वायुपुराणम्/उत्तरार्धम्/अध्यायः २२
← उत्तरार्धम्, अध्यायः २१ | वायुपुराणम् अध्यायः २२ वेदव्यासः |
उत्तरार्धम्, अध्यायः २३ → |
ऋषयश्चैवमुक्तास्तु परं हर्षमुपागताः।
परं शुश्रूषवो भूयः पप्रच्छुस्तदनन्तरम् ।। २२. १ ।।
ऋषय ऊचुः ।।
वंशानामानुपूर्व्येण राज्ञाञ्चामिततेजसाम्।
स्थितिञ्चैषां प्रभावञ्च ब्रूहि नः परिपृच्छताम् ।। २२.२ ।।
एवमुक्तस्ततः सूतस्तथाऽसौ लोमहर्षणः।
शुश्रूषामुत्तराख्याने ऋषीणां वाक्यकोविदः ।। २२.३ ।।
आख्यानकुशलो भूयः परं वाक्यमुवाच ह ।
ब्रुवतो मे निबोधस्व ऋषिराह यथा मम ।। २२.४ ।।
वंशानामानुपूर्व्येण राज्ञाञ्चामिततेजसाम्।
स्थितिं चैषां प्रभावञ्च ब्रुवतो मे निबेधत ।। २२.५ ।।
वरुणस्य पत्नी सामुद्री शुनोदेवीत्युदाहृता ।
तस्याः पुत्रौ कलिर्वैद्यः सुता च सुरसुन्दरी ।। २२.६ ।।
कलि पुत्रौ महावीर्यौ जयश्च विजयश्च ह।
वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ।। २२.७ ।।
प्रजानामत्तुकामानामन्योन्यस्य प्रभक्षिणौ।
भक्षयित्वा तावन्योन्यं विनाशं समवापतुः ।। २२.८ ।।
कलिः सुरायां सञ्जज्ञे तस्य पुत्रो मदः स्मृतः ।
त्वाष्ट्री हिंसा कलेर्भार्य्या ज्येष्ठा या निकृतिः स्मृता ।। २२.९ ।।
असूतान्यान् कलेः पुत्रांश्चतुरः पुरुषादकान्।
नाकं विघ्नं च विख्यातं सद्रमं विधमन्तथा ।। २२.१० ।।
अशिरस्कस्तयोर्विघ्नो नाकश्चैवाशरीरवान्।
सद्रमश्चैक हस्तोऽभूद्विधमश्चैकपात्स्मृतः ।। २२.११ ।।
सद्रमस्य तथा पत्नी तामसी पूतना स्मृता ।
रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ।। २२.१२ ।।
नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी।
राक्षसास्तु महाशीर्षाः सन्ध्याद्वयविचारिणः ।। २२.१३ ।।
रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः।
ग्रहास्ते राक्षसाः सर्वे बालानान्तु विशेषतः।
स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ।। २२.१४ ।।
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी।
योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा ।। २२.१५ ।।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु।
विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ।। २२.१६ ।।
त्वष्टा विराजो रूपाणां धर्म्मपौत्र उदारधीः।
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वास्तुकृत् ।। २२.१७ ।।
यः सर्वेषां विमानानि देवतानाञ्चकार ह।
मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।। २२.१८ ।।
प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना।
विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ।। २२.१९ ।।
देवाचार्यस्य महतो विश्वकर्मस्य धीमतः।
विश्वकर्मात्मजश्चैव विश्वकर्ममयः स्मृतः ।। २२.२० ।।
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी।
त्वाष्ट्री सा सवितुर्भार्य्या पुनः संज्ञेति विश्रुता ।। २२.२१ ।।
असूत तपसा सा तु मनुं ज्येष्ठं विवस्वतः।
यमौ पुनरसूतासौ यमञ्च यमुनाञ्च ह ।। २२.२२ ।।
सा तु गत्वा कुरून् देवी वडवारूपधारिणी।
सवितुश्चाश्वरूपस्य नासिकाभ्यां तु तौ स्मृतौ ।। २२.२३ ।।
असूत सा महाभागा त्वन्तरिक्षेऽश्विनौ किल।
नासत्यञ्चैव दस्रञ्च मार्त्तण्डस्यात्मजावुभौ ।। २२.२४ ।।
ऋषय ऊचुः।।
कस्मान्मार्त्तण्ड इत्येष विवस्वानुच्यते बुधैः।
किमर्थं साऽश्वरूपा वै नासिकाभ्यामसूयत।
एतद्वेदितुमिच्छामस्तत्त्वं विब्रूहि पृच्छताम् ।। २२.२५ ।।
सूत उवाच।।
चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम्।
दृष्ट्वा गर्भवधाद्भीतः कश्यपो दुःशितोऽभवत् ।। २२.२६ ।।
अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टारमब्रवीत्।
नैतदण्डं भवान्नूनं मार्त्तण्डस्त्वं भवानघ ।। २२.२७ ।।
न खल्वयं मृतोऽण्डे च इति स्नेहात् पिताऽब्रवीत्।
तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरत् ।। २२.२८ ।।
यन्मार्त्तण्डो भवेत्युक्तः पित्राऽण्डे वै द्विधा कृते।
तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाष्यते ।। २२.२९ ।।
ततः प्रजाः प्रवक्ष्यामि मार्त्तण्डस्य विवस्वतः।
विजज्ञे सवितुः संज्ञाभार्यायान्तु त्रयं पुरा ।। २२.३० ।।
मनुर्यवीयान् सावर्णिः संज्ञायाञ्च तथाश्विनौ।
शनैश्चरश्च सप्तैते मार्त्तण्डस्यात्मजाः स्मृताः ।। २२.३१ ।।
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां महायशाः।
तस्य भार्याऽभवत्त्वाष्ट्री महादेवी विवस्वतः।
सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ।। २२.३२ ।।
सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः।
नातुष्यद्भर्तृरूपेण रूपयौवनशालिनी ।। २२.३३ ।।
आदित्यस्य हि तद्रूपं मार्त्तण्डस्य हि तेजसा।
गोत्रेषु प्रतिरुद्धं वै नाति कान्तमिवाभवत् ।। २२.३४ ।।
न खल्वयं मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् ।
अज्ञानः कश्यपः स्नेहान्मार्त्तण्ड इति चोच्यते ।। २२.३५ ।।
तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः।
येनापि तापयामास त्रील्लोँकान् कश्यपात्मजः ।। २२.३६ ।।
त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः ।
द्वौ सुतौ तु महावीर्यौ कन्यां कालिन्दिमेव च ।। २२.३७ ।।
मनुर्विवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः।
ततो यमो यमी चैव यमजौ संबभूवतुः ।। २२.३८ ।।
शान्तवर्णन्तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः।
असहन्ती स्वकां जायां सवर्णां निर्ममे पुनः ।। २२.३९ ।।
महीमयी तु सा नारी तस्याश्छायासमुद्गता।
प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत ।। २२.४० ।।
वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत्।
अहं यास्यामि भद्रन्ते स्वमेव भवनं पितुः ।। २२.४१ ।।
त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया।
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।। २२.४२ ।।
भर्त्रे वै नैवमाख्येयमिदं भगवते त्वया।
एवमुक्ताब्रवीत् संज्ञां संज्ञायाः पार्थिवी तु सा ।। २२.४३ ।।
आकाशग्रहणाद्देवि आशयं नैव कर्हिचित्।
आख्यास्यामि मतं तुभ्यं गच्छ देवि स्वमालयम् ।। २२.४४ ।।
समाधाय च तां संज्ञा तथेत्युक्ता तया च सा।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ।। २२.४५ ।।
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत्।
भर्तुः समीपं गच्छ त्वं मा जुगुप्स दिवाकरम् ।। २२.४६ ।।
सैवमुक्ता तदा पित्रा नियुक्ता च पुनः पुनः।
वर्षाणान्तु सहस्रं वै वसति स्म पितुर्गृहे ।। २२.४७ ।।
भर्तुः समीपं गच्छ त्वं नियुक्ता च पुनः पुनः।
अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
उत्तरान् सा कुरून् गत्वा तृणान्यथ चचार सा ।। २२.४८ ।।
द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्त्यताम्।
आदित्यो जनयामास पुत्रावादित्यवर्चसौ ।। २२.४९ ।।
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू ।
श्रुतश्रवं तु धर्म्मज्ञं श्रुतकर्म्माणमेव च ।। २२.५० ।।
श्रुतश्रवा मनुः सोऽपि सावर्णिर्वैभविष्यति।
श्रुतकर्म्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ।। २२.५१ ।।
मनुरेवाभवत्सो वै सावर्ण्य इति बुध्यते।
संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ।। २२.५२ ।।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै।
मनुस्तच्चाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ।। २२.५३ ।।
बहुशो यस्यमानस्तु सापत्न्यादतिदुःखितः।
तां वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।। २२.५४ ।।
पदा सन्तर्जयामास संज्ञां चैव स्वतो यमः।
सा शशाव ततः क्रोधात् सवर्णा जननी यमम् ।। २२.५५ ।।
पदा तर्जयसे यस्मात् पितृभार्यां यशस्विनीम्।
तस्मात्तवैष चरणः पतिष्यति न संशयः ।। २२.५६ ।।
यमस्तु तेन शापेन भृशं पीडितमानसः।
मनुना सह धर्म्मात्मा पितुः सर्व्वं न्यवेदयत् ।। २२.५७ ।।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः।
बाल्याद्वा यदि वा मोहान्मां भवांस्त्रातुमर्हति ।। २२.५८ ।।
शप्तोऽहमस्मिँल्लोकेश जनन्या तपतां वर।
तव प्रसादो नस्त्रातुं ह्येतस्मान्महतो भयात् ।। २२.५९ ।।
विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः।
असंशयं पुत्र महद्भविष्यं तत्र कारणम् ।। २२.६० ।।
येन त्वामाविशत्क्रोधो धर्म्मज्ञं सत्यवादिनम्।
न शक्यमेतन्मिथ्या तु कर्त्तुं मातुर्वचस्तव ।। २२.६१ ।।
कृमयो मांसमादाय यास्यन्ति तु महीं तव।
ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ।। २२.६२ ।।
कृतमेवं वचः सत्यं मातुस्तव भविष्यति।
शापस्य परिहारेण त्वं च त्राता भविष्यसि ।। २२.६३ ।।
आदित्यस्त्वब्रवीत् संज्ञां किमर्थं तनयेषु वै।
तुल्येष्वप्यधिकः स्नेह एकस्मिन् क्रियते त्वया ।। २२.६४ ।।
सा तत्परिहरन्ती वै नाचचक्षे विवस्वतः।
आत्मना स समाधाय योगन्तथ्यमपश्यत ।। २२.६५ ।।
तां शप्तुकामो भगवान् नाशाय कुपितः प्रभुः ।
सा तत्सर्वं यथातत्त्वमाचचक्षे विवस्वतः ।। २२.६६ ।।
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात्।
त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ।। २२.६७ ।।
निर्द्दग्धुकामं रोषेण सान्त्वयामास वै शनैः।
तवातितेजसा युक्तमिदं रूपं न शोभते ।। २२.६८ ।।
असहन्ती तु तत् संज्ञा वने चरति शाद्वले।
द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् ।। २२.६९ ।।
श्लाघ्यां यौवनसम्पन्नां योगमास्थाय गोपते।
अनुकूलं भवेदेवं यदि स्यात् समयो मतः ।। २२.७० ।।
रूपं विवर्त्तयेदन्ते आद्यं श्रेष्ठमरिन्दम।
रूपं विवस्वतस्त्वासीत्तिर्यगूर्ध्वमधस्तथा ।। २२.७१ ।।
तेनासौ व्रीडितो देवो रूपेण तु दिवस्पतिः।
तस्मात्त्वष्टा स चक्रं तु बहुमेने महातपाः ।। २२.७२ ।।
अनुज्ञातस्ततस्त्वष्टा रूपनिर्वर्त्तनाय तु।
ततोऽभ्युपगमात्त्वष्टा मार्त्तण्डस्य विवस्वतः ।। २२.७३ ।।
भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै।
तत्तु निर्भासितन्तेजस्तेजसापहृतेन तु ।। २२.७४ ।।
कान्तात् कान्ततरं द्रष्टुमशुभं शुशुभे ततः।
ददर्श योगमास्थाय स्वाम्भार्यां वडवां तथा ।। २२.७५ ।।
अदृश्यां सर्वभूतानां तेजसा नियमेन च।
अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत् ।। २२.७६ ।।
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया।
सा तन्निरधमच्छुक्रं नासिकाभ्यां विवस्वतः ।। २२.७७ ।।
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ।। २२.७८ ।।
मार्त्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः।
तान्तु रूपेण कान्तेन दर्शयामास भास्करः ।। २२.७९ ।।
सा तं दृष्ट्वात्तदा भार्या तुतोष च मुमोह च।
यमस्तु तेन शापेन भृशम्पीडितमानसः ।। २२.८० ।।
धर्म्मेण रञ्जयामास धर्म्मराजस्ततस्तु सः ।
सोऽलभत् कर्मणा तेन शुभेन परमद्युतिः ।। २२.८१ ।।
पितॄणामाधिपत्यञ्च लोकपालत्वमेव च।
मनुः प्रजापतिश्चैव सावर्णिः स महायशाः ।। २२.८२ ।।
भाव्यसौ नागते तस्मिन् मनुः सावर्णिकेऽन्तरे।
मेरुपृष्ठे सुरम्ये वै अद्यापि चरते प्रभुः ।। २२.८३ ।।
भ्राता शनैश्चरस्तत्र ग्रहत्वं स तु लब्धवान्।
त्वष्टाऽनु तेन रूपेण विष्णोश्चक्रमकल्पयत्।
महाऽप्रतिहतं युद्धे दानव प्रतिवारणे ।। २२.८४ ।।
यवीयसी तयोर्या तु यमुना च यशस्विनी।
अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ।। २२.८५ ।।
यस्तु ज्येष्ठो महातेजाः सर्गो यस्य तु साम्प्रतम्।
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ।। २२.८६ ।।
इदं तु जन्म देवानां श्रृणुयाद्वा पठेत वा।
वैवस्वतस्य पुत्राणां सप्तानान्तु महौजसाम्।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ।। २२.८७ ।।
इति श्रीमहापुराणऐ वायुप्रोक्ते श्राद्धकल्पे वरुणवंशवर्णनं नाम द्वाविंशोऽध्यायः ।। २२ ।। *