सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ४०

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ३९ वायुपुराणम्
अध्यायः ४०
वेदव्यासः
उत्तरार्धम्, अध्यायः ४१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



।।सूत ऊवाच।।
प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयम्भुवः।
ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ।। ४०.१ ।।
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ।
अव्यक्तान्ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ।। ४०.२ ।।
परं तदनुकल्पानामपूर्णे कल्पसङ्क्षये।
उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ।। ४०.३ ।।
अन्ते द्रुमस्य यम्प्राप्ते पश्चिमस्य मनोस्तदा ।
अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ।। ४०.४ ।।
सम्प्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते।
प्रत्याहारे तदा तस्मिन् भूततन्मात्रसंक्षये ।। ४०.५ ।।
महदादेर्विकारस्य विशेषान्तस्य संक्षये।
स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसञ्चरे ।। ४०.६ ।।
आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणम्।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ।
प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ।। ४०.७ ।।
आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः।
सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ।। ४०.८ ।।
अपामस्ति गुणो यस्तु ज्योतिषे लीयते रसः।
नश्यन्त्यापस्तदान्ते च रसतन्मात्रसङ्क्षयात् ।। ४०.९ ।।
तेजसा संहृतरसा ज्योतिष्ट्वं प्राप्नुवन्त्युत ।
ग्रस्ते च सलिले तेजः सर्व्वतोमुखमीक्ष्यते ।। ४०.१० ।।
अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलन्तदा।
सर्वमापूर्य्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ।। ४०.११ ।।
अर्चिर्भिः सन्तते तस्मिंस्तिर्यगूर्द्ध्वमधस्ततः ।
ज्योतिषोऽपि गुणं रूपं वायुरन्ति प्रकाशकम्।
प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ।। ४०.१२ ।।
प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः।
उपशाम्यति तेजो हि वायुना धूयते महत् ।। ४०.१३ ।।
निरालोके तदा लोके वायुभूते च तेजसि।
ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः ।। ४०.१४ ।।
ऊर्द्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ।
वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ।। ४०.१५ ।।
प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम्।
अरूपमरसस्पर्घमगन्धं न च मूर्तिमत् ।। ४०.१६ ।।
सर्वमापूरयन्नादैः सुमहत्तत्प्रकाशते।
परिमण्डलन्तत्सुषिरमाकाशं शब्दलक्षणम् ।। ४०.१७ ।।
शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति।
तन्तु शब्दगुणन्तस्य भूतादिं ग्रसते पुनः ।। ४०.१८ ।।
भूतेन्द्रियेषु युघपद्भूतादौ संस्थितेषु वै।
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ।। ४०.१९ ।।
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः।
महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ।। ४०.२० ।।
बुद्धिर्मनश्च लिङ्गश्च महानक्षर एव च।
पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः ।। ४०.२१ ।।
सम्प्रलीनेषु भूतेषु गुणसाम्ये तमोमये।
स्वात्मन्येव स्थिते चैव कारणे लोककारणे ।। ४०.२२ ।।
विनिवृत्ते तदा सर्गे प्रकृत्यावस्थितेन वै ।
तदाद्यन्तपरोक्षत्वा ददृष्टत्वाच्च कस्यचित् ।। ४०.२३ ।।
अनाख्यानादबोधत्वादज्ञानाज्ज्ञानिनामपि।
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ।। ४०.२४ ।।
भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते।
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मिके ।। ४०.२५ ।।
अनिर्द्देश्या प्रवृत्तिर्वै स्वात्मिका कारणे न तु।
एवं सप्तादयोऽभ्यस्तात्क्रमात्प्रकृतयस्तु वै ।। ४०.२६ ।।
प्रत्याहारे तदा सर्गे प्रविश्यन्ति परस्परम्।
येनेदमावृतं सर्वं मण्डलन्तु प्रलीयते ।। ४०.२७ ।।
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्।
उदकावरणं यच्च ज्योतिषां लीयते तु तत् ।। ४०.२८ ।।
यत्तैजसं चावरणमाकाशं ग्रसते तु तत्।
यद्वायव्यं चावरणमाकाशं ग्रसते तु तत् ।। ४०.२९ ।।
आकाशावरणं यच्च भूतादिर्ग्रसते तु तत्।
भूतादिं ग्रसते चापि महान्वै बुद्धि लक्षणः ।। ४०.३० ।।
महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम्।
एतौ संहारविस्तारौ ब्रह्माव्यक्तौ ततः पुनः ।। ४०.३१ ।।
सृजते ग्रसते चैव विकारान्सर्गसंयमे।
संहारकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ।। ४०.३२ ।।
गत्वा जवञ्जवीभावे स्थानेष्वेषु प्रसंयमान्।
प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ।। ४०.३३ ।।
अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते।
साधर्म्यवैधर्म्मकृतसंयोगोऽनादिमांस्तयोः ।। ४०.३४ ।।
एवं सर्गेषु विज्ञेयं क्षेत्रज्ञेष्विह ब्राह्मणाः ।
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक्पृथक् ।। ४०.३५ ।।
विषयाविषयत्वञ्च क्षेत्रक्षेत्रज्ञयोः स्मृतम्।
ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ।। ४०.३६ ।।
क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते।
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ।। ४०.३७ ।।
अव्यूहा शङ्कराच्चैव ज्योतिर्वच्च व्यवस्थितः।
यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धिता।
तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ।। ४०.३८ ।।
यदा प्रवर्त्तते चैषां भेदानां चैव संयमाः।
स्वभावकारिताः सर्वे कालेन महता तदा ।। ४०.३९ ।।
निवर्त्तते तदा तस्य स्थितिरागः स्वयम्भुवः।
सहसा योज्यकैः सर्वैर्ब्रह्मलोक निवासिभिः ।। ४०.४० ।।
विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम्।
तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ।। ४०.४१ ।।
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम्।
भोज्यभोक्तृत्वनानात्वे तेषां तद्भवदर्शिनाम् ।। ४०.४२ ।।
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः।
प्रकृतौ करणा नीताः सर्वे नानाप्रदर्शिनः ।। ४०.४३ ।।
स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः।
शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ।। ४०.४४ ।।
तत्रैव परिनिर्वाणाः स्मृता नागामिनस्तु ते।
निर्गुणत्वानिरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ।। ४०.४५ ।।
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयम्भुवः।
भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ।। ४०.४६ ।।
इत्येष संयमश्चैव तत्त्वानां करणैः सह।
तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्त्तको द्विजाः ।। ४०.४७ ।।
           सूत उवाच।।
धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा।
ऊर्द्ध्व भावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ।। ४०.४८ ।।
सर्वमेतत्प्रयातस्य गुणमात्रात्मकं स्मृतम्।
निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ।। ४०.४९ ।।
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति।
योन्यवस्था स्वभावे च देहिनां तु निषिच्यते ।। ४०.५० ।।
जन्तूनां पापपुण्यन्तु प्रकृतौ यत्प्रतिष्ठितम् ।
अव्यक्त स्थानि तान्येव पुण्यपापानि जन्तवः।
ये जयन्ति पुनर्देहे देहान्यत्वे तथैव च ।। ४०.५१ ।।
धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ ।
करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ।। ४०.५२ ।।
सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः।
सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः।
संयुज्यन्ते वियुज्यन्ते करणैः सञ्चरन्ति च ।। ४०.५३ ।।
राजसी तामसी चैव सात्विकी चैव वृत्तयः।
गुणमात्राः प्रवर्त्तन्ते पुरुषाधिष्ठितास्त्रिधा ।। ४०.५४ ।।
ऊर्द्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः।
तयोः प्रवर्त्तकं मद्ये इहैवावर्त्तकं रजः ।। ४०.५५ ।।
इत्येवं परिवर्त्तन्ते त्रयः स्रोतोगुणात्मकाः।
लोकेषु सर्वभूतानां तन्न कार्यं विजानता ।। ४०.५६ ।।
अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः ।
एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ।। ४०.५७ ।।
तम साभिभवाज्जन्तुर्याथातथ्यं न विन्दति।
अतत्द्दर्शनात्सोऽथ त्रिविधं बध्यते ततः ।। ४०.५८ ।।
प्राकृतेन च बन्धेन तथा वैकारिकेन च।
दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्त्तते ।। ४०.५९ ।।
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः।
अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ।। ४०.६० ।।
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः।
येषामेते मनोदोषा ज्ञानदोषा विपर्य्ययात् ।। ४०.६१ ।।
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम्।
अज्ञानं तमसो मूलं कर्म्मद्वयफलं रजः।
कर्म्मजस्तु पुनर्देहो महादुःखं प्रवर्त्तते ।। ४०.६२ ।।
श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणतस्तथा।
पुनर्भवकरी दुःखा कर्म्मणां जायते तु सा ।। ४०.६३ ।।
सतृष्णोऽभिहितो बालः स्वकृतैः कर्म्मणः फलैः।
तैलपालीकवज्जीवस्तत्रैव परि वर्त्तते ।। ४०.६४ ।।
तस्मात्स्थूलमनर्थानामज्ञानमुपदिश्यते ।
तं शक्तमवधार्य्यैकं ज्ञाने यत्नं समाचरेत् ।। ४०.६५ ।।
ज्ञानाद्विजयते सर्वं त्यागाद्‌बुद्धिर्विरज्यते।
वैराग्याच्छुद्ध्यते चापि शुद्धः सत्त्वेन मुच्यते ।। ४०.६६ ।।
अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम्।
अभिषङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ।। ४०.६७ ।।
अनिष्टमभिषङ्गं हि प्रीतितापविषादनम्।
दुःखलाभे न तापञ्च सुखानुस्मरणं तथा ।। ४०.६८ ।।
इत्येष वैषयो रागः सम्भूत्याः कारणं स्मृतम्।
ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके।
अज्ञानपूर्वकं तस्मादज्ञानन्तु विवर्जयेत् ।। ४०.६९ ।।
यस्य चार्षं न प्रमाणं शिष्टाचारं तथैव च।
वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ।। ४०.७० ।।
एष मार्गो हि निरधितिर्यग्योनौ च कारणम्।
तिर्यग्योनिगतञ्चैव कारणं स निरुच्यते ।। ४०.७१ ।।
विविधा यातना स्थाने तिर्यग्योनौ च षड्विधे।
कारणे विषये चैव प्रतिघातस्तु सर्वशः ।। ४०.७२ ।।
अनैश्वर्य्यन्तु तत्सर्वं प्रतिघातात्मकं स्मृतम् ।
इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ।। ४०.७३ ।।
सत्त्वस्थमात्रकं चित्तं यथा सत्त्वप्रदर्शनात्।
तत्त्वानाञ्च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ।। ४०.७४ ।।
सत्त्वक्षेत्रज्ञनानात्वमेतज्ज्ञानार्थदर्शनम्।
नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योगमुच्यते ।। ४०.७५ ।।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ।
संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ।। ४०.७६ ।।
निःसम्बन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते।
स्वात्मव्यवस्थितश्चापि विरूपाख्येन लिख्यते ।। ४०.७७ ।।
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयो।
स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ।। ४०.७८ ।।
पूर्वं वियोगो ज्ञानेन द्वितीयो रागसंक्षयात्।
लिङ्गाभावात्तु कैवल्यं कैवत्यात्तु निरञ्जनम् ।। ४०.७९ ।।
निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते।
तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ।। ४०.८० ।।
निमित्तमप्रतीघाते इष्टशब्दादिलक्षणे।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ।। ४०.८१ ।।
क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु।
अत उर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ।। ४०.८२ ।।
दिव्ये च मानुषे चैव विषये पञ्चलक्षणे।
अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ।। ४०.८३ ।।
तापप्रीतिविषादानां कार्य्यन्तु परिवर्जनम्।
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ।। ४०.८४ ।।
अनित्यमशिवं दुःखमिति बुद्ध्यानुचिन्त्य च।
विशुद्धं कार्य्यकरणं सत्वाभ्येति तरान्तु यः ।। ४०.८५ ।।
परिपव्ककषायो हि कृत्स्नान्दोषान्प्रपश्यति।
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ।। ४०.८६ ।।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः।
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ।। ४०.८७ ।।
प्राणस्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च।
शैत्यात्प्रकुपितो वायुरूर्द्ध्वन्तु क्रमते ततः ।। ४०.८८ ।।
स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः।
समासात्संवृते ज्ञाने संवृतेषु च कर्म्मसु ।। ४०.८९ ।।
स जीवोऽनभ्यधिष्टानः कर्म्मभिः स्वैः पुराकृतैः।
अष्टाङ्गप्राणवृत्तीर्वै स विच्यावयते पुनः ।। ४०.९० ।।
शरीरं प्रजहंसो वै निरुच्छ्वासस्ततो भवेत्।
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ।। ४०.९१ ।।
यथेह लोके खद्योतं नीयमानमितस्ततः ।
रञ्जनं तद्वधे यत्तु नेता नेता न विद्यते ।। ४०.९२ ।।
तृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम्।
शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ।। ४०.९३ ।।
अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् ।
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ।। ४०.९४ ।।
अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम्।
अव्यक्ताद्यस्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ।। ४०.९५ ।।
वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्राविरोधिनः।
वर्णाश्रमाणां धर्म्मोऽयं देवस्थानेषु कारणम् ।। ४०.९६ ।।
ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता।
ऐश्वर्य्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ।। ४०.९७ ।।
निमित्तमप्रतीघात इष्टे शब्दादिलक्षणे।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ।। ४०.९८ ।।
क्षेत्रज्ञेष्वनुसज्यन्ते गणमात्रात्मकानि तु।
प्रावृट्‌काले पृथक्त्वेन पश्यन्तीह न चक्षुषा ।। ४०.९९ ।।
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा।
श्वाविति श्वानपानश्च योनीः प्रविशतस्तथा ।। ४०.१०० ।।
तिर्य्यगूर्द्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम्।
जीवप्राणास्तथा लिङ्गं कारणञ्च चतुष्टयम् ।।. ४०.१०१ ।।
पर्य्यायवाचकैः शब्दैरेकार्थैः सोऽभिलिख्यते।
व्यक्ताव्यक्ते प्रमाणोऽयं स वै रूपं तु कृत्स्नशः ।। ४०.१०२ ।।
अव्यक्तान्त गृहीतं च क्षेत्रज्ञाधिष्ठितञ्च यत् ।
एवं ज्ञात्वा शुचिर्भूत्त्वा ज्ञानाद्वै विप्रमुच्यते ।। ४०.१०३ ।।
नष्टञ्चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शनम्।
यथेष्टं परिनिर्य्याति भिन्ने देहे सुनिर्वृते ।। ४०.१०४ ।।
भिद्यते करणञ्चापि ह्यव्यक्ताज्ञानिनस्ततः।
मुक्तो गुणशरीरेण प्राणाद्येन तु सर्वशः ।। ४०.१०५ ।।
नान्यच्छरीरमादत्ते दग्धे बीजे यथाङ्कुरः।
जीविकः सर्वसंसाराद्बीजशारीरमानसः ।। ४०.१०६ ।।
ज्ञानाच्चतुर्द्दशाच्छुद्धः प्रकृतिं सोऽनुवर्त्तते।
प्रकृतिं सत्यमित्याहु र्विकारोऽनृतमुच्यते ।। ४०.१०७ ।।
तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते।
अनामरूपक्षेत्रज्ञनामरूपं प्रचक्षते ।। ४०.१०८ ।।
यस्मात्क्षेत्रं विजानाति तस्मात्क्षेत्रज्ञ उच्यते।
क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ।। ४०.१०९ ।।
क्षेत्रज्ञः स्मर्य्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते।
क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ।। ४०.११० ।।
क्षयणात् करणाच्चैव क्षतत्राणात्तथैव च।
भोज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ।। ४०.१११ ।।
महदाद्यं विशेषान्तं सवैरूप्यं विलक्षणम्।
विकारलक्षणं तद्वै साक्षरक्षरमेव च ।। ४०.११२ ।।
तमेव च विकारन्तु यस्माद्वै क्षरते पुनः।
तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ।। ४०.११३ ।।
सुखदुःखमोहभावा भोज्यमित्यभिधीयते।
अचेतत्वाद्धि विषयस्तद्धि धर्म्मविभुः स्मृतः ।। ४०.११४ ।।
न क्षीयते न क्षरति विकारप्रसृतन्तु तत्।
अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ।। ४०.११५ ।।
यस्मात्पुर्य्यनुशेते च तस्मात्पुरुष उच्यते।
पुरप्रत्ययिको यस्मात्पूरुषेत्यभिधीयते ।। ४०.११६ ।।
पुरुषं कथयस्वाथ कथन्तज्ज्ञैर्विभाष्यते।
शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ।। ४०.११७ ।।
अस्ति नास्तीति सोऽन्यो वा बद्धो मुक्तो गतः स्थितः।
नैर्हेतिकान्तनिर्द्देश्यसूक्तस्तस्मिन्न विद्यते ।। ४०.११८ ।।
शुद्धत्वान्न तु देश्यो वै दृष्टत्वात्समदर्शनः।
आत्मप्रत्ययकारी सारनूनञ्चापि हेतुकम्।
भावग्राह्यमनुमान्यं चिन्तयन्न प्रमुह्यते ।। ४०.११९ ।।
यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम्।
दृश्यादृश्येषु निर्द्देश्यं तदा तदुद्धरं वरम् ।। ४०.१२० ।।
एवं ज्ञात्वा स विज्ञाता ततः शान्तिं नियच्छति।
कार्य्ये च कारणे चैव बुद्ध्यादौ भौतिके तदा ।। ४०.१२१ ।।
संप्रयुक्तो वियुक्तो वा जीवतो वा मृतस्य च।
विज्ञाता न च दृश्येत पृथक्त्वेनेह सर्व्वशः ।। ४०.१२२ ।।
स्वेनात्मानं तमात्मानं कारणात्मा नियच्छति।
प्रकृतौ कारणे चैव स्वात्मन्येवोपतिष्ठति ।। ४०.१२३ ।।
अस्ति नास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः।
एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषेति वा ।। ४०.१२४ ।।
आत्मवान् स निरात्मा वा चेतनोऽचेतनोऽपि वा।
कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव वा ।। ४०.१२५ ।।
यज्ज्ञात्वा न निवर्त्तन्ते क्षेत्रज्ञे तु निरञ्जने।
अवाच्यं तदनाख्यानादग्राह्यत्वादहेतुनि ।। ४०.१२६ ।।
अप्रतर्क्यमचिन्त्यत्वादवाप्यत्वाच्च सर्वशः।
नाभिलिम्पति तत्तत्त्वं सम्प्राप्य मनसा सह ।। ४०.१२७ ।।
क्षेत्रेज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने।
व्यपे(ये)तसुखदुःखे च निरुद्धे शान्तिमागते ।। ४०.१२८ ।।
निरात्मके पुनस्तस्मिन्वाच्यावाच्यो न विद्यते।
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ।। ४०.१२९ ।।
सृजते ग्रसते चैव ग्रस्तः पर्यवतिष्ठते।
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्वं प्रवर्त्तते ।। ४०.१३० ।।
अधिष्ठानप्रवृत्तेन तस्य ते बुद्धिपूर्वकम्।
साधर्म्यवैधर्म्यकृतसंयोगो विधितस्तयोः।
अनादिमान् स संयोगो महापुरुषजः स्मृतः ।। ४०.१३१ ।।
यावच्च सर्गप्रतिसर्गकालस्तावच्च तिष्ठति सुसन्निरुध्य।
पूर्वं हितव्ये तदबुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थमेव ।। ४०.१३२ ।।
एषा निसर्गप्रतिसर्गपूर्वं प्रधानिकी चेश्वरकारिता च।
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ।। ४०.१३३ ।।
इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः।
उक्तो ह्यस्मिंस्तदात्यन्तं कविभिस्तत्प्रमुच्यते ।। ४०.१३४ ।।
इत्येष प्रतिसर्गोवस्त्रिविधः कीर्त्तितो मया।।
विस्तरेणानुपूर्व्या च भूयः किं वर्त्तयाम्यहम् ।। ४०.१३५ ।।
इति श्रीमहापुराणे वायुप्रोक्ते चत्वारिंशोऽध्यायः ।। ४० ।। *