद्रञ्च शक्रतुल्यपराक्रमम्।
तयोः पत्न्यौ भगिन्यौ तु क्रतुस्थल्यात्मजे शुभे ।। ८.१४७ ।।

नाम्ना पुण्यजनी चैव तथा देवजनी च या।
विजज्ञे मणिभद्रात्तु पुत्रान् पुण्यजनी शुभान् ।। ८.१४८ ।।

सिद्धार्थं सूर्यतेजञ्च सुमन्तं नन्दनं तथा।
कन्यकं यविक्ञ्चैव मणिदत्तं वसुं तथा ।। ८.१४९ ।।

सर्वानुभूतं शङ्खञ्च पिङ्गाक्षं भीरुमेव च।
तथा मन्दरशोभिञ्च पझं चन्द्रप्रभं तथा ।। ८.१५० ।।

मघपूर्णं सुभद्रञ्च प्रद्योतञ्च महौजसम्।
द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ।। ८.१५१ ।।

चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः ।
जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः ।
तेषां पुत्राश्च पौत्राश्च यक्षा पुण्यजनाः शुभाः ।। ८.१५२ ।।

विजज्ञे देवजननी पुत्रान् मणिवरात्मजात् ।
पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्द्धनौ ।। ८.१५३ ।।

कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम्।
श्वेतञ्च विपुलञ्चैव पुष्पवन्तं भयावहम् ।। ८.१५४ ।।

पद्मवर्णं सुनेत्रञ्च यक्षं बालं बकं तथा।
कुमुदं क्षेमकञ्चैव वर्द्धमानं तथा दमम् ।। ८.१५५ ।।

पद्मनाभं वराङ्गञ्च सुवीरं विजयं कृतिम्।
पूर्णमासं हिरण्याक्षं सुरूपञ्चैवमादयः ।। ८.१५६ ।।

पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः ।
सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।। ८.१५७ ।।

खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ।
तेषां यथा प्रधानान् वै वर्ण्यमानान्निबोधत ।। ८.१५८ ।।

लालाविः कुथनो भीमः सुमाली मधुरेव च।
विस्फूर्ज्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तता ।। ८.१५९ ।।

चन्द्रार्कः सुकरो बुध्नः कपिलोमा प्रहासकः।
क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः ।। ८.१६० ।।

त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः।
यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः ।। ८.१६१ ।।

इत्येते राक्षसवरा विक्रान्ता गणरूपिणः.
सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ।। ८.१६२ ।।

सप्त चान्या दुहितरस्ताः श्रृणुध्वं यथाक्रमम्।
तासाञ्च यः प्रजासर्गो येन चोत्पादिता गणाः ।। ८.१६३ ।।

आलम्बा उत्कचा कृष्णा निऋतो कपिला शिवा।
केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ।। ८.१६४ ।।

ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः।
उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः ।। ८.१६५ ।।

आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा।
तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः ।। ८.१६६ ।।

तथैव नैऋतो नाम त्र्यम्बकानुचरेण ह।
उत्पादितः प्रजासर्गो गणेश्वरचरेण तु ।। ८.१६७ ।।

उत्पादिता बलवता उदीर्णा यक्षराक्षसाः ।
विक्रान्ताः शौर्यसम्पन्ना नैऋता देवराक्षसाः।
येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ।। ८.१६८ ।।

तेषां गणशतानेका उद्धृतानां महात्मनाम्।
प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ।। ८.१६९ ।।

दैत्यराजेन कुम्भेन महाकाया महात्मना ।.
उत्पादिता महावीर्या महाबलपराक्रमाः ।। ८.१७० ।।

कपिलेया महावीर्या उदीर्णा दैत्यराक्षसाः।
कम्पनेन च यक्षेण केशिन्यास्ते परे जनाः ।। ८.१७१ ।।

उत्पादिता महावाता उदीर्णा यक्षराक्षसाः।
केशिनीदुहितुश्चैव नीलायाः क्षुद्रमानसाः ।। ८.१७२ ।।

आलम्बेयेन जनिता नैकाः सुरसिकेन हि।
नैला इति समाख्याता दुर्जया घोरविक्रमाः ।। ८.१७३ ।।

चरन्ति पृतिवीं कृत्स्नां तत्र ते देवलौकिकाः।
बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते ।। ८.१७४ ।।

तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी।
दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ।। ८.१७५ ।।

तस्या अपि विरूपेण नैऋतेनेह च प्रजाः।
उत्पादिताः सुरा घोराः श्रृणु तास्त्वनुपूर्वशः ।। ८.१७६ ।।

दंष्ट्राकरालविकृता महाकर्णा महोदराः।
हारका भीषकाश्चैव तथैव क्रामकाः परे ।। ८.१७७ ।।

वैनकाश्च पिशाचाश्च वाहकाः प्राशकाः परे।
भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ।। ८.१७८ ।।

चरन्त्यदृष्टपूर्वाश्च नानाकारा ह्यनेकशः।
उत्कृष्ट बलसत्त्वा ये ते च वै खेचराः स्मृताः ।। ८.१७९ ।।

लक्षमात्रेण चाकाशं स्वल्पाः स्वल्पं चरन्ति वै ।
एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ।। ८.१८० ।।

भूमी राक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः।
नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ।। ८.१८१ ।।

समासाभिहताश्वैव ह्यष्टौ राक्षसमातरः।
अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ।। ८.१८२ ।।

भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः।
सहस्रसतसङ्ख्याता मर्त्त्यलोकविचारिणः ।। ८.१८३ ।।

पूतना मातृसामान्यास्तथा भूतभयङ्कराः।
बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ।। ८.१८४ ।।

स्कन्दग्रहादयश्चैव आपकास्त्रासकादयः।
कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ।। ८.१८५ ।।

स्कन्दग्रहविशेषाणां मायिकानां तथैव च।
पूतनानामभूतानां ये च लोकविनायकाः ।। ८.१८६ ।।

सहस्रशत सङ्ख्यानां मर्त्यलोकविचारिणाम्।
एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ।। ८.१८७ ।।

यक्षाः पुण्यतमा नाम तथा ये केऽपि गुह्यकाः।
यक्षा देवजना श्चैव तथा पुण्यजनाश्च ये ।। ८.१८८ ।।

गुह्यकानाञ्च सर्वेषामगस्त्या ये च राक्षसाः ।
पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ।। ८.१८९ ।।

यक्षाणां राक्षसानाञ्च पौलस्त्यागस्त्ययश्च ये ।
तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ।। ८.१९० ।।

यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम्।
रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ।। ८.१९१ ।।

सर्वलक्षणसम्पन्नाः समक्षेत्राश्च दैवतैः।
भास्वरा बलवन्तश्च ईश्वराः करामरूपिणः ।। ८.१९२ ।।

अनाभिभक्षा विक्रान्ताः सर्वलोकनमस्कृताः।
सूक्ष्माश्चौजस्विनो मेध्या वरदा यज्ञियाश्च ये ।। ८.१९३ ।।

देवानां तुल्यधर्माणां ह्यसुराः सर्वशः स्मृताः।
त्रिभिः पाधैस्तु गन्धर्वा देवै र्हीनाः प्रभावतः ।। ८.१९४ ।।

गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः।
प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः।
ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रि गुणं पुनः ।। ८.१९५ ।।

एवं धनेन रूपेण आयुषा च बलेन च।
धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ।। ८.१९६ ।।

देवासुरेभ्यो हीयन्ते त्रीन् पादान् वै परस्परम्।
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ।। ८.१९७ ।।

         ।।सूत उवाच।।
अतः श्रृणुत भद्रं वः प्रजाः क्रोधवशत्मकाः ।
क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसम्भवाः।
ता भार्याः पुलहस्यासन्नामतस्ता निबोधत ।। ८.१९८ ।।

मृगी च मृगमन्दा च हरिभद्रा इरावती।
भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च।
श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ।। ८.१९९ ।।

मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्ये शशास्तथा।
न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ।। ८.२०० ।।

मृगराजा मृगमन्दाया गवयाश्चापरे तथा।
महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ।। ८.२०१ ।।

हरेस्तु हरयः पुत्रा गोलाङ्गुलतरक्षवः ।
वानराः किन्नराश्चैव व्याघ्राः किम्पुरुषास्तथा।
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ।। ८.२०२ ।।

सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः।
हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ।। ८.२०३ ।।

साम्ना प्रसूयमानेन सद्य एव गजोऽभवत्।
स प्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ।। ८.२०४ ।।

इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः ।
देवराजोपवाह्यत्वात् प्रथमः स मतङ्गराट्।
शुभ्राभ्रभाश्चतुर्द्दंष्ट्रः श्रीमानैरावतो गजः ।। ८.२०५ ।।

अप्सुजस्यैकमूलस्य सुवर्णाभस्य हस्तिनः ।
षड्दन्तस्य हि भद्रस्य औपावाह्यश्च वै बलः ।। ८.२०६ ।।

तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः।
पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ।। ८.२०७ ।।

दिग्गजांस्तांश्च चत्वारः श्वेताऽजनयताशुगान् ।
भद्रं मृगञ्च मन्दं च सङ्कीर्णं चतुरः सुतान् ।। ८.२०८ ।।

सङ्कीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु।
भद्रो यः सुप्रतीकस्तु हरितः स ह्यपाम्पतेः ।। ८.२०९ ।।

पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य सः।
मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ।। ८.२१० ।।

पद्मोत्तरस्तु यः पद्मौ गजो वै वरुणो गणः।
उपलेपनमेषश्च तस्याष्टौ जज्ञिरे सुताः ।। ८.२११ ।।

उदग्रभावेनोपेता जायन्ते तस्य चान्वये।
श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः।
मतङ्गजान् प्रवक्ष्यामि नागानन्यानपि क्रमात् ।। ८.२१२ ।।

कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः।
जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्द्दनौ ।। ८.२१३ ।।

शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा।
बलिनः शक्तिनश्चैव स्मृतास्त्वाकुलिका गजाः ।। ८.२१४ ।।

पुष्पदन्तो बृहत्सामा षड्दन्तो दन्त पुष्पवान्।
ताम्रवर्णश्च तत्पुत्रः सहचारिविषाणितः ।। ८.२१५ ।।

अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः।
श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ।। ८.२१६ ।।

वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः।
भार्या चैवाङ्गदा तस्य नीलवल्लक्षणौ सुतौ ।। ८.२१७ ।।

चण्डश्चात्रशिरो ग्रीवा व्यूढोरस्कास्तरस्विनः।
नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ।। ८.२१८ ।।

सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः ।
तस्य प्रहारी सम्पाती पृथुश्चित्तिसुतास्त्रयः ।। ८.२१९ ।।

पशवो दीर्घताल्वौष्ठाः सुविभक्तशिरोदराः।
जायन्ते मृदुसम्भूता वंशे तस्य मतङ्गजाः ।। ८.२२० ।।

अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जनावती।
एवं माता तयोश्चापि प्रथितायुरजःसुतौ ।। ८.२२१ ।।

महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः।
सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः।
शूनाः पीतायतमुखा गजास्तस्यान्वयेऽभवन् ।। ८.२२२ ।।

जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुदद्युतिः।
पिङ्गलायाः सुतौ तस्या महापद्मोर्मिमालिनौ ।। ८.२२३ ।।

समायवरदांश्चण्डान् प्रवृद्धबलिनोदरान् ।
हस्तियुद्धे प्रियान्नागान् विद्धि तस्य कुलोद्भवान् ।। ८.२२४ ।।

एतान् देवासुरे युद्धे जयार्थे जगृहुः सुराः।
कृतार्थैश्च विसृष्टास्तैः पूर्वोक्ताः प्रययुर्दिशः ।। ८.२२५ ।।

एतेषामन्वये जातान् विनीतांस्त्रिदशा ददुः ।
अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ।। ८.२२६ ।।

द्विरदो द्विरदाभ्याञ्च हस्ताद्धस्ती करात्करी।
वरणाद्वारणो दन्ती दन्ताभ्यां गर्जनाद्गजः ।। ८.२२७ ।।

कुञ्जरः कुञ्जचारित्वान्नागो नगविरोधतः ।
मतङ्गादिति मातङ्गो द्विपो द्वाभ्यामपि स्मृतः।
सामजः सामजातत्वादिति निर्वचनक्रमः ।। ८.२२८ ।।

एषां जिह्वापरावृत्तिरिवाक्तं ह्यग्निशापजम्।
बलस्यानवतो या तु या चैषां गूढमुष्कता।
उभयं दन्तिनामेतत्स्वयम्भूसूरशापजम् ।। ८.२२९ ।।

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
कन्यासु जाता दिङ्नागैर्नानासात्त्वास्ततो गजाः ।। ८.२३० ।।

सम्भूतिश्च प्रबूतिश्च नामनिर्वचनं तथा।
एतद्गजानां विज्ञेयं येषां राजा विभावसुः ।। ८.२३१ ।।

कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम्।
अञ्जनस्यैकमूलस्य प्राच्यान्नागवनन्तु तत् ।। ८.२३२ ।।

उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणञ्च यत्।
गङ्गोद्भेदात्करूषेभ्यः सुप्रतीकस्य तद्वनम् ।। ८.२३३ ।।

अपरेणोत्कलाच्चैव ह्यावेदिभ्यश्च पञ्चमम्।
एकभूतात्मनोस्यैतद्वामनस्य वनं स्मृतम् ।। ८.२३४ ।।

अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु।
यमस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ।। ८.२३५ ।।

भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान् प्रभोः।
स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् ।। ८.२३६ ।।

लम्बकर्णान् प्रलम्बोष्ठान् लम्बजिह्वास्तनोदरान्।
एकरूपान् द्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ।। ८.२३७ ।।

सरोवरसमुद्रादिनदीपुलिनवासिनः।
कृष्णान् गौरांश्च नीलांश्च श्वेतांश्च लोहितारुणान् ।। ८.२३८ ।।

बभ्रून् वै शबलान् धूम्रान् कद्रून् रासभदारूणान्।
मुञ्जकेशान् हृषीकेशान् सर्पयजोपवीतिनः ।। ८.२३९ ।।

विसृष्टाक्षान् विरूपाक्षान् कृशाक्षानेकलोचनान्।
बहुशीर्षान् विशीर्षांश्च एकशीर्षांश्च शीर्षकान् ।। ८.२४० ।।

चण्डांश्च विकटांश्चैव विरोमान् रोमशांस्तथा।
अन्धांस्व जटिलांश्चैव कुञ्जान् हेषकवामनान् ।। ८.२४१ ।।

सरोवरसमुद्रादिनदीपुलिनसेविनः।
एककर्णान् महाकर्णान् शङ्कुकर्णानकर्णिकान् ।। ८.२४२ ।।

दंष्ट्रिणो नखिनश्चैव निर्द्दन्तांश्च द्विजिह्वकान्।
एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ।। ८.२४३ ।।

एकपादान् द्विपादांश्च त्रिपादान् बहुपादकान् ।
महायोगान् महासत्त्वान् सुतपक्वान् महाबलान् ।। ८.२४४ ।।

सर्वत्रगानप्रतिघान् ब्रह्मज्ञान् कामरूपिणः ।
घोरान् क्रूरांश्च मेध्यांश्च शिवान् पुण्यान् सवादिनः ।। ८.२४५ ।।

कुशहस्तान् महाजिह्वान् महाकर्णान्महाननान्।
हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ।। ८.२४६ ।।

धन्विनो मुद्गरधरानसिशूलधरांस्तथा।
दीप्तास्यान् दीप्तनेत्रांश्च चित्र माल्यानुलेषनान् ।। ८.२४७ ।।

अन्नादान् पिशितादांश्च बहुरूपान् सुरूपकान् ।
रात्रिसन्ध्याचरान् घोरान् व्कचित्सौम्यान् दिवाचरान्।
नक्तञ्चरान् सुदुष्प्रेक्ष्यान् घोरांस्तान् वै निशाचरान् ।। ८.२४८ ।।

परत्वे च भयं दैव सर्वे ते गतमानसाः।
नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्द्ध्वरेतसः ।। ८.२४९ ।।

शतन्तानि सहस्राणि भूतानामात्मयोगिनाम्।
एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्त्तिताः ।। ८.२५० ।।

कपिशा चैव कूष्माण्डीकूष्माण्डाञ्जज्ञिरे पुनः ।
मिथुनानि पिशाचानां वर्णेन कपिशेन च।
कपिशत्वात् पिशाचास्ते सर्वे च पिशिताशनाः ।। ८.२५१ ।।

युग्मानि षोडशान्यानि वर्त्तमानास्तदन्वयाः।
नामतस्तान् प्रवक्ष्यामि पुरुषादांस्तदन्वयान् ।। ८.२५२ ।।

छगलश्छगली चैव वक्रो वक्रमुखी तथा।
षोडशानां गणाश्चैव सूची सूचीमुखस्तथा ।। ८.२५३ ।।

सुम्भपा त्रश्च कुमभी च वज्रदंष्ट्रश्च दुन्दुभिः।
उपचारोपचारश्च उलूखल उलूखली ।। ८.२५४ ।।

अनर्कश्च अनर्का च कुखण्डश्च कुखण्डिका।
पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ।। ८.२५५ ।।

नितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा।
छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा।
षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ।। ८.२५६ ।।

अजामुखा वक्रमुखाः पूरिणः स्कन्दिनस्तथा।
विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ।। ८.२५७ ।।

उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः।
पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ।। ८.२५८ ।।

सूचीमुखोच्छेषणादाः कुलान्येतानि षोडश।
इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ।। ८.२५९ ।।

पिशाचास्ते तु विज्ञेयाः सुकल्पा इति जज्ञिरे।
बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम्।
अतस्तेषां पिशाचानां लक्षणञ्च निबोधत ।। ८.२६० ।।

सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा।
तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ।। ८.२६१ ।।

अकेशका ह्यरोमाणस्त्वग्वसाश्चर्मवाससः।
कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ।। ८.२६२ ।।

वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा।
ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ।। ८.२६३ ।।

लम्बोदरास्तुण्डनाशा ह्रस्वकायशिरोभुजाः।
नितुन्दकाः पिशाचास्ते तिलतक्षाः प्रियश्रवाः ।। ८.२६४ ।।

वामनाकृतयश्चैव वाचालाः प्लुतगामिनः।
पिशाचानर्कमर्कास्ते वृक्षवासादनप्रियाः ।। ८.२६५ ।।

ऊर्द्ध्वबाहूर्द्ध्वरोमाण ऊर्द्ध्ववृक्षास्तथालयाः।
मुञ्चन्ति पांशूनङ्गेभ्यः पिशाचाः पांशवश्च ते ।। ८.२६६ ।।

धमनीमतकाः शुष्काः श्मश्रुलाश्चीरवाससः।
उपवीराः पिशाचाश्च श्मशानायतनास्तथा ।। ८.२६७ ।।

विष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युदूखलाः।
हस्त्युष्ट्रस्थूलशिरसो विरता बद्धपिण्डकाः ।। ८.२६८ ।।

पिशाचाः सुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते।
सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति वै ।। ८.२६९ ।।

अयुक्ताश्च विशन्तीह निपुणास्ते पिशाचकाः.
आकर्ण दारितास्याश्च लम्बश्रूस्थूलनासिकाः ।। ८.२७० ।।

हस्तपादाक्रान्तगणा ह्रस्वकाः क्षितिदृष्टयः।
बालादास्ते पिशाचा वै सूतिकागृहसेविनः ।। ८.२७१ ।।

पृष्ठतः पाणिपादाश्च ह्रस्वका वातरंहसः।
पिशितादाः पिशाचास्ते संग्रामे रुधिराशिनः ।। ८.२७२ ।।

नग्नका ह्यनिकेताश्च लम्बकेशाश्च पिण्डकाः।
पिशाचाः स्कन्दिनस्ते वै अन्या उच्छुसनाशिनः ।
षोडश जातयस्तेषां पिशाचानां प्रकीर्त्तिताः ।। ८.२७३ ।।

एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकम्पया।
तेभ्यो ब्रह्मा वरं प्रादात्कारुण्यादल्पचेतसः।
अन्तर्द्धानं प्रजास्तेषां कामरूपत्वमेव च ।। ८.२७४ ।।

उभयोः सन्द्ययोश्चारं स्थानान्याजीवमेव च।
गृहाणि यानि भग्नानि शून्यान्यल्पजनानि च ।। ८.२७५ ।।

विध्वस्तानि च यानि स्युरनाचारोषितानि च।
असंस्पृष्टोप लिप्तानि संस्कारैर्वर्जितानि च ।। ८.२७६ ।।

राजमार्गोपरथ्याश्च निष्कुण्ठाश्चत्वराणि च।
द्वाराण्यष्टालकाश्चैव निर्ममान्संक्रमांस्तथा ।। ८.२७७ ।।

पथो नद्योऽथ तीर्थानि चैत्यवृक्षान्महापथान् ।
पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ।। ८.२७८ ।।

अधार्मिका जनास्ते वै आजीवा विहिताः सुरैः।
वर्णाश्रमाः सङ्करिकाः कारुशिल्पिजनास्तथा ।। ८.२७९ ।।

अमृतोपमसत्त्वानां चौरविश्वासघातिनाम्।
एतैरन्यैश्च बहुबिरन्यायोपार्ज्जितैर्धनैः ।
आरभन्ते क्रिया यास्तु पिशाचास्तत्र देवताः ।। ८.२८० ।।

मधुमांसौदनैर्दध्ना तिलचूर्णसुरासवैः।
धूपैर्हारिद्रकृशरैस्तैलभद्रगुडौदनैः ।। ८.२८१ ।।

कृष्णानि चैव वासांसि धूपाः सुमनसस्तथा।
एवं युक्ताः सुबलयस्तेषां वै पर्वसन्धिषु।
पिशाचानामनुज्ञाय ब्रह्मा सोऽधिपतिर्ददौ ।। ८.२८२ ।।

सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।
दृष्ट्वा त्वजनयन्पुत्रान्व्याघ्रान्सिंहांश्च भामिनी ।। ८.२८३ ।।

द्विपिनश्च सुतास्तस्या व्यालेयाश्चामिषाशिनः।
ऋषयश्चापि कार्त्स्न्येन प्रजासर्गं निबोधत।
तस्या दुहितरः पञ्च तासां नामानि मे श्रृणु ।। ८.२८४ ।।

मीना माता तथा वृत्ता परिवृत्ता तथैव च।
अनुवृत्ता तु विज्ञेया तासां वै श्रृणुत प्रजाः ।। ८.२८५ ।।

सहस्रदन्ता मकराः पाठीनास्तामरोहिताः।
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ।। ८.२८६ ।।

ग्राहाश्चतुर्विधा ज्ञेयास्तथानुज्येष्ठका अपि।
निष्कांश्च शिशुमारांश्च मता व्यजनयत्प्रजाः ।। ८.२८७ ।।

वृत्ता कूर्मविकाराणि नैकानि जलचारिणाम्।
तथा शङ्खविकाराणि जनयामास नैकशः ।। ८.२८८ ।।

मण्डूकानां विकाराणि अनुवृत्ता व्यजायत।
ऐणेयानां विकाराणि शम्बूकानां तथैव च ।। ८.२८९ ।।

तथा शुक्तिविकाराणि वराटककृतानि च।
तथा शङ्खविकाराणि परिवृत्ता व्यजायत ।। ८.२९० ।।

कालकूटविकाराणि जलौकविहितानि च ।
इत्येष हि ऋषेर्वंशः पञ्चशाखाः प्रकीर्त्तिताः ।। ८.२९१ ।।

तिर्यगं हेतुकमाद्यादुर्बहुलं वंशविस्तरम्।
संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ।। ८.२९२ ।।

स्वस्तिपिकशरीरेभ्यो जायन्त्युत्पादका द्विजाः।
मनुष्याः स्वेदमलजाः उशना नाम जन्तवः।
नानापिपीलिकगणाः कीटका बद्धपादकाः ।। ८.२९३ ।।

शङ्खोपलविकाराणि कीलकाचारकाणि च।
इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ।। ८.२९४ ।।

तथा घर्मादितप्ताभ्यस्त्वद्भयो वृष्टिभ्य एव च।
नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ।। ८.२९५ ।।

मीनकाः पिप्पला दंशास्तथा तित्तिरपुत्रिकाः।
नीलचित्राश्च जायन्ते ह्यलका बहुविस्तराः ।। ८.२९६ ।।

जलजाः स्वेदजाश्चैव जायन्ते जन्तवस्त्विमे।
काशातो यञ्जकाः कीटनलदा बहुपादकाः ।। ८.२९७ ।।

सिहला रोमलाश्चैव पिच्छलाः परिकीर्त्तिताः।
इत्येमादिर्हि गणो जलजः स्वेदजः स्मृतः ।। ८.२९८ ।।

सर्पिर्भ्यो माषमुद्गानां जायन्ते क्रमशस्तथा।
जम्बुबिल्वाम्रपूगेभ्यः फलेभ्यश्चैव जन्तवः ।। ८.२९९ ।।

मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च।
तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ।। ८.३०० ।।

अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा।
जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ।। ८.३०१ ।।

बहून्यहानि निःक्षिप्ते सम्भवन्ति च गोमये।
जायन्ते कृमयो विप्रा काष्ठेभ्यश्च घुणादयः ।। ८.३०२ ।।

क्रमाद्‌द्रुमाणां जायन्ते विविधा नीलमक्षिकाः।
तथा शुष्कविकारेभ्यः पुत्रिकाः प्रभवन्ति च ।। ८.३०३ ।।

कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः।
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ।। ८.३०४ ।।

गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो।
मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ।। ८.३०५ ।।

चैवीरिकाश्च जायन्ते तथा गोजाकुलानि च।
तथान्यानि च सूक्ष्माणि जलौकादीनि जातयः ।। ८.३०६ ।।

मक्षिकाणां विकाराणि जायन्ते जात योऽपरे ।
प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्द्दमे ।। ८.३०७ ।।

मशकानां विकाराणि भ्रमराणां तथैव च।
तृणेभ्यश्चैव जायन्ते पुत्रिका पुत्रभासकाः ।। ८.३०८ ।।

मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः।
शतवेरिविकाराणि करीषेभ्यो भवन्तिह ।। ८.३०९ ।।

एवमादिरसङ्ख्यातो गणः संस्वेदजो मया।
समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ।। ८.३१० ।।

तथाऽन्ये नैऋताः सत्त्वास्ते स्मृता उपसर्गजाः।
पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ।। ८.३११ ।।

प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः ।
केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ।। ८.३१२ ।।

तूलालाघश्च कोलश्च शिवा कन्या तथैव च।
अपत्यं सरमायास्तु गणा वै सरमादयः ।। ८.३१३ ।।

श्यामश्च शबलश्चैव अर्जुनो हरितस्तथा।
कृष्णो धूम्रारूणश्चैव तूलालाघश्च कद्रुकाः ।। ८.३१४ ।।

सुरसाथ विजज्ञे तु शतमेकं शिरो मतम्।
सर्पाणां तक्षको राजा नागानाञ्चापि वासुकिः । द्र. गरुडपुराणे १.१९७.१२ मध्ये वासुकेः पार्थिवमण्डले एवं तक्षकस्य वायुमण्डले स्थितिः
तमोबहुल इत्येष गणः क्रोधवशात्मकः ।। ८.३१५ ।।

पुलहस्यात्मजा सर्गस्ताम्रायास्तन्निबोधत।
बह्वन्यास्त्वबिविख्यातास्ताम्रायाश्च विजज्ञिरे ।। ८.३१६ ।।

श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ।
सम्पातिञ्च जटायुञ्च प्रसूता पक्षिसत्तमौ ।। ८.३१७ ।।

सम्पातिरजनत् पुत्रं कन्यामेकां तथैव च।
जटायुषश्च ये पुत्राः काक गृध्राश्चकर्णिनः ।। ८.३१८ ।।

भार्या गरुत्मतश्चापि भासी क्रौञ्ची तथा शुकी।
धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते ।। ८.३१९ ।।

शुकी गरुत्मतः पुत्रान् सुषुवे षट् परिश्रुतान् ।
त्रिशिरं सुमुखञ्चैव बलं पृष्ठं महाबलम् ।। ८.३२० ।।

त्रिशङ्खनेत्रं सुमुखं सुरूपं सुरसं बलम्।
एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ।। ८.३२१ ।।

चतुर्दश सहस्राणि क्रूराणां पन्नगाशिनाम्।
पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः ।। ८.३२२ ।।

व्याप्तानि यानि देशानि तानि वक्ष्ये यथाक्रमम्।
शाल्मलिद्वीपमखिलं देवकूटञ्च पर्वतम् ।। ८.३२३ ।।

मणिमन्तञ्च शैलेन्द्रं सहस्रशिखरं तथा।
पर्णमालं सुकेशञ्च शतश्रृङ्गं तथाचलम् ।। ८.३२४ ।।

कौरजं पञ्चशिखरं हेमकूटञ्च पर्वतम्।
प्रचण्डवायुप्रभवैर्दीपितैः पझरागिभिः ।। ८.३२५ ।।

शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः ।
भासीपुत्राः स्मृता भासा उलूका काककुक्कुटाः ।। ८.३२६ ।।

मयूराः कलविङ्काश्च कपोता लावतित्तिराः।
क्रौञ्ची वार्द्धीणसान् श्येनी कुररान्सारसान्बकान् ।। ८.३२७ ।।

इत्येवमादयोन्येऽपि क्रव्यादा ये च पक्षिणः।
धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ।। ८.३२८ ।।

चक्रवाकांश्च विहगान्सर्वांश्चैवादकान् द्विजान्।
एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ।। ८.३२९ ।।

गरुडस्यात्मजाः प्रोक्ता इरायाः श्रृणुत प्रजाः।
इरा प्रजज्ञे कन्या वैतिस्रः कमललोचनाः ।। ८.३३० ।।

वन स्पतीनां वृक्षाणां वीरुधाञ्चैव मातरः।
लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ।। ८.३३१ ।।

लता वनस्पतीञ्जज्ञे ह्यपुष्पान् पुलिनस्थितान् ।
युक्तान्पुष्पफलैर्वृक्षान् लता वै सम्प्रसूयते ।। ८.३३२ ।।

अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः।
वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ।। ८.३३३ ।।

एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः ।
तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ।। ८.३३४ ।।

इति सर्गैकदेशस्य कीर्तितोऽवयवो मया।
मारीचोऽयं प्रजा सर्गः समासेन प्रकीर्तितः।
न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ।। ८.३३५ ।।

अदितिर्धर्मशीला तु बलशीला दितिः स्मृता।
तपःशीला तु सुरभि र्मायाशीला दनुः स्मृता ।। ८.३३६ ।।

क्रूरशीला तथा कद्रुः क्रौञ्च्यथ श्रुतिशालिनी ।
इरा ग्रहणशीला तु दनायुर्भक्षणे रता ।। ८.३३७ ।।

वाहशीला तु विनता ताम्रा वै पाशशालिनी।
स्वभावा लोकमातॄणां शीलान्येतानि सर्वशः ।। ८.३३८ ।।

धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः।
रजः सत्त्वतमो वृत्ता धार्मिकाधार्मिकास्तु वै ।। ८.३३९ ।।

मातृतुल्याश्चाबिजाताः कश्यपस्यात्मजाः प्रजाः।
देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः।
पिशाचाः पशवश्चैव मृगाः पतङ्गवीरुधः ।। ८.३४० ।।

यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्विह।
मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ।। ८.३४१ ।।

धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै।
ततोऽधः स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ।। ८.३४२ ।।

जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः।
इत्येवं वंशप्रभवः प्रसङ्ख्यातस्तपस्विनाम् ।। ८.३४३ ।।

सुराणामसुराणाञ्च गन्धर्वाप्सरसां तथा।
यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ।। ८.३४४ ।।

व्यालानां शिखिनाञ्चैव ओषधीनाञ्च सर्वशः।
कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये।
पशूनां ब्राह्णानाञ्च श्रीमतां पुण्यलक्षणम् ।। ८.३४५ ।।

आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः।
श्रोतव्यश्चैव सततं ग्राह्यश्चैवानुसूयता ।। ८.३४६ ।।

इमन्तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्णवैद्यसंसदि ।
अपत्यलाभं हि लबेत्सुपुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ।। ८.३४७ ।।

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नामाष्टमोऽध्यायः ।। ८ ।। *