वायुपुराणम्/उत्तरार्धम्/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः ९ वायुपुराणम्
अध्यायः १०
वेदव्यासः
उत्तरार्धम्, अध्यायः ११ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



एतच्छ्रुत्वा वचस्तस्य सुतस्य विदितात्मनः।
उत्तरं परिपप्रच्छुः सूतपुत्रं द्विजातयः ।। १०.१ ।।
            ।।शांशपायन उवाच।।
कथं द्वितीयमुत्पन्ना भवानी प्राक्सती तु या।
आसीद्दाक्षायणी पूर्वमुमा कथम जायत ।। १०.२ ।।
मेनायां पितृकन्यायां जनयामास शैलरुट्।
केचैते पितरश्चैव येषां मेना तु मानसी ।। १०.३ ।।
मैनाकश्चैव दौहित्रो दौहित्री च तथा ह्युमा।
एकपर्णा तथा चैव तथा या चैकपाटला ।। १०.४ ।।
गङ्गा चैव सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा।
पूर्वमेव मयोद्दिष्टं श्रृणुध्वं मम सर्वशः ।। १०.५ ।।
अनेके पितरश्चैव वर्त्तन्ते व्क च वा पुनः।
श्रोतुमिच्छामि भद्रन्ते श्राद्धस्य च परं विधिम् ।। १०.६ ।।
पुत्राश्च ते स्मृताः केषां कथञ्च पितरस्तु ते ।
पितरः कथमुत्पन्नाः कस्य पुत्राः किमात्मकाः ।। १०.७ ।।
स्वर्गे तु पितरोऽन्ये ये देवानामपि देवताः।
एवं वै श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम्।
यथावद्दत्तमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।। १०.८ ।।
यदर्थं तेन दृश्यन्ते तत्र किं कारणं स्मृतम्।
स्वर्गे हि के तु वर्त्तन्ते पितरो नरके तु के ।। १०.९ ।।
अभिसन्धाय पितरं पितुश्च पितरं तथा।
पितुः पितामहञ्चैव त्रिषु पिण्डेषु नामतः ।। १०.१० ।।
कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन् ।
कथञ्च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।। १०.११ ।।
के चेह पितरो नाम कान् यजामो वयं पुनः ।
देवा अपि पुतॄन् स्वर्गे यजन्तीति हि नः श्रुतम् ।। १०.१२ ।।
एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुत।
स्पष्टाभिधानमर्थं वै तद्भवान्वक्तुमर्हति ।। १०.१३ ।।
ऋषीणान्तु वचः श्रुत्वा सूतस्तत्त्वार्थदर्शिवान्।
आचचक्षे यथाप्रश्रं ऋषीणां मानसं ततः ।। १०.१४ ।।
       ।।सूत उवाच।।
अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम्।
मन्वन्तरेषु जायन्ते पितरो देवसूनवः ।। १०.१५ ।।
अतीतानागते ज्येष्ठाः कनिष्ठाः क्रमशस्तु ते।
देवैः सार्द्धं पुरातीताः पितरो येऽन्तरेषु वै।
वर्त्तन्ते साम्प्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ।। १०.१६ ।।
श्राद्धञ्चैषां मनुष्याणां श्राद्धमेव प्रवर्त्तते।
देवानसृजन् ब्रह्मा नायक्षन्निति वै पुनः ।
तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ।। १०.१७ ।।
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ।
न स्म किञ्चिद्विजानन्ति ततो लोके ह्यमुह्यत ।। १०.१८ ।।
ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम्।
अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ।। १०.१९ ।।
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि यः कृतः ।
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ।। १०.२० ।।
ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः।
अपृच्छन् संयतात्मानो विधिवच्च मिथो मिथः ।। १०.२१ ।।
तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा।
प्रायश्चित्तानि धर्मज्ञा वाङ्मनः कर्म्मजानि तु ।। १०.२२ ।।
ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः।
यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः।
धर्मज्ञानञ्च कामश्च को वरो वः प्रदीयताम् ।। १०.२३ ।।
पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः।
तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा ।। १०.२४ ।।
उक्तञ्च पितरोऽस्माकमिति वै तनयाः स्वकाः।
पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ।। १०.२५ ।।
तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः।
पुत्राः पितृत्त्वमाजग्मुः पुत्रत्वं पितरः पुनः ।। १०.२६ ।।
तस्मात्ते पितरः पुत्राः पितृत्वे तेषु तत्स्मृतम् ।
एवं स्मृत्वा पितॄन् पुत्रान्पुत्राश्च पितरस्तथा।
व्याजहार पुनर्ब्रह्मा पिदॄनात्मविवृद्धये ।। १०.२७ ।।
यो ह्यनिष्ट्वा पितॄञ्छ्राद्धे क्रियां काञिचित्करिष्यति।
राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ।। १०.२८ ।।
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम्।
आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ।। १०.२९ ।।
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
कृत्स्रं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ।। १०.३० ।।
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ।। १०.३१ ।।
श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः।
सर्वत्र वर्त्तमानास्ते पितरः प्रपितामहम्।
तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ।। १०.३२ ।।
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना।
तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ।। १०.३३ ।।
ते तु ज्ञानप्रदातारः पितरो वो न संशयः।
इत्येते पितरो देवा देवाश्च पितरः पुनः ।
अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ।। १०.३४ ।।
एतद्ब्रह्मवचः श्रुत्वा सूतस्य विहितात्मनः ।
पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ।। १०.३५ ।।
            ।।ऋषय ऊचुः ।।
कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः ।
वर्त्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ।। १०.३६ ।।
        ।।सूत उवाच।।
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम्।
शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ।। १०.३७ ।।
बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम्।
पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ।। १०.३८ ।।
क एते पितरो नाम कियन्तः के च नामतः।
समुद्भूताः कथञ्चैते पितृत्वं समुपागताः ।। १०.३९ ।।
कस्माच्च पितरं पूर्वं यज्ञे युज्यन्ति नित्यशः।
क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ।। १०.४० ।।
कस्मै श्राद्धानि देयानि किञ्च दत्तं महाफलम्।
केषु वाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ।। १०.४१ ।।
केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः।
कश्च कालो भवेच्च्राद्धे विधिः कश्चानुवर्त्तते ।। १०.४२ ।।
एतदिच्छामि भगवन् विस्तरेण यथातथम्।
व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ।। १०.४३ ।।
बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः।
व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ।। १०.४४ ।।
          ।।बृहस्पतिरुवाच।।
कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि।
विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ।। १०.४५ ।।
द्यौरन्तरिक्षं पृथिवी नक्षत्राणि दिशस्तथा।
सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ।। १०.४६ ।।
न बभूवुस्तदा तात तमोभूतमिदं जगत्।
ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ।। १०.४७ ।।
शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम्।
सर्वदैव व्रतस्नातं सर्वज्ञानविदांवरम् ।। १०.४८ ।।
कीदृशं सर्वभूते शस्तपस्तेपे प्रजापतिः।
एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ।। १०.४९ ।।
सर्वेषां तपसां युक्तिस्तपोयोगमनुत्तमम्।
ध्यायंस्तदा तद्भगवांस्तेन लोकनवासृजत् ।। १०.५० ।।
भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः।
योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ।। १०.५१ ।।
लोकाः सान्तानिका नाम यत्र तिष्ठन्ति भास्वराः।
ते वैराजा इति ख्याता देवानां दिवि देवताः ।। १०.५२ ।।
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः।
देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ।। १०.५३ ।।
आदिदेवा इति ख्याता महासत्त्वा महौजसः।
सर्वकामप्रदाः पूज्या देवदानवमानवैः ।। १०.५४ ।।
तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्त्तयः ।। १०.५५ ।।
उपरिष्टात्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः।
तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्षममूर्त्तयः ।। १०.५६ ।।
ततो देवास्ततो भूमिरेषा लोकपरम्परा।
लोके वर्त्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसम्भवः ।
वृष्टिर्भवति तैर्वृष्ट्या लोकानां सम्भवः पुनः ।। १०.५७ ।।
आप्याययन्ति ते यस्मात्सोमञ्चान्नञ्च योगतः।
ऊचुस्तान्वै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ।। १०.५८ ।।
मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः।
लोभमोहभयापेता निश्चिताः शोकवर्जिताः ।। १०.५९ ।।
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान्।
दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ।। १०.६० ।।
ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः।
प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः ।। १०.६१ ।।
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा ।
नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ।। १०.६२ ।।
उत्सृज्य देहजातानि महायोगबलेन च।
निराख्योपाख्यतां यान्ति सरितः सागरे यथा ।। १०.६३ ।।
क्रियया गुरुपूजाभिर्ये च कुर्वन्ति नित्यशः।
ताभिराप्याययन्त्येते पितरो योगवर्द्धनाः ।। १०.६४ ।।
श्राद्धे प्रीताः पुनः सोमं पितरो योगमास्थिताः।
आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ।। १०.६५ ।।
तस्माच्छ्राद्धानि देयानि योगिभ्यो यत्नतः सदा।
पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ।। १०.६६ ।।
सहस्रशस्तु विप्रान्वै भोजयेद्यावदागतान् ।।
एकस्तु योगवित्प्रीतः सर्वानर्हति तच्छृणु ।। १०.६७ ।।
कल्पितानां सहस्रेण स्नातकानां शतेन च।
योगाचार्येण यद्भुक्तं त्रायते महतो भयात् ।। १०.६८ ।।
गृहस्थानां सहस्रेण वानप्रस्थशतेन च।
ब्रह्मचारिसहस्रेण योगी ह्येको विशिष्यते ।। १०.६९ ।।
नास्तिको वा विकर्मा वा सङ्कीर्णस्तस्करोऽपि वा।
नान्यत्र कारणं दानं योगेष्वाह प्रजापतिः ।। १०.७० ।।
पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः।
पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ।। १०.७१ ।।
अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणौ ।
तदलाभेप्युदासीनं गृहस्थमपि भोजयेत् ।। १०.७२ ।।
यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः ।
ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ।। १०.७३ ।।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम्।
तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ।। १०.७४ ।।
पूजयेच्चार्घ्यपात्रेण वेश्मना भोजनेन च।
ऊर्वोः सागरपर्यन्तां देवा योगेश्वराः सदा।
नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ।। १०.७५ ।।
तस्माद्दद्याच्च वै दानं विप्रायातिथये नरः।
प्रदानानि प्रवक्ष्यामि फलञ्चैषां तथैव च ।। १०.७६ ।।
अश्वमेधसहस्रेण राजसूयशतेन च।
पुण्डरीकसहस्रेण योगिष्वावसथो वरम् ।। १०.७७ ।।
आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम्।
भावयन्सप्तकालान्वै स्थित एष गणस्तदा ।। १०.७८ ।।
अत ऊरद्ध्वं प्रवक्ष्यामि सर्वान् पितृगणान्पुनः ।
सन्ततिं संस्थितिञ्चैव भावनाञ्च यथाक्रमम् ।। १०.७९ ।।
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धप्रक्रियारम्भो नाम दशमोऽध्यायः ।। १० ।। *