वायुपुराणम्/उत्तरार्धम्/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः २३ वायुपुराणम्
अध्यायः २४
वेदव्यासः
उत्तरार्धम्, अध्यायः २५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



          सूत उवाच।।
निसर्गं मनु पुत्राणां विस्तरेण निबोधत।
पृषध्रो हिसयित्वा तु गुरोर्गावमभक्षयत् ।। २४.१ ।।

शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः।
करूषस्य तु कारूषः क्षत्रियो युद्धदुर्मदः ।। २४.२ ।।

सहस्रक्षत्रियगणविक्रान्तः संबभूव ह।
नाभागारिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ।। २४.३ ।।

भलन्दनस्य पुत्रोऽभूत् प्रांशुर्नाम महाबलः।
प्रांशोरेकोऽभवत् पुत्रः प्रजानिरिति विश्रुतः ।। २४.४ ।।

प्रजानेरभवत् पुत्रः खनित्रो नाम वीर्यवान्।
तस्य पुत्रोऽभवच्छ्रीमान् क्षुपो नाम महायशाः ।। २४.५ ।।

क्षुपस्य विंशः पुत्रस्तु प्रतिमा न बभूव ह।
विंशपुत्रस्तु कल्याणो विविंशो नाम धार्मिकः ।। २४.६ ।।

विविंशपुत्रो धर्मात्मा खनिनेत्रः प्रतापवान्।
करन्धमस्तस्य पुत्रस्त्रेतायुगमुखेऽभवत् ।। २४.७ ।।

करन्धमसुतश्चापि आविक्षिन्नाम वीर्यवान्।
आविक्षितो व्यतिक्रामत् पितरं गुणवत्तया ।। २४.८ ।।

मरुत्तो नाम धर्मात्मा चक्रवर्त्तिसमो नृपः।
संवर्त्तेन दिवं नीतः ससुहृत् सह बान्धवैः ।। २४.९ ।।

विवादोऽत्र महानासीत् संवर्त्तस्य बृहस्पतेः।
ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ।। २४.१० ।।

संपर्त्तेन हृते यज्ञे चुकोप सुभृशन्तदा।
लोकानां स हि नाशय दैवतैर्हि प्रसादितः ।। २४.११ ।।

मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवाप्तवान्।
नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ।। २४.१२ ।।

तस्य पुत्रस्तु विक्रान्तो राजासीद्राष्ट्रवर्द्धनः ।
सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ।। २४.१३ ।।

केवलस्तस्य पुत्रस्तु बन्धुमान् केवलात्मजः।
अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान् नृपः ।। २४.१४ ।।

बुधो वेगवतः पुत्र स्तृणबिन्दुर्बुधात्मजः।
त्रेतायुगमुखे राजा तृतीये संबभूव ह ।। २४.१५ ।।

कन्या तु तस्य द्रविडा माता विश्रवसो हि सा।
पुत्रश्चास्य विशालोऽभूद् राजा परमधार्मिकः ।। २४.१६ ।।

विशालस्य समुत्पन्ना विशाला नयनिर्मिता।
विशालस्य सुतो राजा हेमचन्द्रो महाबलः ।। २४.१७ ।।

सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम्।
सुचन्द्रतनयो राजा धूम्राश्च इति विश्रुतः ।। २४.१८ ।।

धूम्राश्वतनयो विद्वान् सृञ्जयः समपद्यत।
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।। २४.१९ ।।

कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः।
कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।। २४.२० ।।

सोमदत्तस्य राजर्षेः सुतोभूज्जनमेजयः।
जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ।। २४.२१ ।।

तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।। २४.२२ ।।

शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः।
पुत्रः सुकन्या कन्या न भार्याया च्यवनस्य तु ।। २४.२३ ।।

आनार्त्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान्।
आनर्त्तो विषयो यस्य पुरी चापि कुशस्थली ।। २४.२४ ।।

रेवस्य रैवतः पुत्रः ककुझी नाम धार्मिकः।
ज्येष्ठो भ्रातृशतस्यासीद्राजा प्राप्य कुशस्थलीम् ।। २४.२५ ।।

कन्यया सह श्रुत्वा च गन्धर्वं ब्रह्मणोऽन्तिके।
मुहूर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभोः ।। २४.२६ ।।

आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम्।
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।। २४.२७ ।।

भोजवृष्ट्यन्धकैर्गुप्तां वसुदेवपुरोगमैः।
ताङ्कथां रैवतः श्रुत्वा यथातत्त्वमरिन्दमः ।। २४.२८ ।।

कन्या तु बलदेवाय सुव्रतां नाम रेवतीम्।
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।। २४.२९ ।।

रेमे रामश्च धर्मात्मा रेवत्या सहितः किल।
तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ।। २४.३० ।।

        ऋष्य ऊचुः ।।

कथं बहुयुगे काले व्यतीते सूतनन्दन।
न जरां रेवती प्राप्ता पलितञ्च कुतः प्रभो ।। २४.३१ ।।

मेरुं गतस्य वा तस्य शर्य्यातेः सन्ततिः कथम्।
स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ।। २४.३२ ।।

कियन्तो वा सुरगणा गन्धर्व्वास्तत्र कीदृशाः।
यच्छ्रुत्वा रैवतः कालान् मुहूर्त्तमिव मन्यते ।। २४.३३ ।।

             सूत उवाच।।
न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः।
न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ।। २४.३४ ।।

गान्धर्व्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः।
ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ।। २४.३५ ।।

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः।
तालाश्चैकोनपञ्चाशदित्येतत् स्वरमण्डलम् ।। २४.३६ ।।

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा।
धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ।। २४.३७ ।।

सौवीरी मध्यमग्रामो हरिणास्या तथैव च।
स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमा ।। २४.३८ ।।

शार्ङ्गी च पावनी चैव दृष्टाका च यथाक्रमम्।
म्ध्यमग्रामिकीः ख्याताः षड्जग्रामं निबोधत ।। २४.३९ ।।

उत्तरमन्द्रा रजनी तथा या चोत्तरायता।
शुद्धषड्जा तथा चैव जानीयात् सप्तमां च ताम् ।। २४.४० ।।

गान्धारग्रामि कांश्चान्यान् कीर्त्यमानान् निबोधत।
आग्निष्टोमिकमाद्यन्तु द्वितीयं वाजपेयिकम् ।। २४.४१ ।।

तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाश्वमेधिकम्।
पञ्चमं राजसूयं व षष्ठं चक्रसुवर्णकम् ।। २४.४२ ।।

सप्तमं गोसवं नाम महावृष्टिकमष्टमम्।
ब्रह्मदानञ्च नवमं प्राजापत्यमनन्तरम् ।। २४.४३ ।।

नागपक्षाश्रयं विद्याद्गोतरञ्च तथैव च।
हयक्रान्तं मृगक्रान्तं विष्णुक्रान्तं मनोहरम् ।। २४.४४ ।।

सूर्य्यक्रान्तं वरेण्यञ्च मत्तकोकिलवादिनम्।
सावित्रमर्द्धसावित्रं सर्व्वतो मद्रमेव च ।। २४.४५ ।।

सुवर्णञ्च सुतन्द्रञ्च विष्णुवैष्णुवरावुभौ।
सागरं विजयञ्चैव सर्वभूतमनोहरम् ।। २४.४६ ।।

हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमेव च।
मनोहरमधात्र्यञ्च गन्धर्वानुगतश्च यः ।। २४.४७ ।।

अलम्बुषेष्टश्च तथा नारदप्रिय एव च।
कथितो भीमसेनेन नागराणां यथा प्रियः ।। २४.४८ ।।

करोपनीत विनता श्रीराख्यो भार्गवप्रियः।
विंशतिर्मध्यमग्रामः षड्जग्रामश्चतुर्द्दश ।। २४.४९ ।।

तथा पञ्चदशेच्छन्ति गान्धारग्रामसंस्थितान् ।
ससौवीरा तु गान्धारी ब्रह्मणा ह्युपगीयते ।। २४.५० ।।

उत्तरादिस्वरस्यैव ब्रह्मा वै देवताऽत्र च।
हरिदेशसमुत्पन्ना हरिणास्या व्यजायत।
मूर्च्छना हरिणास्यैव अस्या इन्द्रोऽधिदैवतम् ।। २४.५१ ।।

करोपनीतवितता मरुद्भिः स्वरमण्डले।
सा कलोपनता तस्मान्मारुतश्चात्र दैवतम् ।। २४.५२ ।।

मनुदेशसमुत्पन्ना मूर्च्छना शुद्धमध्यम्।
मध्यमोऽत्र स्वरः शुद्धो गन्धर्व्वश्चात्र देवता ।। २४.५३ ।।

मृगैः सह सञ्चरते सिद्धानां मार्गदर्शने।
यस्मात्तस्मात् स्मृता मार्गी मृगेन्द्रोऽस्याश्च देवता ।। २४.५४ ।।

सा चाश्रमसमायुक्ता अनेकान् पौरवान् रवान्।
मूर्च्छना योजना ह्येषा रजसा रजनी ततः ।। २४.५५ ।।

ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः।
तस्मादुत्तरतालञ्च प्रथमं स्वायतं विदुः।
तस्मादुत्तरमन्द्रोऽयं देवतास्य ध्रुवो ध्रुवम् ।। २४.५६ ।।

अपानादुत्तरत्वाच्च धैवतस्योत्तरायणः।
स्यादियं मूर्च्छना ह्येवं पितरः श्राद्धदेवताः ।। २४.५७ ।।

शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः।
उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्‌जिकम् ।। २४.५८ ।।

यः सतां मूर्च्छनां कृत्वा पञ्चमस्वरको भवेत् ।
यक्षीणां मूर्च्छना सा तु याक्षिका मूर्च्छना स्मृता ।। २४.५९ ।।

नागदृष्टिर्विषा गीता नोपसर्पन्ति मूर्च्छनाम्।
भवन्तीव हृता ह्येते ब्रह्मणा नागदेवताः।
अहीनां मूर्च्छना ह्येषा वरुणश्चात्र देवता ।। २४.६० ।।

शकुन्तकानां कृत्वा च उपमां यान्ति किन्नराः ।
उत्तमां मूर्च्छना तस्मात् पक्षिराजोऽत्र देवता ।। २४.६१ ।।

गान्धाररागशब्देन गां च धारयतेऽर्थतः।
तस्माद्विशुद्धगान्धारी गन्धर्वश्चाधिदैवतम् ।। २४.६२ ।।

गान्धारानन्तरं गत्वा सृष्टेयं मूर्च्छना यतः।
तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ।। २४.६३ ।।

सेयं खलु महाभूता पितामह मुपस्थिता।
षड्जेयं मूर्च्छना तस्मात् स्मृता ह्यनलदेवता ।। २४.६४ ।।

दिव्येयं चायता तेन मन्दषष्ठा च मूर्च्छने।
निवृत्तगुणनामानं पञ्चमञ्चात्र धैवतम् ।। २४.६५ ।।

पूर्णाः सप्तस्वरा ह्येवं मूर्च्छनाः संप्रकीर्त्तिताः।
नानासाधारणाश्चैव षडेवानुविदस्तथा ।। २४.६६ ।।

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वत मनुवंशगान्धर्व्वमूर्च्छनालक्षणकथनं नाम चतुर्विंशोऽध्यायः ।। २४ ।। *