वायुपुराणम्/उत्तरार्धम्/अध्यायः १
वायुपुराणम् अध्यायः १ वेदव्यासः |
अध्यायः२ → |
उत्तरार्द्धम् ।।
श्रीगणेशाय नमः ।।
शांशपायन उवाच॥
क्रमं मन्वन्तराणान्तु ज्ञातुमिच्छामि तत्त्वतः ।
दैवतानां च सर्वेषां ये च यस्यान्तरे मनोः ॥१॥
सूत उवाच॥ मन्वन्तराणां यानि स्युरतीतानागतानि ह ।
समासाद्विस्तराच्चैव ब्रुवतो वै निबोदत ॥२॥
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
औत्तमस्तामसश्चैव तथा रैवतचाक्षुषौ ।
षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान् ॥३॥
सावर्णाः पञ्च रौच्यश्च भौत्यो वैवस्वतस्तथा ।
वक्ष्याम्येतान् पुरस्तात्तु मनोर्वैवस्वतस्य ह ॥४॥
मनवः पञ्च येऽतीता मानवांस्तान् निबोधत ।
मन्वन्तरं मया चोक्तं क्रान्तं स्वायम्भुवस्य ह ॥५॥
अत ऊर्द्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य ह ।
प्रजासर्गं समासेन द्वितीयस्य महात्मनः ॥६॥
आसन् वै तुषिता देवा मनुस्वारोचिषेऽन्तरे ।
पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ ॥७॥
तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः ।
पारावताश्च शिष्टाश्च द्वादशौतौ गणौ स्मृतौ ।
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥८॥
धैवस्यशोऽथ वामान्यो गोपा देवायतस्तथा ।
अजश्च भगवान् देवो दुरोणश्च महाबलः ॥९॥
आपश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् ।
चिकित्वान् निभृतो यश्च अंशोयश्चैव पठ्यते ।
इत्येते क्रतुपुत्रास्तु तदासन् सोमपायिनः ॥२.१.१०॥ ६२.१०
प्रचेताश्चैव यो देवो विश्वेदेवास्तथैव च ।
समञ्जो विश्रुतो यश्च अजिह्मश्चारिमर्द्दनः ॥११॥
अजोषौ च महाभागौ यवीयश्च महाबलः ॥१२॥
होता यज्वाच इत्येते पराक्रान्ताः परावताः ।
इत्येता देवता ह्यासन्मनुस्वारोचिषेन्तरे ॥१३॥
सोमपास्तु तदा ह्येताश्चतुर्विंशतिदेवताः ।
तेषामिन्द्रस्तदा ह्यासीद्वैधश्च लोकविश्रुतः ॥१४॥
ऊर्जौ वसिष्ठपुत्रस्तु स्तम्भः काश्यप एव च ।
भार्गवश्च तदा द्रोणो ऋषभोऽङ्गिरसस्तथा ॥१५॥
पौलस्त्यश्चैव दत्तात्रिरात्रेयो निश्चलस्तथा ।
पौलहस्य च धावांस्तु एते सप्तर्षयः स्मृताः ॥१६॥
बृहद्गुहो नवश्चैव सुताश्चैते नव स्मृताः ॥१७॥
मनोः स्वारोचिषस्यैते पुत्रा वंशकराः स्मृताः ।
पुराणे परिसङ्ख्याता द्वितीयं चैतदन्तरम् ॥१८॥
सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् ।
मूलं मन्वन्तरस्यैते तेषां चैवान्तरे प्रजाः ॥१९॥
ऋषीणां देवताः पुत्राः पितरो देवसूनवः ।
ऋषयो देवपुत्राश्च इति शास्त्रविनिश्चयः ॥२.१.२०॥ ६२.२१
मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजातयः ।
एतन्मन्वन्तरं प्रोक्तं समासान्न तु विस्तरात् ॥२१॥
स्वायम्भुवेन विस्तारो ज्ञेयः स्वारोचिषस्य तु ।
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ।
पुनरुक्तबहुत्वात्तु प्रजानां वैकुले कुले ॥२२॥
तृतीयस्त्वथ पर्याय औत्तमस्यान्तरे मनोः ।
पञ्च चैव गणाः प्रोक्तास्तान् वक्ष्यामि निबोधत ॥२३॥
सुधामानश्च देवाश्च ये चान्ये वशवर्त्तिनः ।
प्रतर्द्दनाः शिवाः सत्या गणा द्वादश वै स्मृताः ॥२४॥
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो धृतिः शुचिः ।
ईषोर्जाश्च तथा ज्येष्ठो वपुष्मांश्चैव द्वादश ।
इत्येते नामभिः क्रान्ताः सुधामानस्तु द्वादश ॥२५ ।
सहस्रधारो विश्वात्मा शमितारो बृहद्वसुः ।
विश्वधाविश्वकर्मा च मनस्वन्तो विराड्यशाः ॥२६॥
ज्योतिश्चैव विभाव्यश्च कीर्त्तिमान् वंशकारिणः ।
अन्यानाराधितो देवो वसुधिष्णो विवस्वसुः ॥२७॥
दिनक्रतुः सुधर्मा च धृतवर्मा यशस्विनः ।
केतुमांश्चैव इत्येते कीर्तितास्तु प्रमर्द्दनाः ॥२८॥
हंसस्वरोऽहिहा चैव प्रतर्द्दनयशस्करौ ।
सुदानो वसुदानश्च सुमञ्जसविषावुभौ ॥२९॥
जन्तुवाहयतिश्चैव सुवित्तसुनयस्तथा ।
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥२.१.३०॥ ६२.३०
सत्यानामपि नामानि निबोधत यथामतम् ।
दिक्पतिर्वाक्पतिश्चैव विश्वः शम्भुस्तथैव च ॥३१॥
स्वमृडीकोऽधिपश्चैव वर्च्चोधा मुह्यसर्व्वशः ।
वासवश्च सदाश्वश्च क्षेमानन्दौ तथैव च ॥३२॥
सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः ।
इत्येते देवता ह्यासन्नौत्तमस्यान्तरे मनोः ॥३३॥
अजश्च परशुश्चैव दिव्यो दिव्यौषधिर्न्नयः ।
देवानुजश्चाप्रतिमो महोत्साहौशिजस्तथा ॥३४॥
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ।
औत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः ।
एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् ॥३५॥
औत्तमे परिसङ्ख्यातः सर्गः स्वारोचिषेण तु ।
विस्तरेणानुपूर्व्या च तामसस्तान्निबोधत ॥३६॥
चतुर्थेत्वथ पर्याये तामसस्यान्तरे मनोः ।
सत्या स्वरूपाः सुधियो हरयश्चतुरो गणाः ॥३७॥
पुलस्त्यपुत्रस्तु शीर्ष्यण्यास्तमश्चैवाष्टमस्तथा ।
इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः ॥३८॥
इन्द्रियाणां शतं यद्धिमुनयः प्रतिजानते ।
सत्यप्राणास्तु शीर्ष्यण्यास्तमश्चैवाष्टमस्तथा ।
इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः ॥३९॥
तेषां च प्रभुदेवानां शिविरिन्द्रः प्रतापवान् ।
सप्तर्षयोऽन्तरे चैव तान्निबोधत सत्तमाः ॥२.१.४०॥ ६२.४०
काव्यो हर्षस्तथा चैव काश्यपः पृथुरेव च ।
आत्रेयश्चाग्निरित्येव ज्योतिर्धामा च भार्गवः ॥४१॥
पौलहो वनपीठश्च गोत्रे वासिष्ठ एव च ।
चैत्रस्तथापि पौलस्त्य ऋषयस्तामसेऽन्तरे ॥४२॥
जनुवण्डस्तथा शान्तिर्नरः ख्यातिर्भयस्तथा ।
प्रियभृत्यो ह्यवक्षिश्च पृष्टलोढो दृढोद्यतः ।
ऋतश्च ऋतबन्धुश्च तामसस्य मनोः सुताः ॥४३॥
पञ्चमेत्वथ पर्याये मनोश्चारिष्णवेऽन्तरे ।
गणास्तु सुसमाख्याता देवतानां निबोधत ॥४४॥
अमृता भाभूतरजोविकुण्ठाः ससुमेधसः ।
चरिष्णोस्तु शुभाः पुत्रा वसिष्ठस्य प्रजापतेः ।
चतुर्दश च चत्वारो गणास्तेषान्तु भास्वराः ॥४५॥
स्वत्रविप्रेग्निभासस्व प्रत्येतिष्ठामृतस्तथा ।
सुमतिर्वाविरावश्च वाचिनोदः स्रवस्तथा ॥४६॥
प्रविराशी च वादश्च प्राशश्चेति चतुर्दश ।
अमृताभाः स्मृता ह्येते देवाश्चारिष्णवेऽन्तरे ॥४७॥
मतिश्च सुमतिश्चैव ऋतसत्यौ तथैव च ।
आवृतिर्विवृतिश्चैव मदो विनय एव च ॥४८॥
जेता जिष्णुः सहश्चैव द्युतिमान् स्रवसस्तथा ।
इत्येतानीह नामानि आभूतरजसां विदुः ॥४९॥
वृषभेत्ता जयो भीमः शुचिर्दान्तो यशो दमः ।
नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ।
कीर्तितास्तु विकुण्ठा वै सुमेधास्तु निबोधत ॥२.१.५०॥ ६२.५०
मेधा मेधातिथिश्चैव सत्यमेधास्तथैव च ।
पृश्रिमेधाल्पमेधाश्च भूयोमेधादयः प्रभुः ॥५१॥
दीप्तिमेधा यशोमेधाः स्थिरमेधास्तथैव च ।
सर्वमेधाश्वमेधाश्च प्रतिमेधाश्च यः स्मृतः ।
मेधावान् मेधहर्त्ता च कीर्त्तितास्तु सुमेधसः ॥५२॥
विभुरिन्द्रस्तदा तेषामासीद्विक्रान्तपौरुषः ।
पौलस्त्यो वेदबाहुश्च यजुर्नामा च काश्यपः ॥५३॥
हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः ।
ऊर्द्ध्वबाहुश्च वासिष्ठः पर्जन्यः पौलहस्तथा ।
सत्यनेत्रस्तथात्रेय ऋषयो रैवतान्तरे ॥५४॥
महापुराणसम्भाव्यः प्रत्यङ्गपरहा शुचिः ।
बलबन्धुर्निरामित्रः केतुभृङ्गो दृढव्रतः ।
चरिष्णवस्य पुत्रास्ते पञ्चमञ्चैतदन्तरम् ॥५५॥
स्वारोचिषोत्तमश्चैव तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवस्तथा ॥५६॥
षष्ठे खल्वथ पर्याये देवा ये चाक्षुषेऽन्तरे ।
आद्याः प्रसूता भाव्याश्च पृथुकाश्च दिवौकसः ।
महानुभावलेखाश्च पञ्च देवगणाः स्मृतः ॥५७॥
दिवौकसः सर्ग एष प्रोच्यते मातृनामभिः ।
अत्रेः पुत्रस्य नप्तार आरण्यस्य प्रजापतेः ।
गणाश्च तेषां देवानामेकैको ह्यष्टकः स्मृतः ॥५८॥
अन्तरिक्षो वसुहयो ह्यतिथिश्च प्रियवतः ।
श्रोता मन्ता सुमन्ता च आद्या ह्येते प्रकीर्त्तिताः ॥५९॥
श्येनभद्रस्तथा पश्यः पथ्यनेत्रो महायशाः ।
सुमनाश्च सुवेताश्च रैवतः सुप्रचेतसः ।
द्युतिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः ॥२.१.६०॥ ६२.६०
विजयः सुजयश्चैव मनोद्यानौ तथैव च ।
सुमतिः सुपरिश्चैव विज्ञातोऽर्थपतिश्च यः ।
भाव्या ह्येते स्मृता देवाः पृथुकांस्तु निबोधत ॥६१॥
अजिष्टः शाक्यनो देवो वानपृष्ठस्तथैव च ।
शाङ्करः सत्यधृष्णुश्च विष्णुश्च विजयस्तथा ।
अजितश्च महाभागः पृथुकास्ते दिवौकसः ॥६२॥
लेखांस्तथा प्रवक्ष्यामि ब्रुवतो मे निबोधत ।
मनोजवः प्रघासस्तु प्रचेतास्तु महायशाः ॥६३॥
वातो ध्रुवक्षितिश्चैव अद्भुतश्चैव वीर्यवान् ।
अवनो बृहस्पतिश्चैव लेखाः सम्परिकीर्त्तिताः ॥६४॥
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत् ।
उन्नतो भार्गवश्चैव हविष्मानङ्गिरःसुतः ॥६५॥
सुधामा काश्यपश्चैव वासिष्ठो विरजस्तथा ।
अतिमानश्च पौलस्त्यः सहिष्णुः पौलहस्तथा ।
मधुरा त्रेय इत्येते सप्त वै चाक्षुषेऽन्तरे ॥६६॥
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कृतिः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥६७॥
अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः ।
चाक्षुषस्य सुता ह्येते षष्ठं चैव तदन्तरम् ॥६८॥
वैवस्वतेन सङ्ख्यातस्तस्य सर्गो महात्मनः ।
विस्तरेणानुपूर्व्या च कथितं वै मया द्विजाः ॥६९॥
॥ऋषय ऊचुः॥
चाक्षुषस्य तु दायादः सम्भूतः कश्यपान्वये ।
तस्यान्ववाये येऽप्यन्ये तन्नो ब्रूहि यथातथम् ॥२.१.७०॥ ६२.७०
सूत उवाच॥ चाक्षुषस्य निसर्गन्तु समासाच्छ्रोतुमर्हथ ।
तस्यान्ववाये सम्भूतः पृथुर्वैन्यः प्रतापवान् ॥७१॥
प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा ।
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ॥७२॥
दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत् प्रजापतेः ।
स्वायम्भुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥७३॥
मन्वन्तरमथासाद्य भविष्यं चाक्षुषस्य ह ।
षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः ॥७४॥
उत्तानपादाच्चतुरा सूनृता वित्तभाविनी ।
उत्पन्ना चाधिधर्मेण ध्रुवस्य जननी शुभा ।
धर्मस्य पत्न्यां लक्ष्म्यां वै उत्पन्ना सा शुचिस्मिता ॥७५॥
ध्रुवञ्च कीर्त्तिमन्तञ्च अयस्मन्तं वसुं तथा ।
उत्तानपादोऽजनयत् कन्ये द्वे च शुचिस्मिते ।
मनस्विनीं स्वराञ्चैव त्रयोः पुत्राः प्रकीर्त्तिताः ॥७६॥
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् ।
तपस्तेपे निराहारः प्रार्थयन् विपुलं यशः ॥७७॥
त्रेतायुगे तु प्रथमे पौत्रः स्वायम्भुवस्य सः ।
आत्मानं धारयन् योगात् प्रार्थयन् सुमहद्यशः ॥७८॥
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् ।
आभूतसंप्लवं हृद्यमस्तोदयविवर्जितम् ॥७९॥
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह ।
दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ॥२.१.८०॥ ६२.८०
अहो स्य तपसो वीर्यमहो श्रुतमहो हुतम्।
स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् ।
ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः ॥८१॥
ध्रुवात्पुष्टिञ्च भव्यञ्च भूमिः सा सुषुवे नृपौ ।
स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः ॥८२॥
सत्याभिव्याहृते तस्य सद्यः स्त्री साभवत्तदा ।
दिव्यसंहन नाच्छाया दिव्याभरणभूषिता ॥८३॥
छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् ।
प्राचीनगर्भं वृषकं वृकञ्च वृकलं धृतिम् ॥८४॥
पत्नी प्राचीनगर्भस्य भूवर्चा सुषुवे नृपम् ।
नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥८५॥
संवत्सरसहस्रान्ते सकृदाहारमाहरत् ।
एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः ॥८६॥
उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् ।
रिपुं रिपुञ्जयं जज्ञे वराङ्गी सा दिवञ्जयात् ॥८७॥
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ।
व्यजीजनत् पुष्करिण्यां वारुण्यां चाक्षुणो मनुम् ।
प्रजापतेरात्मजायामारण्यस्य महात्मनः ॥८८॥
मनोरजायन्त दशनद्वलायां शुभाः सुताः ।
कन्यायां वै महाभाग वैराजस्य प्रजापतेः ॥८९॥
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ।
अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥२.१.९०॥ ६२.९०
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥९१॥
अङ्गात सुनीथापत्यं वै वेनमेकं व्यजायत ।
अपचारेण वेनस्य प्रकोपः सुमहानभूत् ॥९२॥
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ।
वेनस्य पाणौ मथिते सम्बभूव महान्नृपः ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः ॥९३॥
स धन्वी कवची जातस्तेजसा प्रज्वलन्निव ।
पृथुर्वैन्यः सर्वलोकान् ररक्ष क्षत्रपूर्वजः ॥९४॥
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥९५॥
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता ।
प्रजानां वृत्तिकामानां देवैऋषिगणैः सह ॥९६॥
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ।
सर्वैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ॥९७॥
तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा ।
प्रादाद्यथेप्सितं क्षीरं तेन लोकांस्त्वधारयत् ॥९८॥
ऋषय ऊचुः॥ विस्तरेण पृथोर्जन्म कीर्त्तयस्व महा मते ।
यथा महात्मना दुग्धा पूर्वं तेन वसुन्धरा ॥९९॥
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह ।
यथा यक्षैः सगन्धर्वैरप्सरोभिर्यथा पुरा ॥२.१.१००॥ ६२.१००
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च ।
तथा वत्सविशेषांश्च तन्नः प्रब्रूहि पृच्छताम् ॥१०१॥
यस्मिंश्च कारणे पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिः पूर्वं तत् सर्वं कथयस्व नः ॥१०२॥
॥सूत उवाच॥ वर्णयिष्यामि वो विप्राः पृथोर्वैन्यस्य सम्भवम् ।
एकाग्राः प्रयताश्चैव शूश्रूषध्वं द्विजोत्तमाः ॥१०३॥
नाशुचेर्नापि पापाय नाशिष्यायाहिताय च ।
वर्णयेयमिमं पुण्यं नाव्रताय कथञ्चन ॥१०४॥
स्वर्ग्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं श्रृणुयाद्योऽनसूयकः ॥१०५॥
यश्चेमं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य सम्भवम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ।
गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः ॥१०६॥
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः ।
यस्य पुत्रोऽभवद्वेनो नात्यर्थं धार्मिक स्तथा ॥१०७॥
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ।
स मातामहदोषेण वेनः कालात्मजात्मजः ॥१०८॥
स धर्मं पृष्ठतः कृत्वा कामाल्लोभे व्यवर्त्तत ।
स्थापनं स्थापयामास धर्मापेतं स पार्थिवः ॥१०९॥
वेदशास्त्राण्यतिक्रम्य ह्यधर्मे निरतोऽभवत् ।
निःस्वाध्यायवषट्काराः प्रजा स्तस्मिन् प्रशासति ।
आसन्न च पपुः सोमं हुतं यज्ञेषु देवताः ॥२.१.११०॥ ६२.११०
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥१११॥
अहमिज्यश्च पूज्यश्च सर्वयज्ञे द्विजातिभिः ।
मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥११२॥
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तथा ॥११३॥
वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतान् बहून् ।
माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ।
निधने च प्रसूतोऽसि प्रजापतिरसंशयः ॥११४॥
पालयिष्ये प्रजाश्चेति त्वया पूर्वं प्रतिश्रुतम् ।
तांस्तथा वादिनः सर्वान् ब्रह्मर्षीनब्रवीत्तदा ॥११५॥
स प्रहस्य तु दुर्बुद्धिरिदं वचनकोविदः ।
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ॥११६॥
वीर्यश्रुततपःसत्यैर्मया वा कः समो भुवि ।
महात्मानमनूनं मां यूयं जानीत तत्त्वतः ॥११७॥
प्रभवः सर्वलोकानां धर्माणाञ्च विशेषतः ।
इच्छन् दहेयं पृथिवीं प्लावयेयं जलेन वा ।
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥११८॥
यदा न शक्यते स्तम्भान्मानाच्च भृशमोहितः ।
अनुनेतुं नृपो वेनस्ततः क्रुद्धा महर्षयः ॥११९॥
निगृह्य तं महाबाहुं विस्फुरन्तं यथाऽनलम् ।
ततोऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः ॥२.१.१२०॥ ६२.१२०
तस्मात् प्रमथ्यमानाद्वै जज्ञे पूर्वमभिश्रुतः ।
ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि तथा द्विजाः ॥१२१॥
स भीतः प्राञ्जलिश्चैव स्थितवान् व्याकुलेन्द्रियः ।
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन् किल ॥१२२॥
निषादवंशकर्त्ताऽसौ बभूवानन्तविक्रमः ।
धीवरानसृजत्सोऽपि वेनकल्मषसम्भवान् ॥१२३॥
ये चान्ये विन्ध्यनिलयास्तुम्बुरातुवराः खसाः ।
अधर्मरुचयश्चापि सम्भूता वेनकल्मषात् ॥१२४॥
पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरम्भान्ममन्थुर्जातमन्यवः ॥१२५॥
पृथुस्तस्मात् समुत्पन्नः करास्फालनतेजसः ।
पृथोः करतलाद्वापि यस्माज्जातः पृथुस्ततः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्वलन् ॥१२६॥
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च बिभ्रद्रक्षार्थं कवचञ्च महाप्रभम् ॥१२७॥
तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ।
समुत्पन्ने महारात्रि वेनश्च त्रिदिवङ्गतः ॥१२८॥
समुत्पन्नेन राजर्षिः स सत्पुत्रेण धीमता ।
पुरुषव्याघ्रः पुन्नाम्नो नरकात्र्त्रायते ततः ॥१२९॥
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः ।
समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराज्येन महाराजं महाद्युतिम् ॥१३०॥ ६२.१३०
सोऽभिषिक्तो महाराजा देवैरङ्गिरसः सुतैः ।
आदिराजो महाराजः पृथुर्वैन्यः प्रतापवान् ॥१३१॥
पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
ततो राजेति नामास्य अनुरागादजायत ॥१३२॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च विशीर्यन्ते ध्वजभङ्गश्च नाभवत् ॥१३३॥
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥१३४॥
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ।
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ॥१३५॥
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः ।
जुहावेन्द्राय देवेन ततः सूतो व्यजायत ॥१३६॥
प्रमादस्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु ।
शिष्यहव्येन यत्पृक्तमाभिभूतं गुरोर्हविः ।
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥१३७॥
यच्च क्षत्रात्सम्भवद्ब्राह्मण्यां हीनयोनितः ।
सूतः पूर्वेण साधर्मतुल्यधर्मः प्रकीर्त्तितः ॥१३८॥
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् ।
रथनागाश्च चरितं जघन्यञ्च चिकित्सितम् ॥१३९॥
पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः ।
तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥२.१.१४०॥ ६२.१४२
तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥१४१॥
न चास्य कर्म वै विद्वो न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः ॥१४२॥
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ।
दानधर्मरतो नित्यं सत्यवान् स जितेन्द्रियः ।
ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः ॥१४३॥
यानि कर्माणि कृतवान् पृथुश्चापि महाबलः ।
तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः ॥१४४॥
ततः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः ।
अनूपदेशं सूताय मगधं मागधाय च ॥१४५॥
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः ।
आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः ॥१४६॥
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः ।
एष वो वृत्तिदो वैन्यो भवन्त्विति नराधिपः ॥१४७॥
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ।
त्वन्नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा ।
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥१४८॥
धनुर्गृहीत्वा बाणांश्च वसुधामार्द्दयद्बली ।
अस्यार्द्दनभय त्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥१४९॥
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ।
सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा ।
ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥२.१.१५०॥ ६२.१५२
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजसमच्युतम् ।
महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥१५१॥
अलभन्ती तदा त्राणं वैन्यमेवान्वपद्यत ।
कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सदा ॥१५२॥
उवाच वैन्यं नाधर्मं स्त्रीवधे परिपश्यसि ।
कथं धारयिता चासि प्रजा राजन् मया विना ॥१५३॥
मयि लोकाः स्थिता राजन् मयेदन्धार्यते जगत् ।
मदृते च विनश्येयुः प्रजाः पार्थिवसत्तम ॥१५४॥
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल श्रृणु चेदं वचो मम ॥१५५ .
उपायतः समारब्धाः सर्वे सिद्धन्त्युपक्रमाः.
हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप ॥१५६॥
अन्नभूता भविष्यामि जहि कोपं महाद्युते ।
अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिशतेष्वपि ।
मत्वैवं पृथिवीपाल धर्मं न त्यक्तुमर्हसि ॥१५७॥
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥१५८॥
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
एकं प्राणं बहून् वापि कामं तस्यास्ति पातकम् ॥१५९॥
यस्मिंस्तु निहते भद्रे लभन्ते बहवः सुखम् ।
तस्मिन्हते शुभे नास्ति पातकञ्चोप पातकम् ॥२.१.१६०॥ ६२.१६२
सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥१६१॥
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वेह धारयिष्याम्यहं प्रजाः ॥१६२॥
सा त्वं वचनमासाद्य मम धर्मभृतां वरे ।
सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥१६३॥
दुहितृत्वञ्च मे गच्छ एवमेतं महद्वरम् ।
नियच्छे त्वान्तु धर्मार्थं प्रयुक्तं घोरदर्शने ॥१६४॥
प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही ।
एवमेतदहं राजन् विधास्यामि न संशयः ॥१६५॥
वत्सन्तु मम तं यच्छ क्षरेयं येन वत्सला ।
समाञ्च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विष्यन्दमानञ्च क्षीरं सर्वत्र भावये ॥१६६॥
तत उत्सारयामास शिलाजालानि सर्वशः ।
धनुष्कोट्या ततो वैन्यस्तेन शैला विवार्द्धिताः ॥१६७॥
मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा ।
स्वभावेनाभवंस्तस्याः समानि विषमाणि च ॥१६८॥
न हि पूर्वनिसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते ॥१६९॥
न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः ।
चाक्षुषस्यान्तरे पूर्वमेतदासीत्पुरा किल ।
वैवस्वतेऽन्तरे तस्मिन्सर्वस्यैतस्य सम्भवः ॥२.१.१७०॥ ६२.१७२
समत्वं यत्र यत्रासीद्भूयस्तस्मिंस्तदेव हि ।
तत्र तत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥१७१॥
आहारः फलमूलन्तु प्रजानामभत्किल ।
वैन्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य सम्भवः ॥१७२॥
कृच्छ्रेण महता सोऽपि प्रनष्टास्वोषधीषु वै ।
स कल्पयित्वा वत्सन्तु चाक्षुषं मनुमीश्वरः ।
पृथुर्दुदोह सस्यानि स्वतले पृथिवीं ततः ॥१७३॥
सस्यानि तेन दुग्धानि वैन्येन तु वसुन्धराम् ।
मनुञ्च चाक्षुषं कृत्वा वत्सम्पात्रे च भूमये ।
तेनान्नेन तदा ता वै वर्त्तयन्ते प्रजाः सदा ॥१७४॥
ऋषिभिः स्तूयते वापि पुनर्दुग्धा वसुन्धरा ।
वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः ॥१७५॥
पात्रमासीत्तु छन्दांसि गायत्र्यादीनि सर्वशः ।
क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ॥१७६॥
पुनः स्तुत्वा देवगणैः पुरन्दरपुरोगमैः ।
सौवर्णं पात्रमादाय अमृतं दुदुहे तदा ।
तेनैव वर्त्तयन्ते च देवा इन्द्रपुरोगमाः ॥१७७॥
नागैश्च स्तूयते दुग्धा विषं क्षीरं तदा मही ।
तेषाञ्च वासुकिर्दोग्धा काद्रवेया महौजसः ॥१७८॥
नागानां वै द्विजश्रेष्ठ सर्पाणाञ्चैव सर्वशः ।
तेनैव वर्त्तयन्त्युग्रा महाकाया महोल्बणाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तु सदाश्रयाः ॥१७९॥
श्राम(आम)पात्रे पुनर्दुग्धा त्वन्तर्द्धानमियं मही ।
वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ॥२.१.१८०॥ ६२.१८२
दोग्धा च जतुनाभस्तु पिता मणिवरस्य सः ।
यक्षात्मजो महातेजा वशी स सुमहाबलः ।
तेन ते वर्त्तयन्तीति परमर्षिरुवाच ह ॥१८१॥
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ।
ब्रह्मोपेतस्तु दोग्धा वै तेषामासीत्कुबेरकः ॥१८२॥
रक्षः सुमाली बलवान्क्षीरं रुधिरमेव च ।
कपालपात्रे निर्दुग्धा अन्तर्द्धानञ्च राक्षसैः ।
तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ॥१८३॥
पद्मपात्रे पुनर्दुग्धा गन्धर्वैरप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा शुचीन् गन्धास्तथैव च ॥१८४॥
तेषां विश्वावसुस्त्वासीद्दोग्धा पुत्रो मुनेः शुचिः ।
गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः ॥१८५॥
शैलैश्च स्तूयते दुग्धा पुनर्देवी वसुन्धरा ।
तत्रौषधीर्मूर्त्तिमती रत्नानि विविधानि च ॥१८६॥
वत्सस्तु हिमवांस्तेषां मेरुर्दोग्धा महागिरिः ।
पात्रन्तु शैलमेवासीत्तेन शैलः प्रतिष्ठितः ॥१८७॥
स्तूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ।
पलाशपात्रमादाय दुग्धं छिन्नप्ररोहणम् ॥१८८॥
कामधुक् पुष्पितः शैलः प्लक्षो वत्सो यशस्विनी ।
सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी ॥१८९॥
सैषा धात्री विधात्री च धारणी च वसुन्धरा ।
दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् ।
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥२.१.१९०॥ ६२.१९३
इति श्रीमहापुराणे वायुप्रोक्ते पृथिवीदोहनं नाम प्रथमोऽध्यायः ॥२.१॥