वायुपुराणम्/उत्तरार्धम्/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः २० वायुपुराणम्
अध्यायः २१
वेदव्यासः
उत्तरार्धम्, अध्यायः २२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

    शंयुरुवाच।।
किञ्चिद्दत्तं पितॄणां तु धिनोति वदतां वर ।
किं हि स्विच्चिररात्राय किञ्चानन्त्याय कल्पते ।। २१.१ ।।

           बृहस्पतिरुवाच।
हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः।
तानि मे श्रृणु सर्वाणि फलं चैषां यथाबलम् ।। २१.२ ।।

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च।
दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ।। २१.३ ।।

मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु।
शाशन्तु चतुरो मासान् पञ्च प्रीणाति शाकुनम् ।। २१ .४ ।।

वाराहेण तु षण्मासाञ्छागलं साप्तमासिकम्।
अष्टमासिकमित्युक्तं यच्च पार्षतकं भवेत् ।। २१.५ ।।

रौरवेण तु प्रीयन्ते नवमासान् पितामहाः।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ।। २१.६ ।।

कूर्मस्य चैव मांसेन मासानेकादशैव तु ।
श्राद्धमेव विजानीयाद्गव्यं संवत्सरं भवेत् ।। २१.७ ।।

तथा गव्यसमायुक्तं पायसं मधुसर्पिषा।
वध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।। २१.८ ।।

आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये।
कृष्णच्छागस्तथा गोधा आनन्त्यायैव कल्पते ।। २१.९ ।।

अत्र गाथाः पितृगीताः कीर्त्तयन्ति पुराविदः।
तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ।। २१.१० ।।

अपि नः स्वकुले जायाद्योऽन्नं दद्यात्र्त्रयोदशीम्।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य तु ।। २१.११ ।।

आजेन सर्वलोहेन वर्षासु च मघासु च।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत् ।। २१.१२ ।।

         शंयुरुवाच।।
गयादीनां फलं तात प्रब्रूहि समपृच्छतः।
पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ।। २१.१३ ।।

           बृहस्पतिरुवाच।।
गयायामक्षयं श्राद्धं जपहोमतपांसि च।
पितृङयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ।। २१.१४ ।।

पुनीयादेकविंशन्तु गौर्यामुत्पादितः सुतः।
मातामहांस्तु षड्‌भूय इति तस्याः फलं स्मृतम् ।। २१.१५ ।।

फलं वृषस्य वक्ष्यामि गदतो मे निबोधत।
वृषोत्स्रष्टा पुनात्येव दशातीतान् दशावरान् ।। २१.१६ ।।

यत्किञ्चित् स्पृश्यते तोयैरुत्तीर्णेन जलान्महीम्।
वृषोत्सर्गे पितॄणां तु ह्यक्षयं स मुदाहृतम् ।। २१.१७ ।।

यद्यद्धि संस्पृशेत्तोयं लांगूलादिभिरन्ततः।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ।। २१.१८ ।।

श्रृङ्गैः खुरैर्वा यद्भूमिमिल्लिखत्य निशं वृषः।
मधुकुल्याः पितॄंस्तस्य अक्षयास्ता भवन्ति वै ।। २१.१९ ।।

सहस्रनल्वमात्रेण तडागेन यथा श्रुतिः।
तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ।। २१.२० ।।

यो ददाति गुढैर्मिश्रांस्तिलान् वै श्राद्धकर्मणि।
मधुना मधुमिश्रान् वा अक्षयं सर्वमेव तत् ।। २१.२१ ।।०
       बृहस्पतिरुवाच।।
न ब्राह्मणान् परीक्षेत सदा देये तु मानवः।
दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ।। २१.२२ ।।

सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः।
ये च भाष्य विदो मुख्या ये च व्याकरणे रताः ।। २१.२३ ।।

अधीयते पुराणं च धर्म्मशास्त्रं तथैव च।
त्रिणाचिकेतपञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।। २१.२४ ।।

ब्रह्मदेय सुतश्चैव छन्दोगो ज्येष्ठसामगः।
पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ।। २१.२५ ।।

मुख्येषु येषु सत्रेषु भवन्त्यवभृथश्रुताः।
ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ।। २१.२६ ।।

अक्रोधनाः शान्तिपरास्तान् वै श्राद्धे निमन्त्रयेत्।
ये चापि नित्यं दशसु सुकृतेषु व्यवस्थिताः ।। २१.२७ ।।

एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः।
श्रद्धेया ब्राह्मणा ये तु योगधर्म्ममनुव्रताः ।। २१.२८ ।।

धर्माश्रमवरिष्ठास्ते हव्यकव्येषु ते वराः।
त्रयोऽपि पूजितास्तेन ब्रह्मविष्णु महेश्वराः ।। २१.२९ ।।

पितृभिः सह लोकाश्च यो ह्येतान् पूजयेन्नरः।
पवित्राणा पवित्रञ्च मङ्गलानां च मङ्गलम् ।। २१.३० ।।

प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयांस्तु वक्ष्यामि गदतो मे निबोधत ।। २१.३१ ।।

कितवो मद्यपो यक्ष्मी पशुपालो निराकृतिः।
ग्रामप्रेष्यो वार्द्धुषिको गायनो वणिजस्तथा ।। २१.३२ ।।

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायी दुश्चर्मा तैलिकः कूटकारकः ।। २१.३३ ।।

पित्रा विवदमानश्च यस्य चोपपतिर्गृहे।
अभिशस्तस्तथा स्तेनः शिल्पैर्यश्चोपजीवति ।। २१.३४ ।।

सूजकः पर्वकारी च यस्तु मित्रेषु द्रुह्यति।
गणयाचनकश्चैव नास्तिको वेदवर्जितः ।। २१.३५ ।।

उन्मत्तः षण्डकशठौ भ्रूणहा गुरुतल्पगः ।
भिषक्‌जीवः प्रैषणिकः परस्त्रीं यश्च गच्छति ।। २१.३६ ।।

विक्रीणाति च यो ब्रह्म व्रतानि च तपांसि च।
नष्टं स्यान्नास्तिके दत्तं कृतघ्ने चैव शंसके ।। २१.३७ ।।

यच्च वाणिजके चैव नेह नामुत्र तद्भवेत्।
निक्षेपहारिणे चैव कितवे वेदनिन्दके ।। २१.३८ ।।

तथा वाणिजके चैव कारुके धर्म्मवर्जिते।
निन्दन् क्रीणाति पण्यानि विक्रीणंश्च प्रशंसति ।। २१.३९ ।।

अनृतस्य समावासो न वणिक् श्राद्धमर्हति।
भस्म नीव हुतं हव्यं दत्तं पौनर्भवे द्विजे ।। २१.४० ।।

षष्टिं काणः शतं षण्डः श्वित्री यावत् प्रपश्यति।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ।। २१.४१ ।।

भ्रश्यते सत्फलात्तस्माद्दाता यस्य तु बालिशः।
यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ।। २१.४२ ।।

सोपानत्कश्च यो भुङ्क्ते यच्च दद्यात्तिरस्कृतम् ।
सर्वं तदसुरेन्द्राणां ब्रह्मा भागमकल्पयत् ।। २१.४३ ।।

श्वानश्च यातुधानाश्च नावेक्षेरन् कथञ्चन।
तस्मात्परिवृतिं दद्यात्तिलैश्चान्ववकीरयन् ।। २१.४४ ।।

राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतिस्तथा।
दर्शनात्सूकरो हन्ति पक्षपातेन कुक्कुटः ।। २१.४५ ।।

रजस्वलानुस्पर्शेन क्रुद्धो यश्च प्रयच्छति।
यस्य मित्रप्रदे यानि श्राद्धानि च हवींषि च।
न प्रीणाति पितॄन् देवान् स्वर्गं न च स गच्छति ।। २१.४६ ।।

नदीतीरेषु रम्येषु सरित्सु च सरस्सु च।
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ।। २१.४७ ।।

न चाश्रुं पातयेज्जातु न युक्तो वाचमीरयेत्।
न च कुर्वीत भुञ्जानो ह्यन्योऽन्यं मत्सरस्तदा ।। २१.४८ ।।

अपसव्ये कृते तेन विधिवद्दर्भपाणिना ।
पित्र्यमानिधनं कार्यमेवं प्रीणाति वै पितॄन् ।। २१.४९ ।।

अनुमत्यादितो विप्रानग्नौ कुर्याद्यथाविधि।
पितॄणां निर्व्वपेद्भूमौ शूर्पे वा दर्भसंस्तरे ।। २१.५० ।।

शुक्लपक्षस्य पूर्व्वाह्ने श्राद्धं कुर्याद्विचक्षणः।
कृष्णपक्षेऽपराह्ने तु रौहिणं न विलङ्घयेत् ।। २१.५१ ।।

एवमेते महात्मानो महा योगा महौजसः।
सदा वै पितरः पूज्या द्रष्टारो देशकालयोः ।। २१.५२ ।।

पितृभक्तिरतो नित्यं योगं प्राप्नोत्यनुत्तमम्।
ध्यानेन मोक्षं गच्छन्ति हित्वा कर्म शुभाशुभम् ।। २१.५३ ।।

यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा।
गुहायां निहतं योगं कश्यपेन महात्मना ।। २१.५४ ।।

अमृतं गुह्यमृद्धृत्य योगं योगविदां वर।
प्रोक्तं सनत्कुमारेण महत्तद्धर्म्मशाश्वतम् ।। २१.५५ ।।

देवानां परमं गुह्यमृषीणां च परायणम्।
पितृभक्त्या प्रयत्नेन पितृभक्तैश्च नित्यशः ।। २१.५६ ।।

तञ्च योगं समासेन पितृभक्तस्तु कृत्स्नशः।
प्रयत्नात्प्राप्नुयात्तत्र सर्वमेव न संशयः ।। २१.५७ ।।

यस्मै श्राद्धानि देयानि यच्च दत्तं महाफलम्।
येषु वाप्यक्षयं श्राद्धं तीर्थषु च नदीषु च ।
येषु च स्वर्गमाप्नोति तत्ते प्रोक्तं ससंग्रहम् ।। २१.५८ ।।

          बृहस्पतिरुवाच।।
श्रुत्वैवं श्राद्धकल्पं तु योऽसूयां कुरुते नरः।
स मज्जेन्नरके घोरे नास्तिकस्तमसावृतः ।। २१.५९ ।।

महारोगावसायस्तु स यः संयतमानसः।
वेदाश्रमान्मुक्तचित्तः कुम्भीका नधिगच्छति।
जिह्वाच्छेदं स्तेनमेत्य प्राप्नुयुस्तेन चैव ह ।। २१.६० ।।

सीदन्ति ते सागरे लोष्टभूता योगद्विषः स्थास्यन्ते यावदुर्व्वी ।
तस्माच्छ्राद्धे धर्म्म उद्दिष्ट एष नित्यं कार्यः श्रद्दधानेन पुंसा ।। २१.६१ ।।

परिवादो न कर्त्तव्यो योगिनां च विशेषतः।
परिवादात् कृमिर्भूत्वा तत्रैव परिवर्त्तते ।। २१.६२ ।।

योगं परिवदेद्यस्तु ध्यानिनां मोक्षकारणम्।
स गच्छेन्नरकं घोरं श्रोता यश्च न संशयः ।। २१.६३ ।।

आवृतं तमसा सर्वं नरकं घोरदर्शनम्।
योगीश्वरपरी वादान्निश्चयं याति मानवः ।। २१.६४ ।।

योगेश्वराणामाक्रोशं श्रृणुयाद्यो यतात्मनाम्।
स हि कालं चिरं मज्जेत् कुम्भीपाके न संशयः ।। २१.६५ ।।

मनसा कर्मणा वाचा द्वेषं योगिषु वर्ज्जयेत्।
प्रेत्यान्यं तत्फलं भुङ्क्ते इह चैव न संशयः ।। २१.६६ ।।

न पारगो विन्दति पारमात्मनस्त्रिलोकमध्ये चरति स्वकर्मभिः।
ऋचो यजुःसामतदङ्गपारगो विकारमेव ह्यनवाप्य सीदति ।। २१.६७ ।।

विकारपारः प्रकृतेश्च पारगस्त्रयी गुणानां त्रिगुणान्तपारगा।
तत्त्वञ्चतुर्विंशतियो गपारगं स पारगो यस्त्वयनान्तपारगः ।। २१.६८ ।।

कृत्स्नं यथा तत्त्वविसर्गमात्मनस्तथैव भूयः प्रलयं सदात्मनः।
प्रत्याहरेद्योगबलेन योगवित् स सर्वपारक्रमयानगोचरः ।। २१.६९ ।।

वेदस्य वेदिता यो वै वेद्यं विन्दति योगवित्।
तं वै वेदविदं प्राहुस्तं प्राहुर्वेदपारगम् ।। २१.७० ।।

वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि।
एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ।। २१.७१ ।।

यज्ञान् वेदांस्तथा कामाञ्ज्ञानानि विविधानि च।
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ।। २१.७२ ।।

श्राद्धे यः श्राद्धकल्पं वै पश्चिमं नियतं पठेत्।
सर्वाप्येतान्यवाप्नोति तीर्थे दानफलानि च ।। २१.७३ ।।

स पङ्क्तिपावनश्चैव द्विजानामग्रभुग् भवेत्।
अध्याप्य वा द्विजान् सर्वान् सर्वान् कामानवाप्नुयात् ।। २१.७४ ।।

यश्चैव श्रृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते।
अनसूयो जितक्रोधो लोभमोहविवर्जितः ।। २१.७५ ।।

तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च।
मोक्षोपायो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः ।
इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ।। २१.७६ ।।

इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसन्धिषु ।
अपत्यभाग्भवति परेण तेजसा दिवौ कसां स व्रजते सलोकताम् ।। २१.७७ ।।

येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयम्भुवे।
महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ।। २१.७८ ।।

इत्येतेपितर स्तात देवानामपि देवताः।
सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ।। २१.७९ ।।

प्रजापतिसुता ह्येते सर्वे चैव महात्मनः।
आद्यो गणस्तु योगानां स नित्यो योगवर्द्धनः ।। २१.८० ।।

द्वितीयो देवतानां तु तृतीयो देवताऽरिणाम्।
शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ।। २१.८१ ।।

देवास्त्वेतान् यजन्ते वै सर्वेष्वेतेष्ववस्थिताः।
आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ।। २१.८२ ।।

वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि।
तथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ।। २१.८३ ।।

पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम्।
पितरः पुष्ठिकामस्य प्रजाकामस्य वा पुनः।
पुष्ठिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ।। २१.८४ ।।

देवकार्यादपि सूनोः पितृकार्यं विशिष्यते।
देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ।। २१.८५ ।।

न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः।
तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ।। २१.८६ ।।

सर्वेषां राजतं पात्रमथवा रजतान्वितम्।
पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह ।। २१.८७ ।।

येषां दास्यन्ति पिण्डांस्त्रीन् बान्धवा नामगोत्रतः।
भूमौ कुशोत्तरायाञ्च अपसव्यविधानतः ।। २१.८८ ।।

सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन्।
यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ।। २१.८९ ।।

यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ।
तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ।। २१.९० ।।

मान गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम्।
अपि योनिशतं प्राप्तां स्तृप्तिस्ताननुगच्छति ।। २१.९१ ।।

एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना ।
पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ।। २१.९२ ।।

इत्येते पितरो देवा देवाश्च पितरः पुनः।
दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ।। २१.९३ ।।

लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा।
दानानि सह शौचेन तीर्थानि च फलानि च ।। २१.९४ ।।

अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा ।
प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत् पुरा ।। २१.९५ ।।

          बृहस्पतिरुवाच।।
इत्येतदङ्गिराः प्राह ऋषीणां श्रृण्वतां तदा।
पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ।। २१.९६ ।।

सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके ।
यस्मिन् गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ।। २१.९७ ।।

संवत्सरशतान्यं च तत्रोपेता इति श्रुतिः।
श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ।। २१.९८ ।।

दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः।
तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिना।
लोकानां च हितार्थाय ब्रह्मणा परमेष्टिना ।। २१.९९ ।।

         सूत उवाच।।
एवं बृहस्पतिः पूर्वं पृष्टः पुत्र्त्रेण धीमता।
प्रोवाच पितृवंशन्तु यत्तद्वैसमुदाहृतम् ।
अत ऊर्द्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ।। २१.१०० ।।

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषगया श्राद्धादिफलब्राह्मणपरीक्षादिकथनं नामैकविंशोऽध्यायः ।। २१ ।। *