वायुपुराणम्/उत्तरार्धम्/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः ३५ वायुपुराणम्
अध्यायः ३६
वेदव्यासः
उत्तरार्धम्, अध्यायः ३७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


         सूत उवाच।।
एवमाराध्य देवेशमीशानं नीललोहितम्।
ब्रह्मेति प्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ।। ३६.१ ।।

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान् भवः।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ।। ३६.२ ।।

ततः सोऽन्तर्हिते तस्मिन् देवेशानुचरे तदा।
तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ।। ३६.३ ।।

कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता।
महता तपसा युक्तं किमर्थं माञ्जुगोपसि ।। ३६.४ ।।

अनया सततं भक्त्या प्रश्रयेण दमेन च।
स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ।। ३६.५ ।।

किमिच्छसि वरारेहे कस्ते कामः समृध्यताम्।
तं ते संपूरयाम्यद्य यद्यपि स्यात् सुदुर्लभम् ।। ३६.६ ।।

एवमुक्ताऽऽब्रवीदनं तपसा ज्ञातुमर्हसि।
चिकीर्षितं मे ब्रह्निष्ठत्वं हि वेत्थ यथातथम् ।। ३६.७ ।।

एवमुक्तेऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा।
माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ।। ३६.८ ।।

मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि।
अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि ।। ३६.९ ।।

देवेन्द्रानलवर्णाभे वरारोहे सुलोचने।
इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ।। ३६.१० ।।

एवं भवतु गच्छामो गृहान् वै मत्तकाशिनि ।
ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ।। ३६.११ ।।

स तया सं व सद्देव्या दश वर्षाणि भागशः।
अदृश्यः सर्वभूतानां मायया संवृतस्तदा ।। ३६.१२ ।।

कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः ।
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ।। ३६.१३ ।।

गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम्।
दाक्षिण्यं तस्य तद्बुध्वा प्रतिजग्मुर्यथागतम् ।। ३६.१४ ।।

बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह।
पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ।। ३६.१५ ।।

बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः।
काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ।। ३६.१६ ।।

ततः समागतान् दृष्ट्वा बृहस्पतिरुवाच तान्।
स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ।। ३६.१७ ।।

अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ।। ३६.१८ ।।

पूर्णकामस्तदा तस्मिन् समये दशवार्षिके।
ययौ च समकालं स सद्योत्पन्नमतिस्तदा ।। ३६.१९ ।।

समयान्ते देवयानी सद्यो जाता सुता तदा।
बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ।। ३६.२० ।।

           ।।शुक्र उवाच।।
देवि गच्छामहे द्रष्टुं तव याज्यान् शुचिस्मिते।
विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ।। ३६.२१ ।।

एवमुक्ताऽब्रवीद्देवी भज भक्तान् महाव्रत।
एष ब्रह्मन् सतां धर्मो न धर्मं लोपयामि ते ।। ३६.२२ ।।

           ।।सूत उवाच।।
ततो गत्वासुरान् दृष्ट्वा देवाचार्येण धीमता।
वाञ्चितान् काव्यरूपेण वेधसाऽसुरमब्रवीत् ।। ३६.२३ ।।

काव्यं मां तात जानीध्वं एष ह्याङ्गिरसो भुवि।
वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ।। ३६.२४ ।।

श्रुत्वा तथा ब्रुवाणन्तं सम्भ्रान्ता दितिजास्ततः।
प्रेक्षन्ते स्म ह्युभौ तत्र सितासितशुचिस्मितौ ।। ३६.२५ ।।

सम्प्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन।
ततस्तेषु प्रमूढेषु काव्यस्तान् पुनरब्रवीत् ।। ३६.२६ ।।

आचार्य्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः।
अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ।। ३६.२७ ।।

एवमुक्तासुराः सर्वे तावृभौ समवैक्षत।
तदाऽसुरा विशेषन्तु न व्यजानंस्तयोर्द्वयोः ।। ३६.२८ ।।

बृहस्पतिरुवाचैतानसम्भ्रान्तोऽयमङ्गिराः।
काव्योऽहं यो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ।। ३६.२९ ।।

स मोहयति रूपेण मामकेनैष वोऽसुराः।
श्रुत्वा तस्य ततस्ते वै संमन्त्र्यार्थवचोऽब्रुवन् ।। ३६.३० ।।

अयन्नो दश वर्षाणि सततं शास्ति वै प्रभुः।
एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ।। ३६.३१ ।।

ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च।
वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ।। ३६.३२ ।।

ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः.
अयङ्गुरुर्हितेऽस्माकं गच्छ त्वं नासि नो गुरुः ।। ३६.३३ ।।

भार्गवोऽङ्गिरसो वायं भवत्वेवैष नोगुरुः।
स्थिता वयं निदेशेऽस्य गच्छत्वं साधु मा चिरम् ।। ३६.३४ ।।

एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम्।
यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ।। ३६.३५ ।।

चुकोप भार्गवस्तेषामवलेपेन वै तदा।
बोधिता हि मया यस्मान्न मां भजत दानवाः ।। ३६.३६ ।।

तस्मात् प्रनष्ट संज्ञां वै पराभवङ्गमिष्यथ।
इदि व्याहृत्य तान् काव्यो जगामाथ यथागतम् ।। ३६.३७ ।।

ज्ञात्वाऽभिशस्तानसुरान् काव्येन तु बृहस्पतिः।
कृतार्थः स तदा हृष्टः स्वं रूपं प्रत्यपद्यत।
बुद्ध्वाऽसुरांस्तदा भ्रष्टान् कृतार्थोऽन्तरधीयत ।। ३६.३८ ।।

ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा।
अहो धिग् वञ्चिताः स्मेह परस्परमथाब्रुवन् ।। ३६.३९ ।।

पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम्।
दग्धाश्चैवोपयोगाच्च स्वेस्वे चार्थेषु मायया ।। ३६.४० ।।

ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ।। ३६.४१ ।।

ततः काव्यं समासाद्य अभितस्थु रवाङ्मुखाः।
तानागतान् पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ।। ३६.४२ ।।

मयापि बोधिताः काले यतो मां नाभिनन्दथ।
ततस्तेनावलेपेन गता यूथं पराभवम् ।। ३६.४३ ।।

प्रह्लादस्तमथोवाच मानं त्वं त्यज भार्गव।
स्वान् याज्यान् भजमानांश्च भक्तांश्चैव विशेषतः ।। ३६.४४ ।।

त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः।
भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ।। ३६.४५ ।।

यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन।
अपध्याता स्त्वया ह्यद्य प्रवेक्ष्यामो रसातलम् ।। ३६.४६ ।।

           सूत उवाच।।
ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया ।
एवमुक्तोऽनुनीतः स स्तुतः कोपं न्ययच्छत ।। ३६.४७ ।।

उवाचेदन्न भेतव्यं न गन्तन्यं रसातलम्।
अवश्यम्भावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ।। ३६.४८ ।।

न शक्यमन्यथा कर्तुं दृष्टं हि बलवत्तरम् ।
संज्ञा प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ।। ३६.४९ ।।

प्राप्तः पर्य्यायकालो व इति ब्रह्माऽभ्यभाषत।
मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ।। ३६.५० ।।

युगाख्यो दश संपूर्णो देवानाक्रम्य मूर्द्धनि।
तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ।। ३६.५१ ।।

सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति।
लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ।। ३६.५२ ।।

एवं किलमहं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम्।
तथाहृतेषु लोकेषु तपोऽस्य न किलाभवत् ।। ३६.५३ ।।

यस्मात् प्रवृत्तयश्चास्य न कामानभिसन्धिताः।
तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ।। ३६.५४ ।।

देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत्।
तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ।। ३६.५५ ।।

प्रीतेन चामरत्वं वै दत्तं तुब्यं स्वयम्भुवा।
तस्मान्निरुत्सु कस्त्वं वै पर्य्यायं सह माकुलः ।। ३६.५६ ।।

न च शक्यं मया तुभ्यं पुरस्ताद्वै विसर्पितुम् ।
ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ।। ३६.५७ ।।

इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः ।
दैवतैः सह संरब्धान् सर्व्वान् वो धारयिष्यतः ।। ३६.५८ ।।

एवमुक्तस्तु दैतेयाः काव्येनाक्लिष्टकर्म्मणा।
ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ।। ३६.५९ ।।

अवश्यम्भावमर्थत्वं श्रुत्वा शुक्राच्च दानवाः।
सकृदाशंसमानास्ते जयं काव्येन भाषितम् ।। ३६.६० ।।

दंशिताः सायुधाः सर्वे ततो देवान् समाह्वयन्।
अथ देवासुरान् दृष्ट्वा संग्रामे समुपस्थितान् ।। ३६.६१ ।।

ततः संवृत्तसन्नाहा देवास्तान् समयोधयन्।
दैवासुरे ततस्तस्मिन् वर्त्तमाने शतं समाः।
अजयन्नसुरा देवान् भग्ना देवा अमन्त्रयन् ।। ३६.६२ ।।

             ।।देवा ऊचुः ।।

षण्डामार्कप्रभावं न जानीमस्त्व सुरैर्वयम्।
तस्माद्यज्ञं समुद्दिश्य कार्य्यं चात्महितञ्च यत् ।। ३६.६३ ।।

तज्ज्ञानापहृतावेतौ कृत्वा जेष्यामहेऽसुरान् ।
अथोपामन्त्रयन् देवाः षण्डामार्कौ तु तावुभौ ।। ३६.६४ ।।

यज्ञे समाह्वयिष्यामस्त्यजतमसुरान् द्विजौ ।
ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ।। ३६.६५ ।।

एवं तत्यजतुस्तौ तु षण्डामार्कौ तदासुरान् ।
ततो देवा जयं प्राप्ता दानवाश्च पराभवम् ।। ३६.६६ ।।

देवासुरान् पराभाव्य षण्डामार्कावुपागमन्।
काव्यशापाभिभूताश्च ह्यनाधाराश्च ते पुनः ।। ३६.६७ ।।

वध्यमानास्तदा देवैर्विविशुस्ते रसातलम्।
एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः।
ततः प्रभृति शापेन भृगुनैमित्तिकेन च ।। ३६.६८ ।।

जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः।
कर्त्तुं धर्म्मव्यवस्थानमधर्म्मस्य च नाशनम् ।। ३६.६९ ।।

प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः।
मनुष्यवध्यांस्तान् सर्व्वान् ब्रह्मा व्याहारयत् प्रभुः ।। ३६.७० ।।

धर्म्मान्नारायणस्तस्मान् सम्भूतश्चाक्षुषेऽन्तरे।
यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ।। ३६.७१ ।।

प्रादुर्भावे तदान्यस्य ब्रह्मैवासीत् पुरोहितः।
चतुर्थ्यान्तु युगाख्यायामापन्नेष्वसुरेष्वथ ।। ३६.७२ ।।

सम्भूतः स समुद्रान्तर्हिरण्यकशिपोर्वधे।
द्वितीयो नरसिंङोऽभूद्रुद्रः सुरपुरस्सरः ।। ३६.७३ ।।

बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे।
दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ।। ३६.७४ ।।

संक्षिप्यात्मानमङ्गेषु बृहस्पतिपुरस्सरम्।
यजमानन्तु दैत्येन्द्रमदित्याः कुलनन्दनः।
द्विजो भूत्वा शुभे काले बलिं वैरोचनम्पुरा ।। ३६.७५ ।।

त्रैलोक्यस्य भवान् राजा त्वयि सर्व्वं प्रतिष्ठितम्।
दातुमर्हसि मे राजन् विक्रमांस्त्रीनिति प्रभुः ।। ३६.७६ ।।

ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत्।
वामनन्तं च विज्ञाय ततोऽनुमुदितः स्वयम् ।। ३६.७७ ।।

स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः।
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ।। ३६.७८ ।।

अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा।
प्रकाशयन् दिशः सर्व्वाः प्रदिशश्च महायशाः ।। ३६.७९ ।।

शुशुभे स महाबाहुः सर्व्वलोकान् प्रकाशयन्।
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः।
सपुत्रपौत्रानसुरान् पातालतलमानयत् ।। ३६.८० ।।

नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना।
क्रूरा हता विनिर्द्धूता दिशः संप्रतिपेदिरे ।। ३६.८१ ।।

महाभूतानि भूतात्मा सविशेषाणि माधवः।
कालञ्च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ।। ३६.८२ ।।

तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति ।
न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ।। ३६.८३ ।।

तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः।
दृष्ट्वा सम्मुमुहुः सर्वे विष्णुतेजोविमोहिताः ।। ३६.८४ ।।

बलिः सिलो महापाशैः सबन्धुः ससुहृद्गणः।
विरोचन कुलं सर्वं पाताले सन्निवेशितम् ।। ३६.८५ ।।

ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने।
मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ।। ३६.८६ ।।

एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयः शुभाः।
मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत ।। ३६.८७ ।।

त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह।
नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ।। ३६.८८ ।।

पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह।
मान्धातुश्चक्रवर्त्तित्वे तस्थौ तथ्यपुरःसरः ।। ३६.८९ ।।

एको नविंशे त्रेतायां सर्व्वक्षत्रान्तकोऽभवत्।
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ।। ३६.९० ।।

चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा।
सप्तमो राव णस्यार्थे जज्ञे दशरथात्मजः ।। ३६.९१ ।।

अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् ।
वेदव्यासस्ततो जज्ञे जातूकर्णपुरःसरः ।। ३६.९२ ।।

तथैव नवमो विष्णुरदित्याः कश्यपात्मजः।
देवक्यां वसुदेवात्तु ब्रह्नगार्ग्यपुरःसरः ।। ३६.९३ ।।

अप्रमेयो नियोज्यश्च यत्र कामचरो वशी।
क्रीजते भगवाँ ल्लोके बालः क्रीजनकैरिव ।। ३६.९४ ।।

न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः।
परं परममेतस्माद्विश्वरूपान्न विद्यते ।। ३६.९५ ।।

अष्टाविंश तिमे तद्वद्द्वापरस्यांशसङ्क्षये।
नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।। ३६.९६ ।।

कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्।
मोहयन् सर्वभूतानि योगात्मा योगमायया ।। ३६.९७ ।।

प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्।
विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ।। ३६.९८ ।।

यत्र कंसञ्च शाल्वञ्च द्विविदञ्च महासुरम्।
अरिष्टं वृषभञ्चैव पूतनां केशिनं हयम् ।। ३६.९९ ।।

नागं कुवलयापीडं मल्लराजगृहाधिपम्।
दैत्यान् मानुषदेहस्थान् सूदयामास वीर्यवान् ।। ३६.१०० ।।

छिन्नं बाहुसहस्रञ्च बाणस्याद्भुतकर्मणः ।
नरकश्च हतः सङ्खये यवनश्च महाबलः ।। ३६.१०१ ।।

हृतानि च महीपानां सर्वरत्नानि तेजसा।
दुराचारा श्च निहताः पार्थिवा ये रसातले ।। ३६.१०२ ।।

एते लोकहितार्थाय प्रादुर्भावा महात्मनः।
अस्मिन्नेव युगे क्षीणे सन्ध्या श्लिष्टे भविष्यति ।। ३६.१०३ ।।

कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्।
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः ।। ३६.१०४ ।।

अनुकर्षन् सर्वसेनां हस्त्यश्वरथसङ्कुलाम्।
प्रगृहीतायुधौर्विप्रैर्वृतः शतसहस्रशः ।। ३६.१०५ ।।

नात्यर्थं धार्मिका ये च ये च धर्मद्विषः व्कचित्।
ईदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ।। ३६.१०६ ।।

तथैव दाक्षिणात्यांश्च द्रविजान् सिंहलैः सह।
गान्धारान् पारदांश्चैव पह्लवान् यवनाञ्छकान् ।। ३६.१०७ ।।

तुषारान् बर्बरांश्चैव पुलिन्दान् दरदान् खसान् ।
लम्पाकानन्धकान् रुद्रान् किरातांश्चैव स प्रभुः ।। ३६.१०८ ।।

प्रवृत्तचक्रोबलवान् म्लेच्छानामन्तकृद्बली।
अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ।। ३६.१०९ ।।

मानवः स तु संजज्ञे देवस्यांशेन धीमतः ।
पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ।। ३६.११० ।।

गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत्।
इत्येतास्तस्य देवस्य दश सम्भूतयः स्मृताः ।। ३६.१११ ।।

तं तं कालञ्च कार्यञ्च तत्तदुद्दिश्य कारणम्।
अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ।। ३६.११२ ।।

पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः।
विनिघ्नन् सर्व्वभूतानि मानुषानेव सर्व्वशः ।। ३६.११३ ।।

कृत्वा बीजावशेषान्तु महीं क्रूरेण कर्म्मणा।
संशातयित्वा वृषलान् प्रायशस्तानधार्म्मिकान् ।। ३६.११४ ।।

ततः स वै तदा कल्किश्चरितार्थः ससैनिकः।
कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ।। ३६.११५ ।।

अकस्मात् कुपितान्योन्यं भविष्यन्ति च मोहिताः ।
क्षपयित्वा तु तान् सर्वान् बाविनार्थेन चोदितान् ।। ३६.११६ ।।

गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः।
ततो व्यतीते कल्कौ तु सामान्यैः सह सैनिकैः ।। ३६.११७ ।।

नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः।
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ।। ३६.११८ ।।

परस्परहृताश्वासा निराक्रन्दाः सुदुःखिताः।
पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ।। ३६.११९ ।।

प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा।
ह्रस्वा अल्पायुषश्चैव वनौकस इमे स्मृताः ।। ३६.१२० ।।

सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः।
चीर पत्राजिनधराः सङ्करं घोरमास्थिताः ।। ३६.१२१ ।।

अल्पायुषो नष्टवार्त्ता बह्वाबाधाः सुदुःखिताः।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यंशके तदा ।। ३६.१२२ ।।

प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु ।
क्षीणे कलियुगे तस्मिन् प्रवृत्ते च कृते पुनः ।। ३६.१२३ ।।

प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यता।
इत्येतत् कीर्तितं सर्वं देवासुरविचेष्टितम् ।। ३६.१२४ ।।

यदुवंशप्रसङ्गेन महद्वो वैष्णवं यशः ।
तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ।। ३६.१२५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्यकथनं नाम षट्‌त्रिंशोऽध्यायः ।। ३६ ।।*